Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

18. triśōthīyō'dhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातस्त्रिशोथीयमध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

पूर्वाध्याये पिडका उक्ताः, ताश्च शोथरूपाः, अतः शोथाधिकारात् त्रिशोथीयोऽभिधीयते||१-२||

Adhikarana 2 (3) · Śloka 3

त्रयः शोथा भवन्ति वातपित्तश्लेष्मनिमित्ताः, ते पुनर्द्विविधा निजागन्तुभेदेन||३||

🔊 Audio coming soon

वक्ष्यमाणद्विविधादिभेदे विद्यमानेऽपि वातादिकृतत्रित्वाभिधानमग्रे वातादिकृतस्यैव प्राधान्यख्यापनार्थम्||३||

Adhikarana 3 (4) · Śloka 4

तत्रागन्तवश्छेदनभेदनक्षणनभञ्जनपिच्छनोत्पेषणप्रहारवधबन्धनवेष्टनव्यधनपीडनादिभिर्वा भल्लातकपुष्पफलरसात्मगुप्ताशूकक्रिमिशूकाहितपत्रलतागुल्मसंस्पर्शनैर्वा स्वेदनपरिसर्पणावमूत्रणैर्वा विषिणां सविषप्राणिदंष्ट्रादन्तविषाणनखनिपातैर्वा सागरविषवातहिमदहनसंस्पर्शनैर्वा शोथाः समुपजायन्ते||४||

🔊 Audio coming soon

भेदनम् आशयविदारणं, क्षणनम् अस्थिचूर्णनं, भञ्जनं जर्जरीकरणं, पिच्छ्नम् अत्यर्थपीडनम्, उत्पेषणं शिलोत्पेषणमिव, वेष्टनम् अग्रन्थिबन्धनं सर्पादिभिः| शूकवतां क्रिमीणां शूकः शूकक्रिमिशूकः| स्वेदनादिभिर्विषिणामिति योज्यम्||४||

Adhikarana 4 (5) · Śloka 5

ते पुनर्यथास्वं हेतुव्यञ्जनैरादावुपलभ्यन्ते निजव्यञ्जनैकदेशविपरीतैः; बन्धमन्त्रागदप्रलेपप्रतापनिर्वापणादिभिश्चोपक्रमैरुपक्रम्यमाणाः प्रशान्तिमापद्यन्ते||५||

🔊 Audio coming soon

आदावुपलभ्यन्त इति वचनादुत्तरकालमागन्तोरपि निजतुल्यतां ब्रूते| यदुक्तम्- “आगन्तुरन्वेति निजं विकारं” (सू.अ.१९) इति| निजव्यञ्जनैकदेशविपरीतैरिति निजलक्षणेभ्य आगन्तूनामेकदेशो विपरीतो भवति, स च वातादिजन्यश्यावादिवर्णविकारत्वाज्ज्ञेयः; किंवा आगन्तुर्व्यथापूर्वो भवति पश्चाद्वातादिभिरनुबध्यते, निजस्तु पूर्वं वातादिलक्षणैर्युज्यते पश्चाद्वेदनावान् भवतीत्येकदेशवैपरीत्यम्| बन्धः अरिष्टाबन्धो व्रणबन्धश्च| बन्धादयश्च यथायोग्यतया बोद्धव्याः||५||

Adhikarana 5 (6) · Śloka 6

निजाः पुनः स्नेहस्वेदवमनविरेचनास्थापनानुवासनशिरोविरेचनानामयथावत्प्रयोगान्मिथ्यासंसर्जनाद्वा छर्द्यलसकविसूचिकाश्वासकासातिसारशोषपाण्डुरोगोदरज्वरप्रदरभगन्दरार्शोविकारातिकर्शनैर्वा कुष्ठकण्डूपिडकादिभिर्वा छर्दिक्षवथूद्गारशुक्रवातमूत्रपुरीषवेगधारणैर्वा कर्मरोगोपवासाध्वकर्शितस्य वा सहसाऽतिगुर्वम्ललवणपिष्टान्नफलशाकरागदधिहरितकमद्यमन्दकविरूढनवशूकशमीधान्यानूपौदक- पिशितोपयोगान्मृत्पङ्कलोष्टभक्षणाल्लवणातिभक्षणाद्गर्भसम्पीडनादामगर्भप्रपतनात् प्रजातानां च मिथ्योपचारादुदीर्णदोषत्वाच्च शोफाः प्रादुर्भवन्ति; इत्युक्तः सामान्यो हेतुः||६||

