Adhikarana 1 (1-3) · Śloka 3
अथातः शरीरविचयं शारीरं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
शरीरविचयः शरीरोपकारार्थमिष्यते|
ज्ञात्वा हि शरीरतत्त्वं शरीरोपकारकरेषु भावेषु ज्ञानमुत्पद्यते|
तस्माच्छरीरविचयं प्रशंसन्ति कुशलाः||३||
पुरुषविचयं मोक्षोपयुक्तत्वेन पुरुषोपकारकमभिधाय, व्याक्रियमाणचिकित्सोपयुक्तं शरीरोपकारकं शरीरविचयं ब्रूते| शरीरस्य विचयनं विचयः शरीरस्य प्रविभागेन ज्ञानमित्यर्थः| शरीरोपकारार्थमिति शरीरारोग्यार्थम्| अथ कथं शरीरज्ञानं शरीरोपकारकमित्याह- ज्ञात्वा हीत्यादि| शरीरस्य रक्तादिरूपस्य स्वभावरूपं तत्त्वं ज्ञात्वैव इदमस्य वृद्धस्य धातोरसमानगुणतया ह्रासकत्वेनोपकारकमिति, तथोक्तविपर्ययाच्चापकारकमिति ज्ञानं जायते, नोपकार्यशरीरतत्त्वज्ञानेऽसतीति वाक्यार्थः||१-३||
Adhikarana 2 (4) · Śloka 4
तत्र शरीरं नाम चेतनाधिष्ठानभूतं पञ्चमहाभूतविकारसमुदायात्मकं समयोगवाहि |
यदा ह्यस्मिञ् शरीरे धातवो वैषम्यमापद्यन्ते तदा क्लेशं विनाशं वा प्राप्नोति|
वैषम्यगमनं हि पुनर्धातूनां वृद्धिह्रासगमनमकार्त्स्न्येन प्रकृत्या च||४||
समुदितस्यैव तावच्छरीरस्य स्वरूपमाह- तत्रेत्यादि| चेतनाशब्देन ज्ञानकारणमात्मोच्यते, भूतशब्द उपमाने; तेन, चेतनाया आत्मसम्बन्धिन्याः शरीरे एवोपलम्भादात्मनः शरीरमधिष्ठानमिति भवति; परमार्थस्तु चेतना आत्माश्रया, आत्मा च निराश्रय एव; किंवा चेतनस्यात्मनोऽधिष्ठानभूतमिति चेतनाधिष्ठानभूतम्| पञ्चानां महाभूतानां विकारा रसादयः शरीरारम्भकाः, तेषां समुदायो मेलकः, स आत्मा स्वरूपं यस्य तत्तथा| समुदायशब्देन च समुदायारम्भका धातव एवोच्यन्ते; तेन, न संयोगमात्रस्य शरीरत्वप्रसक्तिः| किंवा, समुदायः संयोग एवोच्यतां, तथाऽपि समुदाय आत्मा कारणं यस्य शरीरस्य द्रव्यरूपस्य तत् पञ्चमहाभूतविकारसमुदायात्मकं शरीरमेव| समेन उचितप्रमाणेन धातूनां मेलकेन सम्यङ्नीरोगतया वहतीति समयोगवाहि| यदा तु धातूनां न्यूनातिरिक्तत्वेन विषमो मेलको भवति, तदा असमयोगवाहीति दर्शयन्नाह- यदा हीत्यादि| लघुना वैषम्येण रोगमात्रजनकेन क्लेशं, महता त्वसाध्यरोगजनकेन वैषम्येण विनाशं मरणं प्राप्नोति शरीरम्| अथ किं तद्वैषम्यमित्याह- वैषम्यगमनमित्यादि| वैषम्यगमनं वैषम्यावस्थाप्राप्तिः, वैषम्यमेव कादाचित्कमित्यर्थः; यदि हि वैषम्यमित्येव ब्रूयात्, तदा सहजसिद्धमपि धातूनां यन्न्यूनातिरिक्तत्वेन वैषम्यं तदपि शिष्येण गृह्येत; तेन, गमनपदप्रक्षेपात् सहजं वैषम्यं परित्यज्य स्वप्रमाणापेक्षयैव कदाचिदुत्पद्यमानं वैषम्यं दर्शयति| वृद्धिह्रासगमनं चेह व्यस्तं समस्तं च वैषम्यं ज्ञेयम्| वृद्धिह्रासस्यैव विशेषानाह- अकार्त्स्न्येन प्रकृत्या चेति; अकार्त्स्न्येति एकदेशेन, प्रकृत्येति सकलेन स्वभावेन| एतेन च रसादीनां चांशेन वृद्धिह्रासौ, तथा कार्त्स्न्येन वृद्धिह्रासावुपगृहीतौ भवतः| अन्ये तु, ‘अकार्त्स्न्येन’ इतिपदं क्लेशं विनाशं वा प्राप्नोतीत्यनेन समं योजयन्ति| तेन, यदाऽपि धातवो वैषम्यमापद्यन्ते, तदाऽपि नावश्यं क्लेशविनाशौ भवतः, अकार्त्स्न्येनेतिपदेन क्लेशविनाशव्यभिचारस्याभिहितत्वात्; दृष्टं चैतत्, यथा- वृष्यप्रयोगाच्छुक्रवृद्धौ सत्यामपि न क्लेशविनाशौ भवतः, तथा बालस्य वर्धमानधातोरपि गुण एव परं दृश्यते| तच्च नातिसुन्दरं, यतो बालस्य वर्धमानधातोरपि वयोऽनुरूपाः प्राकृतमानस्थिता एव धातवो भवन्ति, तेन न ते प्राकृतमाना वृद्धा उच्यन्ते; या तु वृष्यप्रयोगजा शुक्रवृद्धिः, सा यदि विकारकारिका न भवति तदा तु प्राकृतमानान्तर्गतैव| एतदेव धातूनां प्राकृतमानं- यदविकारकारित्वम्| अञ्जल्यादिमानं तु अदूरान्तरेणाभिहितमपि नित्यपरोक्षतया पुनः स्वाभाविकधातुलक्षणैरेव ज्ञातव्यं; तस्माच्छुक्रस्य यावती वृद्धिरदोषा, तावती प्राकृतमानावस्थारूपैव| प्राकृतमानातिरिक्तौ चेह वृद्धिह्रासौ वैषम्यगमनशब्देनोच्येते, तस्मादाद्यैव व्याख्या| तथा न केवलं वृद्धिह्रासगमनमेव वैषम्यगमनं, किन्तु प्रकृत्या च वैषम्यगमनं धातूनां भवतीति व्याख्यानयन्ति; तथाहि- “प्रकृतिस्थं यदा पित्तं मारुतः श्लेष्मणः क्षये” (सू.अ.१७) इत्यादौ प्रकृतिस्थस्यापि दोषस्य विकारकर्तृत्वमुच्यते, विकारकारकस्य च दोषस्य प्रकृतिस्थताऽपि वैषम्यार्थक्रियाकारित्वेन वैषम्यशब्देनोच्यते| तदपि नातिसुन्दरम्| येन, प्रदेशान्तरेष्वपि त्रिविधां गतिं प्रतिपाद्य प्रकृतिस्थता धातूनां निर्विकारा एवोक्ता; यथा- “क्षीणा जहति लिङ्गं स्वं, समाः स्वं कर्म कुर्वते| दोषाः प्रवृद्धाः स्वं लिङ्गं दर्शयन्ति यथाबलम्” (सू.अ.१७); तथा “विकारो धातुवैषम्यं साम्यं प्रकृतिरुच्यते| सुखसञ्ज्ञकमारोग्यं विकारो दुःखमेव च” (सू.अ.९) एवमादिषु| यत्तु “प्रकृतिस्थं यदा पित्तं” इत्यादौ स्वमानावस्थितस्यापि पित्तादेर्विकारकर्तृत्वं, तच्छरीरप्रदेशान्तरनीतस्य पित्तादेस्तत्र तत्र प्रदेशे वृद्धस्यैव विकारकर्तृत्वं; स्वमानस्थितोऽपि दोषः प्रदेशान्तरं नीतः सन् तत्प्रदेशस्थदोषापेक्षया वृद्ध एव भवति, तेन तत्रापि वृद्धस्यैव विकारकर्तृत्वं, प्रपञ्चितश्चायमर्थस्तत्रैव ग्रन्थे| यत्रापि स्वमानस्थितानामेव रक्तादीनां वातादिदुष्ट्या विकारकर्तृत्वं, तत्रापि वातादय एव वृद्धाः प्राधान्येन विकारकराः, रक्तादयोऽपि तत्र दुष्टदोषसम्बन्धाधीनस्वगुणा वृद्धस्वगुणा वा भवन्ति, ततो गुणहानिवृद्धिभ्यां वृद्धिह्रासौ दूष्येऽपि तिष्ठत एवेति न प्रकृतिस्थस्य विकारकारित्वमिति पश्यामः||४||
