Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

19. aṣṭōdarīyō'dhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातोऽष्टोदरीयमध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

पूर्वाध्याये प्रोक्तं “व्यवस्थाकरणं तेषां यथास्थूलेषु सङ्ग्रहः” (सू. १८) इति, तदनु जिज्ञासायामष्टावुदराणीत्यादिं यथास्थूलं सङ्ग्रहोऽभिधीयते| अष्टोदरीय इति चार्थपरा सञ्ज्ञा||१-२||

Adhikarana 2 (3) · Śloka 3

इह खल्वष्टावुदराणि, अष्टौ मूत्राघाताः, अष्टौ क्षीरदोषाः, अष्टौ रेतोदोषाः; सप्त कुष्ठानि, सप्त पिडकाः, सप्त वीसर्पाः; षडतीसाराः, षडुदावर्ताः; पञ्च गुल्माः, पञ्च प्लीहदोषाः, पञ्च कासाः, पञ्च श्वासाः, पञ्च हिक्काः, पञ्च तृष्णाः, पञ्च छर्दयः, पञ्च भक्तस्यानशनस्थानानि, पञ्च शिरोरोगाः, पञ्च हृद्रोगाः, पञ्च पाण्डुरोगाः, पञ्चोन्मादाः, चत्वारोऽपस्माराः, चत्वारोऽक्षिरोगाः, चत्वारः कर्णरोगाः, चत्वारः प्रतिश्यायाः, चत्वारो मुखरोगाः, चत्वारो ग्रहणीदोषाः, चत्वारो मदाः, चत्वारो मूर्च्छायाः, चत्वारः शोषाः, चत्वारि क्लैब्यानि; त्रयः शोफाः, त्रीणि किलासानि, त्रिविधं लोहितपित्तं; द्वौ ज्वरौ, द्वौ व्रणौ, द्वावायामौ, द्वे गृध्रस्यौ, द्वे कामले, द्विविधमामं, द्विविधं वातरक्तं, द्विविधान्यर्शांसि; एक ऊरुस्तम्भः, एकः सन्न्यासः, एको महागदः; विंशतिः क्रिमिजातयः, विंशतिः प्रमेहाः, विंशतिर्योनिव्यापदः; इत्यष्टचत्वारिंशद्रोगाधिकरणान्यस्मिन् सङ्ग्रहे समुद्दिष्टानि||३||

🔊 Audio coming soon

उदराभिधानमादौ पूर्वाध्यायोक्तशोथसामान्यात्; उदाराण्युत्सेधसामान्याच्छोथप्रभेदा एव||३||

