Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

26. ātrēyabhadrakāpyīyō'dhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथात आत्रेयभद्रकाप्यीयमध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

हिताहितैकदेशमभिधाय कृत्स्नद्रव्यहिताहितत्वज्ञानार्थं रसवीर्यविपाकाभिधायक आत्रेयभद्रकाप्यीयोऽभिधीयते| तत्रापि विपाकादीनामपि रसेनैव प्रायो लक्षणीयत्वाद्रसप्रकरणमादौ कृतम्||१-२||

Adhikarana 2 (3-7) · Śloka 7

आत्रेयो भद्रकाप्यश्च शाकुन्तेयस्तथैव च| पूर्णाक्षश्चैव मौद्गल्यो हिरण्याक्षश्च कौशिकः||३|| यः कुमारशिरा नाम भरद्वाजः स चानघः| श्रीमान् वार्योविदश्चैव राजा मतिमतां वरः||४|| निमिश्च राजा वैदेहो बडिशश्च महामतिः| काङ्कायनश्च बाह्लीको बाह्लीकभिषजां वरः||५|| एते श्रुतवयोवृद्धा जितात्मानो महर्षयः| वने चैत्ररथे रम्ये समीयुर्विजिहीर्षवः||६|| तेषां तत्रोपविष्टानामियमर्थवती कथा| बभूवार्थविदां सम्यग्रसाहारविनिश्चये||७||

🔊 Audio coming soon

मुनिमतैः पूर्वपक्षं कृत्वा सिद्धान्तव्यवस्थापनं शिष्यव्युत्पत्त्यर्थम्| रसेनाहारविनिश्चयो रसाहारविनिश्चयः; किंवा अयं रसविनिश्चयः, तथा ‘परं चातो विपाकानां’ इत्यादिराहारविनिश्चयः ||३-७||

Adhikarana 3 (8) · Śloka 8

एक एव रस इत्युवाच भद्रकाप्यः, यं पञ्चानामिन्द्रियार्थानामन्यतमं जिह्वावैषयिकं भावमाचक्षते कुशलाः, स पुनरुदकादनन्य इति| द्वौ रसाविति शाकुन्तेयो ब्राह्मणः, छेदनीय उपशमनीयश्चेति| त्रयो रसा इति पूर्णाक्षो मौद्गल्यः, छेदनीयोपशमनीयसाधारणा इति| चत्वारो रसा इति हिरण्याक्षः कौशिकः, स्वादुर्हितश्च स्वादुरहितश्चास्वादुर्हितश्चास्वादुरहितश्चेति| पञ्च रसा इति कुमारशिरा भरद्वाजः, भौमौदकाग्नेयवायव्यान्तरिक्षाः| षड्रसा इति वार्योविदो राजर्षिः, गुरुलघुशीतोष्णस्निग्धरूक्षाः| सप्त रसा इति निमिर्वैदेहः, मधुराम्ललवणकटुतिक्तकषायक्षाराः| अष्टौ रसा इति बडिशो धामार्गवः, मधुराम्ललवणकटुतिक्तकषायक्षाराव्यक्ताः| अपरिसङ्ख्येया रसा इति काङ्कायनो बाह्लीकभिषक्, आश्रयगुणकर्मसंस्वादविशेषाणामपरिसङ्ख्येयत्वात्||८||