🔊 Audio coming soon

छर्द्यादयः स्वरूपत एव शोथहेतवः| कर्माद्यतिकर्शितस्य तु सहसाऽतिगुर्वादिसेवनं शोथहेतुः; कर्मेति पञ्चकर्म| विरूढनवशब्दौ शूकशमीधान्यविशेषणौ| प्रजातानामिति अचिरप्रसूतानाम्||६||

Adhikarana 6 (7-8) · Śloka 8

अयं त्वत्र विशेषः- शीतरूक्षलघुविशदश्रमोपवासातिकर्शनक्षपणादिभिर्वायुः प्रकुपितस्त्वङ्मांसशोणितादीन्यभिभूय शोफं जनयति; स क्षिप्रोत्थानप्रशमो भवति, तथा श्यामारुणवर्णः प्रकृतिवर्णो वा, चलः स्पन्दनः खरपरुषभिन्नत्वग्रोमा छिद्यत इव भिद्यत इव पीड्यत इव सूचीभिरिव तुद्यते पिपीलिकाभिरिव संसृप्यते सर्षपकल्कावलिप्त इव चिमिचिमायते सङ्कुच्यत आयम्यत इवेति वातशोथः (१); उष्णतीक्ष्णकटुकक्षारलवणाम्लाजीर्णभोजनैरग्न्यातपप्रतापैश्च पित्तं प्रकुपितं त्वङ्मांसशोणितान्यभिभूय शोथं जनयति; स क्षिप्रोत्थानप्रशमो भवति, कृष्णपीतनीलताम्रावभास उष्णो मृदुः कपिलताम्ररोमा उष्यते दूयते धूप्यते ऊष्मायते स्विद्यते क्लिद्यते न च स्पर्शमुष्णं च सुषूयत इति पित्तशोथः (२); गुरुमधुरशीतस्निग्धैरतिस्वप्नाव्यायामादिभिश्च श्लेष्मा प्रकुपितस्त्वङ्मांसशोणितादीन्यभिभूय शोथं जनयति; स कृच्छ्रोत्थानप्रशमो भवति, पाण्डुश्वेतावभासो गुरुः स्निग्धः श्लक्ष्णः स्थिरः स्त्यानः शुक्लाग्ररोमा स्पर्शोष्णसहश्चेति श्लेष्मशोथः (३); यथास्वकारणाकृतिसंसर्गाद्द्विदोषजास्त्रयः शोथा भवन्ति; यथास्वकारणाकृतिसन्निपातात् सान्निपातिक एकः; एवं सप्तविधो भेदः||७|| प्रकृतिभिस्ताभिस्ताभिर्भिद्यमानो द्विविधस्त्रिविधश्चतुर्विधः सप्तविधोऽष्टविधश्च शोथ उपलभ्यते, पुनश्चैक एवोत्सेधसामान्यात्||८||

🔊 Audio coming soon

क्षपणं वमनादिभिः| प्रकृतिवर्णः देहसमानवर्णः| चलः सङ्क्रमणवान्| स्पन्दनः कम्पनः| उष्यते पार्श्वस्थेनेव वह्निना दह्यते| धूप्यते धूममिवोद्वमति| ऊष्मायते बहिः परैरप्युष्णत्वेनोपलभ्यते| स्विद्यते स्वेदवान् भवति| न सुषूयते न सहते; स्पर्शनं च न सहते, उष्णं च न सहते| स कृच्छ्रोत्थानप्रशम इति चिरोत्थानप्रशमः| प्रकृतिभिरिति कारणैः| उत्सेध उन्नतत्वम्||७-८||

