Adhikarana 1 (1-2) · Śloka 2
अथातः पुरुषविचयं शारीरं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
पूर्वाध्यायेऽभिहितं “यावन्तो हि लोके भावास्तावन्तः पुरुषे” (शा.अ.४) इति, तच्च न प्रपञ्चितं बहुवाच्यत्वात्; अतः प्रपञ्चाभिधानार्थं पुरुषविचयं ब्रूते| पुरुषस्य विचयनं लोकसामान्येन गणनं पुरुषविचयः, तमधिकृत्य कृतोऽध्यायः पुरुषविचयः||१-२||
Adhikarana 2 (3-4) · Śloka 4
‘पुरुषोऽयं लोकसम्मितः’ इत्युवाच भगवान् पुनर्वसुरात्रेयः|
यावन्तो हि लोके (मूर्तिमन्तो ) भावविशेषास्तावन्तः पुरुषे, यावन्तः पुरुषे तावन्तो लोके; इत्येवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच- नैतावता वाक्येनोक्तं वाक्यार्थमवगाहामहे, भगवता बुद्ध्या भूयस्तरमतोऽनुव्याख्यायमानं शुश्रूषामह इति||३||
तमुवाच भगवानात्रेयः- अपरिसङ्ख्येया लोकावयवविशेषाः, पुरुषावयवविशेषा अप्यपरिसङ्ख्येयाः; तेषां यथास्थूलं कतिचिद्भावान् सामान्यमभिप्रेत्योदाहरिष्यामः, तानेकमना निबोध सम्यगुपवर्ण्यमानानग्निवेश!|
षड्धातवः समुदिताः ‘पुरुष’ इति शब्दं लभन्ते; तद्यथा- पृथिव्यापस्तेजो वायुराकाशं ब्रह्म चाव्यक्तमिति, एत एव च षड्धातवः समुदिताः ‘पुरुष’ इति शब्दं लभन्ते||४||
सम्मितः तुल्यः| लोकसम्मितत्वमेव विभजते- यावन्तो हीत्यादि| भगवता बुद्ध्याऽनुव्याख्यायमानमिति योजना| लोकस्य तरुतृणपश्वादिरूपा अवयवाः, तथा पुरुषस्य च स्नायुकण्डराधमन्यादिरूपा अवयवा अपरिसङ्ख्येयाः; तेन, कार्त्स्न्याभिधानमशक्यम्; अतो ये ये लोकपुरुषयोः स्थूला अवयवाः, ते ते सामान्यप्रतिपादनार्थमुच्यन्त इति वाक्यार्थः| ब्रह्मणो विवरणम्- अव्यक्तमिति||३-४||
Adhikarana 3 (5) · Śloka 5
तस्य पुरुषस्य पृथिवी मूर्तिः, आपः क्लेदः, तेजोऽभिसन्तापः, वायुः प्राणः, वियत् सुषिराणि, ब्रह्म अन्तरात्मा|
यथा खलु ब्राह्मी विभूतिर्लोके तथा पुरुषेऽप्यान्तरात्मिकी विभूतिः, ब्रह्मणो विभूतिर्लोके प्रजापतिरन्तरात्मनो विभूतिः पुरुषे सत्त्वं, यस्त्विन्द्रो लोके स पुरुषेऽहङ्कारः, आदित्यस्त्वादानं, रुद्रो रोषः, सोमः प्रसादः, वसवः सुखम्, अश्विनौ कान्तिः, मरुदुत्साहः, विश्वेदेवाः सर्वेन्द्रियाणि सर्वेन्द्रियार्थाश्च, तमो मोहः, ज्योतिर्ज्ञानं, यथा लोकस्य सर्गादिस्तथा पुरुषस्य गर्भाधानं, यथा कृतयुगमेवं बाल्यं, यथा त्रेता तथा यौवनं, यथा द्वापरस्तथा स्थाविर्यं, यथा कलिरेवमातुर्यं, यथा युगान्तस्तथा मरणमिति|
