Adhikarana 1 (1-2) · Śloka 2
अथातः पञ्चकर्मीयां सिद्धिं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
कल्पनासिद्धौ ज्ञातपञ्चकर्मोपयोगस्य कर्मप्रवृत्तिनिवृत्तिविषयकजिज्ञासा भवत्यतस्तदुपदर्शनार्थं पञ्चकर्मीयसिद्धिरुच्यते| पञ्चकर्मप्रवृत्तिनिवृत्तिविषयज्ञानार्थमधिकृत्य कृता सिद्धिः पञ्चकर्मीयसिद्धिः||१-२||
Adhikarana 2 (3) · Śloka 3
येषां यस्मात् पञ्चकर्माण्यग्निवेश न कारयेत्|
येषां च कारयेत्तानि तत् सर्वं सम्प्रवक्ष्यते||३||
येषामित्यादिनाऽध्यायार्थं सङ्कल्प्य प्रतिजानीते| पञ्चकर्माणि येषां न कार्याणीत्यनेन व्यस्तानि समस्तानि च येषां न कार्याणि, तानि पृथग्वक्ष्यन्ते||३||
Adhikarana 3 (4-7) · Śloka 7
चण्डः साहसिको भीरुः कृतघ्नो व्यग्र एव च|
सद्राजभिषजां द्वेष्टा तद्द्विष्टः शोकपीडितः||४||
यादृच्छिको मुमूर्षुश्च विहीनः करणैश्च यः|
वैरी वैद्यविदग्धश्च श्रद्धाहीनः सुशङ्कितः||५||
भिषजामविधेयश्च नोपक्रम्या भिषग्विदा|
एतानुपचरन् वैद्यो बहून् दोषानवाप्नुयात्||६||
एभ्योऽन्ये समुपक्रम्या नराः सर्वैरुपक्रमैः|
अवस्थां प्रविभज्यैषां वर्ज्यं कार्यं च वक्ष्यते||७||
चण्ड इत्यादिना सकलपञ्चकर्माविषयानाह| यद्यपि च विमाने जनपदोद्ध्वंसनीये (वि.अ.३) रोगभिषग्जितीये (वि.अ.८) च अनपवादप्रतीकारादयोऽनुपक्रमणीयत्वेनोक्ता एव, तथाऽपीह प्रकरणागतत्वात् पुनरुच्यन्ते| चण्डादिषु प्रवृत्तिर्भेषजस्याशक्यत्वान्निषिध्यते; कृतघ्नादिषु चाधर्मवशादेव भेषजं न सिध्यति, प्रत्युताधार्मिकप्रतिक्रिययाऽधर्म एव भवतीति निवृत्तिर्विधीयते| सतो राज्ञः भिषजश्च द्वेष्टीति सद्राजभिषजां द्वेष्टा, किंवा सदिति राज्ञो भिषजश्च विशेषणम्| तद्द्विष्ट इति सदादिद्वेष्यः| यादृच्छिकः नास्तिकः| विहीनः करणैरिति उपकरणैः| वैरी वैद्यापकारकः, वैद्यद्वेष्टा तु नापकारक इति विशेषः| वैद्यविदग्धः वैद्यमानी| भिषजामविधेय इति भिषजामनायत्तः| सर्वैरिति वमनादिभिरन्यैश्च संशमनादिभिः| एषामिति चण्डादिव्यतिरिक्तानाम्||४-७||
Adhikarana 4 (8-9) · Śloka 9
अवम्यास्तावत्- क्षतक्षीणातिस्थूलातिकृशबालवृद्धदुर्बलश्रान्तपिपासितक्षुधितकर्मभाराध्वहतोपवासमैथुनाध्ययनव्यायामचिन्ता- प्रसक्तक्षामगर्भिणीसुकुमारसंवृतकोष्ठदुश्छर्दनोर्ध्वरक्तपित्तप्रसक्तच्छर्दिरूर्ध्ववातास्थापितानुवासितहृद्रोगोदावर्तमूत्राघात- प्लीहगुल्मोदराष्ठीलास्वरोपघाततिमिरशिरशङ्खकर्णाक्षिशूलार्ताः||८||
