Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

30. arthēdaśamahāmūlīyō'dhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातोऽर्थेदशमहामूलीयमध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

पारिशेष्यात् किंवा सूत्रस्थानमभिधाय तन्त्रसङ्ग्रहं वक्तुमर्थेदशमहामूलीय उच्यते| अत्र ‘अधिकृत्य कृते ग्रन्थे’ (पा. अ. ४/३/८७) इत्यनुवर्तमाने “अध्यायानुवाकयोर्लुक् च” (पा. अ. ५/२/६०) इति च्छः||१-२||

Adhikarana 2 (3-4) · Śloka 4

अर्थे दश महामूलाः समासक्ता महाफलाः| महच्चार्थश्च हृदयं पर्यायैरुच्यते बुधैः||३|| षडङ्गमङ्गं विज्ञानमिन्द्रियाण्यर्थपञ्चकम्| आत्मा च सगुणश्चेतश्चिन्त्यं च हृदि संश्रितम्||४||

🔊 Audio coming soon

अर्थे इति हृदये, महामूला इति महद्धृदयं मूलं यासां धमनीनां तास्तथा, समासक्ता इत्याश्रिताः| तस्य हृदयस्य पर्यायानाह- महच्चेत्यादि| महत्सञ्ज्ञा तथा अर्थसञ्ज्ञा च हृदयस्य वैद्यव्यवहारसिद्धा न सर्वत्र शास्त्रान्तरेषु| हृदयस्य यथा यन्महत्त्वं यथा वा अर्थ्यमानत्वेनार्थत्वं तद्धृदयस्याभ्यर्हितत्वात्| अभ्यर्हितत्वमाह- षडङ्गमित्यादि| षडङ्गानि बाहुद्वयजङ्घाद्वयशिरोन्तराधिरूपाणि यस्य तत् षडङ्गमङ्गम्| अङ्गं च षडङ्गादतिरिक्तं समुदायरूपमवयविरूपं वा| अङ्गमिति वक्तव्ये षडङ्गविशेषणं षण्णामङ्गानामपि हृदयाश्रितत्वप्रतिपादनार्थं; किंवा, अङ्गशब्दस्यावयववाचिनो निषेधार्थम्| विज्ञानं च यद्यपि ‘आत्मा च सगुणः’ इति वचनादेव आत्मगुणत्वेन लब्धं, तथाऽप्यात्मगुणेषु प्राधान्यात् पुनः पृथगुच्यते; वचनं हि “सुखं समग्रं विज्ञानं विसर्गे च प्रतिष्ठितम्” इति| इन्द्रियाणि चक्षुरादीनि पञ्च| अर्थपञ्चकं शब्दादि| सगुण इत्यनेन सुखादिग्रहणम्| चेतः मनः| चिन्त्यं मनोविषयः| एते च षडङ्गविज्ञानादयः प्रति प्रति पठिताः प्रत्येकमेवोपादेयत्वेन; तेनात्र कस्यचिदर्थलब्धत्वेनोपादानं कर्तव्यमिति नोद्भावनीयम्, अर्थलब्धो ह्यर्थः साक्षादनभिधीयमानत्वादप्रधानं भवति||३-४||

Adhikarana 3 (5) · Śloka 6

प्रतिष्ठार्थं हि भावानामेषां हृदयमिष्यते| गोपानसीनामागारकर्णिकेवार्थचिन्तकैः||५|| तस्योपघातान्मूर्च्छायं भेदान्मरणमृच्छति|६|

🔊 Audio coming soon

अथ कथममी षडङ्गादयो हृदयाश्रयाः, यावता “हृदयं द्व्यङ्गुलं” (वि. ८) इति वक्ष्यति, अङ्गं च षडङ्गाश्रयं महत्, इन्द्रियाण्यपि च स्वाश्रय चक्षुरादिस्थितानि, अर्थाश्च बाह्यद्रव्याश्रयिणः, आत्मा चानाश्रित एव व्यापकः, तद्गुणश्च विज्ञानमात्मन्येवाश्रितं, मनोऽप्यनाश्रितमात्मगतं, चिन्त्यं च ध्येयादि न हृदि, इत्याशङ्क्याह- प्रतिष्ठेत्यादि|- प्रतिष्ठा कार्यकरणाविरोधेनावस्थानम् | भावानामेषामिति षडङ्गादीनाम्| हृदयमिष्यते ‘कारणम्’ इति शेषः| अत्रैव दृष्टान्तमाह गोपानसीनामित्यादि| गोपानस्यः गृहाच्छादनाधारकाष्ठानि | आगारकर्णिका गृहाच्छादनमध्ये गृहाच्छादनकाष्ठनिबन्धनी लोके ‘आडकम्’ इत्युच्यते| अर्थचिन्तकैरिति हृदयचिन्तकैः| तेन, षडङ्गादीनां हृदयाश्रितत्वं नाधाराधेयभावेन, किं तर्हि तदन्वयव्यतिरेकानुविधायित्वेनेति दर्शितं भवति| हृदयाश्रितत्वं हृदये प्रकृतिस्थे षडङ्गादिभावानां प्रकृतिस्थत्वं, हृदयोपघाते तदुपघात इत्यर्थः| यद्यपि च, आत्मविज्ञानमनसां हृदयाश्रितत्वमाधाराधेयभावादपि कष्टसृष्ट्या पार्यते वक्तुं, तथाऽपि सर्वव्यापकत्वान्नोपादेयमाधारधेयत्वम्| नैवम्, आत्मा ह्यत्र संसारी भोगायतनत्वेनाभिप्रेतः, स च हृदयप्रदेश एव सुखदुःखाद्युपलभत इत्यनुभवसिद्धं, तेन हृदयाश्रित इवात्मा| तथा मनोऽपि प्रायेण हृद्येव तिष्ठति, यत उपरतक्रियं मनो हृद्येव तिष्ठति, तथा ध्याने योगे च हृदिस्थमेव मनो भवति| यदप्युक्तम्- “आत्मस्थे मनसि स्थिरे” (शा. १) इति, तदप्यात्मस्थत्वं मनसो हृदयस्थत्वमेव| एवं ज्ञानसुखदुःखानि च हृदयस्थान्येव लक्ष्यन्ते, तथा ह्यतिचिन्तनात्तथा दुःखावेशाद्वा हृदयमेव पीड्यते, नान्यदङ्गम्| भवत्वनेनाव्यापकेनाश्रयाश्रयिभावेन व्युत्पादितेन | तमेव हृदयोपघाते षडङ्गादिभावोपघातमाह- तस्योपघातादित्यादि| तस्येति हृदयस्य| उपघातः किञ्चिदुपहननम्| भेदादिति महोपघातात्| मरणं च षडङ्गादीनां सर्वेषामेव यथोक्तप्रतिष्ठानाश इति भावः||५||-

Adhikarana 4 (6-7) · Śloka 7

यद्धि तत् स्पर्शविज्ञानं धारि तत्तत्र संश्रितम्||६|| तत् परस्यौजसः स्थानं तत्र चैतन्यसङ्ग्रहः| हृदयं महदर्थश्च तस्मादुक्तं चिकित्सकैः ||७||