एवमेतेनानुमानेनानुक्तानामपि लोकपुरुषयोरवयवविशेषाणामग्निवेश! सामान्यं विद्यादिति||५||
तस्येत्यादिना पुरुषे षड्धातून् दर्शयति| मूर्तिः काठिन्यम्| लोके षड्धातवो व्यक्ता एवेति न पुनर्विवेचिताः| ब्राह्मीति आत्मविशेषस्य जगत्स्रष्टुर्विभूतिः| प्रजापतिः दक्षनामा| आदानं ग्रहणम्; आदित्योऽप्याददातीत्यादानसाम्यमादित्यस्य| इह च मनःप्रभृतिषु प्राजापत्यादिरूपता आगमसिद्धैव ज्ञेया| सर्वेन्दियार्था विश्वेदेवा एव| सर्गादिरिति प्रलयानन्तरः कालः| अनुक्तानामित्यनेन मतिः बृहस्पतिः, कामः गन्धर्वः, इत्यादि सामान्यमूह्यम्||५||
Adhikarana 4 (6-7) · Śloka 7
एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच- एवमेतत् सर्वमनपवादं यथोक्तं भगवता लोकपुरुषयोः सामान्यम्|
किन्न्वस्य सामान्योपदेशस्य प्रयोजनमिति||६||
भगवानुवाच- शृण्वग्निवेश! सर्वलोकमात्मन्यात्मानं च सर्वलोके सममनुपश्यतः सत्या बुद्धिः समुत्पद्यते|
सर्वलोकं ह्यात्मनि पश्यतो भवत्यात्मैव सुखदुःखयोः कर्ता नान्य इति|
कर्मात्मकत्वाच्च हेत्वादिभिर्युक्तः सर्वलोकोऽहमिति विदित्वा ज्ञानं पूर्वमुत्थाप्यतेऽपवर्गायेति|
तत्र संयोगापेक्षीलोकशब्दः|
षड्धातुसमुदायो हि सामान्यतः सर्वलोकः||७||
अनपवादमिति अबाध्यमानम्| किन्न्वस्य प्रयोजनमिति आयुर्वेदे किमप्येतत् साम्यकथने प्रयोजनमित्यर्थः| सत्या बुद्धिरुत्पद्यते इति अस्य योजनायां ‘किञ्चास्याः प्रयोजनम्’ इति शेषो ज्ञेयः| यथा च लोकपुरुषसाम्यं सत्यबुद्धिजनकं भवति तदाह- सर्वलोकं हीत्यादि| आत्मनि पश्यत इति आत्मनोऽभेदेन पश्यतः| आत्मशब्देन षड्धातुसमुदायात्मकः पुरुष इहोच्यते; तेन, यत्किञ्चिल्लोकगतं सुखदुःखजनकं, तदात्मरूपमेव; तेन बाह्यलोककृतमपि आत्मकृतमेव वैषयिकं नित्यदुःखानुसक्तं हेयं सुखं, तथा निसर्गहेयं दुःखं च पश्यन् रागद्वेषनिर्मुक्तः सन् सत्यज्ञानवान् भवतीति भावः| अथ सत्यज्ञानस्यापि किं प्रयोजनमित्याह- कर्मेत्यादि| लोकपुरुषसाम्यज्ञानेऽपि सत्यज्ञानस्यापवर्गानुष्ठानं प्रयोजनमिति वाक्यार्थः| अत्र कर्मात्मकत्वादिति कर्माधीनत्वात्| हेत्वादयोऽग्रे वक्ष्यमाणाः | कर्मपरवशः सन् हेत्वादिभिर्युक्तोऽयमात्मा प्रवर्तते, तत् कर्म तत्त्वज्ञानात् प्रवृत्त्युपरमे सति कारणाभावान्नोपपद्यते; उत्पन्नं च कर्म अरक्तस्य तत्त्वज्ञानेन, अदृष्टस्य चोपभोगात्, आत्यन्तिककर्मक्षयादात्यन्तिककर्मफलाभावरूपो मोक्षो भवतीति भावः| संयोगापेक्षीति षड्धातुमेलके पुरुषरूपे वर्तते इत्यर्थः| लोकशब्देनेह प्रकरणे लोकत इति कृत्वा पुरुष एवोच्यते, न जगद्रूपो लोकः| यतः, हेत्वादयो येऽत्र कर्मपरवशत्वेन लोके वक्तव्याः, ते पुरुष एव सम्भवन्ति| सर्वशब्देन सर्वप्राणिनो ग्राहयति||६-७||
