Adhikarana 1 (1-2) · Śloka 2
अथातः कल्पनासिद्धिं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
कल्पस्थानानन्तरं पारिशेष्यादेव सिद्धिस्थानमभिधीयते| सिद्धेरभिधायकं स्थानं सिद्धिस्थानम्| सिद्धिशब्देन चेह वमनादीनां वमनाद्यसम्यग्योगजन्यानां व्यापदां भेषजस्य साध्यतारूपा सिद्धिरुच्यते, एवम्भूतसिद्धिकारणाभिधायकतया चैतत् सिद्धिस्थानमुच्यते; किंवा कार्यकारणयोरभेदोपचारात् सिद्धिशब्देनेह सिद्धिकारणान्येव वमनादीन्युच्यन्ते, उक्तं हि “सम्यक्प्रयोगं चैव कर्मणां व्यापन्नानां च व्यापत्साधनानि सिद्धिषूपदेक्ष्यामः” (सू.अ.४) इति| न चैवं सिद्धिस्थानसञ्ज्ञाव्युत्पत्त्या चिकित्सास्थानादीनामपि सिद्धिस्थानसञ्ज्ञाप्रसक्तिरुद्भावनीया, यत इयं सञ्ज्ञाऽत्रैव योगरूढ्या वर्तते नान्यत्र||१-२||
Adhikarana 2 (3-5) · Śloka 6
का कल्पना पञ्चसु कर्मसूक्ता, क्रमश्च कः, किं च कृताकृतेषु|
लिड्गं तथैवातिकृतेषु, सङ्ख्या का, किङ्गुणः, केषु च कश्च बस्तिः||३||
किं वर्जनीयं प्रतिकर्मकाले, कृते कियान् वा परिहारकालः|
प्रणीयमानश्च न याति केन, केनैति शीघ्रं, सुचिराच्च बस्तिः||४||
साध्या गदाः स्वैः शमनैश्च केचित् कस्मात् प्रयुक्तैर्न शमं व्रजन्ति|
प्रचोदितः शिष्यवरेण सम्यगित्यग्निवेशेन भिषग्वरिष्ठः||५||
पुनर्वसुस्तन्त्रविदाह तस्मै सर्वप्रजानां हितकाम्ययेदम्|६|
सिद्धिस्थानाभिधानेऽपि सकलसिद्धिस्थानापेक्षणीयपञ्चकर्मकल्पनाद्यभिधायकतया प्राधान्यादादौ कल्पनासिद्धिरेवोच्यते| अत्र ‘का कल्पना’ इत्यादीन् शिष्यस्य द्वादशप्रश्नानभिनिवेश्य तान् यथाक्रमं व्याचष्टे प्रश्नानुगुणगुरुबुद्धिप्रकाशार्थम्| यदुक्तं भरद्वाजेन- “अप्रदुष्टेन भावेन प्रसन्नेनान्तरात्मना| शिष्येण सम्यक् पृष्टस्य गुरोर्बुद्धिः प्रकाशते” इति| अत्र ‘का कल्पना पञ्चसु कर्मसूक्ता’ इति प्रथमः प्रश्नः, ‘क्रमश्च कः’ इति द्वितीयः, ‘किञ्च कृताकृतेषु लिङ्गं तथैवातिकृतेषु’ इति तृतीयः, ‘सङ्ख्या का’ इति चतुर्थः, ‘किङ्गुणो बस्तिः’ इति पञ्चमः, ‘केषु च कश्च बस्तिः’ इति षष्ठः, ‘किं वर्जनीयं प्रतिकर्मकाले’ इति सप्तमः, ‘कृते कियान् वा परिहारकालः’ इत्यष्टमः, ‘प्रणीयमानश्च न याति केन बस्तिः’ इति नवमः, ‘केनैति शीघ्रं’ इति दशमः, ‘सुचिराच्च केनैति’ इत्येकादशः, ‘साध्याः’ इत्यादिको द्वादशः| साध्या इत्यादिप्रश्नस्य यद्यप्यवकाशो नास्ति, यतो हि नासाध्या गदाः प्रोक्तेन यथास्वं क्रियमाणेन भेषजेन प्रशाम्यन्ति, तथाऽप्यसम्यग्भेषजे एव यथास्वं भेषजाभिधानादयं प्रश्नोबोद्धव्यः||३-५||-
Adhikarana 3 (6) · Śloka 7
त्र्यहावरं सप्तदिनं परं तु स्निग्धो नरः स्वेदयितव्य उक्तः ||६||
नातः परं स्नेहनमादिशन्ति सात्म्यीभवेत् सप्तदिनात् परं तु|७|
कल्पनाशब्देनेह पञ्चकर्माङ्गकल्पनोच्यते, तेन पञ्चकर्माङ्गस्नेहस्वेदप्रयोगमेव प्रागाह| त्र्यहावरमित्यादि प्रथमप्रश्नस्योत्तरम्| त्र्यहावरमिति त्र्यहेण त्र्यहं वा व्याप्य क्रियमाणस्नेहनेन अवरं यथा भवतीति त्र्यहावरं स्निग्धः| सप्तदिनमिति सप्तदिनं व्याप्य स्निग्धः| परमिति स्नेहप्रकर्षकालावधिना सप्तदिनं व्याप्य स्निग्धः| ततश्च कालोत्कर्षात् क्रियमाणशोधनाङ्गस्नेहनपक्षे सप्तदिनं यावत् स्निग्धः, कालाप्रकर्षपक्षे तु त्र्यहं स्निग्धः संस्वेदयितव्य इत्यर्थः| उक्तसप्तदिनस्नेहनकालानतिक्रमं सोपपत्तिकमाह- नातः परमित्यादि| अतः परमिति सप्तदिनात् परम्| कुतो नादिशन्तीत्याह- सात्म्यीभवेदित्यादि| सप्तदिनात् परेण क्रियमाणस्नेहः सप्तरात्रप्रयोगेण सात्म्यीभूतत्वान्न स्नेहनमधिकं शरीरे करोतीत्यर्थः; तेन यावन्मात्रस्नेहप्रयोगेण सप्तदिनोपयुक्तेन स्नेहनं वृतं, सा मात्रा सात्म्यीभूतैव; अधिकमात्रा या सात्म्यतां न गता सा सप्तरात्रात् परेणापि कर्तव्यैव; वेद्यास्तु सप्तरात्रादस्निग्धे पुरुषे किञ्चिद्विश्रामं कृत्वा पुनरधिकमात्रया स्नेहं प्रयुञ्जते| एतच्च त्र्यहस्नेहनं सप्तरात्रस्नेहनं च मृदुक्रूरकोष्ठविषयभेदेन| यदुक्तं- “मृदुकोष्ठस्त्रिरात्रेण स्निह्यत्यच्छोपसेवया| स्निह्यति क्रूरकोष्ठस्तु सप्तरात्रेण मानवः” (सू.अ.१३) इति| ननु यदि क्रूरकोष्ठस्तु सप्तरात्रेण स्निह्यतीति व्यवस्था, तत् कथमिह ‘नातः परं स्नेहनमादिशन्ति’ इत्यनेन सप्तरात्रेणाप्यस्नेहनमुच्यते; ब्रूमः- सत्यं, क्रूरकोष्ठः सप्तरात्रेणैव स्निह्यति, परं क्रूरकोष्ठतामपेक्ष्य कृतया स्नेहमात्रया स्निह्यति, यदा तु हीनमात्रा प्रयुज्यते, तदा सप्तरात्रेणापि न स्निह्यति| यत्तु तन्त्रान्तरे- “त्रिषट्कनवरात्रेण स्नेहपानं विधीयते” इत्यनेन सप्तरात्रादूर्ध्वमपि स्नेहनं विहितं, तदाचार्यानभिमतमेव; किंवा, सप्तरात्रादूर्ध्वमसात्म्यीभूताधिकमात्राप्रयोगाभिप्रायेण तद्वर्णनीयम्| अत्र च सप्तरात्रादूर्ध्वं स्नेहप्रयोगस्य निषेधात्, त्र्यहादर्वाक् प्रयोगस्य वा निषेधात्, सद्यः स्नेहप्रयोगेणैकदिनेनापि स्नेहनमनुजानीत इति ब्रुवते| मध्यकोष्ठान्तरं प्रति स्नेहनप्रकर्षकालो यद्यपि नोक्तः, तथाऽपि मध्यविधया पञ्चदिनेन मध्यकोष्ठस्य स्नेहनं ज्ञेयम्| यत्तु कैश्चित् ‘मृदुकोष्ठं प्रति त्र्यहादूर्ध्वं न स्नेहनं कर्तव्यं सात्म्यीभावादिति चार्थो लभ्यते’ इति व्याख्यायते, तन्न नः प्रीणाति; यतः सात्म्यीभावः सप्तदिननिर्वर्त्यतयैवाचार्येणोक्तः , तेनात्यल्पमात्राप्रयुक्तेन स्नेहेन त्र्यहाद्यदि न स्निह्यति मृदुकोष्ठस्तदाऽधिकदिनान्यपि तत्र स्नेहः कर्तव्यः||६||-
Adhikarana 4 (7) · Śloka 7
स्नेहोऽनिलं हन्ति मृदूकरोति देहं मलानां विनिहन्ति सङ्गम्||७||
संशोधनाङ्गस्नेहफलमाह- स्नेहोऽनिलं हन्तीत्यादि||७||
Adhikarana 5 (8) · Śloka 8
स्निग्धस्य सूक्ष्मेष्वयनेषु लीनं स्वेदस्तु दोषं नयति द्रवत्वम्|८|