Adhikarana 3 (4) · Śloka 4

एतानि यथोद्देशमभिनिर्देक्ष्यामः- अष्टावुदराणीति वातपित्तकफसन्निपातप्लीहबद्धच्छिद्रदकोदराणि, अष्टौ मूत्राघाता इति वातपित्तकफसन्निपाताश्मरीशर्कराशुक्रशोणितजाः, अष्टौ क्षीरदोषा इति वैवर्ण्यं वैगन्ध्यं वैरस्यं पैच्छिल्यं फेनसङ्घातो रौक्ष्यं गौरवमतिस्नेहश्च, अष्टौ रेतोदोषा इति तनु शुष्कं फेनिलमश्वेतं पूत्यतिपिच्छलमन्यधातूपहितमवसादि च (१); सप्त कुष्ठानीति कपालोदुम्बरमण्डलर्ष्यजिह्वपुण्डरीकसिध्मकाकणानि, सप्त पिडका इति शराविका कच्छपिका जालिनी सर्षप्यलजी विनता विद्रधी च, सप्त विसर्पा इति वातपित्तकफाग्निकर्दमकग्रन्थिसन्निपाताख्याः (२); षडतीसारा इति वातपित्तकफसन्निपातभयशोकजाः, षडुदावर्ता इति वातमूत्रपुरीषशुक्रच्छर्दिक्षवथुजाः (३); पञ्च गुल्मा इति वातपित्तकफसन्निपातशोणितजाः, पञ्च प्लीहदोषा इति गुल्मैर्व्याख्याताः, पञ्च कासा इति वातपित्तकफक्षतक्षयजाः, पञ्च श्वासा इति महोर्ध्वच्छिन्नतमकक्षुद्राः, पञ्च हिक्का इति महती गम्भीरा व्यपेता क्षुद्राऽन्नजा च, पञ्च तृष्णा इति वातपित्तामक्षयोपसर्गात्मिकाः, पञ्च छर्दय इति द्विष्टार्थसंयोगजा वातपित्तकफसन्निपातोद्रेकोत्थाश्च , पञ्च भक्तस्यानशनस्थानानीति वातपित्तकफसन्निपातद्वेषाः, पञ्च शिरोरोगा इति पूर्वोद्देशमभिसमस्य वातपित्तकफसन्निपातक्रिमिजाः, पञ्च हृद्रोगा इति शिरोरोगैर्व्याख्याताः, पञ्च पाण्डुरोगा इति वातपित्तकफसन्निपातमृद्भक्षणजाः, पञ्चोन्मादा इति वातपित्तकफसन्निपातागन्तुनिमित्ताः (४); चत्वारोऽपस्मारा इति वातपित्तकफसन्निपातनिमित्ताः, चत्वारोऽक्षिरोगाश्चत्वारः कर्णरोगाश्चत्वारः प्रतिश्यायाश्चत्वारो मुखरोगाश्चत्वारो ग्रहणीदोषाश्चत्वारो मदाश्चत्वारो मूर्च्छाया इत्यपस्मारैर्व्याख्याताः, चत्वारः शोषा इति साहससन्धारणक्षयविषमाशनजाः, चत्वारि क्लैब्यानीति बीजोपघाताद्ध्वजभङ्गाज्जरायाः शुक्रक्षयाच्च (५); त्रयः शोथा इति वातपित्तश्लेष्मनिमित्ताः, त्रीणि किलासानीति रक्तताम्रशुक्लानि, त्रिविधं लोहितपित्तमिति ऊर्ध्वभागमधोभागमुभयभागं च (६); द्वौ ज्वराविति उष्णाभिप्रायः शीतसमुत्थश्च शीताभिप्रायश्चोष्णसमुत्थः, द्वौ व्रणाविति निजश्चागन्तुजश्च, द्वावायामाविति बाह्यश्चाभ्यन्तरश्च, द्वे गृध्रस्याविति वाताद्वातकफाच्च, द्वे कामले इति कोष्ठाश्रया शाखाश्रया च, द्विविधमाममिति अलसको विसूचिका च, द्विविधं वातरक्तमिति गम्भीरमुत्तानं च, द्विविधान्यर्शांसीति शुष्काण्यार्द्राणि च (७); एक ऊरुस्तम्भ इत्यामत्रिदोषसमुत्थः, एकः सन्न्यास इति त्रिदोषात्मको मनःशरीराधिष्ठानः, एको महागद इति अतत्त्वाभिनिवेशः (८); विंशतिः क्रिमिजातय इति यूका पिपीलिकाश्चेति द्विविधा बहिर्मलजाः, केशादा लोमादा लोमद्वीपाः सौरसा औदुम्बरा जन्तुमातरश्चेति षट् शोणितजाः, अन्त्रादा उदरावेष्टा हृदयादाश्चुरवो दर्भपुष्पाः सौगन्धिका महागुदाश्चेति सप्त कफजाः, ककेरुका मकेरुका लेलिहाः सशूलकाः सौसुरादाश्चेति पञ्च पुरीषजाः; विंशतिः प्रमेहा इत्युदकमेहश्चेक्षुबालिकारसमेहश्च सान्द्रमेहश्च सान्द्रप्रसादमेहश्च शुक्लमेहश्च शुक्रमेहश्च शीतमेहश्च शनैर्मेहश्च सिकतामेहश्च लालामेहश्चेति दश श्लेष्मनिमित्ताः, क्षारमेहश्च कालमेहश्च नीलमेहश्च लोहितमेहश्च मञ्जिष्ठामेहश्च हरिद्रामेहश्चेति षट् पित्तनिमित्ताः, वसामेहश्च मज्जामेहश्च हस्तिमेहश्च मधुमेहश्चेति चत्वारो वातनिमित्ताः, इति विंशतिः प्रमेहाः; विंशतिर्योनिव्यापद इति वातिकी पैत्तिकी श्लेष्मिकी सान्निपातिकी चेति चतस्रो दोषजाः, दोषदूष्यसंसर्गप्रकृतिनिर्देशैरवशिष्टाः षोडश निर्दिश्यन्ते, तद्यथा- रक्तयोनिश्चारजस्का चाचरणा चातिचरणा च प्राक्चरणा चोपप्लुता च परिप्लुता चोदावर्तिनी च कर्णिनी च पुत्रघ्नी चान्तर्मुखी च सूचीमुखी च शुष्का च वामिनी च षण्ढयोनिश्च महायोनिश्चेति विंशतिर्योनिव्यापदो भवन्ति (९); केवलश्चायमुद्देशो यथोद्देशमभिनिर्दिष्टो भवति||४||