Adhikarana 5 (8) · Śloka 8
तस्य हेतुः, उत्पत्तिः, वृद्धिः, उपप्लवः, वियोगश्च|
तत्र हेतुरुत्पत्तिकारणं, उत्पत्तिर्जन्म, वृद्धिराप्यायनम्, उपप्लवो दुःखागमः, षड्धातुविभागो वियोगः सजीवापगमः स प्राणनिरोधः स भङ्गः स लोकस्वभावः|
तस्य मूलं सर्वोपप्लवानां च प्रवृत्तिः, निवृत्तिरुपरमः|
प्रवृत्तिर्दुःखं, निवृत्तिः सुखमिति यज्ज्ञानमुत्पद्यते तत् सत्यम्|
तस्य हेतुः सर्वलोकसामान्यज्ञानम्|
एतत्प्रयोजनं सामान्योपदेशस्येति||८||
हेत्वादिपञ्चकं निर्दिश्य विभजते- तस्य हेतुरित्यादि| तस्य मूलमिति तस्य जीवापगमस्य कारणम्| सर्वोपप्लवानां चेति सर्वदुःखानाम्| प्रवृत्तिः रागद्वेषमूला प्रवृत्तिः| निवृत्तिरिति अप्रवृत्तिः| उपरमशब्दस्तु तस्येत्यनेन तथा सर्वोपप्लवानां चेत्यनेन च सम्बध्यते| तेन दुःखानां मरणस्य चोपरमो निवृत्तिकृत एव; निवृत्तिजन्यत्वेन च कार्यकारणयोरभेदोपचारादुपरमोऽपि निवृत्तिशब्दस्य सामानाधिकरण्येनोच्यते| प्रवृत्तिर्दुःखमिति च तथा निवृत्तिः सुखमिति च कार्यकारणयोरभेदोपचाराद्बोद्धव्यम्| सत्यज्ञानस्वरूपमाह - इति यज्ज्ञानमित्यादि| इतीति पूर्वप्रत्यवमर्शकम्| एतस्मिन् सत्यज्ञाने लोकपुरुषसामान्यज्ञानस्य हेतुत्वं दर्शयन्नाह- तस्येत्यादि||८||
Adhikarana 6 (9-10) · Śloka 10
अथाग्निवेश उवाच- किम्मूला भगवन्! प्रवृत्तिः, निवृत्तौ च क उपाय इति||९||
भगवानुवाच- मोहेच्छाद्वेषकर्ममूला प्रवृत्तिः|
तज्जा ह्यहङ्कारसङ्गसंशयाभिसम्प्लवाभ्यवपातविप्रत्ययाविशेषानुपायास्तरुणमिव द्रुममतिविपुलशाखास्तरवोऽभिभूय पुरुषमवतत्यैवोत्तिष्ठन्ते; यैरभिभूतो न सत्तामतिवर्तते|
तत्रैवञ्जातिरूपवित्तवृत्तबुद्धिशीलविद्याभिजनवयोवीर्यप्रभावसम्पन्नोऽहमित्यहङ्कारः, यन्मनोवाक्कायकर्म नापवर्गाय स सङ्गः, कर्मफलमोक्षपुरुषप्रेत्यभावादयः सन्ति वा नेति संशयः, सर्वावस्थास्वनन्योऽहमहं स्रष्टा स्वभावसंसिद्धोऽहमहं शरीरेन्द्रियबुद्धिस्मृतिविशेषराशिरिति ग्रहणमभिसम्प्लवः, मम मातृपितृभ्रातृदारापत्यबन्धुमित्रभृत्यगणो गणस्य चाहमित्यभ्यवपातः, कार्याकार्यहिताहितशुभाशुभेषु विपरीताभिनिवेशो विप्रत्ययः, ज्ञाज्ञयोः प्रकृतिविकारयोः प्रवृत्तिनिवृत्त्योश्च सामान्यदर्शनमविशेषः, प्रोक्षणानशनाग्निहोत्रत्रिषवणाभ्युक्षणावाहनयाजनयजनयाचनसलिलहुताशनप्रवेशादयः समारम्भाः प्रोच्यन्ते ह्यनुपायाः|