🔊 Audio coming soon

कथमेतद्भवतीत्याह- यद्धीत्यादि| स्पर्शो विज्ञायतेऽनेनेति स्पर्शं वा विजानातीति स्पर्शविज्ञानं; तस्यैव विशेषणं- धारीति, धारि तु शरीरेन्द्रियसत्त्वात्मसंयोगः; यदुक्तं- “शरीरेन्द्रियसत्त्वात्मसंयोगो धारि जीवितम्” (सू. १) इति; एतेन यः शरीरादिसंयोगः स्पर्शनेन विजानाति सर्वं ज्ञेयं, यश्चायं शरीरधारणाद्धारीत्युच्यते, स हृदि स्थितः| तेन, तदुपघातान्मूर्च्छा तथा तद्भेदान्मरणं चैतन्याननुवृत्तिलक्षणमुपपन्नम्| स्पर्शो हि द्विविध ऐन्द्रियको मानसश्च, एतत्स्पर्शद्वयं विना न किञ्चिज्ज्ञानं भवति; यदुक्तं- “यश्चैवैन्द्रियकः स्पर्शः स्पर्शो मानस एव च| द्विविधः सुखदुःखानां वेदनानां प्रवर्तकः” (शा. १) इति| मानसं च स्पर्शनं शारीरे यथास्थानमेव दर्शयिष्यामः| स्पर्शो विज्ञायत इति निरुक्तिपक्षे तु स्पर्शशब्देन लक्षणया स्पृश्यमानोऽर्थोऽभिप्रेतः, तेन सर्वज्ञेयावरोधः; यं प्राप्यैवार्थमिन्द्रियाणि स्पर्शेनार्थं प्रकाशयन्ति, यदुक्तं- “स्पृश्यते नानुपादानो नाऽस्पृष्टो वेत्ति वेदनाः” (शा. १) इति| यद्यपि शरीरेन्द्रियसत्त्वात्मसंयोगः शरीरप्रदेशान्तरेऽप्यस्ति, तथाऽपि नासौ शरीरधारणे तथा ज्ञानोत्पत्तौ वा प्रधानं, तदुपघातेऽपि शरीरधारणज्ञानयोर्दृष्टत्वात्; हृद्गतस्तु संयोगः प्रधानं, तदन्वयव्यतिरेकानुविधायित्वात् स्पर्शज्ञानशरीरधारणयोः; तेन सूक्तं- तत्तत्र संश्रितमिति| हृदयाभ्यर्हितत्वे धर्मान्तरमाह- तत् परस्येत्यादि| परस्य श्रेष्ठस्य| एतेन द्विविधमोजो दर्शयति- परमपरं च; तत्राञ्जलिपरिमाणमपरं, यदुक्तं- “तावदेव परिमाणं श्लैष्मिकस्यौजसः” (शा. ७) इति; अल्पप्रमाणं तु परं, यदभिप्रेत्योक्तं- “हृदि तिष्ठति यच्छुद्धं रक्तमीषत्सपीतकम्” (सू. १७) इति, तन्त्रान्तरेऽप्युक्तं- “प्राणाश्रयस्यौजसोऽष्टौ बिन्दवो हृदयाश्रिताः” इति; किञ्च, सति हि परे चापरे चौजसि ‘परस्य’ इति विशेषणं सार्थकं भवति, नत्वेकरूपे| अर्धाञ्जलिपरिमितस्यौजसो धमन्य एव हृदयाश्रिताः स्थानम्| तथा प्रमेहेऽर्धाञ्जलिपरिमितमेवौजः क्षीयते नाष्टबिन्दुकम्, अस्य हि किञ्चित्क्षयेऽपि मरणं भवति; प्रमेहे तु ओजःक्षये जीवत्येव तावत्; ओजःक्षयलक्षणमप्यर्धाञ्जल्योजःक्षय एव बोद्धव्यम्| ओजःशब्दश्च यद्यपि रसेऽपि वर्तते, यदुक्तं- “रसश्चौजसङ्ख्यातः” (नि. ४) इति, तथा “मलीभवति तत् प्रायः कल्पते किञ्चिदोजसे” (चि. ८) इति; तथाऽपीह सर्वधातुसारमोजोऽभिधीयते| एतच्चौज उपधातुरूपं केचिदाहुः; धातुर्हि धारणपोषणयोगाद्भवति, ओजस्तु देहधारकं सदपि न देहपोषकं, तेन नाष्टमो धातुरोजः| केचित्तु शुक्रविशेषमोजः प्राहुः, तच्च न मनः प्रीणाति| ये तु ब्रुवते- सर्वधातूनां सारसमुदयभूतमोजः, ते रसादिसाररूपतया रसादिभ्योऽभिन्नमोज इति पृथग्धातुत्वेनोपधातुत्वेन वा न निर्देश्यमिति पश्यन्ति; वचनं च- “भ्रमरैः फलपुष्पेभ्यो यथा सञ्चीयते मधु| तद्वदोजः शरीरेभ्यो गुणैः सम्भ्रियते नृणाम्” (सू. १७) इति; अत्र शरीरेभ्य इति धातुभ्यः, गुणैरिति सारभागैः| तत्र चैतन्यसङ्ग्रह इति तत्र हृदि आत्मा चैतन्यस्य स्वविषये प्रसृतस्य सङ्ग्रहणं करोति, तेन प्रसृतं मनो हृदये निगृह्य योगज्ञो भवत्यात्मेत्युक्तं भवति; ततश्च योगस्य मोक्षसाधनत्वेनोपादेयस्यापि हृदयमेव स्थानमिति हृदयमभ्यर्हितं भवति| यस्मादेवङ्गुणं हृदयम्, अतो हृदयं ‘महद्’ इति च, तथा ‘अर्थ’ इति चोच्यते चिकित्सकैः||६-७||

Adhikarana 5 (8) · Śloka 8

तेन मूलेन महता महामूला मता दश| ओजोवहाः शरीरेऽस्मिन् विधम्यन्ते समन्ततः||८||

🔊 Audio coming soon

सम्प्रति धमनीनां महामूलत्वं प्रतिपादयति- तेनेत्यादि| तेनेति हृदयेन महता, ‘युक्ताः’ इति शेषः| विधम्यन्ते विसर्पन्ते ||८||

Adhikarana 6 (9-11) · Śloka 12

येनौजसा वर्तयन्ति प्रीणिताः सर्वदेहिनः | यदृते सर्वभूतानां जीवितं नावतिष्ठते||९|| यत् सारमादौ गर्भस्य यत्तद्गर्भरसाद्रसः | संवर्तमानं हृदयं समाविशति यत् पुरा ||१०|| यस्य नाशात्तु नाशोऽस्ति धारि यद्धृदयाश्रितम् | यच्छरीररसस्नेहः प्राणा यत्र प्रतिष्ठिताः||११|| तत्फला बहुधा वा ताः फलन्तीव(ति) महाफलाः|१२|

🔊 Audio coming soon

सम्प्रति धमनीनामुक्तं महाफलत्वं व्युत्पादयन्नाह- येनौजसेत्यादि| येनौजसेति सामान्येन द्विविधमप्योजो ग्राह्यम्| वर्तयन्ति जीवन्ति, वर्तयन्तीति चौरादिको णिच्| प्रीणिता इति तर्पिताः| यत् सारमादौ गर्भस्येति शुक्रशोणितसंयोगे जीवाधिष्ठितमात्रे यत् सारभूतं, तत्रापि तिष्ठति| यत्तद्गर्भरसाद्रस इति गर्भरसाच्छुक्रशोणितसंयोगपरिणामेन कललरूपात्, रस इति सारभूतम्| संवर्तमानं हृदयं समाविशति यत् पुरेति यदा हृदयं निष्पद्यमानं, तदैव व्यक्तलक्षणं सद्धृदयमधितिष्ठति यदित्यर्थः| एतेन, गर्भावस्थात्रयेऽपि तदोजस्तिष्ठतीत्युच्यते; परं गर्भादौ शुक्रशोणितसाररूपतया, कललावस्थायां तु रससाररूपतया, अवयवनिष्पत्तौ तु स्वलक्षणयुक्तमेव भवत्योज इत्योजसः सर्वावस्थाव्यापकत्वेन महत्त्वमुच्यते| यस्य नाशात्तु नाशोऽस्तीति धात्वन्तराक्षयेऽपि सत्योजःक्षये मरणमित्यर्थः| धारीति जीवधारकसंयोगिभ्यः प्रधानत्वात्| शरीररसस्नेह इति शरीरसारसारं; रसशब्दः स्नेहशब्दश्च सारवचनः, तेन शरीररसानां धातूनामपि सार इत्यर्थः| एतच्च प्रकारान्तरेणाभ्यर्हितानेककर्मकथनमोजसोऽभ्यर्हितत्वख्यात्यर्थम्| तत्फला ओजःफला ओजोवहा इति यावत्| एतेन, यथोक्तगुणशालित्वेनौजो महत्; एतद्वहनेन फलन्तीवेति महाफला धमन्य उक्ताः| द्वितीयां निरुक्तिमाह- बहुधा वा ताः फलन्तीति, ‘ता हृदयाश्रिता दश धमन्यो बहुधा अनेकप्रकारं फलन्तीति’ निष्पद्यन्ते; एतेन, मूले हृदये दशरूपाः सत्यो महासङ्ख्याः शरीरे प्रतानभेदाद्भवन्तीत्युक्तम्||९-११||-

Adhikarana 7 (12) · Śloka 12

ध्मानाद्धमन्यः स्रवणात् स्रोतांसि सरणात्सिराः||१२||

🔊 Audio coming soon

धमनीशब्दादिनिरुक्तिमाह- ध्मानादित्यादि| ध्मानात् पूरणाद् वाह्येन रसादिनेत्यर्थः| स्रवणादिति रसादेरेव पोष्यस्य स्रवणात्| सरणाद् देशान्तरगमनात्||१२||