स्नेहपूर्वकस्वेदफलमाह- स्निग्धस्येत्यादि| सूक्ष्मेष्विति सूक्ष्मेष्वपि|८|
Adhikarana 6 (8) · Śloka 9
ग्राम्यौदकानूपरसैः समांसैरुत्क्लेशनीयः पयसा च वम्यः||८||
रसैस्तथा जाङ्गलजैः सयूषैः स्निग्धैः कफावृद्धिकरैर्विरेच्यः|९|
सम्प्रति स्निग्धस्य वामनीयस्य वमनानुगुणं विरेचनीयस्य च विरेचनानुगुणं भोजनं पृथगाह- ग्राम्यौदकेत्यादि| रसैस्तथेत्यादिना विरेचनीयस्याहारविधानम्| अत्र च उत्क्लेशनीय इति यदा सम्बन्धो भवेत्तदा उत्क्लेशनं पित्तस्यैव ज्ञेयं; किंवा ‘उत्क्लेशनीयः’ इति नानुवर्तत एव, तेन कफावृद्धिकरै रसैर्यूषैश्च ‘भोजनीय’ इति शेषः| एतद्विरेचनार्थं प्रतिभोजनं त्र्यहं ज्ञेयं, वमनार्थं तु प्रतिभोजनमेकाहमेव; उक्तं हि ‘स्नेहात् प्रस्कन्दनं जन्तुस्त्रिरात्रोपरतः पिबेत्| स्नेहवद्द्रवमुष्णं च त्र्यहं भुक्त्वा रसौदनम्| एकाहोपरतस्तद्वद्भुक्त्वा प्रच्छर्दनं पिबेत्” (सू.अ.१३) इति||८||-
Adhikarana 7 (9) · Śloka 10
श्लेष्मोत्तरश्छर्दयति ह्यदुःखं विरिच्यते मन्दकफस्तु सम्यक्||९||
अधः कफेऽल्पे वमनं विरेचयेद्विरेचनं वृद्धकफे तथोर्ध्वम्|१०|
वामनीयस्य श्लेष्मोत्तरत्वे कर्तव्ये विरेचनीयस्य चाल्पकफत्वे सम्पाद्ये उपपत्तिमाह- श्लेष्मोत्तर इत्यादि| उक्तविपर्यये हेतुमाह- अध इत्यादि| कफेऽल्पे सति वमनं पीतं वमनमकृत्वैवाधो याति; वृद्धे कफे तु विरेचनं प्रयुक्तमूर्ध्वं याति, वमनाय सम्पद्यत इत्यर्थः||९||-
Adhikarana 8 (10) · Śloka 11
स्निग्धाय देयं वमनं यथोक्तं वान्तस्य पेयादिरनुक्रमश्च||१०||
स्निग्धस्य सुस्विन्नतनोर्यथावद्विरेचनं योग्यतमं प्रयोज्यम् |११|
सम्प्रति क्रमश्च क इति प्रश्नस्योत्तरमाह- स्निग्धाय देयं वमनमिति; वमनपानदिनेऽभ्यङ्गेन स्निग्धाय वमनं देयमित्यर्थः, पानजनितस्नेहस्तु पूर्वमेवोक्तत्वान्न पुनरभिधानमर्हति, अन्ये तु ‘उपजातस्नेहगुणाय ’ इति वदन्ति| यथोक्तमिति मदनकल्पोक्तविधिना देयम्| वमनानन्तरं कर्तव्यमाह- वान्तस्येत्यादि| पेयादिः “पेयां विलेपी” इत्यादिना वक्ष्यमाणः| वमनक्रममभिधाय विरेचनक्रममाह- स्निग्धस्येत्यादि| सुस्विन्नतनोरिति सम्यक्स्विन्नदेहस्य| अयं च विरेचनाङ्गः स्नेहस्वेदक्रमो वमनानन्तरभाविविरेचनेऽपि पेयादिक्रमोत्तरकालं कर्तव्यः; यदुक्तं- ‘विलेप्याः क्रमागतं चैनं पुनरेव स्नेहस्वेदाभ्यामुपपाद्य विरेचयेत्’ इति| स्नेहानन्तरं च यत्त्र्यहं विरेचनार्थं प्रतिभोजनं, तदुपक्रमाभिधानानुषङ्गप्रतिपादितमेवेति न पुनरिह प्रतिपाद्यते| यथावदिति कल्पस्थनोक्तविधिना| योग्यतममिति शरीरदोषाद्यपेक्षया यद्विरेचनं यौगिकं भवति तद्देयम्||१०||-
Adhikarana 9 (11) · Śloka 12
पेयां विलेपीमकृतं कृतं च यूषं रसं त्रिर्द्विरथैकशश्च||११||
क्रमेण सेवेत विशुद्धकायः प्रधानमध्यावरशुद्धिशुद्धः|१२|
वमनविरेचनोत्तरभाविपेयादिक्रममाह- पेयां विलेपीमित्यादि| यवागूः बहुसिक्था| विलेपी विरलद्रवा| उक्तं हि- ‘सिक्थकै रहितो मण्डः, पेया सिक्थसमन्विता| यवागूर्बहुसिक्था स्याद्विलेपी विरलद्रवा’ इति| अत्र अकृतयूषः स्नेहलवणाद्यसंस्कृतः, कृतयूषः स्नेहलवणादिसंस्कृतः; एवं रसेऽपि कृताकृतव्यवस्था| यदुक्तं सूदशास्त्रे ‘अस्नेहलवणं सर्वमकृतं कटुकैर्विना| विज्ञेयं लवणस्नेहकटुकैः संस्कृतं कृतम्” इति| त्रिरिति अन्नकालत्रयं व्याप्य, द्विरिति अन्नकालद्वयम्, एकश इति एकान्नकालम्; एतच्च त्रिरित्यादि प्रत्येकं पेयादिभिः सम्बध्यते| एतच्च त्रिरित्यादि पक्षत्रयं प्रधानशुद्धिशुद्धाद्यपेक्षया यथाक्रमं ज्ञेयम्| तेन, प्रधानशुद्धिशुद्धे प्रत्येकं त्रिः पेयादि कर्तव्यं, तेनान्नकालत्रये पेया, ततः परेणान्नकालत्रये विलेपी, ततः परेणान्नकालत्रये कृताकृतयूषसहितमन्नं , ततोऽपि च परेण कृताकृतरसेनान्नमन्नकालत्रये देयम्; एवं द्वादशभिरन्नकालैर्वमनदिनसायाह्नात् प्रभृति सप्तरात्रेण पेयादिक्रमः | अयमेव क्रम उपकल्पनीयेऽपि- “ततः सायाह्ने लोहितशालितण्डुलानां” इत्यादिना, यावत् “द्वादशे चान्नकाले” (सू.अ.१५) इत्यनेनोक्तः | अत्र यूषरसयोस्तु यद्यपि कालविभागो न प्रतिपादितस्तथाऽपि यूषकालत्रये रसकालत्रये च प्रथममकृतस्य उत्तरकाले च कृतस्य यूषस्य, एवं रसस्यापि कालविभागः कथनीयः| एवं द्विःपेयादिक्रमस्तथा एकशश्च पेयादिक्रमो वर्णनीय इति| एककाले तु पेयादिक्रमे यद्यपि कृताकृतयूषरसयोः कालविभागो न प्राप्यते, तथाऽप्येकस्मिन्नेव काले स्तोकसंस्कारेण यूषरसयोस्तत्र कृताकृतत्वं ज्ञेयम्| प्रधानशुद्धे भूरिदोषगमनक्षोभादग्निमान्द्यं सम्भवति, तेन तत्र पेयादिक्रमश्चिरं क्रियत इति ज्ञेयम्| प्रधानशुद्ध्यादिलक्षणं चाग्रे वक्ष्यमाणम्||११||-
Adhikarana 10 (12) · Śloka 13
यथाऽणुरग्निस्तृणगोमयाद्यैः सन्धुक्ष्यमाणो भवति क्रमेण||१२||
महान् स्थिरः सर्वपचस्तथैव शुद्धस्य पेयादिभिरन्तरग्निः|१३|
पेयादिक्रमस्य विशोधनमन्दीकृताग्नेर्दीपकत्वं दृष्टान्तेन दर्शयन्नाह- यथेत्यादि||१२||-
Adhikarana 11 (13-14) · Śloka 15
जघन्यमध्यप्रवरे तु वेगाश्चत्वार इष्टा वमने षडष्टौ||१३||
दशैव ते द्वित्रिगुणा विरेके प्रस्थस्तथा द्वित्रिचतुर्गुणश्च|
पित्तान्तमिष्टं वमनं विरेकादर्धं कफान्तं च विरेकमाहुः||१४||
द्वित्रान् सविट्कानपनीय वेगान्मेयं विरेके वमने तु पीतम्|१५|