एवमयमधीधृतिस्मृतिरहङ्काराभिनिविष्टः सक्तः ससंशयोऽभिसम्प्लुतबुद्धिरभ्यवपतितोऽन्यथादृष्टिरविशेषग्राही विमार्गगतिर्निवासवृक्षः सत्त्वशरीरदोषमूलानां सर्वदुःखानां भवति|
एवमहङ्कारादिभिर्दोषैर्भ्राम्यमाणो नातिवर्तते प्रवृत्तिं, सा च मूलमघस्य||१०||
प्रवृत्तेः संसाररूपायाः, तथा निवृत्तेर्मोक्षरूपायाः कारणमुपायं च पृच्छति- किम्मूलेत्यादि| मोहेत्याद्युत्तरम्| मोहेच्छाद्वेषकर्ममूलेति मोहान्मिथ्याज्ञानरूपादिच्छाद्वेषौ, तयोश्च धर्माधर्मरूपं कर्म, तच्च मूलं संसारस्येत्यर्थः| कथमेते मोहादयः संसारकारणमित्याह- तज्जा हीत्यादि| अत्र चाहङ्कारादौ यथायोग्यतया मोहादीनां कारणत्वं ज्ञेयम्| अहङ्कारादयश्चाष्टावग्रे वक्ष्यमाणा ज्ञेयाः| अवतत्येति व्याप्य| न सत्तामतिवर्तते इति न संसारे स्थितिमतिवर्तते| अत्राद्युक्तमहङ्कारं विवृणोति- तत्रैवमित्यादि| जात्यादिभिः प्रभावान्तैः सम्पन्न उत्कृष्टोऽहमिति ज्ञानमहङ्कारः| यदित्यादि सङ्गविवरणम्| कर्मफलादयः सन्ति न वेति यज्ज्ञानं, तत् संशयः| अभिसम्प्लवमाह- सर्वेत्यादि| आत्मनोऽभिमत अनात्मन्यभिसम्प्लवोऽभिसम्प्लवः; आत्मनोऽनात्मगोचरतया आत्मबुद्धिरित्यर्थः| सर्वावस्थास्विति सर्वासु शरीरावस्थासु षड्धातुसमुदायरूप एवानन्य इति यज्ज्ञानं तदिह ज्ञेयं; परमात्मनस्तु सर्वावस्थास्वनन्यत्वमिति यज्ज्ञानं, तत् सम्यग्ज्ञानमेव| एवमहं स्रष्टाऽहं स्वभावसंसिद्ध इत्यत्रापि शरीर एवाहङ्कारविषयो ज्ञेयः| अहं शरीरेन्द्रियबुद्धिविशेषराशिरित्यत्र शरीरादिष्वचेतनेष्वहङ्कारास्पदत्वेन चेतनत्वाभिमानो विरुद्ध इति ज्ञेयम्| ममेत्यादिना अभ्यवपातमाह; अभ्यवपातः परमार्थतोऽनात्मीये ममता| कार्येत्यादिना विप्रत्ययं ब्रूते| विपरीताभिनिवेशो विपर्ययेण ज्ञानं; यथा- कार्ये अकार्यम्, अकार्ये कार्यमित्यादि| ज्ञाज्ञयोरित्यादिनाऽविशेषमाह| अविशेषो विशेषाप्रतीतिः, विप्रत्ययस्तु विशेषाणां विपर्ययेण ग्रहणमिति भेदः| प्रोक्षणेत्यादिना अनुपायमाह| अनुपाया इति अन्योपायाः सन्तोऽपि परमपुरुषार्थे मोक्षे अनुपायाः| त्रिषवणं त्रिसन्ध्यस्नानम्| सम्प्रत्यहङ्कारादीनां धीधृतिस्मृतिविभ्रंशमूलत्वेनाधीधृतिस्मृत्यभिधानपूर्वकं संसाररूपप्रवृत्तिनित्यानुबन्धशारीरमानसदुःखकारणत्वं