Adhikarana 8 (13-14) · Śloka 14

तन्महत् ता महामूलास्तच्चोजः परिरक्षता| परिहार्या विशेषेण मनसो दुःखहेतवः||१३|| हृद्यं यत् स्याद्यदौजस्यं स्रोतसां यत् प्रसादनम्| तत्तत् सेव्यं प्रयत्नेन प्रशमो ज्ञानमेव च||१४||

🔊 Audio coming soon

सम्प्रति हृदिस्थस्य मनसः परिपालनहेतुमाह- तन्महदित्यादि| तन्महदिति षडङ्गादिस्थानं हृदयम्| ता महामूला इति ओजोवहा धमन्यः| तच्चौज इति येनौजसेत्यादिनोक्तगुणमोजः| प्रशमः शान्तिः| ज्ञानं तत्त्वज्ञानम्||१३-१४||

Adhikarana 9 (15) · Śloka 15

अथ खल्वेकं प्राणवर्धनानामुत्कृष्टतममेकं बलवर्धनानामेकं बृंहणानामेकं नन्दनानामेकं हर्षणानामेकमयनानामिति | तत्राहिंसा प्राणिनां प्राणवर्धनानामुत्कृष्टतमं, वीर्यं बलवर्धनानां, विद्या बृंहणानाम्, इन्द्रियजयो नन्दनानां, तत्त्वावबोधो हर्षणानां, ब्रह्मचर्यमयनानामिति ; एवमायुर्वेदविदो मन्यन्ते||१५||

🔊 Audio coming soon

सेव्यप्रस्तावेन प्राणवर्धनाद्युत्कृष्टान्यहिंसादीन्यप्याह- अथ खल्वित्यादि| एकमिति एकमेव, न द्वितीयमुत्कृष्टतममस्तीत्यर्थः| अयनानामिति मार्गाणाम्| यद्यप्यन्नं प्राणवर्धनं तथाऽप्यहिंसैवोत्कृष्टा, अहिंसया हि धर्मजननात्तत्कृतमविचाल्यं भवति| यद्यपि मांसं बृंहणप्रधानं, तथाऽपि तच्छरीरमात्रबृंहणं, विद्या तु शरीरमनोबृंहणीयाऽतिरिच्यते||१५||

Adhikarana 10 (16-19) · Śloka 19

तत्रायुर्वेदविदस्तन्त्रस्थानाध्यायप्रश्नानां पृथक्त्वेन वाक्यशो वाक्यार्थशोऽर्थावयवशश्च प्रवक्तारो मन्तव्याः| तत्राह- कथं तन्त्रादीनि वाक्यशो वाक्यार्थशोऽर्थावयवशश्चोक्तानि भवन्तीति||१६|| अत्रोच्यते- तन्त्रमार्षं कार्त्स्न्येन यथाम्नायमुच्यमानं वाक्यशो भवत्युक्तम्||१७|| बुद्ध्या सम्यगनुप्रविश्यार्थतत्त्वं वाग्भिर्व्याससमासप्रतिज्ञाहेतूदाहरणोपनयनिगमनयुक्ताभिस्त्रिविधशिष्यबुद्धिगम्याभिरुच्यमानं वाक्यार्थशो भवत्युक्तम्||१८|| तन्त्रनियतानामर्थदुर्गाणां पुनर्विभावनैरुक्तमर्थावयवशो भवत्युक्तम्||१९||

🔊 Audio coming soon

आयुर्वेदश्रवणप्रसङ्गेनायुर्वेदनिरुक्त्याऽऽयुषस्तथाऽऽयुर्वेदस्य च निरूपकं प्रकरणं ब्रूते- तत्रेत्यादि| वाक्यश इत्यादि स्वयमेव व्याकरिष्यति| आर्षम् ऋषिकृतम्| तन्त्रं शास्त्रम्| यथाम्नायमुच्यमानमिति यथापाठक्रमेणोच्यमानम्| उदाहरणं दृष्टान्तः; उपनयः सिद्धान्तोपपादितस्य साधनधर्मस्य साध्ये पुनः कथनं, यथा- तथा चायं धूमवानिति; निगमनं हेतुसाधितसाध्यधर्मकथनं, यथा- तस्मादग्निमानिति| तन्त्रनियतानामिति तन्त्रगतानाम्| विभावनैरुक्तमिति व्याख्यानैः कथनम्; उक्तमिति भावे ‘क्तः’| अस्योदाहरणं यथा- “शरीरचेष्टा या चेष्टा स्थैर्यार्था बलवर्धिनी” (सू. ७) इत्यत्र ‘इष्टा या चेष्टा’ इत्येतावन्मात्रमुच्यते, तेन द्वितीयचेष्टापदस्य दुर्गस्य व्याकरणं परं भवति||१६-१९||

Adhikarana 11 (20) · Śloka 20

तत्र चेत् प्रष्टारः स्युः- चतुर्णामृक्सामयजुरथर्ववेदानां कं वेदमुपदिशन्त्यायुर्वेदविदः?, किमायुः?, कस्मादायुर्वेदः?, किमर्थमायुर्वेदः?, शाश्वतोऽशाश्वतो वा?, कति कानि चास्याङ्गानि?, कैश्चायमध्येतव्यः?, किमर्थं च? इति||२०||

🔊 Audio coming soon

इदानीमायुर्वेदविदः प्रश्नेनैव निर्णेतव्या इत्यतः प्रश्नानाह- तत्र चेदित्यादि| कं वेदमुपदिशन्ति ‘आयुर्वेदम्’ इति शेषः||२०||

Adhikarana 12 (21) · Śloka 21

तत्र भिषजा पृष्टेनैवं चतुर्णामृक्सामयजुरथर्ववेदानामात्मनोऽथर्ववेदे भक्तिरादेश्या, वेदो ह्याथर्वणो दानस्वस्त्ययनबलिमङ्गलहोमनियमप्रायश्चित्तोपवासमन्त्रादिपरिग्रहाच्चिकित्सां प्राह; चिकित्सा चायुषो हितायोपदिश्यते||२१||

🔊 Audio coming soon

अथर्ववेदे भक्तिः सेवेत्यर्थः; एतेन भिषक्सेव्यत्वेनाथर्ववेदस्यायुर्वेदत्वमुक्तं भवति| आयुर्वेदस्याथर्ववेदाभेदहेतुमाहवेदो हीत्यादि| एतेनैकप्रयोजनत्वादथर्ववेदैकदेश एवायुर्वेद इत्युक्तं भवति||२१||

Adhikarana 13 (22) · Śloka 22

वेदं चोपदिश्यायुर्वाच्यं ; तत्रायुश्चेतनानुवृत्तिर्जीवितमनुबन्धो धारि चेत्येकोऽर्थः||२२||

🔊 Audio coming soon

प्रश्नक्रमेण वेदं प्रतिपाद्यायुरेव प्रतिपादनीयं भवतीत्याह- वेदं चोपदिश्येत्यादि| चेतनानुवृत्तिरिति चैतन्यसन्तानः; एतच्च गर्भावधिमरणपर्यन्तं बोद्धव्यं, तदूर्ध्वं चेतनाननुवृत्तेः; साक्षादनुपलब्धत्वेनैवाननुवृत्तिरिति भावः| न च वाच्यं प्रसुप्तस्य चैतन्यविच्छेदो भवतीति, यतस्तत्रापि ‘सुखमहमस्वाप्सम्’ इत्युत्तरकालीनप्रतिसन्धानदर्शनात् सूक्ष्मज्ञानमस्त्येव| यद्यपि दीर्घञ्जीवितीये शरीरादिसंयोग आयुरित्युक्तं, तथाऽपि तत्कार्यत्वादिह चैतन्यानुवृत्तिः कार्यकारणयोरभेदविवक्षया आयुरुच्यते| अनुबन्धधारिशब्दौ प्रथमाध्याये व्याकृतौ||२२||

Adhikarana 14 (23) · Śloka 23

तदायुर्वेदयतीत्यायुर्वेदः ; कथमिति चेत्? उच्यते- स्वलक्षणतः सुखासुखतो हिताहिततः प्रमाणाप्रमाणतश्च; यतश्चायुष्याण्यनायुष्याणि च द्रव्यगुणकर्माणि वेदयत्यतोऽप्यायुर्वेदः| तत्रायुष्याण्यनायुष्याणि च द्रव्यगुणकर्माणि केवलेनोपदेक्ष्यन्ते तन्त्रेण||२३||