प्रधानशुद्ध्यादिलक्षणं प्राह- जघन्येत्यादि| चतुर्भिर्वेगैर्यच्छोधनं वमनं तज्जघन्यं, यत्तु षड्भिस्तन्मध्यमं, यत्त्वष्टभिस्तत् प्रवरम्| विरेके जघन्ये दश, मध्ये तु विरेचने द्विगुणा दशविंशतिरित्यर्थः, प्रवरे तु विरेचने त्रिगुणा दश त्रिंशदित्यर्थः| वेगसङ्ख्याविभेदेन जघन्यादिभेदमभिधाय दोषमानभेदेनापि विरेचनस्य जघन्यमध्यप्रवरतां यथाक्रममाह- प्रस्थस्तथेत्यादि| द्विगुणः प्रस्थो जघन्ये विरेचने, त्रिगुणश्च मध्यमे, चतुर्गुणस्तु प्रवरे| अत्र च प्रस्थशब्देन सार्धत्रयोदशपलान्युच्यन्ते; उक्तं हि तन्त्रान्तरे “वमने च विरेके च तथा शोणितमोक्षणे| सार्धत्रयोदशपलं प्रस्थमाहुर्मनीषिणः” इति| पित्तान्तमिष्टं वमनं विरेकादर्धमिति विरेके यन्मानं जघन्यमध्यप्रवरविभागे प्रोक्तं यथाक्रमं तथा वमनेऽपि जघन्यमध्यप्रवरविभागे तदर्धं ज्ञेयं, परं तु यत् पित्तान्तत्वं वमनस्य, कफान्तत्वं विरेकस्य, तत् त्रिविधशुद्धावर्थागतं ज्ञेयम्| यदा चतुर्भिर्वेगैः प्रस्थमाने दोषे गते पित्तान्तत्वं सम्यग्वमनशुद्धिजलक्षणमुपलभ्यते तदा जघन्या शुद्धिः, यदा च विरेके दशभिर्वेगेर्द्विप्रस्थमानदोषगमने कफान्तत्वं विरेचनसम्यग्योगलक्षणमुपलभ्यते तदा विरेचनस्य जघन्या शुद्धिर्भवति; एवं मध्यप्रवरशुद्धावपि वमने पित्तान्तत्वं, विरेचने कफान्तत्वं, सम्यग्योगलक्षणं ज्ञेयम्| वेगसङ्ख्यादोषमानाभिधानानन्तरं सम्यक्शुद्धिलैङ्गिकशुद्धेः पित्तान्तत्वादिलक्षणप्रतिपादनार्थमिहाभिधानं, तेन यदुच्यते आन्तिकी, वैगिकी, मानिकी, लैङ्गिकी चेति चतुर्विधा शुद्धिरिहोच्यते वमनविरेचनयोः, तदस्माकमसम्मतमेव; किन्तु लैङ्गिकी चैका शुद्धिः| तत्र च पित्तान्तत्वं तथा ‘क्रमात्कफः’ इत्यादिग्रन्थवक्ष्यमाणं च लिङ्गं वमने, विरेचने च कफान्तत्वं तथा ‘स्रोतोविशुद्धीन्द्रिय’ इत्यादिग्रन्थवक्ष्यमाणं च लिङ्गं ज्ञेयम्| तेन यदत्र आषाढवर्मणा “सम्यग्विशुद्धिलिङ्गं लक्षणतोऽथ मानाच्च वेगाच्च दोषागमनाच्चोक्तं, किमिदं व्यस्तं समस्तं वा” इत्यादिनाऽऽक्षिप्तं, तदनभ्युपगमनिरस्तमेव| अन्येषां त्वत्र परिहारा विस्तरभयान्न लिखिताः| जघन्यादिशुद्धित्रैविध्यं चात्र जघन्यमध्योत्कृष्टदोषविषयतया व्यवस्थापनीयम्| जघन्यादिशुद्धिलक्षणेऽपि यद्वेगेन जघन्यादिशुद्धिलक्षणाभिधानं, तत् प्रायोभावितया ज्ञेयम्| दोषमानभेदेन जघन्यादिमानभेदः पारमार्थिकः; तेन यत्र वमनेऽष्टाभिर्वेगैर्द्विप्रस्थदोषस्रुतिर्भवति तत्र प्रवरैव शुद्धिः, यत्र वमने षड्भिरेव वेगैः सार्धप्रस्थदोषस्रुतिर्भवति तत्र मध्यैव शुद्धि;, यत्र च चतुर्भिरपि वेगैरेकप्रस्थदोषस्रुतिस्तत्र जघन्यशुद्धिरेव; एवं विरेचनेष्वप्युदाहार्यम्| पित्तप्रवृत्तिरन्ते यस्मिन् तत् पित्तान्तम्, एवं कफान्तमपि व्याख्येयम्| तेन ‘क्रमात् कफः पित्तमथानिलश्च’ इत्यनेन यत् सम्यग्वमनलक्षणं वक्तव्यं, तथा ‘प्राप्तिश्च विट्पित्तकफानिलानां’ इत्यनेन च सम्यग्विरेचनलक्षणं यद्वक्तव्यं, तदनेन सहाविरुद्धं भवति| तत्र च यदनिलागमनमन्ते वक्तव्यं तत् पित्तान्तस्य कफान्तस्य च सूचकतया ज्ञेयं, निःशेषकृते ह्याशयगते पित्ते कफे च वायुः केवलः सरति; तेन च केवलवायुसरणेन पित्तान्तता कफान्तता च ज्ञायते| ननु यदि ‘क्रमात् कफः” इत्यादिनैव ग्रन्थेनायमर्थोऽभिहितस्तत् कथमिह पित्तान्तं च वमनं, कफान्तं च विरेकमाहुरिति कृतं? बूमः- वेगसङ्ख्यादोषमानभेदप्रतिपाद्यमानजघन्यादिशुद्धित्रये पित्तान्तत्वाद्यनुगतिप्रतिपादनार्थमिहाभिधानम्; एवं तद्वमनविरेचनसम्यग्योगलक्षणानभिधाने हि शिष्यस्य प्रबलदोषेऽपि पुरुषेऽयोगशुद्धावेव जघन्यशुद्धिगतवेगमानोदये सति अथ पित्तान्तत्वाद्यनुदये जघन्यशुद्धिभ्रमः स्यात् एवम्न्यदप्युदाहार्यम्| वमने च विरेके च यथा दोषमापनं कर्तव्यं तदाह- द्वित्रानित्यादि| द्वित्रानित्यव्यवस्थितभाषणेन मलभागस्यामेयतां दर्शयति; वमने तु पीतमिति वमने पीतमौषधं वर्जयित्वा शेषो मेयः||१३-१४||-
Adhikarana 12 (15) · Śloka 16
क्रमात् कफः पित्तमथानिलश्च यस्यैति सम्यग्वमितः स इष्टः||१५||
हृत्पार्श्वमूर्धेन्द्रियमार्गशुद्धौ तथा लघुत्वेऽपि च लक्ष्यमाणे|१६|
सम्प्रति ‘किं च कृताकृतेषु’ इत्यादिप्रश्नस्योत्तरं यथाक्रममाह- क्रमादित्यादि| क्रमादित्यनेन वचनेन यथोक्तक्रमलङ्घनेन कफाद्यागमनं न सम्यग्योगलक्षणमिति दर्शयति; यतः कफादूर्ध्वं गतं यदा पित्तं भवति तदा तु पित्तागमनेऽपि सति न शुद्धिः, किन्तु यदैवामाशयाधोभागगतं पित्तं वमनमानयति तदैव शुद्धिः, तत् पित्तानयनं च कफानयनानन्तरमेव भवति; एवं सम्यक्कृतविरेचनलक्षणेऽपि क्रमादितिपदस्यार्थोऽत्र व्याख्येयः||१५||-
Adhikarana 13 (16) · Śloka 16
दुश्छर्दिते स्फोटककोठकण्डूहृत्खाविशुद्धिर्गुरुगात्रतां च||१६||
दुश्छर्दिते इत्याद्ययोगकृतवमनलक्षणम्||१६||
Adhikarana 14 (17) · Śloka 17
तृण्मोहमूर्च्छानिलकोपनिद्राबलादिहानिर्वमनेऽति च स्यात्|१७|
तृण्मोहेत्याद्यतिकृतवमनलिङ्गम्| अत्रादिशब्देन वर्णस्वरादिग्रहणम्| निद्राहानिश्चात्रानिलकोपकृतैव|१७|
Adhikarana 15 (17) · Śloka 18
स्रोतोविशुद्धीन्द्रियसम्प्रसादौ लघुत्वमूर्जोऽग्निरनामयत्वम्||१७||
प्राप्तिश्च विट्पित्तकफानिलानां सम्यग्विरिक्तस्य भवेत् क्रमेण|१८|
स्रोतोविशुद्धीत्यादि सम्यग्विरेचनलक्षणम्| ऊर्जोऽग्निरिति पटुरग्निः | अनामयत्वमिति विरेचनजेतव्यदोषजनितविकारव्यपगमः| प्राप्तिश्चेत्यादिग्रन्थार्थः स्थानान्तरे व्याख्यात एव||१७||-
Adhikarana 16 (18) · Śloka 19
स्याच्छ्लेष्मपित्तानिलसम्प्रकोपः सादस्तथाऽग्नेर्गुरुता प्रतिश्या||१८||
तन्द्रा तथा च्छर्दिररोचकश्च वातानुलोम्यं न च दुर्विरिक्ते|१९|
स्यादित्याद्ययोगकृतविरेकलक्षणम्| न च वातानुलोम्यमित्यर्थः ||१८||-
Adhikarana 17 (19) · Śloka 20
कफास्रपित्तक्षयजानिलोत्थाः सुप्त्यङ्गमर्दक्लमवेपनाद्याः||१९||
निद्राबलाभावतमःप्रवेशाः सोन्मादहिक्काश्च विरेचितेऽति|२०|
कफास्रेत्यादि विरेकातियोगलक्षणम्| क्षयशब्दः कफादिभिः प्रत्येकं सम्बध्यते||१९||-
Adhikarana 18 (20-21) · Śloka 22
संसृष्टभक्तं नवमेऽह्नि सर्पिस्तं पाययेताप्यनुवासयेद्वा||२०||
तैलाक्तगात्राय ततो निरूहं दद्यात्र्यहान्नातिबुभुक्षिताय|
प्रस्यागते धन्वरसेन भोज्यः समीक्ष्य वा दोषबलं यथार्हम्||२१||