व्युत्पादितानामहङ्कारादीनां सङ्क्षिप्याह- एवमित्यादिना| निवासवृक्ष इव निवासवृक्षः; तेन यथा निवासवृक्षः पक्षिणां नित्यमाश्रयो भवति, एवमहङ्कारादियुक्तोऽपि रोगस्य निवासो भवतीति दर्शयति| भ्राम्यमाण इति पुनः पुनरपि शरीरान्तराणि नीयमानः| नातिवर्तते प्रवृत्तिमिति संसारं न परित्यजति| एवं मोहेच्छाजन्यकर्ममूलतां प्रवृत्तेर्दर्शयित्वा, प्रवृत्तेरपि कर्मकारणतामाह- सा च मूलमघस्येति| प्रवृत्तिरपि धर्माधर्मरूपस्याघस्य मूलम्; इह च धर्माधर्मावविशेषेण संसारदुःखकारणतया अघशब्देनोक्तौ||९-१०||
Adhikarana 7 (11-12) · Śloka 12
निवृत्तिरपवर्गः; तत् परं प्रशान्तं तत्तदक्षरं तद्ब्रह्म स मोक्षः||११||
तत्र मुमुक्षूणामुदयनानि व्याख्यास्यामः|
तत्र लोकदोषदर्शिनो मुमुक्षोरादित एवाचार्याभिगमनं, तस्योपदेशानुष्ठानम्, अग्नेरेवोपचर्या, धर्मशास्त्रानुगमनं, तदार्थावबोधः, तेनावष्टम्भः, तत्र यथोक्ताः क्रियाः, सतामुपासनम्, असतां परिवर्जनम्, असङ्गतिर्दुर्जनेन, सत्यं सर्वभूतहितमपरुषमनतिकाले परीक्ष्य वचनं, सर्वप्राणिषु चात्मनीवावेक्षा, सर्वासामस्मरणमसङ्कल्पनमप्रार्थनमनभिभाषणं च स्त्रीणां, सर्वपरिग्रहत्यागः, कौपीनं प्रच्छादनार्थं, धातुरागनिवसनं, कन्थासीवनहेतोः सूचीपिप्पलकं, शौचाधानतोर्जलकुण्डिका, दण्डधारणं, भैक्षचर्यार्थं पात्रं, प्राणधारणार्थमेककालमग्राम्यो यथोपपन्नोऽभ्यवहारः, श्रमापनयनार्थं शीर्णशुष्कपर्णतृणास्तरणोपधानं, ध्यानहेतोः कायनिबन्धनं, वनेष्वनिकेतवासः, तन्द्रानिन्द्रालस्यादिकर्मवर्जनं, इन्द्रियार्थेष्वनुरागोपतापनिग्रहः, सुप्तस्थितगतप्रेक्षिता हारविहारप्रत्यङ्गचेष्टादिकेष्वारम्भेषु स्मृतिपूर्विका प्रवृत्तिः, सत्कारस्तुतिगर्हावमानक्षमत्वं, क्षुत्पिपासायासश्रमशीतोष्णवातवर्षासुखदुःखसंस्पर्शसहत्वं, शोकदैन्यमानोद्वेगमदलोभरागेर्ष्याभयक्रोधादिभिरसञ्चलनम्, अहङ्कारादिषूपसर्गसञ्ज्ञा, लोकपुरुषयोः सर्गादिसामान्यावेक्षणं, कार्यकालात्ययभयं, योगारम्भे सततमनिर्वेदः, सत्त्वोत्साहः, अपवर्गाय धीधृतिस्मृतिबलाधानं; नियमनमिन्द्रियाणां चेतसि, चेतस आत्मनि, आत्मनश्च; धातुभेदेन शरीरावयवसङ्ख्यानमभीक्ष्णं, सर्वं कारणवद्दुःखमस्वमनित्यमित्यभ्युपगमः, सर्वप्रवृत्तिष्वघसञ्ज्ञा , सर्वसन्न्यासे सुखमित्यभिनिवेशः; एष मार्गोऽपवर्गाय, अतोऽन्यथा बध्यते; इत्युदयनानि व्याख्यातानि||१२||