Adhikarana 3 (5) · Śloka 5
यौगपद्येन तु विरोधिनां धातूनां वृद्धिह्रासौ भवतः|
यद्धि यस्य धातोर्वृद्धिकरं तत्ततो विपरीतगुणस्य धातोः प्रत्यवायकरं सम्पद्यते||५||
उपयुक्तभेषजेन यथा वृद्धिह्रासौ भवतस्तदाह- यौगपद्येनेत्यादि| विरोधिनामिति परस्परविरुद्धगुणानाम्| एतदेवोपपत्त्या साधयन्नाह- यद्धीत्यादि| यद्धि भेषजं, यथा- क्षीरं कफशुक्रादिवृद्धिकरं, तत् कफशुक्रादेर्विपरीतगुणस्य वातादेः प्रत्यवायकरं भवति, ह्रासकरं भवतीत्यर्थः| विपरीतस्येति कर्तव्ये यद्विपरीतगुणस्येति करोति, तेन जातिवैपरीत्याद्गुणवैपरीत्यमेव ह्रासकारणं प्राधान्येन दर्शयति| तेन, गोमूत्रं द्रवत्वेन जात्या समानमपि कटूष्णरूक्षादिविपरीतगुणयोगात् कफस्यापहारकमेव||५||
Adhikarana 4 (6) · Śloka 6
तदेव तस्माद्भेषजं सम्यगवचार्यमाणं युगपन्न्यूनातिरिक्तानां धातूनां साम्यकरं भवति, अधिकमपकर्षति न्यूनमाप्याययति||६||
उपपादितं यौगपद्येन धातूनां वृद्धिह्रासगमनमुपसंहरन्नाह- तदेवेत्यादि| सम्यगुपचर्यमाणमित्यनेन उचितमात्रादिप्रयोगं, तथा धातुसाम्यावधिभेषजप्रयोगं च दर्शयति; मात्रादिविगुणं हि भेषजं न स्वोचितां क्रियां करोति; यथा- वृद्धस्य कफस्य क्षीणस्य च पित्तस्य क्षयवृद्धिभ्यां साम्यार्थं यदुपयुज्यते कट्वादि तत् साम्यापत्त्युत्तरकालमप्युपयुज्यमानं पित्तवृद्ध्या कफक्षयेण च पुनर्वैषम्यमावहति; तस्मादेतद्दोषव्यावृत्त्यर्थं सम्यगुपचर्यमाणमिति कृतम्| ननु, पूर्वमुक्तं भेषजेन विरोधिनां धातूनां वृद्धिह्रासौ भवतः, उपसंहारे तु धातूनां साम्यकर भेषजं भवतीत्युच्यते, तत्कथं नार्थभेद इत्याशङ्क्य वृद्धिह्रासकरमेव धातुसाम्यकरं भवतीति दर्शयन्नाह- अधिकमपकर्षति, न्यूनमाप्याययतीति| एवम्भूतं च धातुसाम्यकरणं यत्रैव विरोधिनां वृद्धिह्रासौ विद्येते तत्रैव ज्ञेयं, न सर्वत्र| तेन यत्र वृद्धिरेव परं दोषाणां न क्षयः कस्यचित्, तत्र यथा वृद्धस्य दोषस्य क्षयाधानमुक्तं न तथा क्षीणस्य वर्धनमिति ज्ञेयम्||६||
Adhikarana 5 (7) · Śloka 7
एतावदेव हि भैषज्यप्रयोगे फलमिष्टं स्वस्थवृत्तानुष्ठाने च यावद्धातूनां साम्यं स्यात्|
स्वस्था ह्यपि धातूनां साम्यानुग्रहार्थमेव कुशला रसगुणानाहारविकारांश्च पर्यायेणेच्छन्त्युपयोक्तुं सात्म्यसमाज्ञातान्; एकप्रकारभूयिष्ठांश्चोपयुञ्जानास्तद्विपरीतकरसमाज्ञातया चेष्टया सममिच्छन्ति कर्तुम्||७||
उक्तधातुसाम्यस्योपादेयतां दर्शयितुं भेषजप्रयोगस्य तथा स्वस्थवृत्तानुष्ठानस्य धातुसाम्यातिरिक्तं फलं निषेधयन्नाह- एतावदेवेत्यादि| एतावदेवेत्यनेन वक्ष्यमाणधातुसाम्यं प्रत्यवमृशति| धातुसाम्यात्मको रोगप्रशमो हि भेषजसाध्यो न धातुसाम्यादतिरिच्यते, तथा स्वस्थस्योजस्कररसायनेनापि धातुसाम्यमेव विशिष्टमाधीयते; तेन धातुसाम्यादतिरिक्तमायुर्वेदसाध्यं नास्तीति भावः| उक्तं च- “धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्” (सू.अ.१) इति| ननु स्वस्थे धातुसाम्यं सिद्धमेव, न च सिद्धं साध्यते, तत् कथं स्वस्थवृत्तानुष्ठानेऽपि धातुसाम्यमेव फलमित्याह- स्वस्था ह्यपीत्यादि| साम्यानुग्रहार्थमिति सत एव साम्यस्य परापरसाम्योत्पादेन परिपालनार्थम्| रसा मधुरादयः| गुणा गुर्वादयः| आहारविकाराः आद्यखाद्यलेह्यपेयरूपा यवाग्वादयः| पर्यायेणेति उचितेन क्रमेण; स च क्रमो यथा- मधुरमुपयुज्य तज्जन्यकफवृद्ध्यादिप्रतिबन्धार्थं कट्वाद्युपयोज्यमित्यादिरसक्रमः, तथा गुरुमुपयुज्य तत्कार्यप्रतिबन्धार्थं लघूपयोग इत्येवम्प्रकारो गुणानामुपयोगक्रमः, आहारविकारेष्वपि खाद्याद्युपयुज्य तत्पाकार्यं पेयोपयोग इत्यादिकः क्रमः| गुणशब्देन च रसा अपि प्राप्यन्ते, तथाऽपि रसाः प्राधान्यात् पृथगुक्ताः| सात्म्यसमाज्ञातानिति रसगुणानित्यस्य तथा आहारविकारांश्चेत्यस्य विशेषणम्| सात्म्याश्च ते अभ्यासेन तथा समत्वेन च स्वाभाविकपथ्यत्वेनाज्ञाता इति सात्म्यसमाज्ञाताः, समशब्देन ह्यत्र पथ्यमुच्यते; किंवा सर्वदा सात्म्यत्वेन समाज्ञाताः सात्म्यसमाज्ञाताः; तेन, असात्म्यानां रसादीनामुपयोगमेव प्रतिक्षिपति| अथ यत्र तावद्रसादयः पर्यायेणोपयुज्यन्ते तत्र साधु, यत्र त्वेकप्रकारा एव रसादयः कुतश्चिद्धेतोरभ्यस्यन्ते तत्र को विधिरित्याह- एकप्रकारेत्यादि| तत उपयुक्तैकप्रकाररसादिभूयिष्ठाद् रसादेर्विपरीतमर्थं करोतीति तद्विपरीतकरी समाज्ञाता चेष्टा, तया चेष्टया समं कर्तुमिच्छन्तीति| एकप्रकारभूयिष्ठाद्युपयोगेनाधीयमानवैषम्यं शरीरं समं समधातुं कर्तुमिच्छन्ति| एतदुदाहरणं यथा- मधुरप्रकारभूयिष्ठं य आहारप्रकारमुपयुङ्क्ते तस्य मधुरसमानकफादिवृद्धिमाशङ्क्य कफादिकर्मक्षयकरी या व्यायामादिचेष्टा तया साम्यमाधीयते| किंवा, तद्विपरीतकरी तथा समत्वेन च आज्ञाता या चेष्टा सा तद्विपरीतकरसमाज्ञाता, तेन क्रियमाणमतियोगादि निषेधयति||७||
Adhikarana 6 (8) · Śloka 8