तत्र क्षतस्य भूयः क्षणनाद्रक्तातिप्रवृत्तिः स्यात्, क्षीणातिस्थूलकृशबालवृद्धदुर्बलानामौषधबलासहत्वात् प्राणोपरोधः, श्रान्तपिपासितक्षुधितानां च तद्वत्, कर्मभाराध्वहतोपवासमैथुनाध्ययनव्यायामचिन्ताप्रसक्तक्षामाणां रौक्ष्याद्वातरक्तच्छेदक्षतभयं स्यात्, गर्भिण्या गर्भव्यापदामगर्भभ्रंशाच्चदारुणा रोगप्राप्तिः, सुकुमारस्य हृदयापकर्षणादूर्ध्वमधो वा रुधिरातिप्रवृत्तिः, संवृतकोष्ठदुश्छछर्दनयोरतिमात्रप्रवाहणाद्दोषाः समुत्क्लिष्टा अन्तःकोष्ठे जनयन्त्यन्तर्विसर्पं स्तम्भं जाड्यं वैचित्त्यं मरणं वा, ऊर्ध्वगरक्तपित्तिन उदानमुत्क्षिप्य प्राणान् हरेद्रक्तं चातिप्रवर्तयेत्, प्रसक्तच्छर्देस्तद्वत्, ऊर्ध्ववातास्थापितानुवासितानामूर्ध्वं वातातिप्रवृत्तिः, हृद्रोगिणोहृदयोपरोधः, उदावर्तिनो घोरतर उदावर्तः स्याच्छीघ्रतरहन्ता, मूत्राघातादिभिरार्तानां तीव्रतरशूलप्रादुर्भावः, तिमिरार्तानां तिमिरातिवृद्धिः, शिरःशूलादिषु शूलातिवृद्धिः; तस्मादेते न वम्याः|
सर्वेष्वपि तु खल्वेतेषु विषगरविरुद्धाजीर्णाभ्यवहारामकृतेष्वप्रतिषिद्धं शीघ्रतरकारित्वादेषामिति ||९||
सम्प्रत्युपक्रमणीयानामेव रोगादियोगकृतावस्थाभेदेनाकर्तव्यपञ्चकर्मतां दर्शयन्नाह- अवम्यास्तावदित्यादि| अवम्यादौ तावदितिपदं प्राक्प्रस्तुतोपदर्शनार्थम्| प्रसक्तशब्दो मैथुनादिभिः प्रत्येकं सम्बध्यते| संवृतकोष्ठः वायुनाऽल्पीकृतकोष्ठः, ‘वायुव्याप्तकोष्ठः’ इत्येके| तत्र क्षतस्येत्यदिना यथोक्तवमनादाने हेतुमाह| प्राणोपरोधः मरणं, ‘बलक्षयः’ इत्यन्ये| श्रान्तादीनां विच्छेदपाठेन प्राणोपरोधस्य पूर्वापेक्षया हीनमात्रत्वं दर्शयति| वातरक्तच्छेदक्षतभयमित्यत्र रक्तच्छेदो रक्तमोक्षः| सुकुमारस्येति मृदुशरीरस्य| हृदयापकर्षणादिति हृदयहिंसनात्| तद्वदिति ऊर्ध्वरक्तपित्तिनामित्यत्रोक्तो दोषः| अवम्यानामवस्थायां वमनमाह- सर्वेष्वपीत्यादि| यद्यपि चात्राध्यायान्ते सर्वेष्वेव निर्दिष्टेष्ववस्थायां निषिद्धमपि वक्ष्यति, तथाऽपीह विधानेनात्रावश्यं कर्तव्यं वमनमिति बोध्यम्||८-९||
Adhikarana 5 (10) · Śloka 10
शेषास्तु वम्याः; विशेषतस्तु पीनसकुष्ठनवज्वरराजयक्ष्मकासश्वासगलग्रहगलगण्डश्लीपदमेहमन्दाग्निविरुद्धाजीर्णान्न विसूचिकालसकविषगरपीतदष्टदिग्धविद्धाधःशोणितपित्तप्रसेक (दुर्नाम ) हृल्लासारोचकाविपाकापच्यपस्मारोन्मादातिसारशोफपाण्डुरोगमुखपाकदुष्टस्तन्यादयः श्लेष्मव्याधयो विशेषेण महारोगाध्यायोक्ताश्च; एतेषु हि वमनं प्रधानतममित्युक्तं केदारसेतुभेदे शाल्याद्यशोषदोषविनाशवत्||१०||