सम्प्रति निवृत्तावुपायं वक्तुं निवृत्तिमेव तावदुपादेयताप्रतिपादकपर्यायैराह- निवृत्तिरित्यादि| ‘उत्’ इत्यव्ययं मोक्ष इत्यर्थे; उदयनानि हि मोक्षोपाया इत्यर्थः| लोकदोषदर्शिन इति हेतुगर्भं विशेषणं; तेन नित्यं दुःखाक्रान्तलोकदर्शनाद्विरक्तस्य सत इति दर्शयति| आचार्य इह मोक्षशास्त्रोपदेष्टा| तेनावष्टम्भ इति शात्रावबोधेन धैर्यं करणीयं, मनागपि तत्र कथन्ता न कर्तव्येत्यर्थः| यथोक्ताः क्रियाः ‘कर्तव्याः’ इति शेषः| आत्मनीवावेक्षेति यथा आत्मन्यनपकार्यताबुद्धिस्तथा सर्वप्राणिषु कर्तव्या| असङ्कल्पनमिति अभावनम्| कौपीनं प्रच्छादनार्थमिति कटिवेष्टनार्थं; किंवा कौपीनार्थं प्रच्छादनार्थं च| सूचीपिप्पलकं सूचीस्थापनपात्रम्| भैक्षचर्यार्थं पात्रं भिक्षापात्रमित्यर्थः| प्राणयात्रार्थमित्यनेन यावन्मात्रेणाहारेण प्राणयात्रा भवति तावन्मात्र आहारः कर्तव्यः, न तु रागादिति दर्शयति| एवं श्रमापनयनार्थमित्यादावपि तावन्मात्रप्रयोजनता व्याख्येया| कायनिबन्धनं योगपट्टम्| अनिकेतवास इति अगृहवासः, एतेन वनेऽपि न गृहं कृत्वा स्थातव्यमिति दर्शयति| इन्द्रियार्थेषु शब्दादिषु अनुरागस्य तथोपतापस्य च द्वेषरूपस्य निग्रहः कर्तव्यः| स्मृतिपूर्विका प्रवृत्तिरिति कोऽहं, किमर्थं रागत्यागादिकमारभ्यते, इत्यादि सर्वदा स्मर्तव्यमित्यर्थः| सत्कारः पूजा, सत्कारे स्तुतौ च सत्यामहृष्टत्वं, तथा गर्हायामवमाने च निर्द्वेषत्वं सत्कारादिक्षमित्वं ज्ञेयम्| क्षुधादिषु चानुद्वेगः क्षुधादिसहत्वम्| असंवसनम् असंवासः| अहङ्कारादयोऽष्टाविहैवोक्ताः| उपसर्गसञ्ज्ञेति अनर्थहेतुत्वभावना| लोकपुरुषयोः सर्गादिसामान्यावेक्षणामिति यथा इहैव लोकपुरुषयोरादिसर्गतः प्रभृति सामान्यमुक्तं, तथाऽवेक्षणमित्यर्थः| कार्यकालात्ययभयमिति मोक्षानुगुणकर्तव्यस्य कालातिपातभयं करणीयम्| नियमनमिन्द्रियाणां चेतसीति इन्द्रियाणि बाह्मविषयनिवृत्तानि मनस्येव नियतानि कर्तव्यानि; चेतसश्चिन्त्यादिविषयेभ्यो व्यावृत्तस्य परमात्मन्यात्मज्ञानार्थं नियमनं कर्तव्यम्; आत्मनश्चात्मनि नियमनमिति योजना| तेन, आत्माऽपीन्द्रियादिविषयेभ्यो व्यावर्त्यात्मनि नियन्तव्यः| धातुभेदेन शरीरावयवसङ्ख्यानमिति शरीरस्य रसमलस्नाय्वादिरूपतया ज्ञानम्| शरीरं हि रसमलस्नाय्वादिरूपतया भाव्यमानं वैराग्यहेतुर्भवति; यथा- “मज्जाऽस्थ्ना रजसा प्लीह्ना यकृता शकृताऽपि च| पूर्णाः स्नायुसिराभिश्च स्त्रियश्चर्मप्रसेविकाः” इत्यादिका वैराग्यभावना| कारणवदित्यनेन नित्यात्मव्यतिरिक्तं सर्वमनित्यं दर्शयति| दुःखमिति दुःखहेतुः| अस्वमिति आत्मव्यतिरिक्तमनात्मीयं च| सर्वसन्न्यासे सर्वप्रवृत्त्युपरमे||११-१२||