नरस्ततो निश्यनुवासनार्हो नात्याशितः स्यादनुवासनीयः |२२|
वमनविरेचनकल्पनाप्रस्तावागतसम्यग्योगादिलक्षणमभिधाय बस्तिकल्पनामाह- संसृष्टभक्तमित्यादि| सप्तभिर्दिनैः कृतसंसर्जनक्रमस्याष्टमे भुक्तमुपयुक्तस्य नवमेऽह्नि सर्पिःपानमनुवासनं वा देयम्; अत्र विकल्पद्वये यदि वमनानन्तरं विरेचनं कर्तव्यं तदा नवमेऽह्नि सर्पिःपानम्, अथ विरेचनानन्तरं यदा बस्तिर्देयस्तदाऽनुवासनं नवमेऽह्नि देयमिति व्यवस्था| वममानन्तरं नवमदिवसे सर्पिः पानं पूर्वं नोक्तं तेनेदानीं विरेचनानन्तरकर्तव्यनिरूहाङ्गानुवासनसमानकालतया सर्पिः पानमपि दर्शितं, तेन न निरूहाङ्गता सर्पिःपानस्य कल्पनीया| नवमश्च दिवसोऽत्र शोधनदिनमारभ्यैव ज्ञेयः; उक्तं च जतूकण- ‘शोधनानन्तरं नवमेऽह्नि स्नेहपानमनुवासनं वा” इति, तथा सुश्रुतेऽप्युक्तं- “विरेचनात् सप्तरात्रे गते जातबलाय च| कृतान्नायानुवास्याय सम्यग्देयोऽनुवासनः” (सु.चि.अ.३७) इति| उत्तरबस्तिचिकित्सिते च यः पेयादिक्रमानन्तरं रससंसर्जनक्रम उक्तः, स सर्वकर्मावसाने प्रकृतिभोजनगमनार्थं कर्तव्यः, न वमनविरेचनकर्मपरिसमाप्तावेव, तेनेहाकृतरससंसर्गस्यैव नवमे दिने सर्पिःपानमनुवासनं चोपपन्नम्| यत्तु भद्रशौनके- “संसृष्टभक्तः सुमनाः स्नेहपीतो दृढानलः| संशुद्धः परतो मासादनुवास्यस्ततो नरः” इत्युक्तं, तत् प्रागनुवासनविषयं रोगविशेषविषयं वेति नैतद्विरुद्धं भवति; बहूनि चात्र व्याख्यानानि टीकाकृतामङ्गिरि-सैन्धव-जेज्जटेश्वरसेनादीनां सन्ति; अन्यैस्तु तद्व्याख्यानानि दोषोद्धारादेव निरस्तानि| तैलाक्तगात्रायेति वचनमभ्यङ्गेनापि स्नेहप्रयोगदर्शनार्थम्| स्वेदस्त्वत्र पञ्चकर्मपूर्वतया विहितोऽनुक्तोऽप्यायात्येव; यदुक्तं ‘तान्युपस्थितदोषणां स्नेहस्वेदोपपादनैः| पञ्चकर्माणि कुर्वीत” (सू.अ.२) इति| दद्यात्र्यहादिति अनुवासनदिनादूर्ध्वं त्र्यहात्, तेन यथावक्ष्यमाणक्रमेण एकाहाद् द्व्यहादधिकाद्वा स्नेहात्तदहर्वा निरूहो देयः| नातिबुभुक्षितायेत्यनेन अतिबुभुक्षितस्य निरूहोऽतियोगायोर्ध्वगमनाय च भवतीति सूचयति| तत्र धन्वरसेन प्रतिभोजनं विरेचनवदग्निमान्द्याभावाद्बलावहत्वाच्च युक्तमेव; यदुक्तं भोजे- “आमस्तकाद्विशुद्धस्य निरूहेण रसादिकम्| किमर्थं विहितं भोज्यं संसर्गश्च विरिक्तवत्|| विरेकः पावकं हन्ति तदधिष्ठानसम्प्लवात्| न तु बस्तिस्तथा तस्माद्ययोन्नयति पावकम्’ इति| निरूह एव दोषाग्निबलापेक्षया रसादिना पेयादिना वा भोजनं दर्शयन्नाह- समीक्ष्य वा दोषबलं यथार्हमिति; बलमिति अग्निबलम्| नरस्तत इत्यादिना निरूढस्यानुवासनमाह| निशीत्यनेन निरूहानन्तरं तद्दिने क्रियमाणमनुवासनं निश्येव कर्तव्यमिति दर्शयति, न शीते वसन्ते च सद्योनिरूढस्य रात्रावेवानुवासनं न देयमिति अन्ये तु निशीत्यनेन तदहरेव निरूढाय सायमनुवासनं देयमिति दर्शयति, तेन यथावक्ष्यमाणविभागेन रात्रौ दिवा वा देयमित्याहुः| अनुवासनार्ह इति वचनेन यदि सामता मन्दो वा पावको भवति तदा तदहरनुवासनं न देयमिति सूचयति| अत एव जतूकर्णे द्वितीयदिवस एवानुवासनमुक्तं- “ततस्त्र्यहान्निरूहे व्युषिते भुक्तवतोऽनुवासनम्” इति; हारीतेऽपि- “व्युष्टं रजन्यां प्रसमीक्ष्य तस्माद्बलाबलं वाऽप्यनुवासनीयः” इत्युक्तम्| “सद्यो निरूढोऽनुवास्यः स्यात्” इति वचनं निरूहजनितवातक्षोभयुक्तपुरुषविषयम्||२०-२१||-
Adhikarana 19 (22) · Śloka 23
शीते वसन्ते च दिवाऽनुवास्यो रात्रौ शरद्ग्रीष्मघनागमेषु||२२||
तानेव दोषान् परिरक्षता ये स्नेहस्य पाने परिकीर्तिताः प्राक्|२३|
निशीत्यनेन यन्निशासमीपेऽनुवासनं विहितं तदेव कालभेदेन भिन्नकालं दर्शयन्नाह- शीते इत्यादि| शीतशब्देन शिशिरहेमन्तयोरपि ग्रहणम्| दिवेति निशासमीपे दिवाभागे, रात्रावपि च दिनसमीपायां रात्रौ| दोषान् परिरक्षता दोषान् दृष्ट्वा, अन्तरं च दोषवर्जनेन परिरक्षता; ये स्नेहस्य पाने परिकीर्तिताः स्नेहाध्याये- “श्लेष्माधिको दिवा शीते” (सू.अ.१३) इत्यादिना ग्रन्थेन, य एवाकालपीतस्नेहदोषा भवन्ति त एव यथोक्तकालविपर्ययकृतानुवासनेऽपि दोषा भवन्तीत्युक्तं भवति| स्नेहाध्याये यद्वातपित्ताधिकत्वादिविशेषेणापि रात्रौ दिवा च स्नेहपानं विहितं तदिहापि समानन्यायत्वादेकदेशाभिधानेनापरैकदेशानुमानाच्च ज्ञेयम्||२२||-
Adhikarana 20 (23-24) · Śloka 24
प्रत्यागते चाप्यनुवासनीये दिवा प्रदेयं व्युषिताय भोज्यम्||२३||
सायं च भोज्यं परतो द्व्यहे वा त्र्यहेऽनुवास्योऽहनि पञ्चमे वा |
त्र्यहे त्र्यहे वाऽप्यथ पञ्चमे वा दद्यान्निरूहादनुवासनं च||२४||
प्रत्यागते चेत्यादौ अनुवासनीये इति अनुवासनस्नेहे| व्युषितायेति निर्विकारं रात्रिव्युषिताय दिवा भोज्यं देयं, तथा सायं च भोज्यं देयम्| अनुवासनानन्तरं पुनरनुवासनकालमाह- त्र्यहे वेत्यादि| अत्रापि त्र्यहपञ्चाहव्यवस्था पूर्ववत्; अयञ्चानुवासनकालो निरूहदिन एव दातव्यानुवासने परिज्ञेयः| अन्ये तु पठन्ति यत्- ‘परतो द्व्यहे वा त्र्यहेऽनुवास्योऽहनि पञ्चमे वा’ इति; व्याख्यानयन्ति च- परतो द्व्यहे वा त्र्यहेऽनुवास्योऽहनि पञ्चमे वेति; अत्र तु द्व्यहेऽनुवासनमतिप्रबलवातस्य, अनतिवृद्धवातस्य त्र्यहे, पञ्चमे तु प्रवृद्धकफपित्तस्येति व्यवस्था| द्वितीयदिनानुवासनं हारीतेऽप्युक्तं; वचनं हि- “दृष्ट्वाऽतिवृद्धं पवनस्य रूपं दिने दिने बस्तिमुदाहरन्ति” इति; सुश्रुतेऽप्युक्तं- “रूक्षस्य बहुवातस्य स्नेहबस्तिं दिने दिने| दद्याद्वैद्यस्ततोऽन्येषामग्न्याबाधभयात्र्यहात्” (सु.चि.अ.३७) इति| इहापि ‘रूक्षनित्यस्तु” इत्यादिना, ‘वातार्ताश्च दिने दिने” (सि.अ.४) इत्यन्तेन द्व्यहे दानं विधास्यति, तेन ‘द्व्यहे वा त्र्यहे वा’ इति पाठः साधुः; ‘द्व्यहशब्देन चात्र दिनद्वयसम्बन्धमात्रमुच्यते, न द्व्यहपूरणं; तेन प्रथमदिवसदत्तानुवासनात् प्रभृति पूर्णे तृतीये दिवसेऽनुवासनं प्राप्नोति’ इति यदुच्यते, तन्निरस्तम्; एवं त्र्यहेऽपि तृतीयाहसम्बन्ध एव विवक्षितो ज्ञेय इति||२३-२४||