शेषास्तु वम्या इत्यभिधायापि पीनसादीन् पुनर्वमनविषयतया दर्शयन् तेषु विशेषेण वमनस्य यौगिकतां दर्शयति; एवमुत्तरत्रापि पुनर्विरेचनादिविषयोपदर्शने व्याख्येयम्| प्रधानतममित्यनेन महारोगाध्याये “केदारसेतुभेदे” (सू.अ.२०) इत्यादिनैकदेशेनोक्तं प्राधान्यख्यापकं ग्रन्थं ग्राहयति; तेन यदुक्तं तत्र- “वमनं खलु सर्वोपक्रमेभ्यः श्लेष्मणि प्रधानतमं मन्यन्ते भिषजः, तद्ध्यादित एवामाशयमनुप्रविश्य केवलं वैकारिकं श्लेष्ममूलमपकर्षति, तत्रावजिते श्लेष्मण्यपि शरीरान्तर्गताः श्लेष्मविकाराः प्रशान्तिमापद्यन्ते, यथा- भिन्ने केदारसेतौ शालिषष्टिकादीन्यभिष्यन्दमानान्यम्भसा प्रशोषमापद्यन्ते, तद्वत्” (सू.अ.२०) इति ग्रन्थखण्डकं, तदिह सम्बध्यते; एवं विरेचनप्राधान्ये तथा बस्तिप्राधान्येऽपि यदिहैकदेशं महारोगाध्यायोक्तप्राधान्यख्यापकग्रन्थखण्डकं वक्ष्यति, तत्र तद्ग्रन्थाध्याहारेण योजनीयम्||१०||
Adhikarana 6 (11-12) · Śloka 12
अविरेच्यास्तु सुभगक्षतगुदमुक्तनालाधोभागरक्तपित्तिविलङ्घितदुर्बलेन्द्रियाल्पाग्निनिरूढकामादिव्यग्राजीर्णिनवज्वरि- मदात्ययिताध्मातशल्यार्दिताभिहतातिस्निग्धरूक्षदारुणकोष्ठाः क्षतादयश्च गर्भिण्यन्ताः||११||
तत्र सुभगस्य सुकुमारोक्तो दोषः स्यात्, क्षतगुदस्य क्षते गुदे प्राणोपरोधकरीं रुजां जनयेत्, मुक्तनालमतिप्रवृत्त्या हन्यात्, अधोभागरक्तपित्तिनं तद्वत्, विलङ्घितदुर्बलेन्द्रियाल्पाग्निनिरूढा औषधवेगं न सहेरन्, कामादिव्यग्रमनसो न प्रवर्तते कृच्छ्रेण वा प्रवर्तमानमयोगदोषान् कुर्यात्, अजीर्णिन आमदोषः स्यात्, नवज्वरिणोऽविपक्वान् दोषान् न निर्हरेद् वातमेव च कोपयेत्, मदात्ययितस्य मद्यक्षीणे देहे वायुः प्राणोपरोधं कुर्यात्, आध्मातस्याधमतो वा पुरीषकोष्ठे निचितो वायुर्विसर्पन् सहसाऽऽनाहं तीव्रतरं मरणं वा जनयेत्, शल्यार्दिताभिहतयोः क्षते वायुराश्रितो जीवितं हिंस्यात्, अतिस्निग्धस्यातियोगभयं भवेत्, रूक्षस्य वायुरङ्गप्रग्रहं कुर्यात्, दारुणकोष्ठस्य विरेचनोद्धता दोषा हृच्छूलपर्वभेदानाहाङ्गमर्दच्छर्दिमूर्च्छाक्लमाञ्जनयित्वा प्राणान् हन्युः, क्षतादीनां गर्भिण्यन्तानां छर्दनोक्तो दोषः स्यात्; तस्मादेते न विरेच्याः||१२||