🔊 Audio coming soon

एक एवेत्यादि | इन्द्रियार्थानामिति निर्धारणे षष्ठी| अन्यतममिति एकम्; अन्यशब्दो ह्ययमेकवचनः, यथा- अन्यो दक्षिणेन गतोऽन्य उत्तरेण; एक इत्यर्थः; तमप्प्रत्ययश्च स्वार्थिकः| जिह्वावैषयिकमिति जिह्वाग्राह्यम्| रसाभावोऽपि जिह्वया गृह्यतेऽत आह- भावमिति| उदकादनन्य इति रसोदकयोरेकत्वख्यापनार्थं, पूर्वपक्षत्वाददुष्टम्| पूर्वपक्षश्च कपिलमतेन, ते हि रसतन्मात्रं गन्धतन्मात्रमित्यादिवचनेन गुणाव्यतिरिक्तं द्रव्यमिति ब्रुवते| छेदनीय इति अपतर्पणकारकः| उपशमनीय इति बृंहणः| साधारण इत्याग्नेयसौम्यसामान्यादुभयोरपि लङ्घनबृंहणयोः कर्ता , परस्परविरोधादकर्ता वा| स्वादुरिति अभीष्टः, हित इति आयतावनपकारी| आश्रीयत इत्याश्रयो द्रव्यं, गुणाः स्निग्धगुर्वादयः; कर्म धातुवर्धनक्षपणादि, संस्वादः रसानामवान्तरभेदः; एषां विशेषाणां भेदानामित्यर्थः| तत्र द्रव्यभेदादाधारभेदेनाश्रितस्यापि रसस्य भेदो भवति, आश्रयो हि कारणं, कारणभेदाच्च कार्यभेदोऽवश्यं भवतीत्यर्थः| गुर्वादिगुणभेदास्तथा कर्मभेदाश्च रसकृता एव| ततश्च कार्यभेदादवश्यं कारणभेद इति पूर्वपक्षाभिप्रायः| संस्वादभेदस्तु एकस्यामपि मधुरजाताविक्षुक्षीरगुडादिगतः प्रत्यक्षमेव भेदो दृश्यते, स तु संस्वादभेदः स्वसंवेद्य एव; यदुक्तं- “इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत्| भेदस्तथाऽपि नाख्यातुं सरस्वत्याऽपि शक्यते” इति||८||

Adhikarana 4 (9) · Śloka 9

षडेव रसा इत्युवाच भगवानात्रेयः पुनर्वसुः, मधुराम्ललवणकटुतिक्तकषायाः| तेषां षण्णां रसानां योनिरुदकं, छेदनोपशमने द्वे कर्मणी, तयोर्मिश्रीभावात् साधारणत्वं, स्वाद्वस्वादुता भक्तिः , हिताहितौ प्रभावौ, पञ्चमहाभूतविकारास्त्वाश्रयाः प्रकृतिविकृतिविचारदेशकालवशाः, तेष्वाश्रयेषु द्रव्यसञ्ज्ञकेषु गुणा गुरुलघुशीतोष्णस्निग्धरूक्षाद्याः; क्षरणात् क्षारः, नासौ रसः द्रव्यं तदनेकरससमुत्पन्नमनेकरसं कटुकलवणभूयिष्ठमनेकेन्द्रियार्थसमन्वितं करणाभिनिर्वृत्तम्; अव्यक्तीभावस्तु खलु रसानां प्रकृतौ भवत्यनुरसेऽनुरससमन्विते वा द्रव्ये; अपरिसङ्ख्येयत्वं पुनस्तेषामाश्रयादीनां भावानां विशेषापरिसङ्ख्येयत्वान्न युक्तम्, एकैकोऽपि ह्येषामाश्रयादीनां भावानां विशेषानाश्रयते विशेषापरिसङ्ख्येयत्वात्, न च तस्मादन्यत्वमुपपद्यते; परस्परसंसृष्टभूयिष्ठत्वान्न चैषामभिनिर्वृत्तेर्गुणप्रकृतीनामपरिसङ्ख्येयत्वं भवति; तस्मान्न संसृष्टानां रसानां कर्मोपदिशन्ति बुद्धिमन्तः| तच्चैव कारणमपेक्षमाणाः षण्णां रसानां परस्परेणासंसृष्टानां लक्षणपृथक्त्वमुपदेक्ष्यामः||९||