Adhikarana 21 (25) · Śloka 25
एकं तथा त्रीन् कफजे विकारे पित्तात्मके पञ्च तु सप्त वाऽपि|
वाते नवैकादश वा पुनर्वा बस्तीनयुग्मान् कुशलो विदध्यात्||२५||
सम्प्रति दोषभेदेनानुवासननियममाह- एकं तथा त्रीनित्यादि| एतच्च ‘सङ्ख्याः कति’ इति प्रश्नस्योत्तरम्; अपरं सङ्ख्याप्रश्नस्योतरं ‘त्रिंशन्मताः कर्मसु ’ इत्यादिना भविष्यति| कफपित्तयोश्च यद्यप्यनुवासनं न विहितं, तथाऽपि वातानुगतकफपित्तविषयतयैतद्बोद्धव्यम्| पुनर्वेत्यनेन वाते नव एकादश वा कुर्यात्| अयुग्मानित्यनेन द्विचतुःषडादिसङ्ख्यया युग्मदानं निषेधयति, अयुग्मदानं प्रभावादेवात्रोपकारीति महर्षिवचनाद्बोध्यं, यथा- “युग्मेष्वहःसु पुत्रकामौ संवसेताम्” (शा.अ.८) इति; उपपत्तिश्चात्रातिप्रसङ्गभीत्या न कथिताऽऽचार्येण| यत्तु- “त्रीन् पञ्च वाऽऽहुश्चतुरोऽथ षड् वा” इत्यादिना युग्मबस्तिदानं वक्ष्यति, तन्निरूहाङ्गतया स्नेहनार्थक्रियमाणानुवासनविषययुग्मबस्तिदानं ज्ञेयम्, इह तु प्रधानतया क्रियमाणानुवासनविषयमयुग्मदानमिति न विरोधः| एतेन, यदुक्तमाषाढवर्मणा- “निरूहकार्यकारणमयुग्मदानमस्मिन्नोक्तं निषिद्धपूर्व च, योगस्यान्ते क्रमादेकं तथा त्रीनित्यादीन् स्नेहान् प्राह” (?) इति, तन्निरस्तं ज्ञेयम्| किञ्च, अयुग्मानित्यनेन पुनर्वेत्यनेन च यत्रानुवृत्त्याऽनुवासनं देयं तत्रायुग्मकं निरूहान्तरितं च कर्तव्यमित्यर्थः, तेन यथोक्तसङ्ख्याकान्निरूहान् दत्त्वा यथोक्तसङ्ख्यया स्नेहो देयः| विषमसङ्ख्योपादानं तु मध्यविधयाऽपि द्व्यहचतुरहादिग्राहकं भवति , तेनोत्तरत्र वक्ष्यमाणसङ्ख्यानुवासनं न विरोधीति ब्रूते| जतूकर्णेऽप्युक्तं- “निरूहे व्युषिते भुक्तवतोऽनुवासनं परं द्वितीयेऽहनि पञ्चमे वा तथैकादशाहेऽपकर्षतो द्वित्रिचतुरादि(?) वातादिषूच्यते” इति||२५||
Adhikarana 22 (26) · Śloka 26
नरो विरिक्तस्तु निरूहदानं विवर्जयेत् सप्तदिनान्यवश्यम्|
शुद्धो निरूहेण विरेचनं च तद्ध्यस्य शून्यं विकसेच्छरीरम्||२६||
सम्प्रति निरूहविरेचनयोरन्तरेऽवश्यपरिहर्तव्यकालमाह- नरो विरिक्तस्त्वित्यादि| अवश्यमिति वचनादेकाहसाध्येऽपि व्याधाववश्यं सप्तदिनच्छेदः कर्तव्य इति दर्शयति| यद्यपिविरेचनानन्तरं निषिद्ध एव निरूहः पञ्चकर्मीयायां सिद्धौ, तथा निरूढस्य विरेचनं निषिद्धं, तथाऽपि तत्कालमेव स निषेधः; तेन त्रिचतुरादिदिनेऽपि प्रसक्तिनिरासार्थमिदं वचनम्| यत्तु विरेचनानन्तरं नवमेऽह्न्यनुवासनकालादुत्तरकालमेव निरूहविधानं, तेनार्वाग्बस्तेः प्रसक्तिरपि न स्यादित्युच्यते; तन्न, यतोऽनुवासनशुद्ध्यपेक्षसंसर्जनक्रमस्येयं विधा, यदाऽवरशुद्ध्या त्र्यहेणैव पेयादिक्रमः समाप्यते, तदा चतुर्थदिनेऽनुवासनदानात् पञ्चमे षष्ठे वा दिने निरूहः प्रसज्ज्येत, अतस्तन्निरासार्थमेतद्वचनम्| निरूहानन्तरं तु संसर्जनक्रमो नास्त्येव, तेन त्र्यहं स्नेहं दत्त्वा विरेचनप्रसक्तिरस्त्येव| सप्ताहादर्वाक् सप्ताहं यावच्च निरूहविरेचनवर्जने हेतुमाह- तद्ध्यस्येत्यादि| विकसेदिति हिंस्यात्| शून्यमिति पूर्वशोधनशून्यशरीरं पुनः शोधनाद्धिंस्यादिति भावः| यत्तु “आसप्ताहाद्विरेको वा ततश्चापि निरूहणम्” इति तन्त्रान्तरे प्रोक्तं, तच्च संसर्गविधया क्रियमाणसंशोधनक्रमे ज्ञेयम्| तत्रापि च सप्ताहपूरणं संसर्जनस्नेहादीनामनुमतविकल्पपरिहाराद् व्याख्येयम्||२६||
Adhikarana 23 (27-28) · Śloka 28
बस्तिर्वयःस्थापयिता सुखायुर्बलाग्निमेधास्वरवर्णकृच्च|
सर्वार्थकारी शिशुवृद्धयूनां निरत्ययः सर्वगदापहश्च||२७||
विट्श्लेष्मपित्तानिलमूत्रकर्षी दार्ढ्यावहः शुक्रबलप्रदश्च|
विश्वक्स्थितं दोषचयं निरस्य सर्वान् विकारान् शमयेन्निरूहः||२८||
‘किङ्गुणो बस्तिः’ इतिप्रश्नस्योत्तरं बस्तिर्वयःस्थापयितेत्यादि| अयं चास्थापनगुणः, अनुवासनस्य तु देहे निरूहेण’ इत्यादिना ग्रन्थेन गुणान् वक्ष्यति| वयः स्थापयतीति वयःस्थापयिता; वयःस्थापनत्वं चास्य स्रोतःशुद्धिकरत्वात्| सर्वार्थकारीति स्थिरत्वापकर्षादिविरुद्धार्थस्यापि भेषजविशेषयोगात्| शिशुवृद्धयूनां निरत्यय इत्यनेन वमनविरेचनाभ्यामुत्कर्ष उच्यते, ते हि शिशुवृद्धयोर्निषिद्धे| सर्वगदापहत्वं संशमनेन ज्ञेयं, सर्वान् विकारान् शमयेदित्यनेन दोषसंशोधनद्वारा सर्वगदापहत्वमुच्यत इति न पौनरुक्त्यं; किंवा सर्वान् विकारानिति सर्वावस्थान् विकारानिति विशेषः||२७-२८||
Adhikarana 24 (29-31) · Śloka 31
देहे निरूहेण विशुद्धमार्गे संस्नेहनं वर्णबलप्रदं च|
न तैलदानात् परमस्ति किञ्चिद्द्रव्यं विशेषेण समीरणार्ते ||२९||
स्नेहेन रौक्ष्यं लघुतां गुरुत्वादौष्ण्याच्च शैत्यं पवनस्य हत्वा|
तैलं ददात्याशु मनःप्रसादं वीर्यं बलं वर्णमथाग्निपुष्टिम् ||३०||
मूले निषिक्तो हि यथा द्रुमः स्यान्नीलच्छदः कोमलपल्लवाग्र्यः|
काले महान् पुष्पफलप्रदश्च तथा नरः स्यादनुवासनेन||३१||
देहे इत्यादिनाऽनुवासनगुणमाह| निरूहेण विशुद्धमार्गे इति वचनान्निरूहशोधित एव मार्गे संसर्जदनुवासनं यथोक्तगुणकर्तृ भवतीति दर्शयति| न तैलदानादित्यत्र तैलशब्देन स्नेहोपलक्षणेन केचिद्घृतमपि ग्राहयन्ति, किन्तु तैलमेवात्र वातहरप्रधानतया ब्रूते इति युक्तं पश्यामः; तथा ह्यत्र औष्ण्याच्छैत्यमित्युक्तम्, औष्ण्यं च न सर्पिषीति; स्नेहा मज्जवर्जिता अनुवासनाधिकृता अप्यप्रधानत्वान्नात्र घृतमनुमन्यते| परमस्तीत्यादौ द्रव्यमिति कारणं, तच्च कारणमनिलप्रशमनेन ज्ञेयम्, ‘नान्वासनात् किञ्चिदिहास्ति कर्म’ इति केचित् पठन्ति| तैलकृत्यमेव सकारणं व्याकरोति- स्नेहेनेत्यादि| तैलं चानुवासने पक्वमेव ज्ञेयम्; अपक्वस्य तु ‘न चामं प्रणयेत् स्नेहं स ह्यभिष्यन्दयेद्गुदम्’ (सि.अ.४) इत्यनेन निषिद्धत्वात्| अत्र तैलानिलयोर्विपरीतगुणयोर्मेलके द्रव्यप्रभावात्तैलमेव वातं हन्ति, न वातस्तैलम्; अणुत्वं गुणो यद्यपि तैले वाते चास्ति, तथाऽपीह प्रभावाद्वातसूक्ष्मावयवसम्बद्धं तैलं स्नेहादिना वातं जयति, तेन समानमप्यणुत्वमिह विरुद्धार्थकार्येवेति| तैलस्य यथोक्तकार्यकर्तृत्वे दृष्टान्तमाह- मूले इत्यादि| मूलदृष्टान्तेन चानुवासनेन साक्षात्तर्पणीयस्य गुदस्य देहमूलत्वं दर्शयति, उक्तं हि पराशरे- “मूलं गुदं शरीरस्य सिरास्तत्र प्रतिष्ठिताः| सर्वं शरीरं पुष्णन्ति मूर्धानं यावदाश्रिताः” इति; तथाऽनुवासनादपि नरो बलवीर्याद्युपेतोऽपत्यवांश्च स्यादित्यर्थः||२९-३१||