🔊 Audio coming soon

कस्मादायुर्वेदः? इत्यस्योत्तरं- तदायुरित्यादि| वेदयति बोधयति| ये त्वत्र तन्त्रान्तरे विदेर्लाभादयोऽर्था व्याख्याताः, ते न साक्षात्तदर्थजन्या इतीह नोक्ताः| स्वलक्षणत इत्यादि स्वमयेवोदाहरिष्यति| आयुष्यानायुष्ये आयुःकारणत्वेन आयुःशब्देन वक्तव्ये, तेनायुष्यानायुष्यवेदपक्षे गौणी निरुक्तिः ‘आयुर्वेदः’ इति; अत एवात्र अपिशब्दः कृतः- अतोऽप्यायुर्वेद इति| अनायुष्यमपि च ज्ञातमसेव्यत्वेनाव्यवह्रियमाणमायुः कारणं भवत्येव, तेनानायुष्यमप्यायुःकारणतया आयुःशब्दवाच्यं, नात्रापराधः||२३||

Adhikarana 15 (24) · Śloka 24

तत्रायुरुक्तं स्वलक्षणतो यथावदिहैव पूर्वाध्याये च| तत्र शारीरमानसाभ्यां रोगाभ्यामनभिद्रुतस्य विशेषेण यौवनवतः समर्थानुगतबलवीर्ययशःपौरुषपराक्रमस्य ज्ञानविज्ञानेन्द्रियेन्द्रियार्थबलसमुदये वर्तमानस्य परमर्द्धिरुचिरविविधोपभोगस्य समृद्धसर्वारम्भस्य यथेष्टविचारिणः सुखमायुरुच्यते; असुखमतो विपर्ययेण; हितैषिणः पुनर्भूतानां परस्वादुपरतस्य सत्यवादिनः शमपरस्य परीक्ष्यकारिणोऽप्रमत्तस्य त्रिवर्गं परस्परेणानुपहतमुपसेवमानस्य पूजार्हसम्पूजकस्य ज्ञानविज्ञानोपशमशीलस्य वृद्धोपसेविनः सुनियतरागरोषेर्ष्यामदमानवेगस्य सततं विविधप्रदानपरस्य तपोज्ञानप्रशमनित्यस्याध्यात्मविदस्तत्परस्य लोकमिमं चामुं चावेक्षमाणस्य स्मृतिमतिमतो हितमायुरुच्यते; अहितमतो विपर्ययेण||२४||

🔊 Audio coming soon

इहैवेति ‘तत्रायुश्चेतनानुवृत्तिः’ इत्यादिना| तत्र शारीरेत्यादिना सुखमायुरभिधत्ते| पौरुषम् उत्कृष्टं कर्म| ज्ञानविज्ञानेन्द्रियैर्बलशब्दः, इन्द्रियार्थेन च समुदयशब्दः सम्बध्यते; किंवा ज्ञानादिभिः सर्वैरेव समुदयशब्दः सम्बध्यते; किंवा ज्ञानादिभिः सर्वैरेव ‘बलसमुदये’ इति योज्यं; बलस्य समुदयो बलसमुदयः| परमा अत्यर्था ऋद्धिर्यस्य स परमर्द्धिः| समृद्धा निष्पादितसाध्याः सर्वारम्भा यस्य स तथा| हितैषिणो भूतानामिति सम्बन्धः| तत्परस्येति अध्यात्मपरस्य, अध्यात्मम् आत्मादिस्वरूपम्| अमुं चेति परलोकम्||२४||

Adhikarana 16 (25-26) · Śloka 26

प्रमाणमायुषस्त्वर्थेन्द्रियमनोबुद्धिचेष्टादीनां विकृतिलक्षणैरुपलभ्यतेऽनिमित्तैः, अयमस्मात् क्षणान्मुहूर्ताद्दिवसात् त्रिपञ्चसप्तदशद्वादशाहात् पक्षान्मासात् षण्मासात् संवत्सराद्वा स्वभावमापत्स्यत इति; तत्र स्वभावः प्रवृत्तेरुपरमो मरणमनित्यता निरोध इत्येकोऽर्थः; इत्यायुषः प्रमाणम्; अतो विपरीतमप्रमाणमरिष्टाधिकारे; देहप्रकृतिलक्षणमधिकृत्य चोपदिष्टमायुषः प्रमाणमायुर्वेदे ||२५|| प्रयोजनं चास्य स्वस्थस्य स्वास्थ्यरक्षणमातुरस्य विकारप्रशमनं च||२६||

🔊 Audio coming soon

विकृतिरूपैर्लक्षणैः विकृतिलक्षणैः; तेषामेव विशेषणम्- अनिमित्तैः; आकस्मिकैः अरिष्टैरित्यर्थः; अनिमित्ता हि विकृतिरर्थेन्द्रियाणामरिष्टम्| तत्रार्थविकृतिर्यथा- “नानापुष्पोपमगन्धो यस्य वाति दिवानिशम्” (इं. २) इत्यादि, इन्द्रियविकृतिर्यथा- “यश्च पश्यत्यदृश्यान्” (इं. ४) इत्यादि, मनोविकृतिर्यथा- “यैः पुरा विन्दते भावैः समेतैः परमां रतिम्| तैरेवारममाणस्य ग्लास्नोर्मरणमादिशेत्” (इं.अ.८) इति, बुद्धिविकृतिर्यथा- “बुद्धिर्बलमहेतुकम्” इत्यादि, चेष्टाविकृतिर्यथा- “विकर्षन्निव यः पादौ च्युतांसः परिधावति” (इं. १२) इत्यादि| आदिग्रहणात् परिजनविकृत्यादयो ज्ञेयाः| अत्र च रिष्टप्रस्तावे क्षणादिवर्षान्तकालकथनं वर्षादूर्ध्वं रिष्टजन्यमरणाभावात्| अतो विपरीतमप्रमाणमिति रिष्टहीनं न निश्चितप्रमाणमायुररिष्टाधिकार इत्यर्थः| अन्यदपि चायुःप्रमाणज्ञानमाहदेहप्रकृतीत्यादि | देहश्च प्रकृतिश्च लक्षणं च देहप्रकृतिलक्षणम्| तत्र देहमधिकृत्यायुःप्रमाणं यथा- “सर्वैः सारैरुपेताः” इत्यारभ्य यावत् “चिरजीविनश्च भवन्ति” (वि. ८) इति; प्रकृतितो यथा- “श्लैष्मिका बलवन्तो वसुमन्तो विद्यावन्त ओजस्विनः शान्ता आयुष्मन्तश्च भवन्ति” (वि. ८) इति; लक्षणतो यथा- “तत्रेमान्यायुष्मतां कुमाराणां लक्षणानि भवन्ति” (शा. ८) इत्यादि| किंवा, देहस्य सहजलक्षणं देहप्रकृतिलक्षणं, तच्च सर्वं सारप्रकृत्यादिलक्षणं बोद्धव्यम्||२५-२६||

Adhikarana 17 (27) · Śloka 27

सोऽयमायुर्वेदः शाश्वतो निर्दिश्यते, अनादित्वात्, स्वभावसंसिद्धलक्षणत्वात्, भावस्वभावनित्यत्वाच्च| न हि नाभूत् कदाचिदायुषः सन्तानो बुद्धिसन्तानो वा, शाश्वतश्चायुषो वेदिता, अनादि च सुखदुःखं सद्रव्यहेतुलक्षणमपरापरयोगात्| एष चार्थसङ्ग्रहो विभाव्यते आयुर्वेदलक्षणमिति| गुरुलघुशीतोष्णस्निग्धरूक्षादीनां द्रव्याणां सामान्यविशेषाभ्यां वृद्धिह्रासौ, यथोक्तं- गुरुभिरभ्यस्यमानैर्गुरूणामुपचयो भवत्यपचयो लघूनां, एवमेवेतरेषामिति, एष भावस्वभावो नित्यः, स्वलक्षणं च द्रव्याणां पृथिव्यादीनां; सन्ति तु द्रव्याणि गुणाश्च नित्यानित्याः| न ह्यायुर्वेदस्याभूत्वोत्पत्तिरुपलभ्यते, अन्यत्रावबोधोपदेशाभ्याम्; एतद्वै द्वयमधिकृत्योत्पत्तिमुपदिशन्त्येके| स्वाभाविकं चास्य लक्षणमकृतकं, यदुक्तमिहाद्येऽध्याये च; यथा- अग्नेरौष्ण्यम्, अपां द्रवत्वम्| भावस्वभावनित्यत्वमपि चास्य, यथोक्तं- गुरुभिरभ्यस्यमानैर्गुरूणामुपचयो भवत्यपचयो लघूनामिति||२७||