देशकालात्मगुणविपरीतानां हि कर्मणामाहारविकाराणां च क्रियोपयोगः सम्यक्, सर्वातियोगसन्धारणम्, असन्धारणमुदीर्णानां च गतिमतां, साहसानां च वर्जनं, स्वस्थवृत्तमेतावद्धातूनां साम्यानुग्रहार्थमुपदिश्यते||८||
सम्प्रति प्रस्तावागतं स्वस्थवृत्तं समासेनाह- देशेत्यादि| देशादिभिर्गुणशब्दः सम्बध्यते| आत्मशब्देनेह शरीरमुच्यते| देशविपरीतं कर्म यथा- मरौ स्वप्नः, कालविपरीतं कर्म यथा- वसन्ते व्यायामः, आत्मविपरीतं कर्म यथा- स्थूलशरीरे व्यायामजागरणादि| एवमाहारप्रभेदाश्च देशकालादिविपरीता उन्नेयाः| कर्मणां क्रिया, आहारविकाराणां चोपयोग इति यथासङ्ख्यं योजनीयम्| सम्यगिति क्रियया उपयोगेन च समं ज्ञेयम्| अतिक्रान्तो योगमित्यतियोगो मिथ्यातियोगायोगरूपो ज्ञेयः; तेन, सर्वेषां कालबुद्धीन्द्रियार्थमिथ्यायोगादीनां वर्जनं सर्वातियोगसन्धारणम्| कालमिथ्यायोगादेस्तु दुष्परिहरस्य प्रतिक्रियैव वर्जनम्| गतिमतामिति पुरीषादीनां बहिर्गमनशीलानाम्| साहसानाम् अयथाबलमारम्भादीनाम्||८||
Adhikarana 7 (9) · Śloka 9
धातवः पुनः शारीराः समानगुणैः समानगुणभूयिष्ठैर्वाऽप्याहारविकारैरभ्यस्यमानैर्वृद्धिं प्राप्नुवन्ति, ह्रासं तु विपरीतगुणैर्विपरीतगुणभूयिष्ठैर्वाऽप्याहारैरभ्यस्यमानैः||९||
अथ रसादिधातूनां वृद्धिह्रासावुक्तौ यादृशाभ्यामाहाराभ्यां क्रियेते तद्दर्शयितुमाह- धातव इत्यादि| शारीरा इति पदेनाध्यात्मिकान् बुद्ध्यादीन् व्यवच्छिनत्ति, यतो न बुद्ध्यादयः समानगुणाद्वर्धन्ते, असमानगुणाद्वा ह्रसन्ति| समाना एव परं गुणा यस्य तत्समानगुणं, यथा- मांसं मांसस्य; समानगुणभूयिष्ठं यदल्पसमानगुणं, यथा- शुक्रस्य क्षीरं; क्षीरस्यातिद्रवत्वाच्छुकेऽल्पसमानगुणम्| अभ्यस्यमानैरित्यनेन सकृदुपयोगाद् वृद्धिं ह्रासं च निषेधयति| विपरीता एव परं गुणा यस्य तद्विपरीतगुणम्| अल्पसमानगुणं तु विपरीतगुणभूयिष्ठम्||९||
Adhikarana 8 (10) · Śloka 10
तत्रेमे शरीरधातुगुणाः सङ्ख्यासामर्थ्यकराः; तद्यथा- गुरुलघुशीतोष्णस्निग्धरूक्षमन्दतीक्ष्णस्थिरसरमृदुकठिनविशदपिच्छिलश्लक्ष्णखरसूक्ष्मस्थूलसान्द्रद्रवाः|
तेषु ये गुरवस्ते गुरुभिराहारविकारगुणैरभ्यस्यमानैराप्याय्यन्ते, लघवश्च ह्रसन्ति; लघवस्तु लघुभिराप्याय्यन्ते, गुरवश्च ह्रसन्ति|
एवमेव सर्वधातुगुणानां सामान्ययोगाद्वृद्धिः, विपर्ययाद्ध्रासः|
तस्मान्मांसमाप्याय्यते मांसेन भूयस्तरमन्येभ्यः शरीरधातुभ्यः, तथा लोहितं लोहितेन, मेदो मेदसा, वसा वसया, अस्थि तरुणास्थ्ना, मज्जा मज्ज्ञा, शुक्रं शुक्रेण, गर्भस्त्वामगर्भेण||१०||
अथ के ते शरीरधातुगुणा ये भेषजगुणैः समाना असमाना वा उच्यन्त इत्याह- तत्रेत्यादि| शरीरधातुगुणा इति विशेषणेनाप्रस्तुतत्वेनानभिधेयानात्मगुणान् बुद्ध्यादीन् निरस्यति| परादयस्तु यद्यपि शरीरधातुगुणा भवन्ति, तथाऽपि ते वृद्धिं ह्रासं च प्रत्यनतिप्रयोजनत्वादिहानुक्ताः| रसस्तु प्रधानत्वेन प्रकरणान्तरोक्त एवेति नेहोक्तः| स्पर्शस्तु शीतोष्णसङ्गृहीत एव| शब्दरूपगन्धास्तु परादिवद् वृद्धौ ह्रासे च नातिप्रयोजना इति नोक्ताः| सङ्ख्या ज्ञानं गणना वा, तत्र सामर्थ्यं कुर्वन्तीति सङ्ख्यासामर्थ्यकराः | एते हि गुर्वादयो ज्ञाता विंशतिर्गुर्वादयो भवन्तीति यज्ज्ञानं, सङ्ख्यासामर्थ्यरूपं तत् कुर्वन्ति| परस्परविपर्ययात्मकान् द्वन्द्वान् दशगुणान् दर्शयित्वा तेषां च द्रव्यसम्बद्धानां शृङ्गग्राहिकया कर्माह- तेष्वित्यादि| लघवश्च ह्रसन्तीति च्छेदः| शेषशीतादिगुणानां वृद्धिमतिदेशेनाह- एवमित्यादि| सामान्ययोगादिति समानैकरूपार्थयोगात् | तच्च सामान्यं सर्वथा समानगुणजातिरूपं भवति; यथा- पोष्यपोषकयोर्मांसयोः| क्वचिच्च विजातीयेऽपि गुणा एव पोष्यपोषकवृत्तयो भवन्ति; यथा- क्षीरशुक्रयोः| तत्रात्यर्थवृद्धिकर्तृत्वेन प्रथमं जातिरूपमेव सामान्यं सर्वगुणसामान्ययुक्तमुदाहरति - तस्मादित्यादि| भूयस्तरमन्येभ्य इत्यनेन मांसेन समानगुणभूयिष्ठतया रक्तादिवृद्धिरति क्रियते, भूयसी तु सर्वथा सामान्ययोगान्मांसस्य वृद्धिः क्रियत इति दर्शयति| लोहितं लोहितेनेत्येवमादौ ‘भूयस्तरमन्येभ्यः’ इत्यनुवर्तनीयम्| गर्भस्त्वामगर्भेणेत्यत्र आमगर्भेणाण्डादिरूपेण समुदितानां मांसादीनां सम्यगनिष्पन्नानां च वृद्धिरुच्यते||१०||
Adhikarana 9 (11) · Śloka 11
यत्र त्वेवंलक्षणेन सामान्येन सामान्यवतामाहारविकाराणामसान्निध्यं स्यात्, सन्निहितानां वाऽप्ययुक्तत्वान्नोपयोगो घृणित्वादन्यस्माद्वा कारणात्, स च धातुरभिवर्धयितव्यः स्यात्, तस्य ये समानगुणाः स्युराहारविकारा असेव्याश्च, तत्र समानगुणभूयिष्ठानामन्यप्रकृतीनामप्याहारविकाराणामुपयोगः स्यात्|
तद्यथा- शुक्रक्षये क्षीरसर्पिषोरुपयोगो मधुरस्निग्धशीतसमाख्यातानां चापरेषां द्रव्याणां, मूत्रक्षये पुनरिक्षुरसवारुणीमण्डद्रवमधुराम्ललवणोपक्लेदिनां, पुरीषक्षये कुल्माषमाषकुष्कुण्डाजमध्ययवशाकधान्याम्लानां, वातक्षये कटुकतिक्तकषायरूक्षलघुशीतानां, पित्तक्षयेऽम्ललवणकटुकक्षारोष्णतीक्ष्णानां, श्लेष्मक्षये स्निग्धगुरुमधुरसान्द्रपिच्छिलानां द्रव्याणाम्|
कर्मापि यद्यस्य धातोर्वृद्धिकरं तत्तदासेव्यम्|