Adhikarana 8 (13-15) · Śloka 15
भवन्ति चात्र- एतैरविमलं सत्त्वं शुद्ध्युपायैर्विशुध्यति|
मृज्यमान इवादर्शस्तैलचेलकचादिभिः||१३||
ग्रहाम्बुदरजोधूमनीहारैरसमावृतम्|
यथाऽर्कमण्डलं भाति भाति सत्त्वं तथाऽमलम्||१४||
ज्वलत्यात्मनि संरुद्धं तत् सत्त्वं संवृतायने|
शुद्धः स्थिरः प्रसन्नार्चिर्दीपो दीपाशये यथा||१५||
अविमलमिति क्रियाविशेषणम्| ग्रहः राहुः| सत्त्वस्य पञ्चैवेन्द्रियाणि ज्ञानावरकाणि भवन्तीति कृत्वा सूर्यस्यापि पञ्चैव ग्रहादयश्चावरका उक्ताः| ज्वलतीति केवलात्मज्ञानजनकत्वेन प्रकाशते| आत्मनि संरुद्धमिति इन्द्रियेभ्यो व्यावृत्यात्मनियतम्| संवृतायन इति आत्मपक्षेऽपि संवृतेन्द्रियरूपच्छिद्रे आत्मनीति ज्ञेयम्| दीपाशयः दीपधारिका, गृहं वा||१३-१५||
Adhikarana 9 (16-19) · Śloka 19
शुद्धसत्त्वस्य या शुद्धा सत्या बुद्धिः प्रवर्तते|
यया भिनत्त्यतिबलं महामोहमयं तमः||१६||
सर्वभावस्वभावज्ञो यया भवति निःस्पृहः|
योगं यया साधयते साङ्ख्यः सम्पद्यते यया||१७||
यया नोपैत्यहङ्कारं नोपास्ते कारणं यया|
यया नालम्बते किञ्चित् सर्वं सन्न्यस्यते यया||१८||
याति ब्रह्म यया नित्यमजरं शान्तमव्ययम् |
विद्या सिद्धिर्मतिर्मेधा प्रज्ञा ज्ञानं च सा मता||१९||
शुद्धसत्त्वमभिधाय तज्जन्यां मोक्षसाधनत्वेनात्यर्थोपादेयां सत्यां बुद्धिं विविधैरुपयुक्तैः स्वरूपैराह- शुद्धेत्यादि| महामोहः अनादिमिथ्याज्ञानम्| निःस्पृह इति उपादित्साजिहासाशून्यः| योगमिति विषयव्यावृत्तस्य मनस आत्मन्येव परं योगम्| सङ्ख्या तत्त्वज्ञानं, तया वर्तत इति साङ्ख्यः| नोपास्ते कारणमिति न सुखदुःखकारणं सेवते| नालम्बते किञ्चिदिति क्वचिदप्यास्थानं न करोति| सन्न्यस्यत इति सर्वत्रोदासीनो भवति| ब्रह्मेति मोक्षम्| विद्यासिद्ध्यादयश्च यद्यपि ज्ञानविशेषेऽपि प्रसिद्धाः, तथाऽपीह प्रकरणात् तत्त्वज्ञानपरा एव ज्ञेयाः||१६-१९||
Adhikarana 10 (20) · Śloka 20
लोके विततमात्मानं लोकं चात्मनि पश्यतः|
परावरदृशः शान्तिर्ज्ञानमूला न नश्यति||२०||
लोके विततमात्मानमिति लोकरूपमात्मानं, तथा लोकं चात्मनि शरिरात्ममेलकरूपे पश्यतः, ‘व्यवस्थितं’ इति शेषः| परावरदृश इति परम् आत्मानम्, अवराणि आत्मव्यतिरिक्तानि प्रवृत्यादीनि, यः पश्यति तस्य परावरदृशः| ज्ञानमूलेत्यनेन मोहमूलामस्थिरां शान्तिं निरस्यति||२०||