🔊 Audio coming soon

अनादित्वादिति हेतुत्रयमत्र| प्रथमस्य विवरणं- न हीत्यादि| इह व्यवहारनित्यत्वमायुर्वेदे साध्यं, तच्चार्थरूपस्यायुर्वेदस्य न शब्दरूपस्य; किंवा, व्यवहारनित्यायुर्वेदार्थाभिधायकस्यायुर्वेदस्य पारम्पर्ययोगान्नित्यत्वं साध्यते| तत्रायुषस्तावदायुर्वेदप्रतिपाद्यस्य नित्यत्वम्| न हि नाभूत् कदाचिदायुःसन्तान इति सर्वदैवायुरपरापरसन्तानन्यायेन विद्यते, आयुर्युक्तानां प्राणिनामनुच्छेदादित्यर्थः| एवं बुद्धिसन्तानोऽपि नहि कदाचिन्नाभूदिति योजना| एतेन तस्यापि सन्तानेन नित्यस्यायुषो वेदनमपि नित्यम्| शाश्वतश्चायुषो वेदितेति अनेनायुर्वेदवेदितृनित्यत्वमुक्तम्| एतेन वेद्यवेदनवेदितॄणामनादित्वादायुर्वेदस्य नित्यत्वम्| न चायुःस्वरूपेणैवायुर्वेदविषयः, किं तर्हि रोगादिगृहीतमित्याह- अनादि चेत्यादि| सुखदुःखमिति आरोग्यं सुखं, व्याधिर्दुःखम्| सद्रव्यहेतुलक्षणमिति सहेतुचिकित्सितलिङ्गम| हेतुशब्दो हि द्रव्यशब्देनैव व्याधिकारणस्योक्तत्वात् प्रशमहेतुमाह; केचित्तु ‘सहेतुलक्षणम्’ इति पठन्ति, तत्रापि हेतुशब्देन जनकः शमकश्च रोगहेतुर्वाच्यः; यदि वा सुखहेतुर्भेषजं दुःखहेतुश्च निदानमिति ज्ञेयं, लक्षणं च व्याध्यारोग्ययोरुभयोरपि; एतेन दुःखं तावत् कदाचिदप्यजिहासितं न भवति, जिहासितमनुपायं न भवति, उपायश्चायुर्वेद एव, स च सर्वदुःखपरिहारार्थमुपादेयः; तस्माद्दुःखप्रशमनोपायोपदेशरूपायुर्वेदस्यानादितेति भावः| एवं सुखस्य नित्योपादेयस्यानादित्वं ज्ञेयं, तदुपायस्यायुर्वेदस्य च| कथमनादि सुखदुःखमित्याह- अपरापरयोगादिति; सन्तानादित्यर्थः| स्वभावसंसिद्धलक्षणत्वं द्वितीयं हेतुमाह- एव चेत्यादि| एष इति आयुर्बुद्धिवेदितृसुखदुःखानि| अर्थसङ्ग्रहः अभिधेयसङ्ग्रहः; एतेन आयुरादिरायुर्वेदप्रतिपाद्य इति दर्शयति| अयं चायुरादिरत्रायुर्वेदलक्षणमिति विभाव्यते ज्ञायत इत्यर्थः| आयुरादिनाऽभिधेयेनायुर्वेदो लक्ष्यते, वचनं हि- “हिताहितं सुखं दुःखं” (सु. १) इत्याद्यायुर्वेदलक्षणम्| एतेन, आयुरादेरर्थस्यायुर्वेदलक्षणस्यानादितया यथोक्तया स्वभावसंसिद्धलक्षणत्वं व्याकृतं भवति| स्वभावसंसिद्धमिति सर्वदा सन्तानन्यायेन सिद्धत्वमभिप्रेतम्| भावस्वभावनित्यत्वादिति तृतीयं हेतुं व्याकरोति- गुर्वित्यादि| गुरुलघुस्निग्धरूक्षशीतोष्णादीनां द्रव्याणां सामान्यविशेषाभ्यां यथाक्रमं वृद्धिह्रासौ भवतः| तदेव पूर्वोक्तं घटयति- गुरुभिरित्यादिना एवमेवेतरेषामित्यन्तेन| एवमेवेतरेषामिति लघुभिरभ्यस्यमानैर्लघूनामुपचयो भवति, अपचयो गुरूणामित्यादि द्रष्टव्यम्| एष इत्येवम्प्रकारः; भावस्वभावो नित्य इति नैष सामान्यविशेषाभ्यां वृद्धिह्रासरूपो भावस्वभावः कदाचिदन्यथा भवतीत्यर्थः| न केवलमयं भावस्वभावो नित्यः, किन्तर्ह्यन्योऽपीत्याह- स्वलक्षणं चेत्यादि| स्वलक्षणं पृथिव्यादीनां खरद्रवत्वादि| कथं पृथिव्यादिस्वलक्षणं नित्यमित्याह- सन्ति त्वित्यादि| द्रव्याणि यस्मात् सर्वदा सन्ति, गुणाश्च नित्याः सन्ति सर्वदा, चकाराद्द्रव्याणि चानित्यानि सन्ति| तत्राकाशादि द्रव्यं नित्यं, पृथिव्यादि कार्यं चानित्यम्| एवङ्गुणा आकाशपरिमाणादयो नित्याः, अनित्याश्र कार्यगुणा रसादयः, अनित्या अपि च सजातीयापरापरसन्तानन्यायेन सर्वदा तिष्ठन्तीति युक्तमनित्यानामपि सन्ताननित्यत्वमिति भावः| अत्र भावस्वभावनित्यत्वेन हेतुना भावस्वभावस्य व्याधिजनकस्य तथा व्याधिप्रशमकस्य नित्यत्वेन तत्प्रतिपादकस्यायुर्वेदस्यापि नित्यत्वमुक्तं भवतीति मन्तव्यम्| अथायुर्वेदस्य यत्र तत्रोत्पत्तिश्रवणात् कथं नित्यत्वमित्याह- न ह्यायुर्वेदस्येत्यादि| अभूत्वोत्पत्तिः पूर्वमसत उत्पत्तिः| अन्यत्रावबोधोपदेशाभ्यामिति यत्र यत्रायुर्वेदस्योत्पत्तिरुक्ता, तत्र तत्रावबोधादुपदेशाद्वा; अवबोधादुत्पत्तिर्यथा- ब्रह्मण आयुर्वेदोत्पत्तिः, उपदेशाच्चोत्पत्तिर्यथा- इन्द्रोपदेशाद्भरद्वाजेन मर्त्यलोके आयुर्वेद उत्पादित इत्यादि| एतद्द्वयमिति अवबोधोपदेशौ | ननु, स्वभावसंसिद्धलक्षणत्वादिति यो हेतुरुक्तः, तत्र स्वाभाविकं च लक्षणं भविष्यत्यनित्यं च, यथा- घटे कम्बुग्रीवाकारतादि, न हि तत् स्वाभाविकमपि घटस्य नित्यतां साधयतीत्याह- स्वाभाविकं चेत्यादि| अकृतकमिति नास्मदादिना कृतम्| यदुक्तमिह- ‘स्वलक्षणतः सुखासुखतः’ इत्यादिना, आद्ये चाध्याये दीर्घञ्जीवितीये “हिताहितं सुखं दुःखं” (सू. १) इत्यादिना| अत्रैवाकृतकत्वे दृष्टान्तमाह- यथाऽग्नेरौष्ण्यमित्यादि| एतेन स्वलक्षणस्याकृतकत्वेन व्यवहारनित्यत्वात्तत्प्रतिपादकस्यायुर्वेदस्यापि व्यवहारनित्यत्वमिति भावः| न केवलं स्वाभाविकं लक्षणमकृतकं, किं तर्हि भावस्वभावनित्यत्वमपि न केनचिदीश्वरादिना कृतमित्याह- भावस्वभावनित्यत्वमपि चेति; अकृतकमिति चकारेणानुकर्षति| तदेव भावस्वभावनित्यत्वं दर्शयति- यथोक्तमित्यादि| सामान्यविशेषकृतवृद्धिह्रासकारको(णो)ऽपि भावस्वभावो न केनचित् कृत इत्यर्थः, ततश्चायुर्वेदोऽपि नित्यः||२७||

Adhikarana 18 (28) · Śloka 28

तस्यायुर्वेदस्याङ्गान्यष्टौ; तद्यथा- कायचिकित्सा , शालाक्यं, शल्यापहर्तृकं, विषगरवैरोधिकप्रशमनं, भूतविद्या, कौमारभृत्यकं, रसायनं, वाजीकरणमिति||२८||