विरेचनाविषयमाह- अविरेच्यास्त्वित्यादि| सुभगक्षतगुद इति सुभगगुदः, क्षतगुदश्च; अन्ये तु सुभगं सुखसंवर्धितमाहुः| मुक्तनालः असंवृतगुदः| क्षतादयश्च गर्भिण्यन्ता इति वमनाविषयमध्यपठिताः| रुजां जनयेद् ‘विरेचनं’ इति शेषः| अधोभागरक्तपित्तिनं तद्वदिति अतिप्रवृत्या हन्यादित्यर्थः| कामादीत्यादावादिशब्देन शोकक्रोधादीनां ग्रहणम्| अत्र चाप्रवृत्तिः स्तोकप्रवृत्तिश्चायोग एव; उक्तं हि- “अयोगः प्रातिलोम्येन न चाल्पं वा प्रवर्तनम्” (सि.अ.६) इति| अयोगदोषाश्च विभ्रंशहिक्कास्तम्भादयो वक्ष्यमाणाः| आमदोष इति आमदोषनिमित्तविसूचिकादिः| पुरीषकोष्ठ इति पुरीषाद्यासक्तकोष्ठः| दुश्छर्दनोक्त इति प्राग्वमनोक्तदोषः स्यात्||११-१२||
Adhikarana 7 (13) · Śloka 13
शेषास्तु विरेच्याः; विशेषतस्तु कुष्ठज्वरमेहोर्ध्वरक्तपित्तभगन्दरोदरार्शोब्रधप्लीहगुल्मार्बुदगलगण्डग्रन्थिविसूचिकालसकमूत्राघातक्रिमिकोष्ठविसर्प- पाण्डुरोगशिरःपार्श्वशूलोदावर्तनेत्रास्यदाहहृद्रोगव्यङ्गनीलिकानेत्रनासिकास्यस्रवणहलीमकश्वासकासकामला- पच्यपस्मारोन्मादवातरक्तयोनिरेतोदोषतैमिर्यारोचकाविपाकच्छर्दिश्वयथूदरविस्फोटकादयः पित्तव्याधयो विशेषेण महारोगाध्यायोक्ताश्च; एतेषु हि विरेचनं प्रधानतममित्युक्तमग्न्युपशमेऽग्निगृहवत्||१३||
विशेषेण विरेच्यानाह- कुष्ठेत्यादि| विसूचिकायां विरेचनमुत्तरकालं शेषदोषहरणार्थं ज्ञेयम्||१३||
Adhikarana 8 (14-15) · Śloka 15
अनास्थाप्यास्तु अजीर्ण्यतिस्निग्धपीतस्नेहोत्क्लिष्टदोषाल्पाग्नियानक्लान्तातिदुर्बलक्षुत्तृष्णाश्रमार्तातिकृशभुक्तभक्तपीतोदकवमितविरिक्तकृतनस्तः कर्मकुद्धभीतमत्तमूर्च्छितप्रसक्तच्छर्दिनिष्ठीविकाश्वासकासहिक्काबद्धच्छिद्रोदकोदराध्मानालसकविसूचिकामप्रजातामातिसार- मधुमेहकुष्ठार्ताः||१४||
तत्राजीर्ण्यतिस्निग्धपीतस्नेहानां दूष्योदरं मूर्च्छाश्वयथुर्वा स्यात्, उत्क्लिष्टदोषमन्दाग्न्योररोचकस्तीव्रः, यानक्लान्तस्य क्षोभव्यापन्नो बस्तिराशु देहं शोषयेत्, अतिदुर्बलक्षुत्तृष्णाश्रमार्तानां पूर्वोक्तोदोषः स्यात्, अतिकृशस्य कार्श्यं पुनर्जनयेत्, भुक्तभक्तपीतोदकयोरुत्क्लिश्योर्ध्वमधो वा वायुर्बस्तिमुत्क्षिप्य क्षिप्रं घोरान् विकाराञ्जनयेत्, वमितविरिक्तयोस्तु रूक्षं शरीरं निरूहः क्षतं क्षार इव दहेत्, कृतनस्तःकर्मणो विभ्रंशं भृशसंरुद्धस्रोतसः कुर्यात्, क्रुद्धभीतयोर्बस्तिरूर्ध्वमुपप्लवेत्, मत्तमूर्च्छितयो र्भृशं विचलितायां सञ्ज्ञायां चित्तोपघाताद् व्यापत् स्यात्, प्रसक्तच्छर्दिर्निष्ठीविकाश्वासकासहिक्कार्तानामूर्ध्वीभूतो वायुरूर्ध्वं बस्तिं नयेत्, बद्धच्छिद्रोदकोदराध्मानार्तानां भृशतरमाध्याप्य बस्तिः प्राणान् हिंस्यात्, अलसकविसूचिकामप्रजातामातिसारिणामामकृतो दोषः स्यात्, मधुमेहकुष्ठिनोर्व्याधेः पुनर्वृद्धिः; तस्मादेते नास्थाप्याः||१५||