Adhikarana 25 (32-34) · Śloka 34
स्तब्धाश्च ये सङ्कुचिताश्च येऽपि ये पङ्गवो येऽपि च भग्नरुग्णाः|
येषां च शाखासु चरन्ति वाताः शस्तो विशेषेण हि तेषु बस्तिः||३२||
आध्मापने विग्रथिते पुरीषे शूले च भक्तानभिनन्दने च|
एवम्प्रकाराश्च भवन्ति कुक्षौ ये चामयास्तेषु च बस्तिरिष्टः||३३||
याश्च स्त्रियो वातकृतोपसर्गा गर्भं न गृह्णन्ति नृभिः समेताः|
क्षीणेन्द्रिया ये च नराः कृशाश्च बस्तिः प्रशस्तः परमं च तेषु||३४||
सामान्येन निरूहानुवासनयोर्गुणमाह- स्तब्धाश्च ये इत्यादि| भग्ना इति भग्नकायाः ; रुग्णा इति सन्धिमुक्ताः| भक्तानभिनन्दने अरोचके| वातकृतोपसर्गा इति वातकृतोपद्रवाः| क्षीणेन्द्रिया इति अतिक्षीणशुक्राः| अत्र शुद्धवातादिष्वनुवासनं, भक्तानभिनन्दनप्रकारेषु च निरूह इत्याद्यर्थोऽनुसरणीयः||३२-३४||
Adhikarana 26 (35) · Śloka 35
उष्णाभिभूतेषु वदन्ति शीताञ्छीताभिभूतेषु तथा सुखोष्णान्|
तत्प्रत्यनीकौषधसम्प्रयुक्तान् सर्वत्र बस्तीन् प्रविभज्य युञ्ज्यात् ||३५||
सम्प्रति केषु च कश्च बस्तिरिति प्रश्नस्योतरम्- उष्णाभिभूतेष्वित्यादि| उष्णाभिभूते तथा शीताभिभूते इति वक्तव्ये, येन ‘सर्वत्र’ इति करोति, तेन स्निग्धरूक्षगुरुलध्वभिभूतेऽपि तद्विपरीतौषधसम्पादितो वस्तिर्देय इति दर्शयति||३५||
Adhikarana 27 (36) · Śloka 36
न बृंहणीयान् विदधीत बस्तीन् विशोधनीयेषु गदेषु वैद्यः|
कुष्ठप्रमेहादिषु मेदुरेषु नरेषु ये चापि विशोधनीयाः||३६||
नित्यविशोधनीयगदानाह- कुष्ठप्रमेहादिष्वित्यादि| अत्र, आदिशब्देनारोचकतन्द्राश्लीपदादीनां ग्रहणम्| मेदुरेष्विति मेदस्विषु||३६||
Adhikarana 28 (37) · Śloka 37
क्षीणक्षतानां न विशोधनीयान्न शोषिणां नो भृशदुर्बलानाम्|
न मूर्च्छितानां न विशोधितानां येषां च दोषेषु निबद्धमायुः||३७||
क्षीणक्षतानां नेति क्षीणा राजयक्ष्मिप्रभृतयो ज्ञेयाः| विशोधनीयानिति अपकर्षणकारकान्| येषां च दोषेषु निबद्धमायुरिति ये संशोधनहरणमात्रेणैव प्राणाञ्जहति||३७||
Adhikarana 29 (38-39) · Śloka 40
शाखागताः कोष्ठगताश्च रोगा मर्मोर्ध्वसर्वावयवाङ्गजाश्च|
ये सन्ति तेषां न हि कश्चिदन्यो वायोः परं जन्मनि हेतुरस्ति||३८||
विण्मूत्रपित्तादिमलाशयानां विक्षेपसङ्घातकरः स यस्मात्|
तस्यातिवृद्धस्य शमाय नान्यद्बस्तिं विना भेषजमस्ति किञ्चित्||३९||
तस्माच्चिकित्सार्धमिति ब्रुवन्ति सर्वां चिकित्सामपि बस्तिमेके|४०|
बस्तेर्बहुविषयां स्तुतिमाचक्षाणः ‘किङ्गुणो बस्तिः’ इति प्रश्नस्यैवोत्तरं पुनराह- शाखागता इत्यादि| शाखाकोष्ठमर्मगता इत्यनेन त्रिविधशाखादिरोगमर्गो गृहीतः; मर्मजशब्देन हि मध्यमरोगमार्गाश्रयिणां सन्धिजानामपि साहचर्याद्ग्रहणम्; इह मर्मास्थिस्न्धयो हि मध्यमो रोगमार्ग उक्तः| ऊर्ध्वसर्वशब्देन च ऊर्ध्वाधस्तिर्यग्भेदादप्युक्तरोगमार्गत्रयग्रहणम्| सर्वावयवाङ्गजशब्देन च प्रादेशिकसर्वाङ्गभेदादप्युक्तग्रहणम्; वायोः परमिति वायोः परो न कश्चित् श्रेष्ठ इति यावत्| एतेन यद्यपि कफपित्ते अपि रोगकारणे भवतः, तथाऽपि वायुरेव श्रेष्ठ इत्युच्यते| वायोः श्रेष्ठत्व एव हेतुमाह- विण्मूत्रेत्यादि| पित्तादीत्यत्रादिशब्देन कफस्य ग्रहणं, (न च मलशब्देन कफस्य ग्रहणं ,) मलशब्देन चेतरधातुमलानां खमलादीनां च ग्रहणम्| आशयशब्देन मलव्यतिरिक्तप्रसादाख्यानामाशयानां धातूनां च ग्रहणम्| विक्षेपसङ्घातकर इति वियोगमेलककरः; एतेन, यस्माद्वायुरेव दोषमलधातूनां संयोगविभागौ करोति, तेन दोषदूष्यविण्मलमेलकरूपनिखिलव्याधिकरणे वायुरेव प्रधानं भवतीति भावः| किंवा आशयशब्दः प्रत्येकं विडादिभिः सम्बध्यते, स्थानेन च स्थानिनो लभ्यन्ते, विडादिसंयोगविभागेनैव च सर्वव्याधिकरणपरिग्रहो भवति| भवत्वेवं वातस्य प्राधान्यमतः किमित्याह- तस्येत्यादि| भेषजमिति प्रधानं भेषजं, यदुक्तं- ‘बस्तिर्वातहराणाम्’ (सू.अ.२५) इति| अतो बस्तावर्धचिकित्सारूपता तथा सर्वचिकित्सारूपता च युक्तैव||३८-३९||-
Adhikarana 30 (40) · Śloka 41
नाभिप्रदेशं कटिपार्श्वकुक्षिं गत्वा शकृद्दोषचयं विलोड्य ||४०||
संस्नेह्य कायं सपुरीषदोषः सम्यक् सुखेनैति च यः स बस्तिः |४१|
तत्र बस्तेः कृताकृतलक्षणानि क्रमेणाह- नाभीत्यादि| विलोड्येति सङ्क्षोभ्य| संस्नेह्य कायमिति वीर्यरूपेण सारेण कायं व्याप्य, उक्तं हि- “वीर्येण बस्तिरादत्ते दोषानापादमस्तकात्” (सु.चि.अ.३५) इति| स्नेहशब्देन च सारोऽभिधीयते; यथा- “देहः स्नेहपरिक्षयात्” (चि.अ.८) इति| सम्यगिति निरवशेषेण| सुखेनेति विकारमकृत्वा||४०||-
Adhikarana 31 (41) · Śloka 42
प्रसृष्टविण्मूत्रसमीरणत्वं रुच्यग्निवृद्ध्याशयलाघवानि||४१||
रोगोपशान्तिः प्रकृतिस्थता च बलं च तत् स्यात् सुनिरूढलिङ्गम्|४२|
तादात्विकबस्तिसम्यग्योगलक्षणमभिधायोत्तरकालभवमाह- प्रसृष्टेत्यादि| ‘आशयलाघवानि’ इत्यत्र ‘आमयलाघवानि’ इति पाठे रोगोपशान्तिरित्यनन्तरं वाशब्दो ज्ञेयः, तेन रोगोपशान्तिरिह निरूहसाध्यविकाराणामुपशान्तिः||४१||-
Adhikarana 32 (42) · Śloka 43
स्याद्रुक्छिरोहृद्गुदबस्तिलिङ्गे शोफः प्रतिश्यायविकर्तिके च||४२||