🔊 Audio coming soon

सम्प्रति कानि चेत्यादिप्रश्नस्योत्तरं- तस्येत्यादि| कायस्यान्तरग्नेश्चिकित्सा कायचिकित्सा| पटलवेधशलाकाप्रधानमङ्गं शालाक्यम्| गरः कालान्तरप्रकोपि विषं, वैरोधिकं संयोगविरुद्धम् | भूतानां राक्षसादीनां ज्ञानार्था प्रशमार्था च विद्या भूतविद्या| कुमारस्य भरणमधिकृत्य कृतं कौमारभृत्यम्||२८||

Adhikarana 19 (29) · Śloka 29

स चाध्येतव्यो ब्राह्मणराजन्यवैश्यैः| तत्रानुग्रहार्थं प्राणिनां ब्राह्मणैः, आरक्षार्थं राजन्यैः, वृत्त्यर्थं वैश्यैः; सामान्यतो वा धर्मार्थकामपरिग्रहार्थं सर्वैः| तत्र यदध्यात्मविदां धर्मपथस्थानां धर्मप्रकाशकानां वा मातृपितृभ्रातृबन्धुगुरुजनस्य वा विकारप्रशमने प्रयत्नवान् भवति, यच्चायुर्वेदोक्तमध्यात्ममनुध्यायति वेदयत्यनुविधीयते वा, सोऽस्य परो धर्मः; या पुनरीश्वराणां वसुमतां वा सकाशात् सुखोपहारनिमित्ता भवत्यर्थावाप्तिरारक्षणं च, या च स्वपरिगृहीतानां प्राणिनामातुर्यादारक्षा, सोऽस्यार्थः; यत् पुनरस्य विद्वद्ग्रहणयशः शरण्यत्वं च, या च सम्मानशुश्रूषा, यच्चेष्टानां विषयाणामारोग्यमाधत्ते सोऽस्य कामः| इति यथाप्रश्नमुक्तमशेषेण||२९||

🔊 Audio coming soon

आरक्षार्थं राजन्यैरिति क्षत्रियस्य परिपालनधर्मत्वात्| अनुध्यायति मनसा चिन्तयति| वेदयतीति अन्यस्य प्रतिपादयति| अनुविधीयत इति तदनुगुणं देहेनानुतिष्ठति| आरक्षणम् आत्मादिरक्षणम्| स्वपरिगृहीतानामिति भृत्यादीनाम्| विद्वद्ग्रहणमेव यशः विद्वदुपादेयताजन्यं यश इत्यर्थः| इष्टानामिति वनितादीनाम्||२९||

Adhikarana 20 (30) · Śloka 30

अथ भिषगादित एव भिषजा प्रष्टव्योऽष्टविधं भवति- तन्त्रं, तन्त्रार्थान्, स्थानं, स्थानार्थान्, अध्यायम्, अध्यायार्थान्, प्रश्नं, प्रश्नार्थांश्चेति; पृष्टेन चैतद्वक्तव्यमशेषेण वाक्यशो वाक्यार्थशोऽर्थावयवशश्चेति ||३०||

🔊 Audio coming soon

भिषक्परीक्षार्थं पृच्छाविधिमाह- अथेत्यादि||३०||

Adhikarana 21 (31-32) · Śloka 32

तत्रायुर्वेदः शाखा विद्या सूत्रं ज्ञानं शास्त्रं लक्षणं तन्त्रमित्यनर्थान्तरम् ||३१|| तन्त्रार्थः पुनः स्वलक्षणैरुपदिष्टः| स चार्थः प्रकरणैर्विभाव्यमानो भूय एव शरीरवृत्तिहेतुव्याधिकर्मकार्यकालकर्तृकरणविधिविनिश्चयाद्दशप्रकरणः, तानि च प्रकरणानि केवलेनोपदेक्ष्यन्ते तन्त्रेण||३२||

🔊 Audio coming soon

तत्रेत्यादि| स्वलक्षणैरिति तदायुर्वेदयतीत्यायुर्वेदः, इत्यादिना हिताहितायूरूपैरित्यर्थः| प्रकरणैरिति आयुर्वेदप्रदेशैः| दशप्रकरणानि दशभेदाः, ते च शरीरादयो दश| तत्र शरीरं पञ्चमहाभूतविकारसमुदयात्मकमवयवादिभेदाद्बहुप्रकारं; वृत्तिश्चाहारोऽशितपीतादिभेदभिन्ना(न्नः); हेतुस्तु व्याधिहेतुरसात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिणामलक्षणः; व्याधिश्च धातुवैषम्यरूपः; कर्म चिकित्सा; कार्यम् आरोग्यं; कालः ऋत्वादिः, क्रियाकालश्च; कर्ता भिषक्; करणं भेषजं; विधिः विधानम् उपकल्पना, सा च कालव्याधिद्रव्यापेक्षा बोद्धव्या, यथा- “हेमन्तेऽभ्यसतस्तोयमुष्णमायुर्न हीयते” (सू. ६) इत्यादि; देशस्त्वत्राहितो हेतुग्रहणेन, हितस्तु देशः करणग्रहणेन गृहीतो मन्तव्यः | शरीरवृत्त्यादिभेदाश्च बहवः कृत्स्ने तन्त्रे बुद्धिमता बोद्धव्याः| केवलेनेति समग्रेण||३१-३२||

Adhikarana 22 (33) · Śloka 33

तन्त्रस्यास्याष्टौ स्थानानि ; तद्यथा- श्लोकनिदानविमानशारीरेन्द्रियचिकित्सितकल्पसिद्धिस्थानानि| तत्र त्रिंशदध्यायकं श्लोकस्थानम्, अष्टाष्टाध्यायकानि निदानविमानशारीरस्थानानि, द्वादशकमिन्द्रियाणां, त्रिंशकं चिकित्सितानां, द्वादशके कल्पसिद्धिस्थाने भवतः||३३||

🔊 Audio coming soon

तन्त्रस्यास्येत्यादि| इन्द्रियाणां चिकित्सितानां चेत्युभयत्रापि स्थानमिति शेषः||३३||

Adhikarana 23 (34) · Śloka 34

भवति चात्र- द्वे त्रिंशके द्वादशकं त्रयं च त्रीण्यष्टकान्येषु समाप्तिरुक्ता| श्लोकौषधारिष्टविकल्पसिद्धिनिदानमानाश्रयसञ्ज्ञकेषु||३४||

🔊 Audio coming soon

त्रिंशके इति सूत्रस्थानं चिकित्सितं च| आश्रयसञ्ज्ञकं शारीरस्थानम्, आश्रयो हि शरीरमुच्यते||३४||

Adhikarana 24 (35) · Śloka 35

स्वे स्वे स्थाने यथास्वं च स्थानार्थ उपदेक्ष्यते| सविंशमध्यायशतं शृणु नामक्रमागतम्||३५||

🔊 Audio coming soon

सविंशमिति विंशतिशब्दात् स्वार्थे ‘डः’, स्वार्थिकश्च ‘डः’ प्रत्ययो भवति; तेन ललितेश्वरे च- “चतुर्विंशाधिकं” इति प्रयोगः सिद्धो भवति; वचनं हि “चतुर्विंशाधिकं ज्ञेयं भुवनानां शतत्रयम्” इति| एवं सुश्रुतेऽपि ‘सविंशं’ (सु.सू.अ.१) इति व्याख्येयम्||३५||