एवमन्येषामपि शरीरधातूनां सामान्यविपर्ययाभ्यां वृद्धिह्रासौ यथाकालं कार्यौ|
इति सर्वधातूनामेकैकशोऽतिदेशतश्च वृद्धिह्रासकराणि व्याख्यातानि भवन्ति||११||
सम्प्रति समानगुणभूयिष्ठेन विजातीयेन वृद्धिमाह- यत्रेत्यादि| एवं लक्षणेनेति तुल्यजातिरूपेण| उक्तार्थं विवृणोति- घृणित्वादित्यादि| अन्यस्माद्वा कारणादित्यभक्ष्यामगर्भशुक्रादिभक्षणजन्याधर्मोत्पत्तेः| तत्रेत्यनेन असन्निहितान् घृणया कारणान्तरेण च सन्निहितानप्यसेव्यान् प्रत्यवमृशति| अन्यप्रकृतीनामिति विजातीयानाम्| अत्रोदाहरणमाह- तद्यथेत्यादि| शुक्रे क्षीणे यदि शुक्रान्तरं न प्राप्यते, प्राप्तं वा घृणादिवशादनुपयोज्यं स्यात्, तदा समानगुणभूयिष्ठानां क्षीरादीनामुपयोगः कर्तव्य इत्यर्थः| मूत्रादावपि घृणादिना सजातीयप्रयोगाविषये समानगुणभूयिष्ठप्रयोगमाह- मूत्रेत्यादि| कुष्कुण्डं पललादिच्छत्रिका| अजमध्यं छागान्तराधिः| द्रव्याणामुपयोग इति योजना| आहारं वृद्धिकरमभिधाय विहारमपि वृद्धिकरमाह- कर्मेत्यादि| कर्मशब्देनेहास्याचिन्तादयोऽपि गृह्यन्ते| कर्म तु प्रायः प्रभावादेव वृद्धिकरं भवतीति कृत्वाऽत्र समानगुणतापरिग्रहो न कृतः| साक्षादनुक्तानामपि धातूनामुक्तन्यायानुसारेण वृद्धिह्रासमभिदर्शयति- एवमित्यादि| यथाकालमिति क्रियाकालानतिपातेन| उक्तं प्रकरणमुपसंहरति- इति सर्वेत्यादि| एकैकश इत्यनेन मांसमाप्याय्यते मांसेनेत्यादिनोक्तं गृह्णाति| अतिदेशतश्चेत्यनेन एवमन्येषामपि धातूनामित्यादिनोक्तं गृह्णाति||११||
Adhikarana 10 (12) · Śloka 12
कार्त्स्न्येन शरीरवृद्धिकरास्त्विमे भावा भवन्ति; तद्यथा- कालयोगः, स्वभावसंसिद्धिः, आहारसौष्ठवम्, अविघातश्चेति||१२||
वृद्धिप्रस्तावात् सर्वशरीरवृद्धिकरानाह- कार्त्स्न्येनेत्यादि| कालयोग इति वृद्धिकारकयौवनादिकालयोगः| यौवनादौ हि सप्तदशवत्सरादिकाललक्षणे कालमहिम्रैव वृद्धिर्भवति| स्वभावशब्देनादृष्टमुच्यते| तेन स्वभावसंसिद्धशरीरवृद्धिहेतुरदृष्टम्| आहारसौष्ठवमिति आहारसम्पत्| अविघातश्चेति शरीरवृद्धिविघातकरातिव्यवायमनोभिघातादिविरहः||१२||
Adhikarana 11 (13) · Śloka 13
बलवृद्धिकरास्त्विमे भावा भवन्ति|
तद्यथा- बलवत्पुरुषे देशे जन्म बलवत्पुरुषे काले च, सुखश्च कालयोगः, बीजक्षेत्रगुणसम्पच्च, आहारसम्पच्च, शरीरसम्पच्च, सात्म्यसम्पच्च, सत्त्वसम्पच्च, स्वभावसंसिद्धिश्च, यौवनं च, कर्म च, संहर्षश्चेति||१३||
वृद्धिप्रस्तावाच्च बलवृद्धिकरान् भावानाह- बलेत्यादि| देशमहिम्ना बलवन्तः पुरुषा यस्मिन् देशे सैन्धवादौ स बलवत्पुरुषो देशः, तत्र जातो देशमहिम्नैव बलवान् भवति; यथा सैन्धवा बलवन्तः पुरुषाः| परिणामस्यापि प्रशस्तस्य हेतुतामाह- बलवत्पुरुषे काले चेति| कालो हेमन्तशिशिरादिरूपः| हेमन्ते शिशिरे वा काले जायमानस्य स कालो बलं जनयति| सुखश्च कालयोग इति साधारणकालयोगः| बीजस्य शुक्ररूपस्य, तथा क्षेत्रस्यार्तवगर्भाशयरूपस्य, गुणानां प्रशस्तधर्माणां सम्पत् बीजक्षेत्रगुणसम्पत्| अत्र बीजक्षेत्रयोर्निर्दोषताऽपि सम्पत् स्यात्, तेन निर्दोषतातिरिक्तसारत्वादिबीजक्षेत्रगुणप्राप्त्यर्थं गुणग्रहणं ज्ञेयम्| सत्त्वसम्पच्चेति सत्त्वसम्पदाऽपि शरीरे बलं भवतीति ज्ञेयम्| वचनं हि- “शरीरं ह्यपि सत्त्वमनुविधीयते” (शा.अ.४) इति| स्वभावसंसिद्धिः बलजनककर्मसंसिद्धिः| कर्म व्यायामादि कर्मेत्यर्थः; व्यायामादिकर्माभ्यासाद्धि बलं भवति||१३||
Adhikarana 12 (14) · Śloka 14
आहारपरिणामकरास्त्विमे भावा भवन्ति|
तद्यथा- ऊष्मा, वायुः, क्लेदः, स्नेहः, कालः, समयोगश्चेति ||१४||
प्रशस्तगुणाभिधानप्रस्तावादाहारपरिणामस्यापि प्रशस्तस्य हेतुतामाह- आहारेत्यादि| काल इति पाककालो निशावसानादिरूपः| समयोग इति आहारस्य प्रकृत्याद्यष्टाहारविधिविशेषायतनसम्यग्योगः||१४||
Adhikarana 13 (15) · Śloka 15
तत्र तु खल्वेषामूष्मादीनामाहारपरिणामकराणां भावानामिमे कर्मविशेषा भवन्ति|
तद्यथा- ऊष्मा पचति, वायुरपकर्षति, क्लेदः शैथिल्यमापादयति, स्नेहो मार्दवं जनयति, कालः पर्याप्तिमभिनिर्वर्तयति, समयोगस्त्वेषां परिणामधातुसाम्यकरः सम्पद्यते||१५||
अत्र चाहारपरिणामकरेषु ऊष्मैव साक्षात् पाके व्याप्रियते, वाय्वादयस्तु तस्य पचतो व्यापारविशेषेण सहायतां यान्तीति दर्शयन्नाह- तत्रेत्यादि| वायुरपकर्षतीति ऊष्मस्थानाद् विदूरस्थितमन्नमूष्मसमीपं नयति| यदुक्तम्- “अन्नमादानकर्मा तु प्राणः कोष्ठं प्रकर्षति” (चि. १५) इति| वायुरपकर्षतीत्युपलक्षणं, तेन अग्न्युत्तेजनमपि समानाख्यस्य वायोर्बोद्धव्यम्| उक्तं हि- “समानेनावधूतोऽग्रिः ... पचति” (चि. १५) इति| पर्याप्तिमिति पाकनिष्पत्तिं; सत्यप्यूष्मादिव्यापारे कालवशादेव पाको भवति, नोष्मादिव्यापारमात्रादिति भावः| समयोगस्त्वेषामिति एषामाहारद्रव्याणां प्रकृत्यादीनां यः समयोगः, स परिणामकरो धातुसाम्यकरश्च भवति; यदा हि प्रकृत्यादिविरुद्ध आहारो भवति, तदा प्रकृत्यादिदोषादेव न सम्यक्परिणामो भवति| एतदूष्मादिव्यापारप्रतिपादकं ग्रन्थान्तरं यथा- “अन्नमादानकर्मा तु प्राणः कोष्ठं प्रकर्षति| तद्द्रवैर्भिन्नसङ्घातं स्नेहेन मृदुतां गतम्| समानेनावधूतोऽग्निरुदर्यः पवनेन तु| काले पक्वं समं सम्यक् पचत्यायुर्विवृद्धये” (चि.अ.१५) इति||१५||