🔊 Audio coming soon

सिद्धान्तं पुनर्वसुवचनेनाह- षडेवेत्यादि| पूर्वपक्षोक्तरसैकत्वादिव्यवस्थामाह- तेषां षण्णामित्यादि| योनिः आधारकारणं, कार्यकारणयोश्च भेदात् सिद्ध उदकाद्रसभेदः प्रत्यक्ष एवेति भावः| क्षितिव्यतिरिक्तमुदकमेव यथा रसयोनिस्तथा “रसनार्थो रसस्तस्य” (सू. १) इत्यादौ विवृतमेव दीर्घञ्जीवितीये| तयोर्मिश्रीभावादिति कर्मणोरमूर्तयोर्मिश्रीभावानुपपत्तौ तदाधारयोर्द्रव्ययोर्मिश्रीभावादिति बोद्धव्यम्| साधारणमिति साधारणकार्ययोगित्वम् | भक्तिः इच्छेत्यर्थः| तेन, योयमिच्छति स तस्य स्वादुरस्वादुरितर इति पुरुषापेक्षौ धर्मौ, न रसभेदकार्यावित्यर्थः| पञ्चमहाभूतेत्यादौ ‘तु’ शब्दोऽवधारणे; तेन आश्रया एव, न रसा इत्यर्थः| किम्भूता भौमादयो भूतविकारा आश्रया इत्याह- प्रकृतिविकृतिविचारदेशकालवशा इति; वशशब्दोऽधीनार्थः, स च प्रकृत्यादिभिः प्रत्येकं योज्यः| तत्र प्रकृतिवशा यथा- मुद्गाः कषाया मधुराश्च सन्तः प्रकृत्या लघवः; एतद्धि लाघवं न रसवशं, तथाहि सति कषायमधुरत्वाद्गुरुत्वं स्यात् ; विकृतिवशं च व्रीहेर्लाजानां लघुत्वं, तथा सक्तुसिद्धपिण्डकानां च गुरुत्वम्; विचारणा विचारो द्रव्यान्तरसंयोग इत्यर्थः, तेन विचारणावशं यथा- मधुसर्पिषी संयुक्ते विषं, तथा विषं चागदसंयुक्तं स्वकार्यव्यतिरिक्तकार्यकारि ; देशो द्विविधो भूमिरातुरश्च, तत्र भूमौ ‘श्वेतकापोती वल्मीकाधिरूढा विषहरी’, तथा “हिमवति भेषजानि महागुणानि भवन्ति”, शरीरदेशे यथा- “सक्थिमांसाद्गुरुतरं स्कन्धक्रोडशिरस्पदाम्” (सू. २७) इत्यादि; कालवशं तु यथा मूलकमधिकृत्योक्तं- “तद्बालं दोषहरं वृद्धं त्रिदोषम्” (सू. २७), तथा “यथर्तुपुष्पफलमाददीत” (क. १) इत्यादि| अत्र चैकप्रकरणोक्ता येऽनुक्तास्ते चकारात् स्वभावादिष्वेवान्तर्भावनीयाः| यदुक्तं- “चरः शरीरावयवाः स्वभावो धातवः क्रियाः| लिङ्गं प्रमाणं संस्कारो मात्रा चास्मिन् परीक्ष्यते” (सू. २७) इति| तत्र, चरशरीरावयवधातूनां देशेन ग्रहणं, मात्रा विचारे प्रविशति, शेषं स्वभावे; तथा रसविमाने वक्ष्यमाणं चात्राप्रविष्टमाहारविशेषायतनमन्तर्भावनीयं यथासम्भवम्| स्निग्धरूक्षाद्या इत्यत्रादिग्रहणेनानुक्ता अपि तीक्ष्णमृद्वादयो न रसाः, किन्तु द्रव्यगुणाः पृथगेवेति दर्शयति| क्षरणात् अधोगमनक्रियायोगात् क्षारो द्रव्यं नासौ रसः, रसस्य हि निष्क्रियस्य क्रियाऽनुपपन्नेत्यर्थः| क्षरणं च क्षारस्य पानीययुक्तस्याधोगमनेन, वदन्ति हि लौकिकाः- ‘क्षारं स्रावयामः’ इति; शास्त्रं च- “छित्त्वा छित्त्वाऽऽशयात् क्षारः क्षरत्वात् क्षारयत्यधः” (चि. ५) इति| हेत्वन्तरमाह- द्रव्यं तदनेकरसोत्पन्नमिति; अनेकरसेभ्यो मुष्ककापामार्गादिभ्य उत्पन्नमनेकरसोत्पन्नं; यतश्चानेकरसोत्पन्नमत