Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

29. daśaprāṇāyatanīyō'dhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो दशप्राणायतनीयमध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

सम्प्रत्यध्यायद्वयेऽवशिष्टे वक्तव्ये पूर्वाध्याये ‘प्राणायतनसमुत्थः’ इति प्राणायतनशब्दकीर्तनाद्दशप्राणायतनीय उच्यते; किंवा, अयं दशप्राणायतनीयः सूत्रस्थानोपसङ्ग्रहः, शेषाध्यायस्तु सर्वतन्त्रसङ्ग्रह इति पश्चादुच्यते| इयमप्यर्थपरा सञ्ज्ञा, न शब्दानुकारिणी| आयतनानीव आयतनानि, तदुपघाते प्राणोपघातात्, तन्नाशे च प्राणनाशादित्यर्थः| न प्राणस्य जीविताख्यस्य शरीरेन्द्रियसत्त्वात्मसंयोगरूपस्य शङ्खादय एव परमाशयाः, तस्य कृत्स्नशरीराद्याश्रयत्वात्||१-२||

Adhikarana 2 (3-4) · Śloka 4

दशैवायतनान्याहुः प्राणा येषु प्रतिष्ठिताः | शङ्खौ मर्मत्रयं कण्ठो रक्तं शुक्रौजसी गुदम्||३|| तानीन्द्रियाणि विज्ञानं चेतनाहेतुमामयान्| जानीते यः स वै विद्वान् प्राणाभिसर उच्यते||४||

🔊 Audio coming soon

मर्मत्रयमिति हृदयबस्तिशिरांसि| तानीति शङ्खादीनि| विज्ञानं बुद्धिः | चेतनाहेतुः आत्मा, चेतनासमवायिकारणत्वात्; किंवा चेतनाशब्देनात्मा, हेतुशब्देन तु व्याधीनां जनको हेतुर्निदानरूपस्तथा शमको हेतुर्भेषजरूप उच्यते; आमयशब्देन च लिङ्गमुच्यते| तेन, आध्यात्मिकानीन्द्रियादीनि बाह्यानि च हेतुलिङ्गौषधानि यो जानीत इत्युक्तं भवति; एतावच्चैतच्छास्त्रं यत्- आध्यात्मिकानीन्द्रियाणि तथा हेतुलिङ्गौषधानि च| प्राणाभिसरा महाचतुष्पादे उक्ताः||३-४||

Adhikarana 3 (5) · Śloka 5

द्विविधास्तु खलु भिषजो भवन्त्यग्निवेश! प्राणानामेकेऽभिसरा हन्तारो रोगाणां, रोगाणामेकेऽभिसरा हन्तारः प्राणानामिति||५||

🔊 Audio coming soon

सर्वचिकित्साया वैद्याधीनत्वेन यादृशो वैद्य उपादेयो यादृशश्चानुपादेयस्तद्दर्शनकौशलात् सूत्रस्थानार्थसङ्ग्रहं दर्शयति- द्विविधा इत्यादि| रोगाणामभिसरा इति रोगाणामानेतारः||५||