Adhikarana 25 (36-68) · Śloka 68

दीर्घञ्जीवोऽप्यपामार्गतण्डुलारग्वधादिकौ| षड्विरेकाश्रयश्चेति चतुष्को भेषजाश्रयः||३६|| मात्रातस्याशितीयौ च नवेगान्धारणं तथा| इन्द्रियोपक्रमश्चेति चत्वारः स्वास्थ्यवृत्तिकाः ||३७|| खुड्डाकश्च चतुष्पादो महांस्तिस्रैषणस्तथा| सह वातकलाख्येन विद्यान्नैर्देशिकान् बुधः||३८|| स्नेहनस्वेदनाध्यायावुभौ यश्चोपकल्पनः| चिकित्साप्राभृतश्चैव सर्व एव प्रकल्पनाः||३९|| कियन्तःशिरसीयश्च त्रिशोफाष्टोदरादिकौ| रोगाध्यायो महांश्चैव रोगाध्यायचतुष्टयम्||४०|| अष्टौनिन्दितसङ्ख्यातस्तथा लङ्घनतर्पणे| विधिशोणितिकश्चैव व्याख्यातास्तत्र योजनाः||४१|| यज्जःपुरुषसङ्ख्यातो भद्रकाप्यान्नपानिकौ| विविधाशितपीतीयश्चत्वारोऽन्नविनिश्चयाः||४२|| दशप्राणायतनिकस्तथाऽर्थेदशमूलिकः| द्वावेतौ प्राणदेहार्थौ प्रोक्तौ वैद्यगुणाश्रयौ||४३|| औषधस्वस्थनिर्देशकल्पनारोगयोजनाः| चतुष्काः षट् क्रमेणोक्ताः सप्तमश्चान्नपानिकः||४४|| द्वौ चान्त्यौ सङ्ग्रहाध्यायाविति त्रिंशकमर्थवत्| श्लोकस्थानं समुद्दिष्टं तन्त्रस्यास्य शिरः शुभम् ||४५|| चतुष्काणां महार्थानां स्थानेऽस्मिन् सङ्ग्रहः कृतः| श्लोकार्थः सङ्ग्रहार्थश्च श्लोकस्थानमतः स्मृतम्||४६|| ज्वराणां रक्तपित्तस्य गुल्मानां मेहकुष्ठयोः| शोषोन्मादनिदाने च स्यादपस्मारिणां च यत्||४७|| इत्यध्यायाष्टकमिदं निदानस्थानमुच्यते| रसेषु त्रिविधे कुक्षौ ध्वंसे जनपदस्य च||४८|| त्रिविधे रोगविज्ञाने स्रोतःस्वपि च वर्तने| रोगानीके व्याधिरूपे रोगाणां च भिषग्जिते||४९|| अष्टौ विमानान्युक्तानि मानार्थानि महर्षिणा| कतिधापुरुषीयं च गोत्रेणातुल्यमेव च||५०|| खुड्डिका महती चैव गर्भावक्रान्तिरुच्यते| पुरुषस्य शरीरस्य विचयौ द्वौ विनिश्चितौ||५१|| शरीरसङ्ख्या सूत्रं च जातेरष्टममुच्यते | इत्युद्दिष्टानि मुनिना शारीराण्यत्रिसूनुना||५२|| वर्णस्वरीयः पुष्पाख्यस्तृतीयः परिमर्शनः| चतुर्थ इन्द्रियानीकः पञ्चमः पूर्वरूपिकः||५३|| कतमानिशरीरीयः पन्नरूपोऽप्यवाक्शिराः| यस्यश्यावनिमित्तश्च सद्योमरण एव च||५४|| अणुज्योतिरिति ख्यातस्तथा गोमयचूर्णवान्| द्वादशाध्यायकं स्थानमिन्द्रियाणामिति स्मृतम् ||५५|| अभयामलकीयं च प्राणकामीयमेव च| करप्रचितकं वेदसमुत्थानं रसायनम्||५६|| संयोगशरमूलीयमासिक्तक्षीरकं तथा| माषपर्णभृतीयं च पुमाञ्जातबलादिकम्||५७|| चतुष्कद्वयमप्येतदध्यायद्वयमुच्यते| रसायनमिति ज्ञेयं वाजीकरणमेव च||५८|| ज्वराणां रक्तपित्तस्य गुल्मानां मेहकुष्ठयोः| शोषोन्मादेऽप्यपस्मारे क्षतशोथोदरार्शसाम्||५९|| ग्रहणीपाण्डुरोगाणां श्वासकासातिसारिणाम्| छर्दिवीसर्पतृष्णानां विषमद्यविकारयोः||६०|| द्विव्रणीयं त्रिमर्मीयमूरुस्तम्भिकमेव च| वातरोगे वातरक्ते योनिव्यापत्सु चैव यत्||६१|| त्रिंशच्चिकित्सितान्युक्तान्यतः कल्पान् प्रचक्ष्महे| फलजीमूतकेक्ष्वाकुकल्पो धामार्गवस्य च||६२|| पञ्चमो वत्सकस्योक्तः षष्ठश्च कृतवेधने| श्यामात्रिवृतयोः कल्पस्तथैव चतुरङ्गुले||६३|| तिल्वकस्य सुधायाश्च सप्तलाशङ्खिनीषु च| दन्तीद्रवन्त्योः कल्पश्च द्वादशोऽयं समाप्यते||६४|| कल्पना पञ्चकर्माख्या बस्तिसूत्री तथैव च| स्नेहव्यापदिकी सिद्धिर्नेत्रव्यापदिकी तथा||६५|| सिद्धिः शोधनयोश्चैव बस्तिसिद्धिस्तथैव च| प्रासृती मर्मसङ्ख्याता सिद्धिर्बस्त्याश्रया च या||६६|| फलमात्रा तथा सिद्धिः सिद्धिश्चोत्तरसञ्ज्ञिता| सिद्धयो द्वादशैवैतास्तन्त्रं चासु समाप्यते||६७|| स्वे स्वे स्थाने तथाऽध्याये चाध्यायार्थः प्रवक्ष्यते| तं ब्रूयात् सर्वतः सर्वं यथास्वं ह्यर्थसङ्ग्रहात्||६८||

🔊 Audio coming soon

दीर्घञ्जीवेत्यादिसञ्ज्ञाः श्लोकानुरोधादेकदेशलक्षणा बोद्धव्याः| प्राणदेहार्थावित्यादौ देहशब्देनौजोऽभिधीयते | शिरः शुभमित्यत्र शिर इव शिरः| श्लोकार्थ इत्यादौ सङ्ग्रहार्थश्चेति चकारात् सुश्रुतोक्तसूत्रणादिकं, तेन “सूत्रणात् सूचनाच्चैव धारणादर्थसन्ततैः| सूत्रस्थानं समुद्दिष्टम्” (सु. सू. ३) इत्येतदपि गृहीतं भवति| मानार्थानीति ज्ञानार्थानि| इन्द्रियाणामिति रिष्टानाम्| चतुष्कद्वयमिति रसायनपादचतुष्क एकः, वाजीकरणपादचतुष्कश्चैकः; चतुष्पादश्चाध्यायो भवतीति युक्तमेवाध्यायत्वम्| तन्त्रं चासु समाप्यत इति आसु समाप्तासु तन्त्रं समाप्यत इत्यर्थः| चाध्यायार्थ इति चकारो भिन्नक्रमे; तेन अध्यायार्थश्चाध्यायान्ते तथा स्थानार्थश्च स्थानान्ते कृतसङ्ग्रहः| यद्यपि शारीरे स्थानार्थो न व्यक्तः, तथाऽपि शारीरशब्दव्युपत्त्या बोद्धव्यस्तन्त्रान्तराद्वा; यथा- “शरीरं चिन्त्यते सर्वं दैवमानुषसम्पदा| सर्वभावैर्यतस्तस्माच्छारीरं स्थानमुच्यते” (शा. ८) इति||३६-६८||

Adhikarana 26 (69-71) · Śloka 71

पृच्छा तन्त्राद्यथाम्नायं विधिना प्रश्न उच्यते| प्रश्नार्थो युक्तिमांस्तस्य तन्त्रेणैवार्थनिश्चयः ||६९|| निरुक्तं तन्त्रणात्तन्त्रं, स्थानमर्थप्रतिष्ठया| अधिकृत्यार्थमध्यायनामसञ्ज्ञा प्रतिष्ठिता ||७०|| इति सर्वं यथाप्रश्नमष्टकं सम्प्रकाशितम्| कार्त्स्न्येन चोक्तस्तन्त्रस्य सङ्ग्रहः सुविनिश्चितः||७१||

🔊 Audio coming soon

विधिना प्रश्न इत्यत्र विधिनेति पूर्वापरविरोधादिदोषशून्येन वाक्येन| तन्त्रणादिति शरीरधारणात्; किंवा आयुर्वेदानुपालनात्| अर्थप्रतिष्ठयेति प्रधानभूतार्थावस्थानात्| एताश्च योगरूढाः सञ्ज्ञाः; तेन, अतिप्रसङ्गो न वाच्यः| अधिकृत्येति अधिकारिणं कृत्वा| अर्थं दीर्घञ्जीवितादिकम्| अध्यायनामसञ्ज्ञा अध्यायरूपा नामसञ्ज्ञा, नामसञ्ज्ञा च योगरूढा सञ्ज्ञोच्यते; किंवा, ‘अध्यायो नाम’ इति पाठः, तदा नामशब्दः प्रकाशने, तेन अधिकार इत्यर्थः| अर्थशब्दोऽत्रार्थान्तरे, तेन युक्ताऽध्यायसञ्ज्ञा, सा च अधिकरणसाधना करणसाधना वा कर्मसाधना वा बोद्धव्या| अधीयतेऽस्मिन्, अध्येत्यनेन वा, अधीयते वेत्यध्यायः||६९-७१||