Adhikarana 14 (16) · Śloka 16
परिणमतस्त्वाहारस्य गुणाः शरीरगुणभावमापद्यन्ते यथास्वमविरुद्धाः; विरुद्धाश्च विहन्युर्विहताश्च विरोधिभिः शरीरम्||१६||
अथ कया परिपाठ्या परिणाममापद्यमान आहारो धातुसाम्यकरो भवतीत्याह- परिणमत इत्यादि| परिणमत इति वर्तमाननिर्देशेन यो यथा यथा आहारांशः परिणमते स तथा तथा शरीरगुणरूपतां याति, न कृत्स्नाहारपरिणाममपेक्षत इति दर्शयति| यथास्वमविरुद्धा इति ये आहारगुणा यस्मिन् शरीरगुणेऽविरुद्धास्त एव तद्रूपतां यान्ति| यथा- आहारस्य कठिनो भागो मांसास्थ्यादिकठिनभागपोषको भवति, द्रवांशस्तु शोणितादिरूपो भवतीत्यादि| विरुद्धाश्च विहन्युरिति शरीरगुणविरुद्धास्तु आहारगुणा विहन्युः ह्रासयेयुरित्यर्थः| अथ ते शरीरगुणा आहारगुणविहताः सन्तः किं कुर्वन्तीत्याह- विहता इत्यादि| विहतास्तु विरोधिभिः शरीरं विहन्युरिति योजना; विरोधिभिरिति विपरीतैराहारगुणैः, विहता इति क्षयं नीताः| किंवा विरोधिभिरिति यथा दुग्धमत्स्यादिविरुद्धाहरैर्विहताः शरीरगुणाः शरीरं हन्युः; चकाराद् विरुद्धगुणैश्च क्षयं नीताः शरीरं हन्युरिति दर्शयति||१६||
Adhikarana 15 (17) · Śloka 17
शरीरगुणाः पुनर्द्विविधाः सङ्ग्रहेण- मलभूताः, प्रसादभूताश्च|
तत्र मलभूतास्ते ये शरीरस्याबाधकराः स्युः|
तद्यथा- शरीरच्छिद्रेषूपदेहाः पृथग्जन्मानो बहिर्मुखाः, परिपक्वाश्च धातवः, प्रकुपिताश्च वातपित्तश्लेष्माणः, ये चान्येऽपि केचिच्छरीरे तिष्ठन्तो भावाः शरीरस्योपघातायोपपद्यन्ते, सर्वांस्तान्मले सञ्चक्ष्महे; इतरांस्तु प्रसादे , गुर्वादींश्च द्रवान्तान् गुणभेदेन, रसादींश्च शुक्रान्तान् द्रव्यभेदेन||१७||
अथ कतिप्रकारास्ते शरीरगुणा इत्याह- शरीरेत्यादि| सङ्ग्रहेण सङ्क्षेपेण; तेन विस्तरेण धातूपधात्वादिविभागेन बहवश्च भवन्ति| भूतशब्दः स्वरूपे| आबाधकरा इति पीडाकरा इत्यर्थः| पृथग्जन्मान इति पिचोलिकासिङ्घाणकादिभेदेन नानारूपाः| बहिर्मुखा इत्यनेन य एव च्छिद्रमलाः प्रभूततया बहिर्निःसरणाभिमुखः, त एव पीडाकर्तृत्वेन मलाख्याः; ये तु स्रोत-उपलेपमात्रकारकास्ते गुणकर्तृतया न मलाख्याः| परिपक्वाश्च धातव इति पाकात् पूयतां गताश्च शोणितादयोऽपि मलाख्याः; किंवा ‘अपरिपक्वा’ इति पाठः, तदा सामा धातवो मलाख्या इति ज्ञेयम्| कुपिताश्चेति पदेन वातादयः सामान्येन क्षीणा वृद्धा वा गृह्यन्ते; विकृतिमात्रं हि वातादीनां कोपः| ये चान्येऽपीत्यादिना विमार्गगतान् पीडाकारकाञ् शरीरधातून् तथाऽजीर्णादीन् ग्राहयन्ति| मल इति एकवचनं जातौ| इतरानिति अविकारकरान् स्व(स)मानस्थितपुरीषवातादीन्; पुरीषवातादयोऽपि शरीरावष्टम्भकाः प्रसादा एव, गुणकर्तृत्वात्| मलप्रसादभेदेन शरीरगतभावानभिधाय पुनर्द्रव्यगुणभेदानाह- गुर्वादींश्चेत्यादि| गुर्वादयो द्रवान्ताः पश्चादुक्ता एव| अत्र च ये मला उपधातवश्च नोक्तास्ते गुर्वादिगुणाधारत्वेन ग्राह्याः; किंवा, इतरांस्तु निराबाधान् मलादीन् प्रसादे सञ्चक्ष्महे, तथा गुर्वादींश्च (तथा रसादींश्च ) निर्विकारान् द्रव्यगुणरूपान् प्रसादे सञ्चक्ष्महे इति व्याख्येयम्||१७||
Adhikarana 16 (18) · Śloka 18
तेषां सर्वेषामेव वातपित्तश्लेष्माणो दुष्टा दूषयितारो भवन्ति, दोषस्वभावात्|
वातादीनां पुनर्धात्वन्तरे कालान्तरे प्रदुष्टानां विविधाशितपीतीयेऽध्याये विज्ञानान्युक्तानि|
एतावत्येव दुष्टदोषगतिर्यावत् संस्पर्शनाच्छरीरधातूनाम्|
प्रकृतिभूतानां तु खलु वातादीनां फलमारोग्यम्|
तस्मादेषां प्रकृतिभावे प्रयतितव्यं बुद्धिमद्भिरिति||१८||
अथ यदेतत् पुरीषादीनां मलत्वं तद्दूषणाद्भवति, तेन तेषां दूषकहेतुमाह- तेषामित्यादि| तेषामिति पुरीषादीनां रसादीनां च| दुष्टा इति स्वहेतूपचिताः, क्षीणास्तु नान्यदुष्टिं दोषाः कुर्वन्तीति प्रतिपादितमेव| अथ धात्वन्तराश्रयिणां वातादीनां दुष्टानां किं लक्षणं, येन ते ज्ञातव्या इत्याह- वातादीनामित्यादि| विज्ञानानीति लक्षणानि; रसाद्याश्रयदुष्टवातादिलक्षणं तावद्धिविधाशितपीतीये प्रोक्तम्| “केशमूत्रनखाद्याश्रयदुष्टदोषलक्षणं तु यद(त्त)त्र नोक्तं तत् कथं ज्ञेयमित्याह- एतावत्येवेत्यादि| केशादौ दुष्टानामपि वातादीनां गतिर्नास्तीति वाक्यार्थः| यावत् संस्पर्शनादिति स्पर्शनेन्द्रियं व्याप्य, तेन शरीरधातूनां दूषणे स्पर्शनेन्द्रियपर्यन्तमेव दुष्टदोषगतिर्भवति; तेन न केशादिषु दुष्टदोषगतिः| यत्तु पलितादिकेशे मृतनखे वा पुष्पं तत् स्पर्शवच्छरीरसंस्थितेनैव दोषेण कृतं, न पुनर्भृतनखे केशेष्वपि स्वमार्गचारी दोषः प्रचरति” इति ब्रुवते| वयं तु ब्रूमः- विविधाशितपीतीयोक्तदुष्ट्या सर्वदुष्ट्युपसङ्ग्रहो भवतीति दर्शयन्नाह- एतावत्येवेत्यादि| यावत् संस्पर्शनादिति स्पर्शसम्बन्धात्; तेन, शरीरधातूनां यावत् स्पर्शनाद्दुष्टदोषगतिर्भवति, सा च सर्वा विविधाशितपीतीयोक्तैव, न ततोऽधिका दुष्टिर्देहस्यास्ति| तत्र हि “मलानाश्रित्य दुष्टास्तु भेदशोषप्रदूषणम्” (सू.अ.२८) इति ग्रन्थेन कृत्स्नमलग्रहणात् केशनखौ मलौ गृहीतावेव| एतेन तु नखाग्रकेशाग्रस्फुटनादिमृतनखाग्रकेशाग्रगतेन दोषेणैव कृतं भवति| अथ दुष्टा वातादयो दुष्टिलक्षणानि कुर्वन्ति, प्रकृतिस्थास्तु किं कुर्वन्तीत्याह- प्रकृतिभूतानामित्यादि||१८||