हृल्लासिका मारुतमूत्रसङ्गः श्वासो न सम्यक् च निरूहिते स्युः|४३|
स्यादित्यादि बस्त्ययोगलक्षणम्| न सम्यङ्निरूहिते इति अयोगेन निरूहिते||४२||-
Adhikarana 33 (43) · Śloka 43
लिङ्गं यदेवातिविरेचितस्य भवेत्तदेवातिनिरूहितस्य||४३||
बस्त्यतियोगलक्षणमतिदेशेनाह- लिङ्गमित्यादि||४३||
Adhikarana 34 (44) · Śloka 44
प्रत्येत्यसक्तं सशकृच्च तैलं रक्तादिबुद्धीन्द्रियसम्प्रसादः |
स्वप्नानुवृत्तिर्लघुता बलं च सृष्टाश्च वेगाः स्वनुवासिते स्युः||४४||
अनुवासनसम्यग्योगलक्षणमाह- प्रत्येतीत्यादि| असक्तमिति सङ्गं विना| रक्तादयः धातवः| स्वप्नानुवृतिः निद्रानुवृत्तिः| सृष्टा इति अबद्धाः||४४||
Adhikarana 35 (45) · Śloka 46
अधःशरीरोदरबाहुपृष्ठपार्श्वेषु रुग्रूक्षखरं च गात्रम् |
ग्रहश्च विण्मूत्रसमीरणानामसम्यगेतान्यनुवासितस्य ||४५||
हृल्लासमोहक्लमसादमूर्च्छाविकर्तिका चात्यनुवासितस्य|४६|
अध इत्याद्यनुवासनायोगलक्षणम्| रूक्षखरता चात्र शरीरस्यास्नेहनादेव| हृल्लासादि अतियोगलक्षणम्||४५||-
Adhikarana 36 (46) · Śloka 47
यस्येह यामाननुवर्तते त्रीन् स्नेहो नरः स्यात् स विशुद्धदेहः||४६||
आश्वागतेऽन्यस्तु पुनर्विधेयः स्नेहो न संस्नेहयति ह्यतिष्ठन्|४७|
उचितस्नेहप्रत्यागमनकालमाह- यस्येत्यादि| यामानिति प्रहरान्| स विशुद्धदेह इति स अनुवासनप्रयोगसम्यग्योगादनुवासनव्यापत्तिरहित इत्यर्थः| आश्वागते इति शीघ्रं प्रत्यागते, अन्यस्तु विधेय इति तदैवान्यः स्नेहो देयः| पुनः स्नेहदानोपपत्तिमाह- स्नेहो न संस्नेहयति ह्यतिष्ठन्निति||४६||-
Adhikarana 37 (47-48) · Śloka 49
त्रिंशन्मताः कर्म नु बस्तयो हि कालस्ततोऽर्धेन ततश्च योगः||४७||
सान्वासना द्वादश वै निरूहाः प्राक् स्नेह एकः परतश्च पञ्च|
काले त्रयोऽन्ते पुरतस्तथैकः स्नेहा निरूहान्तरिताश्च षट् स्युः||४८||
योगे निरूहास्त्रय एव देयाः स्नेहाश्च पञ्चैव परादिमध्याः|४९|
सम्प्रति सङ्ख्याप्रश्नस्योत्तरविशेषमाह- त्रिंशदित्यादि| कर्मकालयोगसञ्ज्ञा यथाक्रमं त्रिंशत्षोडशाष्टबस्तिसमुदयेषु ज्ञेया| कालस्ततोऽर्धेनेत्यत्र अर्धशब्दो न समप्रतिवचनः ; तेन त्रिंशदध षोडश भवन्ति| सान्वसना इत्यादिना कर्मादीनां निरूहानुवासनविभागमाह| एकमनुवासनं दत्त्वा दीयन्त इति सान्वसनाः, एवमनुवासनेन प्रत्येकं योगाद् द्वादश निरूहाश्चतुर्विंशतिर्बस्तयो भवन्ति| प्रागिति आरम्मे| परत इति द्वादशनिरूहोत्तरकाले| निरूहान्तरिताश्च षट् स्युरिति निरूहेणान्तरी कृताः, एवं च द्वादश बस्तयः पूरणीयाः| पञ्चैव परादिमध्या इति पञ्च स्नेहा अन्ते मध्ये आदौ च येषां विभक्तास्ते तथा; अत्र चादौ स्नेहद्वयम्, अन्ते च स्नेहद्वयं, निरूहत्रयमध्ये चैकमनुवासनम्, एवं पञ्च स्नेहा भवन्ति| ये तु निरूहदिन एवानुवासनं वदन्ति तन्मते आदावेक एव, अन्तेऽपि दिनान्तरे एकः, एवं पञ्च भवन्ति; एवं कर्मकालयोरपि निरूहदिन एव दिनान्तरे वाऽनुवासनं व्याख्येयम्| अत्र चैकस्नेहान्तरितानां निरूहाणां दाने वातक्षोभो नाशङ्कनीयः, कर्मादिषु निरूहा यापनाबस्तिरूपा दीयन्ते, ते स्निग्धा एवेति कृत्वा न वातक्षोभका भवन्ति| एते च कर्मादयो यद्यपि शास्त्रप्रदेशेषु न व्यवह्रियन्ते, तथाऽपि तद्विद्यव्यवहारार्थमेवेयं कर्मादिसञ्ज्ञा, यथा यमकमहाच्छपानादिसञ्ज्ञा; तेन कर्मादिसञ्ज्ञायाः शास्त्रे व्यवहारादर्शनात् कर्मादिप्रतिपादको ग्रन्थोऽनार्ष इति यदुच्यते, तन्निरस्तम्| कर्मादिसञ्ज्ञा च तन्त्रान्तरेऽप्यस्ति| तथाहि जतूकर्णः- “बस्तयस्त्रिंशत् षोडशाष्टौ च कर्मकलयोगाः; निरूहाः स्नेहान्तरिता द्वादश षट् त्रयः; एकस्नेहारम्भाः पञ्चत्र्येकान्ताः” इति; हारीतेऽपि- “त्रिंशकं कर्म बुधा वदन्ति” इत्याद्युक्तम्| कर्मादीनां प्रयोगं केचिद्वातादिषु वदन्ति||४७-४८||-
Adhikarana 38 (49) · Śloka 50
त्रीन् पञ्च वाऽऽहुश्चतुरोऽथ षड्वा वातादिकानामनुवासनीयान् ||४९||
स्नेहान् प्रदायाशु भिषग्विदध्यात् स्रोतोविशुद्यर्थमतो निरूहान्|५०|
त्रीन् पञ्चेत्यादिना स्नेहनार्थमनुवासनमाह| अत्र ये ‘वातादिकानां’ इति पठन्ति, तेषामादिशब्देन पित्तकफयोरपि ग्रहणं; बहुवचनं तु तद्गुणसंविज्ञानबहुव्रीहिणा वातस्य ग्रहणाद्बहुत्वसङ्ख्यायोगादुपपन्नम्| यथोक्तं कुष्ठनिदाने- ‘वातादिषु प्रदुष्टेषु” (नि.अ.५) इति, तथा कियन्तःशिरसीयेऽपि “वातादीनां रसादीनां” (सू.अ.१७) इति बहुत्वं निर्दिष्टम्| अन्ये तु- ‘वाताधिकानां’ इति पठन्ति| अत्र चतुर्णां षण्णां च स्नेहानां युग्मरूपाणामपि दानमविरुद्धमेव, एतदनुवासनस्य निरूहाङ्गतया स्नेहनार्थं क्रियमाणत्वात्; अयुग्मदानं तु ‘बस्तीनयुग्मान्’ इत्यनेन स्वप्रधानतयाऽनुवासनस्य विहितमिति भिन्नविषयतया न विरोधः; यतः स्नेहनप्रयोजनमनुवासनं स्नेहे भूत एवायुग्मदानेन निवर्तनीयं; किंवा, अयुग्मा तन्त्रतो व्याख्यानेन सङ्ख्यैवोच्यते, तथाहि- त्रीन्, पञ्च, त्रीन् चतुर इति सप्त, पञ्च चतुर इति नव, पञ्च षडित्येकादश, इति पञ्च विकल्पा इह विधीयन्ते| तन्त्रान्तरे स्नेहस्य युग्मदानमुक्तं, यथा- “रूक्षस्य बहुवातस्य द्वौ त्रीन् वाऽप्यनुवासनान्| दद्यात् स्निग्धतनुं ज्ञात्वा ततः पश्चान्निरूहयेत्” (सु.चि.अ.३७) इति| स्रोतःशब्देन विबद्धसिराऽभिहिता||४९||-
Adhikarana 39 (50-52) · Śloka 53
विशुद्धदेहस्य ततः क्रमेण स्निग्धं तलस्वेदितमुत्तमाङ्गम्||५०||
विरेचयेत्त्रिर्द्विरथैकशो वा बलं समीक्ष्य त्रिविधं मलानाम्|
उरःशिरोलाघवमिन्द्रियाच्छ्यं स्रोतोविशुद्धिश्च भवेद्विशुद्धे||५१||
गलोपलेपः शिरसो गुरुत्वं निष्ठीवनं चाप्यथ दुर्विरिक्ते|
शिरोक्षिशङ्खश्रवणार्तितोदावत्यर्थशुद्धे तिमिरं च पश्येत्||५२||
स्यात्तर्पणं तत्र मृदु द्रवं च स्निग्धस्य तीक्ष्णं तु पुनर्न योगे|५३|