Adhikarana 7 (9-15) · Śloka 15

भवन्ति चात्र- शूयन्ते यस्य गात्राणि स्वपन्तीव रुजन्ति च| पीडितान्युन्नमन्त्याशु वातशोथं तमादिशेत्||९|| यश्चाप्यरुणवर्णाभः शोथो नक्तं प्रणश्यति| स्नेहोष्णमर्दनाभ्यां च प्रणश्येत् स च वातिकः||१०|| यः पिपासाज्वरार्तस्य दूयतेऽथ विदह्यते| स्विद्यति क्लिद्यते गन्धी स पैत्तः स्वयथुः स्मृतः||११|| यः पीतनेत्रवक्त्रत्वक् पूर्वं मध्यात् प्रशूयते| तनुत्वक् चातिसारी च पित्तशोथः स उच्यते||१२|| शीतः सक्तगतिर्यस्तु कण्डूमान् पाण्डुरेव च| निपीडितो नोन्नमति श्वयथुः स कफात्मकः||१३|| यस्य शस्त्रकुशच्छिन्नाच्छोणितं न प्रवर्तते| कृच्छ्रेण पिच्छा स्रवति स चापि कफसम्भवः||१४|| निदानाकृतिसंसर्गाच्छ्वयथुः स्याद्द्विदोषजः| सर्वाकृतिः सन्निपाताच्छोथो व्यामिश्रहेतुजः||१५||

🔊 Audio coming soon

शूयन्त इत्यादि| पुनः श्लोकेन लक्षणाभिधानं प्रायोभाविलक्षणदर्शनार्थम्| स्वपन्तीवेति निर्वेदनः| एतेन वायोश्चलत्वेन क्षणाच्च रुक्, क्षणाच्च तदभाव इति ज्ञेयम्| मध्यादिति शरीरमध्यात्| सक्तगतिः अविसारी| शस्त्रकुशच्छिन्नादिति शस्त्रकुशकृताच्छेदात्||९-१५||

Adhikarana 8 (16-17) · Śloka 17

यस्तु पादाभिनिर्वृत्तः शोथः सर्वाङ्गगो भवेत्| जन्तोः स च सुकष्टः स्यात् प्रसृतः स्त्रीमुखाच्च यः||१६|| यश्चापि गुह्यप्रभवः स्त्रिया वा पुरुषस्य वा| स च कष्टतमो ज्ञेयो यस्य च स्युरुपद्रवाः||१७||

🔊 Audio coming soon

पादाभिनिर्वृत्तः शोथः पुरुषाणां लघावधोदेशे जातः सन् यदा न जीयते तदा गुरुमूर्ध्वदेशं गतः स न पार्यते जेतुं, यो हि लघौ प्रदेशे जेतुं न पार्यते स गुरुप्रदेशगतो नितरामेव न पार्यते; एवं प्रसृतः स्त्रीमुखाच्च य इत्यपि ज्ञेयम्| वचनं हि- “अधोभागो गुरुः स्त्रीणामूर्ध्वः पुंसां गुरुस्तथा” (सु.सू.अ.४६) इति||१६-१७||

Adhikarana 9 (18) · Śloka 18

छर्दिः श्वासोऽरुचिस्तृष्णा ज्वरोऽतीसार एव च| सप्तकोऽयं सदौर्बल्यः शोफोपद्रवसङ्ग्रहः||१८||