Adhikarana 17 (19) · Śloka 19
भवति चात्र- शरीरं सर्वथा सर्वं सर्वदा वेद यो भिषक्|
आयुर्वेदं स कार्त्स्न्येन वेद लोकसुखप्रदम्||१९||
सम्प्रत्युक्तप्रकरणजन्यशरीरज्ञानस्य फलमाह- शरीरमित्यादि||१९||
Adhikarana 18 (20) · Śloka 20
एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच श्रुतमेतद्यदुक्तं भगवता शरीराधिकारे वचः|
किन्नु खलु गर्भस्याङ्गं पूर्वमभिनिर्वर्तते कुक्षौ, कुतो मुखः कथं चान्तर्गतस्तिष्ठति, किमाहारश्च वर्तयति, कथम्भूतश्च निष्क्रामति, कैश्चायमाहारोपचारैर्जातः सद्यो हन्यते, कैरव्याधिरभिवर्धते, किञ्चास्य देवादिप्रकोपनिमित्ता विकाराः सम्भवन्ति आहोस्विन्न, किञ्चास्य कालाकालमृत्य्वोर्भावाभावयोर्भगवानध्यवस्यति, किञ्चास्य परमायुः, कानि चास्य परमायुषो निमित्तानीति||२०||
शरीरविचायकं प्रकरणं समाप्य गर्भशरीरविचायकं प्रकरणमारभते- एवंवादिनमित्यादि| कुक्षावित्यन्तेनैकः प्रश्नः, कुतोमुखः कथं चान्तर्गतस्तिष्ठतीति द्वितीयः, निष्क्रामतीत्यन्तेन तृतीयः, कैश्चायमाहारोपचारैर्जातः सद्यो हन्यत इति चतुर्थः, कैरव्याधिरभिवर्धत इति पञ्चमः, आहोस्विन्नेत्यन्तः षष्ठः| शेषं प्रश्नत्रयं पूर्वप्रश्नद्वयस्य व्यवच्छेदकमेव, एवं नव प्रश्नाः| अध्यवस्यतीति निश्चिनोति||२०||
Adhikarana 19 (21) · Śloka 21
तमेवमुक्तवन्तमग्निवेशं भगवान् पुनर्वसुरात्रेय उवाच- पूर्वमुक्तमेतद्गर्भावक्रान्तौ यथाऽयमभिनिर्वर्तते कुक्षौ, यच्चास्य यदा सन्तिष्ठतेऽङ्गजातम्|
विप्रतिवादास्त्वत्र बहुविधाः सूत्रकृतामृषीणां सन्ति सर्वेषां; तानपि निबोधोच्यमानान्- शिरः पूर्वमभिनिर्वर्तते कुक्षाविति कुमारशिरा भरद्वाजः पश्यति, सर्वेन्द्रियाणां तदधिष्ठानमिति कृत्वा; हृदयमिति काङ्कायनो बाह्लीकभिषक्, चेतनाधिष्ठानत्वात्; नाभिरिति भद्रकाप्यः, आहारागम इति कृत्वा; पक्वाशयगुदमिति भद्रशौनकः, मारुताधिष्ठानत्वात्; हस्तपादमिति बडिशः, तत्करणत्वात् पुरुषस्य; इन्द्रियाणीति जनको वैदेहः, तान्यस्य बुद्ध्यधिष्ठानानीति कृत्वा; परोक्षत्वादचिन्त्यमिति मारीचिः कश्यपः; सर्वाङ्गाभिनिर्वृत्तिर्युगपदिति धन्वन्तरिः; तदुपपन्नं, सर्वाङ्गानां तुल्यकालाभिनिर्वृत्तत्वाद्धृदयप्रभृतीनाम्|
सर्वाङ्गानां ह्यस्य हृदयं मूलमधिष्ठानं च केषाञ्चिद्भावानाम्, नच तस्मात् पूर्वाभिनिर्वृत्तिरेषां; तस्माद्धृदयप्रभृतीनां सर्वाङ्गानां तुल्यकालाभिनिर्वृत्तिः, सर्वे भावा ह्यन्योन्यप्रतिबद्धाः; तस्माद्यथाभूतदर्शनं साधु||२१||
यथाक्रममुत्तराण्याह- पूर्वमित्यादि|- पूर्वमुक्तमिति यच्चास्य यदा सन्तिष्ठतेऽङ्गजातं तदपि गर्भावक्रान्तौ “एवमस्य युगपदिन्द्रियाण्यङ्गावयवाश्च यौगपद्येनाभिनिर्वर्तन्तेऽन्यत्र तेभ्यो भावेभ्यो येऽस्य जातस्योत्तरकालं जायन्ते” (शा. ४) इत्यादिना ग्रन्थेनोक्तम्| यद्यपि ‘कथमभिनिर्वर्तते कुक्षौ’ इति नेह पृष्टं, तथाऽप्यभिनिर्वृत्तिक्रमोपदर्शनेन ‘किन्नु खलु गर्भस्याङ्गं पूर्वमभिनिर्वर्तते’ इति प्रश्नस्य यथोक्तोत्पादक्रमोपदर्शनादुत्तरत्वं भवतीति मत्त्वोक्तं - उक्तमेतद्गर्भावक्रान्तौ यथाऽयमभिनिर्वर्तते कुक्षाविति| उक्तामपि युगपदङ्गाभिनिर्वृत्तिं मतान्तरोद्धारेण स्थिरीकर्तुमाह- विप्रतिवादास्त्वत्रेत्यादि| पक्वाशयश्च गुदं चेति पक्वाशयगुदं; किंवा पक्वाशयसमीपस्थं गुदं पक्वाशयगुदम् , उत्तरगुदमित्यर्थः| इन्द्रियाणीति इन्द्रियाधिष्ठानानि नयनगोलकादीनि| तदुपपन्नमिति धन्वन्तरिवचनमुपपन्नम्; अत्र हेतुमाह- सर्वाङ्गानामित्यादिना हृदयप्रभृतीनामित्यन्तेन| अत्र च प्रतिज्ञाहेत्वोरेकत्वं नाशङ्कनीयं; धन्वन्तरिवचनमुपपन्नमिति प्रतिज्ञा, तदभिहितार्थस्य युगपदङ्गाभिनिर्वृत्तिरूपस्य सिद्धत्वादिति हेत्वर्थः प्रतिज्ञार्थाद्धिन्न एव| ये तु ‘तुल्यकालाभिवृद्धत्वात् ’ इति पठन्ति, तेषां हेत्वर्थो व्यक्त एव| येन, उत्तरकालमपि सर्वाङ्गानां युगपद्वृद्धिदर्शनं ; समानकालवर्धमानानां फलानामिव समानकालमेव जन्मानुमीयते, असमानकालजातानां हि न समानकाला समा वृद्धिर्भवति| पूर्वर्षीणां मतानि हृदयपूर्वाभिनिर्वृत्तिदूषणेनैव समानन्यायाद्दूषयन्नाह- सर्वाङ्गानां ह्यस्येत्यादि| मूलमिव मूलं, तदुपघातेन सर्वाङ्गोपघातात्| अधिष्ठानमिति आश्रयः| तत्रौजःप्रभृतीनामधिष्ठानं हृदयं भवति; न च तस्मात् पूर्वाभिनिर्वृत्तिरिति न च तथाविधमूलत्वान्नाप्यधिष्ठानत्वाच्च पूर्वाभिनिर्वृत्तिर्भवति| यदि हि मूलं कारणमिति मतं स्यात्, तदा कार्येभ्योऽङ्गेभ्यः प्राक् हृदयं स्यादपि; न चेहाङ्गानां हृदयं कारणं किन्तु प्रधानं, प्राधान्यं च तदुपघातेन सर्वोपघातादिति| यश्चाप्याश्रयाश्रयिभावः, स चापि सहोत्पन्नत्वादेव हृदयमाश्रयि तदाश्रितौजःप्रभृतीनां भवतीति भावः| तदेवं चेद्धृदस्य प्रधानस्यापि पूर्वोत्पादो नास्ति, तदा शिरःप्रभृतीनामपि पूर्वोत्पादो नास्त्येवेति कृत्वोपसंहरन्नाह- तस्मादित्यादि| युगपदभिनिर्वृत्तौ हेत्वन्तरमाह- सर्वभावा हीत्यादि| भावा इति शारीरा भावाः| अन्योन्यप्रतिबद्धा इति यस्मात् सर्वभावाः परस्परप्रतिबद्धा एव सिरास्नाय्वादिभिर्जायन्ते, तेन समाननिबन्धनत्वाद् युगपदेव भवन्ति| यथाभूतदर्शनमिति यथार्थदर्शनं, तच्च धन्वन्तरिमतमेव||२१||