🔊 Audio coming soon

इहैकादि सङ्ख्यापरित्यागादष्टसङ्ख्याग्रहणमादौ कृतम्, अष्टसङ्ख्याया बहुत्वेन प्राधान्यात्; विंशतिसङ्ख्यमेहादीनामूनविंशत्याद्यधःसङ्ख्यानुपूर्वीप्राप्त्यभावान्न कृतः प्रथमं निवेशः| यद्यपि चिकित्सितेऽष्टादश कुष्ठानि, तथाऽपीह महाकुष्ठाभिप्रायेण सप्तोच्यन्ते| षडुदावर्ता इत्यत्र नवेगान्धारणीयोक्तन्यायेनोच्चारादिनिरोधजादय उदावर्ता इहोच्यन्ते| गुल्मैर्व्याख्याता इति यथा गुल्मभेदास्तथा प्लीहदोषाः| पञ्च तृष्णेति सम्भोजनस्नेहादिजनितानामपि वातादिजास्वेवावरोधात्| स्थानमिव स्थानं कारणं; तेन, अनशनस्थानान्यरोचकानि; अनेन कारणेन कार्याण्यरोचकानि लक्ष्यन्ते ; तेन रोगसङ्ग्रहे कारणाभिधानमन्याय्यमिति न भवति| पूर्वोद्देशमभिसमस्येति कियन्तःशिरसीये विस्तरोक्तान् सङ्क्षिप्य; किंवा कियन्तःशिरसीय एव “अर्धावभेदको वा स्यात्” (सू. १७) इत्याद्युद्दिष्टानभिसमस्य परित्यज्य शिरस्येव रुजारूपा ये पञ्च त उच्यन्ते| ‘साहसं सन्धारणं क्षयो विषमाशनम्’ इति पाठे कारणेन कार्यं चतुर्विधः शोष उच्यते| द्वौ ज्वरावित्यादौ शीतसमुत्थत्वेनैवोष्णाभिप्रायता लब्धा, यतो निदानविपरीतमिच्छति ज्वरी; तदिहोष्णाभिप्रायताविशेषणं शीतर्तुसमुत्थत्वेन पैत्तिकस्यापि ज्वरस्य शीतसमुत्थत्वनिरासार्थम्; एवं शीताभिप्रायेऽपि वाच्यम्| द्विविधमाममिति आमविषस्य त्रिविधकुक्षीये वक्ष्यमाणस्यालसक एवान्तर्भावात्; अन्ये त्वामविषस्य विषत्वेनान्यविषतन्त्रविषयत्वादिहाग्रहणमिति ब्रुवते| अतत्त्वाभिनिवेशो मानसो विकारः, स च सर्वसंसारिदुःखहेतुतया गद इत्युच्यते| क्रिमीणां सञ्ज्ञा प्रायो रूढा ज्ञातव्या| पिपीलिका लिख्याः| दोषस्य दूष्येण रक्तादिना संसर्गो दोषदूष्यसंसर्गः, प्रकृतिः कारणम्; तत्र दोषदूष्यसंसर्गनिर्देशेन रक्तयोन्यादयः, प्रकृतिनिर्देशेन प्राक्चरणादयो योनिव्यापत्तिचिकित्सितं वीक्ष्य व्याकर्तव्याः| अत्र मदा एव मदात्ययरूपतां यान्तीति कृत्वा मदात्ययाः पृथङ्नोक्ताः| इह चोक्तानां रोगाणां यद्यपि प्रकारान्तरेणान्यथाऽपि सङ्ख्या भवति; तथा हि- अष्टौ ज्वराः, द्वावुन्मादौ निजागन्तुकभेदेनेत्यादि, तथाऽपि प्रधानविवक्षया एत एव भेदा गृहीताः; प्राधान्यं च स्वाधिकारे रोगाणामनुसरणीयम्||४||