Adhikarana 4 (6-7) · Śloka 7

एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच- भगवंस्ते कथमस्माभिर्वेदितव्या भवेयुरिति||६|| भगवानुवाच- य इमे कुलीनाः पर्यवदातश्रुताः परिदृष्टकर्माणो दक्षाः शुचयो जितहस्ता जितात्मानः सर्वोपकरणवन्तः सर्वेन्द्रियोपपन्नाः प्रकृतिज्ञाः प्रतिपत्तिज्ञाश्च ते ज्ञेयाः प्राणानामभिसरा हन्तारो रोगाणां; तथाविधा हि केवले शरीरज्ञाने शरीराभिनिर्वृत्तिज्ञाने प्रकृतिविकारज्ञाने च निःसंशयाः, सुखसाध्यकृच्छ्रसाध्ययाप्यप्रत्याख्येयानां च रोगाणां समुत्थानपूर्वरूपलिङ्गवेदनोपशयविशेषज्ञाने व्यपगतसन्देहाः, त्रिविधस्यायुर्वेदसूत्रस्य ससङ्ग्रहव्याकरणस्य सत्रिविधौषधग्रामस्य प्रवक्तारः , पञ्चत्रिंशतो मूलफलानां चतुर्णां च स्नेहानां पञ्चानां च लवणानामष्टानां च मूत्राणामष्टानां च क्षीराणां क्षीरत्वग्वृक्षाणां च षण्णां शिरोविरेचनादेश्च पञ्चकर्माश्रयस्यौषधगणस्याष्टाविंशतेश्च यवागूनां द्वात्रिंशतश्चूर्णप्रदेहानां षण्णं च विरेचनशतानां पञ्चानां च कषायशतानां प्रयोक्तारः, स्वस्थवृत्तविहितभोजनपाननियमस्थानचङ्क्रमणशयनासनमात्राद्रव्याञ्जनधूमनावनाभ्यञ्जन- परिमार्जनवेगाविधारणविधारणव्यायामसात्म्येन्द्रियपरीक्षोपक्रमणसद्वृत्तकुशलाः , चतुष्पादोपगृहीते च भेषजे षोडशकले सविनिश्चये सत्रिपर्येषणे सवातकलाकलज्ञाने व्यपगतसन्देहाः, चतुर्विधस्य च स्नेहस्य चतुर्विंशत्युपनयस्योपकल्पनीयस्य चतुःषष्टिपर्यन्तस्य च व्यवस्थापयितारः, बहुविधविधानयुक्तानां च स्नेह्यस्वेद्यवम्यविरेच्यविविधौषधोपचाराणां च कुशलाः, शिरोरोगादेर्दोषांशविकल्पजस्य च व्याधिसङ्ग्रहस्य सक्षयपिडकाविद्रधेस्त्रयाणां च शोफानां बहुविधशोफानुबन्धानामष्टचत्वारिंशतश्च रोगाधिकरणानां चत्वारिंशदुत्तरस्य च नानात्मजस्य व्याधिशतस्य तथा विगर्हितातिस्थूलातिकृशानां सहेतुलक्षणोपक्रमाणां स्वप्नस्य च हिताहितस्यास्वप्नातिस्वप्नस्य च सहेतूपक्रमस्य षण्णां च लङ्घनादीनामुपक्रमाणां सन्तर्पणापतर्पणजानां च रोगाणां सरूपप्रशमनानां शोणितजानां च व्याधीनां मदमूर्च्छायसन्न्यासानां च सकारणरूपौषधोपचाराणां कुशलाः, कुशलाश्चाहारविधिविनिश्चयस्य प्रकृत्या हिताहितानामाहारविकाराणामग्र्यसङ्ग्रहस्यासवानां च चतुरशीतेर्द्रव्यगुणकर्मविनिश्चयस्य रसानुरससंश्रयस्य सविकल्पवैरोधिकस्य द्वादशवर्गाश्रयस्य चान्नपानस्य सगुणप्रभावस्य सानुपानगुणस्य नवविधस्यार्थसङ्ग्रहस्याहारगतेश्च हिताहितोपयोगविशेषात्मकस्य च शुभाशुभविशेषस्य धात्वाश्रयाणां च रोगाणां सौषधसङ्ग्रहाणां दशानां च प्राणायतनानां यं च वक्ष्याम्यर्थेदशमहामूलीये त्रिंशत्तमाध्याये तत्र च कृत्स्नस्य तन्त्रोद्देशलक्षणस्य तन्त्रस्य च ग्रहणधारणविज्ञानप्रयोगकर्मकार्यकालकर्तृकरणकुशलाः , कुशलाश्च स्मृतिमतिशास्त्रयुक्तिज्ञानस्यात्मनः शीलगुणैरविसंवादनेन च सम्पादनेन सर्वप्राणिषु चेतसो मैत्रस्य मातापितृभ्रातृबन्धुवत्, एवंयुक्ता भवन्त्यग्निवेश! प्राणानामभिसरा हन्तारो रोगाणामिति||७||