अनास्थाप्यानाह- अनास्थाप्यास्त्वित्यादि| मधुमेहशब्देन सर्वप्रमेहग्रहणम्| दूष्योदरमिति सन्निपातोदरम्| यानं रथादियानम्| दहेद् ‘बस्तिः’ इति शेषः| विभ्रंशमित्यत्र ‘इन्द्रियाणाम्’ इति शेषः| ऊर्ध्वमुपल्पवेदिति मुखादिभिरुद्गच्छेत्| मत्तमूर्च्छितयोर्व्यापत् स्यादिति मदमूर्च्छारूपा व्यापत् स्यादित्याहुः| बद्धोदरादावाध्मातानां बस्तिर्निषिध्यते; तेन “स्निग्धाय बद्धोदरिणे” इत्यादिना यावच्च “निरूहं सानुवासनम्” (चि.अ.१३) इति ग्रन्थेन निरूहविधानमविरुद्धं भवति; अन्ये तु उदराध्याय एव ‘बद्धोदरिणे’ इत्यनेन सविबन्धोदरिविषयं निरूहं वर्णयन्ति, तेनात्र सामान्येन बद्धोदरे निरूहनिषेधो न विरुद्धः||१४-१५||
Adhikarana 9 (16) · Śloka 16
शेषास्त्वास्थाप्याः; विशेषतस्तु सर्वाङ्गैकाङ्गकुक्षिरोगवातवर्चोमूत्रशुक्रसङ्गबलवर्णमांसरेतःक्षयदोषाध्मानाङ्गसुप्तिक्रिमिकोष्ठोदावर्तशुद्धातिसार- पर्वभेदाभितापप्लीहगुल्मशूलहृद्रोगभगन्दरोन्मादज्वरब्रध्नशिरःकर्णशूलहृदयपार्श्वपृष्ठकटीग्रहवेपनाक्षेपकगौरवातिलाघव- रजःक्षयार्तविषमाग्निस्फिग्जानुजङ्घोरुगुल्फपार्ष्णिप्रपदयोनिबाह्वङ्गुलिस्तनान्तदन्तनखपर्वास्थिशूल- शोषस्तम्भान्त्रकूजपरिकर्तिकाल्पाल्पसशब्दोग्रगन्धोत्थानादयो वातव्याधयो विशेषेण महारोगाध्यायोक्ताश्च; एतेष्वास्थापनं प्रधानतममित्युक्तं वनस्पतिमूलच्छेदवत्||१६||
विशेषेणास्थाप्यानाह- सर्वाङ्गेत्यादि| स्फिगादिभिः शूलशोषस्तम्भाः सम्बध्यन्ते||१६||
Adhikarana 10 (17-19) · Śloka 19
य एवानास्थाप्यास्त एवाननुवास्याः स्युः; विशेषतस्त्वभुक्तभक्तनवज्वरपाण्डुरोगकामलाप्रमेहार्शःप्रतिश्यायारोचकमन्दाग्निदुर्बलप्लीहकफोदरोरुस्तम्भवर्चोभेद- विषगरपीतपित्तकफाभिष्यन्दगुरुकोष्ठश्लीपदगलगण्डापचिक्रिमिकोष्ठिनः ||१७||
तत्राभुक्तभक्तस्यानावृतमार्गत्वादूर्ध्वमतिवर्तते स्नेहः, नवज्वरपाण्डुरोगकामलाप्रमेहिणां दोषानुत्क्लिश्योदरञ्जनयेत्, अर्शसस्यार्शांस्यभिष्यन्द्याध्मानं कुर्यात्, अरोचकार्तस्यान्नगृद्धिं पुनर्हन्यात्, मन्दाग्निदुर्बलयोर्मन्दतरमग्निं कुर्यात्, प्रतिश्यायप्लीहादिमतां भृशमुत्क्लिष्टदोषाणां भूय एव दोषं वर्धयेत्; तस्मादेते नानुवास्याः||१८||