Adhikarana 4 (5) · Śloka 5

सर्व एव निजा विकारा नान्यत्र वातपित्तकफेभ्यो निर्वर्तन्ते, यथाहि- शकुनिः सर्वं दिवसमपि परिपतन् स्वां छायां नातिवर्तते, तथा स्वधातुवैषम्यनिमित्ताः सर्वे विकारा वातपित्तकफान्नातिवर्तन्ते| वातपित्तश्लेष्मणां पुनः स्थानसंस्थानप्रकृतिविशेषानभिसमीक्ष्य तदात्मकानपि च सर्वविकारां स्तानेवोपदिशन्ति बुद्धिमन्तः||५||

🔊 Audio coming soon

सम्प्रत्यष्टोदरादीनां तथा वक्ष्यमाणानां महारोगे तथाऽनुक्तानामिह तन्त्रे रोगाणां निजानां वातपित्तश्लेष्माण एव व्यस्ताः समस्ता वा कारणं भवन्तीत्येतद्रूपं रोगाणां चिकित्सोपयोगि सूत्रं दर्शयितुमाह- सर्व इत्यादि| सर्व इत्युक्ता अनुक्ताश्च| यद्यप्यागन्तुष्वपि दोषसम्बन्धो न व्यभिचरति, तथाऽप्यागन्तौ रोगे दोषापेक्षया न चिकित्सेत्यागन्तुव्युदासार्थं निजा इत्युक्तम्| स्वशब्देनागन्तुकृतं धातुवैषम्यं निराकरोति| ननु, यदि वातादिजन्या एव सर्वविकारास्तत् किमर्थमन्यथाऽप्युदरादयः प्लीहजत्वादिभिर्निर्दिश्यन्त इत्याह- वातपित्तेत्यादि| स्थानं रसादयो बस्त्यादयश्च, संस्थानम् आकृतिर्लक्षणमिति यावत्, प्रकृतिः कारणम्, एषां विशेषानभिसमीक्ष्य तांस्तानुपदिशन्तीति ‘अष्टावुदराणि’ इत्येवम्माद्युपदिशन्ति| तदात्मकानपीति वातादिजनितानपि| तत्र, स्थानविशेषादुपदेशो यथा- ऊरुस्तम्भरक्तयोनिकामलाप्रभृतयः; संस्थानविशेषात् पिडकागुल्मप्रभृतयः; प्रकृतिविशेषाच्छ्लेष्मप्लीहोदरप्रभृतयः| अन्ये तु व्याख्यानयन्ति- यतस्तानेवेति वातादिजानेवेति व्यपदिशन्ति; तदात्मकानपीति यथोक्ताष्टादिसङ्ख्यायुक्तानपि| यद्यपि प्लीहादिकारणान्तरेण भिन्ना अपि रोगास्तथाऽपि वातादिस्थानजन्यत्वेन तथा वातादिलक्षणयुक्तत्वेन तथा वातादिकारणजातत्वेन वातादिजा एव सर्वविकारा इति वाक्यार्थः||५||

Adhikarana 5 (6) · Śloka 6

भवतश्चात्र- स्वधातुवैषम्यनिमित्तजा ये विकारसङ्घा बहवः शरीरे| न ते पृथक् पित्तकफानिलेभ्य आगन्तवस्त्वेव ततो विशिष्टाः||६||