Adhikarana 27 (72-74) · Śloka 74

सन्ति पाल्लविकोत्पाताः सङ्क्षोभं जनयन्ति ये| वर्तकानामिवोत्पाताः सहसैवाविभाविताः||७२|| तस्मात्तान् पूर्वसञ्जल्पे सर्वत्राष्टकमादिशेत्| परावरपरीक्षार्थं तत्र शास्त्रविदां बलम्||७३|| शब्दमात्रेण तन्त्रस्य केवलस्यैकदेशिकाः| भ्रमन्त्यल्पबलास्तन्त्रे ज्याशब्देनेव वर्तकाः||७४||

🔊 Audio coming soon

प्रश्नाष्टकस्योक्तस्य निराकरणीयसञ्ज्ञामाह - सन्तीत्यादि| पाल्लविकाः प्रादेशिकाः| वर्तका अकस्मादुत्पतन्तः क्षोभं मनसो जनयन्तीति लोकप्रसिद्धम्| अष्टकमिति यथोक्तं प्रश्नाष्टकम्| परावरौ श्रेष्ठाश्रेष्ठौ| तत्र शास्त्रविदां बलमिति शास्त्रविद एव प्रश्नाष्टकं जानन्ति न पाल्लविकाः||७२-७४||

Adhikarana 28 (75-81) · Śloka 81

पशुः पशूनां दौर्बल्यात् कश्चिन्मध्ये वृकायते| स सत्यं वृकमासाद्य प्रकृतिं भजते पशुः||७५|| तद्वदज्ञोऽज्ञमध्यस्थः कश्चिन्मौखर्यसाधनः| स्थापयत्याप्तमात्मानमाप्तं त्वासाद्य भिद्यते||७६|| बभ्रुर्गूढ इवोर्णाभिरबुद्धिरबहुश्रुतः| किं वै वक्ष्यति सञ्जल्पे कुण्डभेदी जडो यथा||७७|| सद्वृत्तैर्न विगृह्णीयाद्भिषगल्पश्रुतैरपि| हन्यात् प्रश्नाष्टकेनादावितरांस्त्वाप्तमानिनः ||७८|| दम्भिनो मुखरा ह्यज्ञाः प्रभूताबद्धभाषिणः| प्रायः, प्रायेण सुमुखाः सन्तो युक्ताल्पभाषिणः||७९|| तत्त्वज्ञानप्रकाशार्थमहङ्कारमनाश्रितः| स्वल्पाधाराज्ञमुखरान्मर्षयेन्न विवादिनः||८०|| परो भूतेष्वनुक्रोशस्तत्त्वज्ञान(ने)परा दया| येषां तेषामसद्वादनिग्रहे निरता मतिः||८१||

🔊 Audio coming soon

प्रकृतिः स्वभावः| बभ्रुरूर्णावान् कश्चित् पशुः, स यथा मेषं युद्धायात्मीयामिवोर्णां दृष्ट्वा उपसर्पन्नङ्गभङ्गमाप्नोति, तद्वदज्ञोऽप्याप्तं प्राप्य भिद्यत इत्यर्थः; किंवा, बभ्रुर्वृद्धनकुल ऊर्णाराशिमध्यगो यथा किञ्चिन्न प्रतिपद्यते, तथाऽबुद्धिरपि सञ्जल्पे वादिप्रतिवादिकथायाम्| कुण्डभेदी भ्रष्टयोनिः; तेन पृच्छादितात्मीयनिर्णितजातिर्यथाऽवदातजातिः सन् कश्चिद्ब्रूते, तथाऽबुद्धिरपि सञ्जल्पे| विगृह्णीयाद् विगृह्य सम्भाषां कुर्यात्| इतरान् असद्वृत्तान्| स्वल्पाधाराःस्वल्पश्रुताः| न मर्षयेदिति नोपेक्षेत| अज्ञवैद्यसंवादप्रतिषेधफलमाह- परो भूतेष्वित्यादि| निरता इति तत्परा||७५-८१||

Adhikarana 29 (82-83) · Śloka 83

असत्पक्षाक्षणित्वार्तिदम्भपारुष्यसाधनाः| भवन्त्यनाप्ताः स्वे तन्त्रे प्रायः परविकत्थकाः||८२|| तान् कालपाशसदृशान् वर्जयेच्छास्त्रदूषकान्| प्रशमज्ञानविज्ञानपूर्णाः सेव्या भिषक्तमाः||८३||

🔊 Audio coming soon

अज्ञवैद्यफलमाह- असत्पक्षेत्यादि| असत्पक्षादि साधनं येषां ते तथा; असत्पक्षः अनागमपक्षसिद्धः पक्षः| अक्षणित्वं पृच्छार्थमनुयुक्तस्य ‘सम्प्रति वक्तुं क्षणो नासि’ इति भाषणम्, अर्तिः पृच्छार्थमनुयुक्तस्य शिरोव्यथादिकमुद्भाव्य भाषणं, दम्भः पुस्तकवैद्यभाण्डादिभिः स्वार्थोत्कर्षप्रतिपादनं, पारुष्यं कृच्छ्रतोऽपि नवाच्यत्वादिपरुषभाषणम् | अनाप्ताः स्वे तन्त्र इति स्वतन्त्रानभिज्ञानात्| परविकत्थकाः परदूषकाः||८२-८३||

Adhikarana 30 (84-85) · Śloka 85

समग्रं दुःखमायत्तमविज्ञाने द्वयाश्रयम्| सुखं समग्रं विज्ञाने विमले च प्रतिष्ठितम्||८४|| इदमेवमुदारार्थमज्ञानां न प्रकाशकम्| शास्त्रं दृष्टिप्रणष्टानां यथैवादित्यमण्डलम्||८५||

🔊 Audio coming soon

द्वयाश्रयमिति मनःशरीराश्रयम्| समग्रमिति शारीरं मानसं च सुखमारोग्यादिरूपम्| विज्ञाने विमल इति विशुद्धज्ञाने, किंवा विज्ञाने विमल इति मोक्षे, मोक्षे हि सुखं स्वच्छं समग्रं च दुःखासम्भिन्नत्वात्; किंवा, भट्टदर्शनात् सुसम्भवम्| इदमिति शास्त्रम्| एवमुदारार्थमिति लोकद्वयहितार्थाभिधायकम्| दृष्टिप्रणष्टानामिति प्रणष्टदृशाम्||८४-८५||

Adhikarana 31 (86-89) · Śloka 89

तत्र श्लोकाः- अर्थे दशमहामूलाः सञ्ज्ञा चासां यथा कृता| अयनान्ताः षडग्र्याश्च रूपं वेदविदां च यत्||८६|| सप्तकश्चाष्टकश्चैव परिप्रश्नाः सनिर्णयाः| यथा वाच्यं यदर्थं च षड्विधाश्चैकदेशिकाः||८७|| अर्थेदशमहामूले सर्वमेतत् प्रकाशितम्| सङ्ग्रहश्चायमध्यायस्तन्त्रस्यास्यैव केवलः||८८|| यथा सुमनसां सूत्रं सङ्ग्रहार्थं विधीयते| सङ्ग्रहार्थं तथाऽर्थानामृषिणा सङ्ग्रहः कृतः||८९||

🔊 Audio coming soon

सङ्ग्रहे सञ्ज्ञा चासां यथा कृतेति ‘तेन मूलेन महता महामूला’ इत्यादिना| अयनान्ताः षडग्र्याश्चेति ‘एकं प्राणवर्धनानाम्’ इत्यादिनोक्ताः| एते चाहिंसादयोऽग्र्याधिकारे यज्जःपुरुषीये उक्ता उल्लङ्घ्येहोक्ता अध्यात्मविषयत्वेन, पूर्वोक्तास्त्वग्र्यरोगाधिकारिकाः; उक्तं हि तत्र- “अलमेतद्विकाराणाम्” (सू.अ.२५) इत्यादि| सप्तकः प्रश्नः ‘किमायुः? कस्मादायुर्वेदः?’ इत्यादि; अष्टकः प्रश्नः ‘तन्त्रं तन्त्रार्थं’ इत्यादि||८६-८९||

Adhikarana puShpikA · Śloka 30

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थानेऽर्थेदशमहामूलीयो नाम त्रिंशोऽध्यायः||३०|| अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते| इयताऽवधिना सर्वं सूत्रस्थानं समाप्यते|

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थानेऽर्थेदशमहामूलीयस्त्रिंशत्तमोऽध्यायः||३०|| इति चरकचतुराननश्रीमच्चक्रपाणिदत्तकृतायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां प्रथमं सूत्रस्थानम्||१||