Adhikarana 20 (22) · Śloka 22
गर्भस्तु खलु मातुः पृष्ठाभिमुख ऊर्ध्वशिराः सङ्कुच्याङ्गान्यास्तेऽन्तःकुक्षौ ||२२||
गर्भस्त्वित्यादि द्वितीयप्रश्नस्योत्तरम्||२२||
Adhikarana 21 (23) · Śloka 23
व्यपगतपिपासाबुभुक्षस्तु खलु गर्भः परतन्त्रवृत्तिर्मातरमाश्रित्य वर्तयत्युपस्नेहोपस्वेदाभ्यां गर्भाशये सदसद्भूताङ्गावयवः, तदनन्तरं ह्यस्य कश्चिल्लोमकूपायनैरुपस्नेहः कश्चिन्नाभिनाड्ययनैः|
नाभ्यां ह्यस्य नाडी प्रसक्ता, नाड्यां चापरा, अपरा चास्य मातुः प्रसक्ता हृदये, मातृहृदयं ह्यस्य तामपरामभिसम्प्लवते सिराभिः स्यन्दमानाभिः ; स तस्य रसो बलवर्णकरः सम्पद्यते, स च सर्वरसवानाहारः|
स्त्रिया ह्यापन्नगर्भायास्त्रिधा रसः प्रतिपद्यते- स्वशरीरपुष्टये, स्तन्याय, गर्भवृद्धये च|
स तेनाहारेणोपष्टब्धः (परतन्त्रवृत्तिर्मातरमाश्रित्य) वर्तयत्यन्तर्गतः||२३||
व्यपगत इत्यादि ‘किमाहारश्च वर्तयति’ इति प्रश्नस्योत्तरम्| परतन्त्रवृत्तिरिति मात्राधीनवृत्तिः| एतदेव विवृणोति- मातरमित्यादि| उपस्नेहः निस्यन्दः| सदसद्भूताङ्गावयव इति च्छेदः| तदनन्तरमिति अङ्गप्रत्यङ्गव्यक्तौ सत्याम्| नाभिसंसक्ता नाडी नाभिनाडी| अयनैरिति मार्गैः| अपरा गर्भस्य नाभिनाडीप्रतिबद्धा ‘अमरा’ इति लोके ख्याता| अभिसम्प्लवते इति व्याप्नोति| एतच्चापरादिजन्म गर्भादृष्टवशाद्भवति||२३||
Adhikarana 22 (24) · Śloka 24
स चोपस्थितकाले जन्मनि प्रसूतिमारुतयोगात् परिवृत्त्यावाक्शिरा निष्क्रामत्यपत्यपथेन, एषा प्रकृतिः, विकृतिः पुनरतोऽन्यथा|
परं त्वतः स्वतन्त्रवृत्तिर्भवति||२४||
कथम्भूतः स निष्क्रामतीत्यस्योत्तरं- स चोपस्थितकाल इत्यादि|- उपस्थितकाल इति प्रत्यासन्नकाले| विकृतिः पुनरतोऽन्यथेत्यनेन विकृत्याचरणेनापि निर्गमो भवतीति दर्शयति| स्वतन्त्रवृत्तिर्भवतीति स्वयङ्कृतेन स्तन्यपानादिना वर्तते, न गर्भस्थ इव मातुरेवाहारेण परं वर्तत इत्यर्थः||२४||
Adhikarana 23 (25-26) · Śloka 26
तस्याहारोपचारौ जातिसूत्रीयोपदिष्टावविकारकरौ चाभिवृद्धिकरौ भवतः||२५||
ताभ्यामेव च विषमसेविताभ्यां जातः सद्य उपहन्यते तरुरिवाचिरव्यपरोपितो वातातपाभ्यामप्रतिष्ठितमूलः||२६||
कैश्चायमित्यादिप्रश्नस्योत्तरं- तस्येत्यादि| जातिसूत्रीयोपदिष्टाविति अनागतावेक्षणेनानागते भूतवत्प्रयोगाद्बोद्धव्यम्| अचिरव्यपरोपितः अदीर्घकालारोपितः||२५-२६||
Adhikarana 24 (27) · Śloka 27
आप्तोपदेशादद्भुतरूपदर्शनात् समुत्थानलिङ्गचिकित्सितविशेषाच्चादोषप्रकोपानुरूपा देवादिप्रकोपनिमित्ता विकाराः समुपलभ्यन्ते||२७||
किञ्चास्येत्यादिप्रश्नस्योत्तरम्- आप्तोपदेशादित्यादि| आप्तोपदेशोऽत्र कुमारतन्त्रोपदेशो ब्रह्मादिप्रणीतः| तत्र हि कुमाराणां देवादिनिमित्तविकाराः प्रतिपाद्यन्ते; देवादिग्रहणेन च तदनुचरा अपि गृह्यन्ते| स्कन्दग्रहादयः सुश्रुतोक्ता देवादयश्चाष्टौ| यदुक्तं- “देवास्तथा शत्रुगणाश्च तेषां गन्धर्वयक्षाः पितरो भुजङ्गाः| तथैव रक्षांसि पिशाचजातिरेषोऽष्टको देवगणो ग्रहाख्यः” (सू.उ.अ.६०) इति| अनुमानमप्यत्राह- अद्भुतेत्यादि| न यद्भवति तदद्भुतम्, आश्चर्यमिति यावत्; तच्चामानुषबलज्ञानशोभादि ज्ञेयं; एतद्धि दोषाजन्यत्वाद् देवादिकारणं गमयति| समुत्थानादिविशेष आगन्तूनामागन्तुविकारेषु स्फुट एव| अदोषप्रकोपानुरूपा इति दोषप्रकोपजन्यरोगविधर्माणः||२७||
Adhikarana 25 (28) · Śloka 28
कालाकालमृत्य्वोस्तु खलु भावाभावयोरिदमध्यवसितं नः- “यः कश्चिन् म्रियते स काल एव म्रियते, न हि कालच्छिद्रमस्ति” इत्येके भाषन्ते|
तच्चासम्यक्|
न ह्यच्छिद्रता सच्छिद्रता वा कालस्योपपद्यते, कालस्वलक्षणस्वभावात्|
तत्राहुरपरे- यो यदा म्रियते स तस्य नियतो मृत्युकालः; स सर्वभूतानां सत्यः, समक्रियत्वादिति|
एतदपि चान्यथाऽर्थग्रहणम्|
न हि कश्चिन्न म्रियत इति समक्रियः|
कालो ह्यायुषः प्रमाणमधिकृत्योच्यते|
यस्य चेष्टं यो यदा म्रियते स तस्य मृत्युकाल इति, तस्य सर्वे भावा यथास्वं नियतकाला भविष्यन्ति; तच्च नोपपद्यते, प्रत्यक्षं ह्यकालाहारवचनकर्मणां फलमनिष्टं, विपर्यये चेष्टं; प्रत्यक्षतश्चोपलभ्यते खलु कालाकालव्यक्तिस्तासु तास्ववस्थासु तं तमर्थमभिसमीक्ष्य, तद्यथा- कालोऽयमस्य व्याधेराहारस्यौषधस्य प्रतिकर्मणो विसर्गस्य, अकालो वेति|
लोकेऽप्येतद्भवति- काले देवो वर्षत्यकाले देवो वर्षति, काले शीतमकाले शीतं, काले तपत्यकाले तपति, काले पुष्पफलमकाले च पुष्पफलमिति|
तस्मादुभयमस्ति- काले मृत्युरकाले च; नैकान्तिकमत्र|
यदि ह्यकाले मृत्युर्न स्यान्नियतकालप्रमाणमायुः सर्वं स्यात्; एवं गते हिताहितज्ञानमकारणं स्यात्, प्रत्यक्षानुमानोपदेशाश्चाप्रमाणानि स्युर्ये प्रमाणभूताः सर्वतन्त्रेषु, यैरायुष्याण्यनायुष्याणि चोपलभ्यन्ते|
वाग्वस्तुमात्रमेतद्वादमृषयो मन्यन्ते- नाकाले मृत्युरस्तीति||२८||