🔊 Audio coming soon

अमुमेवार्थं श्लोकेनाह- स्वधात्वित्यादि| स्वशब्दोऽग्रे वक्ष्यमाणशरीरापेक्षः; तेन शरीरधातुवैषम्यं गृह्यते, मानसं तु प्रतिक्षिप्यते| धातवश्च न स्वरूपेण रोगकारणमिति वैषम्यपदं कृतम्| आगन्तवो हि रोगा अभिघातज्वरादयो धातुवैषम्यजा भवन्ति, अतस्तह्युदासार्थं निमित्तपदम्; आगन्तुषु वैषम्यं विद्यमानमपि कारणत्वेन न व्यपदिश्यते, अप्रधानत्वात्; किन्त्वागन्तुरेव लगुडादिप्रहारस्तत्र चिकित्साविशेषप्रयोजकः कारणं, निजे तु वैषम्यमेव चिकित्साप्रयोजकम्| निमित्तजा इति च स्वधातुवैषम्यपदस्य कर्मधारयत्वेन, बहुव्रीहिपक्षे त्वनर्थकमेव स्यात्| विकारसङ्घा इति ‘अष्टावुदराणि’ इत्यादयः| बहुवचनेनैव बहुत्वे लब्धे पुनः ‘बहवः’ इति वचनं बहुवचनस्य त्रित्वमात्रेणैव चरितार्थत्वनिषेधार्थम्| न ते पित्तकफानिलेभ्यः पृथगिति पित्तकफानिला एव ते दूष्यादिविशेषभाज इत्यर्थः| इह पित्तमादौ कृतं छन्दोऽनुरोधात्; किंवा प्राधान्यानियमज्ञापनार्थं कृतम्| अत्र च धातुवैषम्यमात्रं विकारो नोक्तः, तस्य वातादिवैषम्यरूपत्वेन सिद्धत्वादेव; यस्तु धातुवैषम्यविशेषो धातुवैषम्यजातो ज्वरादिरूपः, स इह शिष्यं प्रति विकृतवाताद्यभेदेन प्रतिपाद्यते| तत इति पूर्वोक्तविकारसङ्घात्| विशिष्टा इति पित्तकफानिलव्यतिरिक्ताः||६||

Adhikarana 6 (7) · Śloka 7

आगन्तुरन्वेति निजं विकारं निजस्तथाऽऽगन्तुमपि प्रवृद्धः| तत्रानुबन्धं प्रकृतिं च सम्यग् ज्ञात्वा ततः कर्म समारभेत||७||

🔊 Audio coming soon

सम्प्रति भिन्नयोर्निजागन्त्वोः सम्बन्धमाह- आगन्तुरित्यादि| निजं प्रथमसमुत्पन्नं विकारमागन्तुर्भूतादिजन्यो विकारः अन्वेति अनुगतो भवति, यथा- दोषज एव ज्वरे उन्मादे वा पश्चाद्भूतनिवेशोऽपि भवति; तथाऽऽगन्तुमुत्पन्नमभिघातजं ज्वरं भूतजं चोन्मादं पश्चाद्धेतुमासाद्य निजोऽपि तत्र दोषलक्षणलक्षितो गदो भवति| ‘अपि प्रवृद्धः’ इति वचनेन आगन्त्ववस्थायामपि निजदोषो वृद्धोऽस्त्येव, परं प्रवृद्धोऽसौ न भवति स्वलक्षणाकर्तृत्वेनेति दर्शयति| अपिशब्देन निजस्य निजेन तथाऽगन्तोरप्यागन्तुनाऽनुबन्धः सूच्यते| अत्र निजागन्त्वोरनुबन्धे कार्यमाहतत्रेत्यादि| अनुबन्धः पश्चात्कालजातः| प्रकृतिः मूलभूतः| सम्यग्ज्ञात्वेति बलवत्त्वाबलवत्त्वादिना; किंवा, अनुबन्धः अप्रधानः; प्रकृतिः अनुबन्ध्यः प्रधानमित्यर्थः| यदुक्तं- “स्वतन्त्रो व्यक्तलिङ्गो यथोक्तसमुत्थानप्रशमो भवत्यनुबन्ध्यः, अतो विपरीतस्त्वनुबन्धः” (वि. ६) इति||७||

Adhikarana 7 (8-9) · Śloka 9

तत्र श्लोकौ- विंशकाश्चैककाश्चैव त्रिकाश्चोक्तास्त्रयस्त्रयः| द्विकाश्चाष्टौ, चतुष्काश्च दश, द्वादश पञ्चकाः||८|| चत्वारश्चाष्टका वर्गाः, षट्कौ द्वौ, सप्तकास्त्रयः| अष्टोदरीये रोगाणां रोगाध्याये प्रकाशिताः||९||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 19

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थानेऽष्टोदरीयो नामोनविंशोऽध्यायः||१९||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यव्याख्यायामायुर्वेददीपिकायां सूत्रस्थाने रोगचतुष्केऽष्टोदरीयो नामोनविंशोऽध्यायः||१९||