य एवास्थाप्यास्त एवानुवास्याः; विशेषतस्तु रूक्षतीक्ष्णाग्नयः केवलवातरोगार्ताश्च; एतेषु ह्यनुवासनं प्रधानतममित्युक्तं मूले द्रुमप्रसेकवत्||१९||
अननुवासनविषयोपदर्शने अनास्थाप्येषु भुक्तभक्तः पठितः, तव्द्युदासार्थमभुक्तभक्तोपादनम्; अनुवासनमभुक्तस्यानावृतत्वादूर्ध्वं याति, न तु निरूह इति विशेषः; अनुवासनं तु स्नेहस्य सूक्ष्मतया विसरणशीलं सायं दीयते; तेन तांवत्कालमभोजनाच्छून्यशरीरस्योर्ध्वं याति| अनुवासनं च “शूले च भक्तानभिनन्दने च” (सि.अ.१) इत्यनेन यद्यपि विहितं, तथाऽपीह भक्तानभिनन्दनहेत्वन्तर्भूतायामरुचौ तन्निषेधो न विरुद्धः; अनभिनन्दनं ह्यश्रद्धामात्रं वातकृतम्, अरुचिस्तु सर्वदा अनिच्छा; केवलवातरोगश्चाश्रद्धा, शुद्धवातरोगयुक्तोऽनुवासनार्हः| निरूहप्राधान्यख्यापने वनस्पतिमूलोच्छेदनवदित्यनेन महारोगाध्यायोक्तबस्तिप्राधान्यख्यापनग्रन्थोपदर्शनं; “यथा वनस्पतेर्मूले च्छिन्ने स्कन्धशाखावरोहकुसुमफलपलाशादीनां नियतो विनाशस्तद्वत्” (सू.अ.२०) इति, मूले द्रुमप्रसेकवच्चेत्यनेन कल्पनासिद्ध्युक्तं- “मूले निषिक्तो हि यथा द्रुमः स्यात्” (सि.अ.१) इत्यादियथोक्तानुवासनप्राधान्यख्यापनग्रन्थग्रहणं करोति||१७-१९||
Adhikarana 11 (20-21) · Śloka 21
अशिरोविरेचनार्हास्तु अजीर्णिभुक्तभक्तपीतस्नेहमद्यतोयपातुकामाः स्नातशिराः स्नातुकामः क्षुत्तृष्णाश्रमार्तमत्तमूर्च्छितशस्त्रदण्डहतव्यवायव्यायामपानक्लान्तनवज्वरशोकाभितप्तविरिक्तानुवासितगर्भिणीनवप्रतिश्यायार्ताः, अनृतौ दुर्दिने चेति||२०||
तत्राजीर्णिभुक्तभक्तयोर्दोष ऊर्ध्ववहानि स्रोतांस्यावृत्य कासश्वासच्छर्दिप्रतिश्यायाञ्जनयेत्, पीतस्नेहमद्यतोयपातुकामानां कृते च पिबतां मुखनासास्रावाक्ष्युपदेहतिमिरशिरोरोगाञ्जनयेत्, स्नातशिरसः कृते च स्नानाच्छिरसः प्रतिश्यायं, क्षुधार्तस्य वातप्रकोपं, तृष्णार्तस्य पुनस्तृष्णाभिवृद्धिं मुखशोषं च, श्रमार्तमत्तमूर्च्छितानामास्थापनोक्तं दोषं जनयेत्, शस्त्रदण्डहतयोस्तीव्रतरां रुजं जनयेत्, व्यवायव्यायामपानक्लान्तानां शिरःस्कन्धनेत्रोरःपीडनं, नवज्वरशोकाभितप्तयोरूष्मा नेत्रनाडीरनुसृत्य तिमिरं ज्वरवृद्धिं च कुर्यात्, विरिक्तस्य वायुरिन्द्रियोपघातं कुर्यात्, अनुवासितस्य कफः शिरोगुरुत्वकण्डूक्रिमिदोषाञ्जनयेत्, गर्भिण्या गर्भं स्तम्भयेत् स काणः कुणिः पक्षहतः पीठसर्पी वा जायते, नवप्रतिश्यायार्तस्य स्रोतांसि व्यापादयेत्, अनृतौ दुर्दिने च शीतदोषान् पूतिनस्यं शिरोरोगं च जनयेत्; तस्मादेते न शिरोविरेचनार्हाः||२१||