🔊 Audio coming soon

उक्तानुपद्रवानाह- छर्दिरित्यादि||१८||

Adhikarana 10 (19-36) · Śloka 36

यस्य श्लेष्मा प्रकुपितो जिह्वामूलेऽवतिष्ठते| आशु सञ्जनयेच्छोथं जायतेऽस्योपजिह्विका||१९|| यस्य श्लेष्मा प्रकुपितः काकले व्यवतिष्ठते| आशु सञ्जनयेच्छोफं करोति गलशुण्डिकाम्||२०|| यस्य श्लेष्मा प्रकुपितो गलबाह्येऽवतिष्ठते| शनैः सञ्जनयेच्छोफं गलगण्डोऽस्य जायते||२१|| यस्य श्लेष्मा प्रकुपितस्तिष्ठत्यन्तर्गले स्थिरः| आशु सञ्जनयेच्छोफं जायतेऽस्य गलग्रहः||२२|| यस्य पित्तं प्रकुपितं सरक्तं त्वचि सर्पति| शोफं सरागं जनयेद्विसर्पस्तस्य जायते||२३|| यस्य पित्तं प्रकुपितं त्वचि रक्तेऽवतिष्ठते| शोथं सरागं जनयेत् पिडका तस्य जायते||२४|| यस्य प्रकुपितं पित्तं शोणितं प्राप्य शुष्यति| तिलका पिप्लवो व्यङ्गा नीलिका तस्य जायते||२५|| यस्य पित्तं प्रकुपितं शङ्खयोरवतिष्ठते| श्वयथुः शङ्खको नाम दारुणस्तस्य जायते||२६|| यस्य पित्तं प्रकुपितं कर्णमूलेऽवतिष्ठते| ज्वरान्ते दुर्जयोऽन्ताय शोथस्तस्योपजायते||२७|| वातः प्लीहानमुद्धूय कुपितो यस्य तिष्ठति| शनैः परितुदन् पार्श्वं प्लीहा तस्याभिवर्धते||२८|| यस्य वायुः प्रकुपितो गुल्मस्थानेऽवतिष्ठते| शोफं सशूलं जनयन् गुल्मस्तस्योपजायते||२९|| यस्य वायुः प्रकुपितः शोफशूलकरश्चरन्| वङ्क्षणाद्वृषणौ याति वृद्धिस्तस्योपजायते||३०|| यस्य वातः प्रकुपितस्त्वङ्मांसान्तरमाश्रितः| शोथं सञ्जनयेत् कुक्षावुदरं तस्य जायते||३१|| यस्य वातः प्रकुपितः कुक्षिमाश्रित्य तिष्ठति| नाधो व्रजति नाप्यूर्ध्वमानाहस्तस्य जायते||३२|| रोगाश्चोत्सेधसामान्यदधिमांसार्बुदादयः| विशिष्टा नामरूपाभ्यां निर्देश्याः शोथसङ्ग्रहे||३३|| वातपित्तकफा यस्य युगपत् कुपितास्त्रयः| जिह्वामूलेऽवतिष्ठन्ते विदहन्तः समुच्छ्रिताः||३४|| जनयन्ति भृशं शोथं वेदनाश्च पृथग्विधाः| तं शीघ्रकारिणं रोगं रोहिणीति विनिर्दिशेत्||३५|| त्रिरात्रं परमं तस्य जन्तोर्भवति जीवितम्| कुशलेन त्वनुक्रान्तः क्षिप्रं सम्पद्यते सुखी||३६||

🔊 Audio coming soon

सम्प्रत्युत्सेधसामान्यात् प्रादेशिकाञ्छोथानाह- यस्येत्यादि| काकलं तालुमूलम्| शनैरितिवचनेन गलगण्डकारिणो दोषाश्चिरक्रिया भवन्तीति दर्शयति; गलग्रहादौ चाशुकारिणो दोषा भवन्ति| विसर्पस्य पिडकायाश्च तुल्यकारणत्वेऽपि विसर्पे सर्पणशीलो दोषः, पिडकायां च स्थिरो ज्ञेयः; अत एव पिडकासम्प्राप्तौ ‘अवतिष्ठते’ इत्युक्तम्| यस्य पित्तमित्यादौ पित्तं प्राप्य शोणितं कर्तृ शुष्यतीति योजनीयम्| पिप्लवः ‘जटुला’ इति प्रसिद्धः| दारुणः अनुपक्रमादाशुमारकः| दुर्जयोऽन्तायेति दुर्जयो वा यथाक्रममुपक्रम्यमाणः , अन्ताय वा मिथ्योपक्रमाद्वेति मन्तव्यम्| अयमेव शोथोऽन्यत्राप्युक्तः- “सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणाः| शोथः सञ्जायते तेन कश्चिदेव प्रमुच्यते” इति| गुल्मादयो विस्तरवक्तव्या अपि इहोत्सेधसामान्याल्लेशत उच्यन्ते| शोथसङ्ग्रह इति शोथत्वेनोत्सेधरूपेण सङ्ग्रहः शोथसङ्ग्रहः|| समुच्छ्रिता अतिरिक्तप्रमाणाः| भृशम् अत्यर्थदुःखकारिणम्| क्षिप्रमित्यनुक्रान्त इत्यनेन सम्बध्यते, तेन त्रिरात्रघातित्वं यस्य तस्य कथं शीघ्रप्रशम इति चोद्यं नोत्तिष्ठते; किंवा क्षिप्रं सम्पद्यते सुखीति व्याधिमहिम्ना भवति| व्याधेरेवैतत् स्वरूपं यच्छीघ्रं हन्ति, शीघ्रं प्रशाम्यतीति| यदुक्तं- “स शीघ्रं शीघ्रकारित्वात् प्रशमं याति हन्ति वा” (चि. ३) इति||१९-३६||