कालाकालेत्यादौ इदमध्यवसितमित्यनेन प्रकरणव्यवस्थापनीयोऽयमर्थः ‘तस्मादुभयमस्ति काले मृत्युरकाले च’ इति ग्रन्थवक्ष्यमाणं प्रत्यवमृशति| एकीयमतमाह- यः कश्चिदित्यादि| न हि कालच्छिद्रमस्तीति कालरहितः कश्चिदवकाशोऽस्ति, यं कालशून्यमवकाशमासाद्याकालमृत्युः स्यादिति भावः| एतद्दूषयति- तच्चेत्यादिना| सान्तरं यदवयवि द्रव्यं तत् सच्छिद्रमित्युच्यते, यच्च निरन्तरं तदच्छिद्रम्| तेन कालस्य निरवयवस्य सच्छिद्रताऽच्छिद्रता वा न सम्भवति; तेन यदुच्यते- ‘कालस्याच्छिद्रत्वान्न कालमृत्युरस्ति’ इति, तदयुक्तमिति भावः| यत्त्वकालमृत्युव्यापकत्वेन कालस्योपचरितच्छिद्रत्वं तदुत्तरवक्ष्यमाणैकीयमतदूषणेनैव दूषितम् | कालस्वलक्षणस्वभावादिति कालस्वलक्षणे सच्छिद्रताया अच्छिद्रतायाश्चाभावादित्यर्थः| एकीयमतान्तरमाह- तत्राहुरित्यादि| यो यदा म्रियते स एव तस्य नियतो मृत्युकाल इति कथं ज्ञायते इत्याह- स सर्वभूतानां सत्यः समक्रियत्वादितिः, यस्मात् कालः सर्वभूतानामविशेषेण मारकतया समक्रियः, न रागात् किञ्चिद्भूतं न मारयति, न द्वेषाद्वा किञ्चिद्धन्ति, किन्तु सर्वाण्येव निहन्ति, तेन सर्वभूतानामयं सत्यो रागद्वेषशून्य इत्यर्थः| ततश्च रागद्वेषशून्यतया उचितकाले एव परं मारयति, नानुचित इति भावः| दूषयति- एतदपीत्यादिना| न हि कश्चिन्न म्रियत इति कृत्वा समक्रियः कालो भवत्येव| यत्तु शतवर्षादिलक्षणमायुःप्रमाणमधिकृत्य भवता समक्रियः कालोऽभिधीयते; यदि शतवर्षाद्यायुःप्रमाणेऽपि समक्रियः स्यात्, तदा न शतवर्षादर्वागूर्ध्वं वा कश्चिन्म्रियेत, दृश्यते चैतत्; तस्मादेवम्भूतसमक्रियत्वे कालस्य उचितशतवर्षाद्यायुःप्राप्तेरर्वाङ्भरणमकालमृत्युशब्दाभिधेयमिहायुर्वेदे तन्निरस्तं भवतीति भावः| अकालमृत्युप्रतिषेधे दूषणान्तरमाह- यस्येत्यादि| सर्वभावा इति मृत्युव्यतिरिक्ता अप्याहारवचनादयः| प्रत्यक्षमिति सुव्यक्तप्रमाणे नेत्यर्थः| कालाकालव्यक्तिस्तासु तास्ववस्थास्विति तास्ता अवस्थाः शरीरादेस्तं तं व्याध्याहारादिकमर्थं बुद्धिस्थीकृत्य कालाकालशब्देनोच्यन्त इत्यर्थः| तत्र तृतीयदिनज्वरयुक्तायां तृतीयज्वरिणोऽवस्थायां तृतीयज्वरं प्रति कालोऽयमस्येति व्यपदिश्यते, विपर्यये चाकाल इति व्यपदेशः; तथा ग्लान्यादियुक्तायां शरीरावस्थायामाहाररूपमर्थमुद्दिश्य कालोऽयमाहारस्येति ज्ञानं भवति, विपर्यये चाकालोऽयमित्युदाहरणमुन्नेयम्| विसर्गस्येति व्याधिमोक्षस्य| इह प्रकरणे कालशब्देनोचितः कालोऽभिधीयते, अकालशब्देनानुचितः कालः; न तु कालविरहः| सिद्धान्तमुपसंहरति- तस्मादित्यादि| नैकान्तिकमिति कालमृत्युरेव परं भवति, किंवा अकालमृत्युरेव परं भवतीत्यैकान्तिकपक्षो नास्ति| अकालमृत्योरभावपक्षे दूषणान्तरमाह- यदि हीत्यादि| हिताहितज्ञानमकालमृत्युप्रतिषेधार्यं विधीयते, स एव चेदकालमृत्युर्नास्ति तदा हिताहितज्ञानं निष्प्रयोजनं स्यादित्यर्थः| प्रत्यक्षानुमानोपदेशाश्चाप्रमाणानि स्युरिति आयुर्वेदसम्बद्धा प्रत्यक्षादय आयुष्यानायुष्योपदर्शका आयुष्यानायुष्यार्थाभावादप्रमाणभूताः स्युरिति भावः| दूषितं पक्षं निःसारतया दर्शयन्नाह- वागित्यादि||२८||
Adhikarana 26 (29) · Śloka 29
वर्षशतं खल्वायुषः प्रमाणमस्मिन् काले||२९||
‘किञ्चास्य परमायुः’ इत्यस्य प्रश्नस्योत्तरमाह- वर्षशतमित्यादि| अस्मिन् काले इति कलौ||२९||
Adhikarana 27 (30) · Śloka 30
तस्य निमित्तं प्रकृतिगुणात्मसम्पत् सात्म्योपसेवनं चेति||३०||
शेषप्रश्नस्योत्तरं- तस्येत्यादि| प्रकृतिगुणात्मसम्पदिति प्रकृतिसम्पत्, गुणसम्पत्, आत्मसम्पत्| तत्र प्रकृतिसम्पत् समवातादिप्रकृतिता, समप्रकृतिर्हि चिरायुर्भवति; गुणसम्पत्तु सारसंहननादिभिरायुष्मल्लक्षणैर्योगः, किंवा प्रकृतेर्मातृपित्राद्युपकरणस्य गुणसम्पत् सा प्रकृतिगुणसम्पत्; आत्मनस्तु चिरायुष्ट्वकारकधर्मयुक्तता सम्पत्||३०||
Adhikarana 28 (31-34) · Śloka 34
तत्र श्लोकाः- शरीरं यद्यथा तच्च वर्तते क्लिष्टमामयैः|
यथा क्लेशं विनाशं च याति ये चास्य धातवः||३१||
वृद्धिह्रासौ यथा तेषां क्षीणानामौषधं च यत्|
देहवृद्धिकरा भावा बलवृद्धिकराश्च ये||३२||
परिणामकरा भावा या च तेषां पृथक् क्रिया|
मलाख्याः सम्प्रसादाख्या धातवः प्रश्न एव च||३३||
नवको निर्णयश्चास्य विधिवत् सम्प्रकाशितः|
तथ्यः शरीरविचये शारीरे परमर्षिणा||३४||
सङ्ग्रहे ये चास्य धातव इति यादृशाश्चास्य धातव इत्यर्थः| एतच्च ‘वैषम्यगमनं पुनर्धातूनां’ इत्यादिग्रन्थेन धातुधर्मप्रकाशकत्वेनोक्तं ज्ञेयम्| अन्ये तु ये चास्य धातव इत्यनेन ‘मांसं मांसेन वर्धते’ इत्यादि धातुरूपाणां पुनर्मांसादीनां सङ्ग्रहोऽयमिति वदन्ति| वृद्धिह्रासौ यथा तेषामित्यनेन ‘धातवः पुनः’ इत्यादिग्रन्थार्थं गृह्णाति| क्षीणानामौषधं च यदिति मांसमाप्याय्यते मांसेनेत्यादि सङ्गृह्णाति| या च तेषां पृथक् क्रियेत्यनेन तेषामाहारपरिणामकराणामूष्मप्रभृतीनां पृथक्कर्म यदुक्तं ‘ऊष्मा पचति’ इत्यादिना ग्रन्थेन तद्गृह्यते||३१-३४||
Adhikarana puShpikA · Śloka 6
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने शरीरविचयशारीरं नाम षष्ठोऽध्यायः||६||
इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां शरीरविचयशारीरं नाम षष्ठोऽध्यायः||६||