सम्प्रति क्रमागतशिरोविरेचनस्य कल्पनामसम्यग्योगायेगातियोगलक्षणं चाह- विशुद्धेत्यादि| विशुद्धदेहस्येति एतच्च पञ्चकर्मसम्पादनीयनृविषयत्वं शुद्धिपूर्वकत्वं शिरोविरेचनस्येहोच्यते; तेन वमनादिनाऽशुद्धेऽपि शिरोविरेचनैकसम्पद्यि पुरुषेऽयं क्रमोज्ञेयः| स्निग्धमिति अभ्यङ्गशिरोबस्तिपानादिना| तलस्वेदितमिति हस्ततलस्वेदितम्| त्रिर्द्विरथैकश इति तद्दिन एव दोषाणामुत्कृष्टत्वादिबलत्रैविध्यमपेक्ष्य यथायोग्यतया योज्यम्| इन्द्रियाच्छ्यमिति चक्षुरादीनां स्वविषये पाटवम्| तिमिरं च पश्येदिति तमोव्याप्तं सर्वं पश्येदित्यर्थः| तस्यातियोगायोगयोश्चिकित्सितमनु वक्तव्यतयाऽनुषङ्गतामाह- स्यात्तर्पणमित्यादि| मृदु द्रवं चेत्यनेनातियोगचिकित्सितम्| तीक्ष्णं तु पुनर्न योगे इति अयोगे शिरोविरेचनस्य पुनस्तीक्ष्णं शिरोविरेचनं देयम्||५०-५२||-
Adhikarana 40 (53) · Śloka 53
इत्यातुरस्वस्थसुखः प्रयोगो बलायुषोर्वृद्धिकृदामयघ्नः||५३||
उक्तं पञ्चकर्मप्रयोगमुपसंहरति- इत्यातुरेत्यादि| आतुरस्वस्थसुख इति वचनेन आतुरे आमयस्यापहन्तृतया, स्वस्थे च बलायुर्वृद्धिकर्तृतया यथोक्तपञ्चकर्मप्रयोगः सुखहेतुर्भवतीति ज्ञेयम्| स्वस्थे च पञ्चकर्मप्रवृत्तिः “माधवप्रथमे मासि” (सू.अ.७) इत्यादिना सूत्रस्थाने प्रोक्तैव ज्ञेया||५३||
Adhikarana 41 (54) · Śloka 54
कालस्तु बस्त्यादिषु याति यावांस्तावान् भवेद्द्विः परिहारकालः|५४|
‘कृते कियान् वा परिहारकालः’ इत्यस्योत्तरमाह- कालस्त्वित्यादि| तावान् भवेद्द्विः परिहारकाल इति बस्त्यादिप्रयोगे यावान् कालो व्याप्यते, ततः कालाद्द्विगुणं कालं यावत् परिहार्यत्वेनोक्तं परिहर्तव्यम्| अत्र आदिशब्देन वमनविरेचनशिरोविरेचनानां ग्रहणं, बस्तेस्त्वादौ व्युत्पादनेन प्राधान्यं दर्शयति|५४|
Adhikarana 42 (54) · Śloka 55
अत्यासनस्थानवचांसि यानं स्वप्नं दिवा मैथुनवेगरोधान्||५४||
शीतोपचारातपशोकरोषांस्त्यजेदकालाहितभोजनं च|५५|
‘किं वर्जनीयं’ इति प्रश्नस्योत्तरम्- अत्यासनेत्यादि| आसनम् उपविष्टावस्थानम्| स्थानम् ऊर्ध्वतया स्थानम्| यानं रथाश्वादिना यानम्| एत आविष्कृततमा इहोक्ताः; तेन क्रोधातिचिन्तनादयो येऽप्युपकल्पनीयादौ वमनादिप्रयोगे निषिद्धास्तेऽपि न सेव्या एव||५४||-
Adhikarana 43 (55) · Śloka 56
बद्धे प्रणीते विषमं च नेत्रे मार्गे तथाऽर्शःकफविड्विबद्धे ||५५||
न याति बस्तिर्न सुखं निरेति दोषावृतोऽल्पो यदि वाऽल्पवीर्यः|५६|
‘प्रणीयमानः’ इत्यादि प्रश्नस्योत्तरं बद्धे इत्यादि| नेत्रे बद्धे विषमं प्रणीते च गुदावयवरुद्धत्वान्न याति| तथा ‘न सुखं निरेति’ इत्यादिना ‘सुचिराच्च केन’ इति प्रश्नस्योत्तरम्| न सुखं निरेतीति चिरेण दुःखं कृत्वा चागच्छतीत्यर्थः| दोषावृत इति दोषेण बलीयसाऽवरुद्धः| अल्प इति अल्पमानः| अल्पवीर्य इति उष्णलवणाद्यभावान्मृदुवीर्यः||५५||-
Adhikarana 44 (56) · Śloka 57
प्राप्ते तु वर्चोनिलमूत्रवेगे वातेऽतिवृद्धेऽल्पबले गुदे वा||५६||
अत्युष्णतीक्ष्णश्च मृदौ च कोष्ठे प्रणीतमात्रः पुनरेति बस्तिः|५७|
प्राप्ते चेत्यनेन शीघ्रागमनहेतुमाह| वातेऽतिवृद्धे स्नेहो गुदे वातेन प्रतिहतत्वान्न यात्याशयं, ततः शीघ्रमागच्छति; अल्पबले गुदे स्नेहं धारयितुं न शक्नोति पुरुषः, अल्पबलत्वं गुदस्य संवरणीवलीदार्बल्यात्||५६||-
Adhikarana 45 (57-58) · Śloka 59
मेदःकफाभ्यामनिलो निरुद्धः शूलाङ्गसुप्तिश्वयथून् करोति||५७||
स्नेहं तु युञ्जन्नबुधस्तु तस्मै संवर्धयत्येव हि तान् विकारान्|
रोगास्तथाऽन्येऽप्यवितर्क्यमाणाः परस्परेणावगृहीतमार्गाः||५८||
सन्दूषिता धातुभिरेव चान्यैः स्वैर्भेषजैर्नोपशमं व्रजन्ति|५९|
‘साध्याः’ इत्यादि प्रश्नस्योत्तरं- मेदःकफाभ्यामित्यादि| मेदसा कफेन वेति मेदः कफाभ्याम्| अत्र शूलादीन्निरीक्ष्य शुद्धवातभ्रान्त्या स्नेहं प्रयुङ्क्ते, नावरणं जानाति, अत एव ‘अबुधः’ इति कृतम्| अन्यत्राप्युक्तं- “कुपिते मार्गसंरोधान्मेदसा वा कफेन वा| अतिवृद्धेऽनिले नादौ शस्तं स्नेहेन बृंहणम्” इति| अवितर्क्यमाणा इति असम्यग्ज्ञायमानाः| असम्यग्ज्ञायमानत्व एव हेतुमाह- परस्परेणेत्यादि| रोगशब्देनात्र दोषोऽभिप्रेतः| परस्परेण प्रतिबद्धमार्गा अतो दुर्ग्रहा भवन्ति, तथा धातुभिश्च रक्तादिभिः सन्दूषिताः सम्मूर्च्छिताः सन्तो दुर्ज्ञेया भवन्ति, अविज्ञाताश्च स्वैर्भेषजैर्न प्रशमं व्रजन्ति; स्वैर्भेषजैरिति मार्गावरोधादिकारणदोषधात्वन्तरनिरपेक्षकैरेकदोषभेषजैः; तद्धि तथाभूतानां भेषजं यौगिकं न भवत्येव, अतोऽनुपशमो युक्त एवः एवं च दोषाणां परस्परावरोधान् तथा धातुसम्मूर्च्छनविशेषांश्चावगम्यैव व्याधौ प्रपञ्चोऽनुसरणीयः||५७-५८||-
Adhikarana 46 (59) · Śloka 60
सर्वं च रोगप्रशमाय कर्म हीनातिमात्रं विपरीतकालम्||५९||
मिथ्योपचाराच्च न तं विकारं शान्तिं नयेत् पथ्यमपि प्रयुक्तम्|६०|
अथ विज्ञातेऽपि व्याधौ भिषजाऽसम्यक्प्रयोगादिभिर्वर्धमानेऽसिद्धिमाह- सर्वं चेत्यादि| विपरीतकालमिति अनुचितकालकृतम्| मिथ्योपचाराच्चेति भेषजानां तथाऽकरणात्, यथा- भेषजस्य सम्यक्परिणामे सति भोक्तव्यम्| यद्यौगिकं भेषजं तत् सम्यक् प्रयुक्तं सिध्यतीति सिद्धान्तः||५९||-
Adhikarana 47 (60) · Śloka 61
तत्र श्लोकः- प्रश्नानिमान् द्वादश पञ्चकर्माण्युद्दिश्य सिद्धाविह कल्पनायाम्||६०||
प्रजाहितार्थं भगवान् महार्थान् सम्यग्जगादर्षिवरोऽत्रिपुत्रः||६१||
प्रश्नानित्यादिनाऽध्यायार्थं सङ्गृह्णाति| सङ्ग्रहश्च व्यक्तः||६०||-
Adhikarana puShpikA · Śloka 1
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते सिद्धिस्थाने कल्पनासिद्धिर्नाम प्रथमोऽध्यायः||१||
इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां सिद्धिस्थाने कल्पनासिद्धिर्नाम प्रथमोऽध्यायः||१||