Adhikarana 11 (37-41) · Śloka 41

सन्ति ह्येवंविधा रोगाः साध्या दारुणसम्मताः| ये हन्युरनुपक्रान्ता मिथ्याचारेण वा पुनः||३७|| साध्याश्चाप्यपरे सन्ति व्याधयो मृदुसम्मताः| यत्नायत्नकृतं येषु कर्म सिध्यत्यसंशयम्||३८|| असाध्याश्चापरे सन्ति व्याधयो याप्यसञ्ज्ञिताः| सुसाध्वपि कृतं येषु कर्म यात्राकरं भवेत्||३९|| सन्ति चाप्यपरे रोगा येषु कर्म न सिध्यति| अपि यत्नकृतं बालैर्न तान् विद्वानुपाचरेत्||४०|| साध्याश्चैवाप्यसाध्याश्च व्याधयो द्विविधाः स्मृताः| मृदुदारुणभेदेन ते भवन्ति चतुर्विधाः||४१||

🔊 Audio coming soon

एतदेव शीघ्रकारित्वमन्येष्वपि ज्वरान्तकर्णशोथवलयादिष्वस्तीत्याह- सन्तीत्यादि| दारुणा इति सम्मता दारुणसम्मताः| दारुणत्वप्रसङ्गेन मृद्वादिभेदानप्याह- साध्याश्चेत्यादि| यात्राकरं यापनाकरम्| बालैः अज्ञैः, असाध्ये अज्ञा एवोत्साहात् प्रवर्तन्त इत्यर्थः| असाध्यस्य मृदुदारुणत्वं याप्यप्रत्याख्येयभेदेन, तथा सद्यःप्राणहरकालान्तरप्राणहरत्वादिना च||३७-४१||

Adhikarana 12 (42-43) · Śloka 43

त एवापरिसङ्ख्येया भिद्यमाना भवन्ति हि| रुजावर्णसमुत्थानस्थानसंस्थाननामभिः ||४२|| व्यवस्थाकरणं तेषां यथास्थूलेषु सङ्ग्रहः| तथा प्रकृतिसामान्यं विकारेषूपदिश्यते||४३||

🔊 Audio coming soon

त एवेत्यादि| समुत्थानभेदा हेतुभेदाः; रूक्षभोजनरात्रिजागरणादिभिन्नहेतुजन्यो हि वातो भिन्नोपक्रमसाध्यश्च भवतीति भावः| स्थानभेदा आमाशयादयो रसादयश्च| संस्थानम् आकृतिः, यथा- गुल्मार्बुदादिः| नामभेदो यथा- एकस्मिन्नेव राजयक्ष्मणि राजयक्ष्मशोषादिसञ्ज्ञा| नन्वेवमपरिसङ्ख्येयत्वे कथं व्यवहार इत्याह- व्यवस्थेत्यादि| व्यवस्थाकरणं चिकित्साव्यवहारार्थं सङ्ख्याकथनम्| यथास्थूलेष्विति ये ये स्थूला उदरमूत्रकृच्छ्रादयस्तेषु; सङ्ग्रहः अष्टोदरीयरोगसङ्ग्रहे (उदिश्यते) इत्यर्थः| अस्थूलेषु विकारेषु अष्टोदरीये सञ्ज्ञयाऽनुक्तेषु कथं व्यवस्थाकरणमित्याह- तथेत्यादि| प्रकृतिसामान्यं समानकारणता; तेनानुक्तेषु साक्षाद्ध्याधिषु वातजोऽयं श्लेष्मजोऽयमिति, तथा रसजोऽयं रक्तजोऽयमित्यादिका चिकित्साव्यवहारार्थं व्यवस्था कर्तव्येति भावः| अत एवाष्टोदरीये वक्ष्यति- “सर्वे विकारा वातपित्तकफान्नातिवर्तन्ते” (सू. १९) इति||४२-४३||