🔊 Audio coming soon

प्रतिपत्तिज्ञा इति तदात्वे कर्तव्यज्ञाः| शरीराभिनिर्वृत्तिज्ञानं यथा शरीरं शुक्रशोणितसंयोगादिभ्य उपजायते, तथा ज्ञानम्| प्रकृतिविकारज्ञानं साङ्ख्यनयेन शारीरे वक्ष्यमाणम्| त्रिविधस्यायुर्वेदसूत्रस्येति “हेतुलिङ्गौषधज्ञानं” (सू. १) इत्यस्य| इतः प्रभृति च तन्त्रोद्देशलक्षणस्येत्यन्तेन सूत्रस्थानार्थसङ्ग्रहो यथाक्रममनुसारणीयः| ससङ्ग्रहव्याकरणस्येति “सामान्यं च विशेषं च” (सू. १) इत्यादिना दीर्घञ्जीवितीये सङ्ग्रहः, व्याकरणं च “सामान्यमेकत्वकरं” (सू. १) इत्यादि| सत्रिपर्येषण इति एषणात्रययुक्ते| नवविधस्येति “चरः शरीरावयवाः” (सू. २७) इत्यादेः| आहारगतेरिति “विविधमशितं पीतं” (सू. २८) इत्यादिना| तन्त्रोद्देशलक्षणस्येति तत्र तन्त्रोद्देशः “अष्टौ स्थानानि” (सू. ३०) इत्यादिना, तन्त्रलक्षणं तु आयुषो वेदस्य च यन्निरुक्तौ लक्षणं वक्ष्यति| अत्र स्थानार्थज्ञानेकौशलमभिधायान्यथाप्याह- तन्त्रस्येत्यादि| गृहीतस्योत्तरकालस्मरणं धारणं, विज्ञानम् अर्थतो ज्ञानं, प्रयोगः चिकित्साप्रयोगः, कर्म अनेकधा चिकित्साकरणं, कार्यं धातुसाम्यं, कालः क्रियाकालः, कर्तेह भिषक्, करणं भेषजम्| शास्त्रयुक्तिः शास्त्रयोजना| युक्तिज्ञानस्येति कुशलयोगात् करणे षष्ठी| आत्मन इत्यादि|- आत्मनः शीलगुणैः करणभूतैः मातृपितृबन्धुवत् सर्वप्राणिषु चेतसो मैत्रस्य सम्पादनेन तथा अविसंवादनेन च कुशला इति ग्रन्थसम्बन्धो बोद्धव्यः||६-७||