Adhikarana 11 (21) · Śloka 21
पश्यतः सर्वभावान् हि सर्वावस्थासु सर्वदा|
ब्रह्मभूतस्य संयोगो न शुद्धस्योपपद्यते||२१||
अथ जीवन्मुक्तस्य किमिति सुखदुःखहेतुधर्माधर्मसंयोगो न भवतीत्याह- पश्यत इत्यादि| पश्यति इति पश्यत एव परं, न तु रज्यतो नापि द्विषत इत्यर्थः| ब्रह्मभूतस्येति ब्रह्मसदृशस्य जीवन्मुक्तस्येति व्याख्येयं; सर्वथा मुक्ते हि ज्ञानमपि नास्ति, तेन पश्यत इति न स्यात्| संयोग इति धर्माधर्मसम्बन्धः||२१||
Adhikarana 12 (22) · Śloka 22
नात्मनः करणाभावाल्लिङ्गमप्युपलभ्यते|
स सर्वकरणायोगान्मुक्त इत्यभिधीयते||२२||
अथ मुक्तात्मनः किं लक्षणमित्याह- नेत्यादि| आत्मन इति मुक्तात्मनः| करणाभावादिति मनःप्रभृतिकरणाभावात्| उक्तं हि- “करणानि मनोबुद्धिर्बुद्धिकर्मेन्द्रियाणि च” (शा.अ.१) इति, मनःप्रभृत्यभावाच्च शरीराभावोऽप्यर्थलब्ध एव; सर्वाभावाच्चात्मनि किमपि लक्षणं नास्ति, स्वरूपेण चात्माऽतीन्द्रिय एव; तेन आत्मा उपलब्धियोग्यताभावान्नोपलभ्यते, तल्लिङ्गान्यप्यभावादेव नोपलभ्यन्त इति भावः||२२||
Adhikarana 13 (23-24) · Śloka 24
विपापं विरजः शान्तं परमक्षरमव्ययम्|
अमृतं ब्रह्म निर्वाणं पर्यायैः शान्तिरुच्यते||२३||
एतत्तत् सौम्य! विज्ञानं यज्ज्ञात्वा मुक्तसंशयाः|
मुनयः प्रशमं जग्मुर्वीतमोहरजःस्पृहाः||२४||
विपापमित्यादिना मोक्षस्वरूपप्रकाशकान् पर्यायानाह| यज्ज्ञात्वेति ज्ञानं प्राप्येत्यर्थः; किंवा, स्वप्रकाशकत्वाज्ज्ञानस्य ज्ञानमपि ज्ञेयं भवतीति बोद्धव्यम्||२३-२४||
Adhikarana 14 (25-26) · Śloka 26
तत्र श्लोकौ- सप्रयोजनमुद्दिष्टं लोकस्य पुरुषस्य च|
सामान्यं मूलमुत्पत्तौ निवृत्तौ मार्ग एव च||२५||
शुद्धसत्त्वसमाधानं सत्या बुद्धिश्च नैष्ठिकी|
विचये पुरुषस्योक्ता निष्ठा च परमर्षिणा||२६||
सङ्ग्रहे शुद्धसत्त्वसमाधानमित्यनेन ‘एतैरविमलं’ इत्यादिना ‘दीपाशये यथा’ इत्यन्तेन ग्रन्थेनोक्तार्थः सङ्गृहीतः| ‘शुद्धसत्त्वस्य’ इत्यादिना सत्या बुद्धिरुक्ता| नैष्ठिकीति सत्याबुद्धेरेव विशेषणं; नैष्ठिकी मोक्षसाधिका; निष्ठा मोक्षः||२५-२६||
Adhikarana puShpikA · Śloka 5
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने पुरुषविचयशारीरं नाम पञ्चमोऽध्यायः||५||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां शारीरस्थाने पुरुषविचयशारीरं नाम पञ्चमोऽध्यायः||५||