Adhikarana 13 (44-47) · Śloka 47

विकारनामाकुशलो न जिह्रीयात् कदाचन| न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः||४४|| स एव कुपितो दोषः समुत्थानविशेषतः| स्थानान्तरगतश्चैव जनयत्यामयान् बहून् ||४५|| तस्माद्विकारप्रकृतीरधिष्ठानान्तराणि च| समुत्थानविशेषांश्च बुद्ध्वा कर्म समाचरेत्||४६|| यो ह्येतत्त्रितयं ज्ञात्वा कर्माण्यारभते भिषक्| ज्ञानपूर्वं यथान्यायं स कर्मसु न मुह्यति||४७||

🔊 Audio coming soon

ज्वररक्तपित्तादिवन्नामाज्ञानेऽपि वातादिजन्यत्वज्ञानेनैव प्रचरितव्यमित्याह- विकारेत्यादि| स्थानान्तरगतश्चेत्यत्र चकार एकस्थानगतोऽपि बहुविकारं करोतीति समुच्चिनोति| यतो वक्ष्यति- “करोति गलमाश्रितः| कण्ठोद्ध्वंसं च कासं च स्वरभेदमरोचकम्” (चि. ८) इति| अधिष्ठानान्तराणि आशयान्तराणि| ज्ञानपूर्वमिति चिकित्साज्ञानपूर्वकम्| यथान्यायं यथागमम्| एवं मन्यते- यद्वातारब्धत्वादिज्ञानमेव कारणं रोगाणां चिकित्सायामुपकारि, नामज्ञानं तु व्यवहारमात्रप्रयोजनार्थं न स्वरूपेण चिकित्सायामुपकारीति||४४-४७||

Adhikarana 14 (48) · Śloka 48

नित्याः प्राणभृतां देहे वातपित्तकफास्त्रयः| विकृताः प्रकृतिस्था वा तान् बुभुत्सेत पण्डितः||४८||

🔊 Audio coming soon

सम्प्रति वातादिज्ञानेन रोगज्ञानमुद्दिष्टं तेनोपोद्धातेन वातादीनां प्रकृतिस्थानामप्रकृतिस्थानां च लक्षणं वक्तुमाह- नित्या इत्यादि| बुभुत्सेत ज्ञातुमिच्छेत्||४८||

Adhikarana 15 (49-51) · Śloka 51

उत्साहोच्छ्वासनिः श्वासचेष्टा धातुगतिः समा| समो मोक्षो गतिमतां वायोः कर्माविकारजम्||४९|| दर्शनं पक्तिरूष्मा च क्षुत्तृष्णा देहमार्दवम्| प्रभा प्रसादो मेधा च पित्तकर्माविकारजम्||५०|| स्नेहो बन्धः स्थिरत्वं च गौरवं वृषता बलम्| क्षमा धृतिरलोभश्च कफकर्माविकारजम्||५१||

🔊 Audio coming soon

चेष्टेति अविकृता चेष्टा| धातुगतिरिति रसादीनां पोष्यं धातुं प्रति गमनम्| गतिमतामिति पुरीषादीनां बहिर्निःसरताम्| प्रसादः मनःप्रसादः| बन्धः सन्धिबन्धः| स्थिरत्वम् अशैथिल्यम्| गौरवं प्राकृतं शरीरगौरवम्| क्षमा सहिष्णुता| धृतिः मनसोऽचाञ्चल्यम्| क्षमादयश्च श्लेष्मणः प्रभावात् क्रियन्ते; एवमन्यत्रापि ज्ञेयम्||४९-५१||

Adhikarana 16 (52) · Śloka 52

वाते पित्ते कफे चैव क्षीणे लक्षणमुच्यते| कर्मणः प्राकृताद्धानिर्वृद्धिर्वाऽपि विरोधिनाम्||५२||