अशिरोविरेचनार्हानाह- अशिरोविरेचनार्हा इत्यादि| पातुकाम इति स्नेहादिपानकामः, पानक्लान्तो दिनान्तरेऽपि पानजव्याधिपीडितः| अनृतौ शीतग्रीष्मवर्षासु| दुर्दिने इति मेघाच्छादितेऽह्नि| कृते पिबतामिति शिरोविरेचने कृते स्नेहान् पिबतामित्यर्थः| कुणिः कुब्जितकरः ; पीठसर्पी पङ्गुः| अनृतौ दुर्दिने चेत्यादौ शीतदोषानित्यनेन शीतकाले दीयमानस्य दुर्दिने च कृतस्य पूतिनासाकर्तृत्वं, ग्रीष्मवर्षाकृतस्य तु शिरोरोगकर्तृत्वम्; अन्ये तु, अनृतुदुर्दिनमित्यनेन अवार्षिकं दुर्दिनमाहुः||२०-२१||
Adhikarana 12 (22) · Śloka 22
शेषास्त्वर्हाः, विशेषतस्तु शिरोदन्तमन्यास्तम्भगलहनुग्रहपीनसगलशुण्डिकाशालूकशुक्रतिमिरवर्त्मरोगव्यङ्गो पजिह्विकार्धावभेदकग्रीवास्कन्धांसास्यनासिकाकर्णाक्षिमूर्धकपालशिरोरोगार्दितापतन्त्रकापतानकगलगण्ड- दन्तशूलहर्षचालाक्षिराज्यर्बुदस्वरभेदवाग्ग्रहगद्गदक्रथनादय ऊर्ध्वजत्रुगताश्चवातादिविकाराः परिपक्वाश्च; एतेषु शिरोविरेचनं प्रधानतममित्युक्तं, तद्ध्युत्तमाङ्गमनुप्रविश्य मुञ्जादीषिकामिवासक्तां केवलं विकारकरं दोषमपकर्षति||२२||
शिरोदन्तेत्यादिना विशेषेण शिरोविरेचनार्हानाह| शिरोदन्तमन्याभिः स्तम्भशब्दः सम्बध्यते| पीनसोऽत्र पक्वप्रतिश्यायः, तरुणे च प्रतिश्याये शिरोविरेकनिषेध इति न विरोधः| अपतन्त्रकः अपतानकभेद एव निःसञ्ज्ञः; उक्तं हि- “निःसञ्ज्ञः सोऽपतन्त्रकः” (सि.अ.९) इति| शूलहर्षचाला दन्तेन सम्बध्यन्ते| अक्षिराजी नेत्रराजी , नेत्ररोगविशेषः| वातविकारेऽप्यत्रविरेचनं स्थानसम्बन्धागतश्लेष्मवातहन्तृत्वेनैवोपपन्नम्| मुञ्जादीषिकामिवासक्तामिति मुञ्जाच्छरावयवाद्यथा ईषिका शरिका आसक्ता आकृष्यते मुञ्जानुपघातेन, तथा शिरसि पक्वो दोषो ह्रियत इत्यर्थः||२२||
Adhikarana 13 (23) · Śloka 23
प्रावृट्शरद्वसन्तेतरेष्वात्ययिकेषु रोगेषु नावनं कुर्यात् कृत्रिमगुणोपधानात्; ग्रीष्मे पूर्वाह्णे, शीते मध्याह्ने, वर्षास्वदुर्दिने चेति||२३||
अनृतौ शिरोविरेचनं निषिद्धम्, अवस्थावशेन तद्विधानमाह- प्रावृडित्यादि| इतरेष्विति हेमन्तग्रीष्मवर्षासु| आत्ययिकेष्वितिवचनादनात्ययिकेषु गदेषु निषेधयति| आत्ययिकेऽपि शीतादिप्रतीकारार्थमाह- कृत्रिमगुणोपधानादिति; कृत्रिमगुणोपधानं रोगभिषग्जितीयोक्तं कर्तव्यम्| ग्रीष्मादिष्वेव कालविशेषेणौष्ण्यादिप्रतिक्रियां दर्शयन्नाह- ग्रीष्मे पूर्वाह्णे इत्यादि||२३||