Adhikarana 5 (8-9) · Śloka 9

अतो विपरीता रोगाणामभिसरा हन्तारः प्राणानां, भिषक्छद्मप्रतिच्छन्नाः कण्टकभूता लोकस्य प्रतिरूपकसधर्माणो राज्ञां प्रमादाच्चरन्ति राष्ट्राणि||८|| तेषामिदं विशेषविज्ञानं भवति- अत्यर्थं वैद्यवेशेन श्लाघमाना विशिखान्तरमनुचरन्ति कर्मलोभात्, श्रुत्वा च कस्यचिदातुर्यमभितः परिपतन्ति, संश्रवणे चास्यात्मनो वैद्यगुणानुच्चैर्वदन्ति, यश्चास्य वैद्यः प्रतिकर्म करोति तस्य च दोषान्मुहुर्मुहुरुदाहरन्ति, आतुरमित्राणि च प्रहर्षणोपजापोपसेवादिभिरिच्छन्त्यात्मीकर्तुं, स्वल्पेच्छुतां चात्मनः ख्यापयन्ति, कर्म चासाद्य मुहुर्मुहुरवलोकयन्ति दाक्ष्येणाज्ञानमात्मनः प्रच्छादयितुकामाः, व्याधिं चापावर्तयितुमशक्नुवतो व्याधितमेवानुपकरणमपरिचारकमनात्मवन्तमुपदिशन्ति , अन्तगतं चैनमभिसमीक्ष्यान्यमाश्रयन्ति देशमपदेशमात्मनः कृत्वा, प्राकृतजनसन्निपाते चात्मनः कौशलमकुशलवद्वर्णयन्ति, अधीरवच्च धैर्यमपवदन्ति धीराणां, विद्वज्जनसन्निपातं (चाभिसमीक्ष्य) प्रतिभयमिव कान्तारमध्वगाः परिहरन्ति दूरात्, यश्चैषां कश्चित् सूत्रावयवो भवत्युपयुक्तस्तमप्रकृते प्रकृतान्तरे वा सततमुदाहरन्ति, न चानुयोगमिच्छन्त्यनुयोक्तुं वा, मृत्योरिव चानुयोगादुद्विजन्ते, न चैषामाचार्यः शिष्यः सब्रह्मचारी वैवादिको वा कश्चित् प्रज्ञायत इति||९||

🔊 Audio coming soon

भिषक्छद्मचरो वञ्चनार्थकृतभिषग्वेशः| प्रतिरूपकः अन्यथारूपकारी द्रोहकारक (?) इत्युच्यते लोके | राज्ञां प्रमादादिति राज्ञा हि ते कुवैद्याः शासनीयाः| विशिखा रथ्या, किंवा कर्ममार्गः| संश्रवणे चास्येति आतुरस्य श्रवणयोग्ये प्रदेशे| अन्तगतमिति मुमूर्षुम्| अपदेशं व्याजम्| अकुशलवदिति यथा अकुशलाः परस्परविरुद्धमात्मकौशलं वर्णयन्ति तथेत्यर्थः| अधीरवदिति उच्चाटरवाः सन्तः| उपयुक्त इति ज्ञातः| अनुयोगं पृच्छाम्||८-९||

Adhikarana 6 (10-14) · Śloka 14

भवन्ति चात्र- भिषक्छद्म प्रविश्यैवं व्याधितांस्तर्कयन्ति ये| वीतंसमिव संश्रित्य वने शाकुन्तिका द्विजान्||१०|| श्रुतदृष्टक्रियाकालमात्राज्ञानबहिष्कृताः| वर्जनीया हि ते मृत्योश्चरन्त्यनुचरा भुवि||११|| वृत्तिहेतोर्भिषङ्मानपूर्णान् मूर्खविशारदान्| वर्जयेदातुरो विद्वान् सर्पास्ते पीतमारुताः||१२|| ये तु शास्त्रविदो दक्षाः शुचयः कर्मकोविदाः| जितहस्ता जितात्मानस्तेभ्यो नित्यं कृतं नमः||१३|| तत्र श्लोकः- दशप्राणायतनिके श्लोकस्थानार्थसङ्ग्रहः| द्विविधा भिषजश्चोक्ताः प्राणस्यायतनानि च||१४||

🔊 Audio coming soon

वीतंसः पक्षिबन्धनम्| श्रुतं शास्त्रे श्रवणम्| दृष्टं कर्मदर्शनम्| क्रिया चिकित्साज्ञानं, ज्ञानं शास्त्रजन्यं, श्रुतं तु श्रवणमात्रम्| तेभ्यो नित्यं कृतं नम इत्यनेन प्राणाभिसरं स्तौति||१०-१४||

Adhikarana puShpikA · Śloka 29

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने दशप्राणायतनीयो नामोनत्रिंशोऽध्यायः||२९||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने दशप्राणायतनीयो नामैकोनत्रिंशोऽध्यायः||२९||