🔊 Audio coming soon

क्षयलक्षणमाह- वाते इत्यादि| कर्मणः प्राकृतादिति वातादिप्रकृतिकर्मत्वेनोक्तादुत्साहादेः| हानिः अपचयः| वृद्धिर्वाऽपि विरोधिनामिति उक्तप्राकृतलक्षणविरोधिनां कर्मणां वृद्धिः; यथा वातक्षये उत्साहविरोधिनो विषादस्य वृद्धिः, पित्तक्षयेऽदर्शनापक्त्यादीनां, श्लेष्मक्षये रौक्ष्यादीनां वृद्धिः| इह प्राकृतकर्महानौ सत्यां नावश्यं विरोधिकर्मवृद्धिरत उक्तं- वृद्धिर्वेत्यादि; न ह्यवश्यमुत्साहहानावल्पमात्रायां सत्यां विषादो वर्धते, अलोभन्यूनत्वे वा मनाग्लोभो वर्धते; किंवा, उत्साहाद्यभावेनाभावमुखेन ज्ञानार्थं ‘कर्मणः प्राकृताद्धानिः’ इत्युक्तं, विषादादिवृद्ध्या तु विधिमुखेन ज्ञानार्थं ‘वृद्धिर्वाऽपि विरोधिनाम्’ इत्युक्तम्| यदुच्यते- वृद्धिर्वाऽपि विरोधिनामिति विरोधिदोषाणां, यथा- पित्तवृद्धौ श्लेष्मक्षयो जायते, इत्येवमादि; तन्न, यतोऽन्यदोषवृद्धावन्यस्यावश्यं न ह्यपायो भवति, तथाहि सति पित्तवृद्धौ सत्यां सर्वदा श्लेष्मक्ष्यः स्यात्; न च दोषाः परस्परघातका इति प्रागेव प्रतिपादितं; प्रदेशान्तरेऽपि दोषाणां स्वलक्षणहानिरेव परं क्षयलक्षणं- “क्षीणा जहति लिङ्गं स्वं” (सू.अ.१७) इत्यनेनोक्तम्||५२||

Adhikarana 17 (53) · Śloka 53

दोषप्रकृतिवैशेष्यं नियतं वृद्धिलक्षणम्| दोषाणां प्रकृतिर्हानिर्वृद्धिश्चैवं परीक्ष्यते||५३||

🔊 Audio coming soon

वृद्धिलक्षणमाह- दोषेत्यादि| प्रकृतिः स्वभावः, तस्य वैशेष्यमाधिक्यं; श्लेष्मणः स्नेहशैत्यमाधुर्यादिर्या प्रकृतिस्तस्या अतिस्निग्धातिशैत्यातिमाधुर्यादिवैशेष्यं वृद्धिलक्षणम्| नियतमिति प्रतिनियतं, यद्यस्य प्रकृतिलक्षणं तद्वृद्धं सप्तस्यैव वृद्धिलक्षणमित्यर्थः; अन्ये तु निश्चितमित्याहुः||५३||

Adhikarana 18 (54-56) · Śloka 56

तत्र श्लोकाः- सङ्ख्यां निमित्तं रूपाणि शोथानां साध्यतां न च| तेषां तेषां विकाराणां शोथांस्तांस्तांश्च पूर्वजान्||५४|| विधिभेदं विकाराणां त्रिविधं बोध्यसङ्ग्रहम्| प्राकृतं कर्म दोषाणां लक्षणं हानिवृद्धिषु||५५|| वीतमोहरजोदोषलोभमानमदस्पृहः| व्याख्यातवांस्त्रिशोथीये रोगाध्याये पुनर्वसुः||५६||

🔊 Audio coming soon

सङ्ग्रहे शोथानां साध्यतामिति भेषजविशेषसाध्यत्वम्, उपशय इत्यर्थः; तच्च ‘स्नेहौष्ण्यमर्दनाभ्यां च प्रणश्येत् स च वातिक’ इत्युक्तं ज्ञेयम्| न चेति न च साध्यतां, यथा- ‘यश्च पादाभिनिर्वृत्तः’ इत्यादि| तेषां तेषामिति उपजिह्वादीनाम्| शोथान् पूर्वजानित्यभिदधान उपजिह्वादिषु पूर्वं शोथो भवति, पश्चादुपजिह्वादिरोगव्यक्तिरिति दर्शयति| अत एव ‘आशु सञ्जनयेच्छोथं’ इत्युक्त्वा ‘जायतेऽस्योपजिह्विका’ इत्युक्तम्| बोध्यः बोद्धव्यो विकारप्रकृत्यादिः| तस्य त्रिविधं सङ्ग्रहमिति ‘तस्माद्विकारप्रकृतीः’ इत्याद्युक्तं त्रयम्||५४-५६||

Adhikarana puShpikA · Śloka 18

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने त्रिशोथीयो नामाष्टादशोऽध्यायः||१८||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकाख्यायां सूत्रस्थाने रोगचतुष्के त्रिशोथीयो नामाष्टादशोऽध्यायः||१८||