Adhikarana 14 (24-28) · Śloka 28
तत्र श्लोकाः- इति पञ्चविधं कर्म विस्तरेण निदर्शितम्|
येभ्यो यन्न हितं यस्मात् कर्म येभ्यश्च यद्धितम्||२४||
न चैकान्तेन निर्दिष्टेऽप्यर्थेऽभिनिविशेद्बुधः|
स्वयमप्यत्र वैद्येन तर्क्यं बुद्धिमता भवेत्||२५||
उत्पद्येत हि साऽवस्था देशकालबलं प्रति|
यस्यां कार्यमकार्यं स्यात् कर्म कार्यं च वर्जितम्||२६||
छर्दिर्हृद्रोगगुल्मानां वमनं स्वे चिकित्सिते|
अवस्थां प्राप्य निर्दिष्टं कुष्ठिनां बस्तिकर्म च||२७||
तस्मात् सत्यपि निर्देशे कुर्यादूह्य स्वयं धिया|
विना तर्केण या सिद्धिर्यदृच्छासिद्धिरेव सा||२८||
अध्यायार्थसङ्ग्रहमभिधाय वमनाद्यविषयत्वेन तथा वमनादिविषयत्वेन च प्रतिपादिते वमनादिनिवृत्तिप्रवृत्तिनिश्चयं निषेधयन्नाह- न चैकान्तेनेत्यादि| अभिनिविशेदिति निश्चयं कुर्यात्| तर्क्यमिति अनुक्तमप्युहनीयम्| बुद्धिमतेतिवचनेन अबुद्धिमतामनुक्तोहं निषेधयति; उक्तं हि- “तस्माद्बुद्धिमतामूहापोहवितर्काः, अल्पबुद्धेस्तु यथोक्तानुगमनमेव श्रेयः” (वि.अ.८) इति| अथ किमर्थं यथोक्तानुगमनमेव श्रेय इति, तथा किमर्थमेकान्ततावधारणं न कर्तव्यमित्याह- उत्पद्यतेहीत्यादि| देशकालबलं प्रतीति देशादिभेदकृतेत्यर्थः| कार्यमकार्यं स्यादिति कर्तव्यतयोक्तमकरणीयं स्यादिति, तथा वर्जितं च यत् कर्म तत् कार्यं स्यादवस्थाविशेषात्| निषिद्धस्यैवावस्थावशात् क्रियमाणस्य वमनादेरुदाहरणमाह- छर्दिहृद्रोगेत्यादि| स्वे चिकित्सिते इति छर्दिचिकित्साध्याये| अवस्थां प्राप्य निर्दिष्टमित्यनेन अवस्थाविशेष एव निषिद्धविधानमुत्सर्गापवादत इत्यविरोधं दर्शयति; एवमन्यत्राप्यपवादविषये वमनादिविधानमवस्थाविशेषपरतया समाधेयम्| न्यायोपपादितमुक्तं चार्थमुपसंहरन्नाह- तस्मादित्यादि| शास्त्रोपदेशे सत्यपि स्वबुव्द्यैवशास्त्रानुगतयाऽनुक्तमपि कर्तव्यं; यदुक्तं- “प्रचरणमिव भिक्षुकस्य बीजमिव कर्षकस्य सूत्रं बुद्धिमतामल्पमप्यनल्पज्ञानाय भवति” (वि.अ.८) इति||२४-२८||
Adhikarana puShpikA · Śloka 2
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते सिद्धिस्थाने पञ्चकर्मीयसिद्धिर्नाम द्वितीयोऽध्यायः||२||
इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां सिद्धिस्थाने पञ्चकर्मीयसिद्धिर्नाम द्वितीयोऽध्यायः||२||