एवानेकरसं, कारणगुणानुविधायित्वात् कार्यगुणस्येति भावः| अनेकरसत्वमेवाह- कटुकलवणभूयिष्ठमिति|- भूयिष्ठशब्देनाप्रधानरसान्तरसम्बन्धोऽस्तीति दर्शयति| हेत्वन्तरमाह- अनेकेन्द्रियार्थसमन्वितमिति| क्षारो हि स्पर्शेन गन्धेन चान्वितः, तेन द्रव्यं, रसे हि गुणे न स्पर्शो नापि गन्ध इति भावः| हेत्वन्तरमाह- करणाभिनिर्वृत्तमिति; करणेन भस्मपरिस्रावणादिनाऽभिनिर्वृत्तं कृतमित्यर्थः, न रसोऽनेन प्रकारेण क्रियत इति भावः| अव्यक्तरसपक्षं निषेधयति- अव्यक्तीभाव इत्यादि| अव्यक्तीभाव इत्यभूततद्भावे च्विप्रत्ययेन रसानां मधुरादीनां व्यक्तानामेव क्वचिदाधारेऽव्यक्तत्वं, नान्यो मधुरादिभ्योऽव्यक्तरस इत्यर्थः| रसानामिति मधुरादीनां षण्णाम्| प्रकृतावित्यादि| प्रकृतौ कारणे जल इत्यर्थः| अव्यक्तत्वं च रससामान्यमात्रोपलब्धिर्मधुरादिविशेषशून्या, सा च जले भवति; यत उक्तं जलगुणकथने सुश्रुते- “व्यक्तरसता रसदोषः” (सु. सू. ४५) इति, इहापि च ‘अव्यक्तरसं च’ इति वक्ष्यति, लोकेऽपि चाव्यक्तरसं द्रव्यमास्वाद्य वक्तारो वदन्ति- जलस्येवास्य रसो न कश्चिन्मधुरादिर्व्यक्त इति| विशेषमधुराद्यनुपलब्धिश्चानुद्भूतत्वेन| यथा- दूरादविज्ञायमानविशेषवर्णे वस्तुनि रूपसामान्यप्रतीतिर्भवति, न शुक्लत्वादिविशेषबुद्धिः, तथाऽनुरसेऽव्यक्तीभावो भवति; प्रधानं व्यक्तं रसमनुगतोऽव्यक्तत्वेनेत्यनुरसः, यथा वेणुयवे मधुरे कषायोऽनुरसः| यदुक्तं- “रूक्षः कषायानुरसो मधुरः कफपित्तहा” (सू. २७) इति| अनुरससमन्वित इति सर्वानुरसयुक्ते, यथा- विषे; वचनं हि- “उष्णमनिर्देश्यरसं” (चि. २३) इत्यादि| किंवा, ‘अणुरससमन्विते’ इति पाठः; तेन, अणुरसेनैकेन मरिचेन शर्करापानके कटुत्वमव्यक्तं स्यात्| अपरिसङ्ख्येयपक्षं दूषयति- अपरीत्यादि| तेषामिति रसानाम्, अपरिसङ्ख्येयत्वं न युक्तम्; आश्रयादीनां भावानामिति आश्रयगुणकर्मसंस्वादानाम्; विशेषापरिसङ्ख्येयत्वादिति आश्रयादि भेदस्यापरिसङ्ख्येयत्वात्| अत्र हेतुमाह- एकैकोऽपि हीत्यादि| एषामाश्रयगुणकर्मसंस्वादानां विशेषानेकैकोऽपि मधुरादिराश्रयते, न च तस्मादाश्रयादिभेदादन्यत्वमाश्रितस्य मधुरादेर्भवति| एवं मन्यते- यद्यपि शालिमुद्गघृतक्षीरादयो मधुरस्याश्रया भिन्नाः, तथाऽपि तत्र मधुरत्वजात्याक्रान्त एक एव रसो भवति बलाकाक्षीरकार्पासादिषु शुक्लवर्ण इव| तथा गुणानां गुरुपिच्छिलस्निग्धादीनामन्यत्वेऽपि कर्मणां वा रसादिवर्धनायुर्जननवर्णकरत्वादीनां भिन्नत्वे सत्यपि न मधुररसस्यान्यत्वं, यत एक एव मधुरस्तत्तद्गुणयुक्तो भवति तत्कर्मकारी चेति को विरोधः| तथा मधुरस्यावान्तरास्वादभेदेऽपि मधुरत्वजात्यनतिक्रमः, कृष्णवर्णावान्तरभेदे यथा कृष्णत्वानतिक्रमः| ननु, मैवं भवत्वपरिसङ्ख्येयत्वं रसानां, परस्परसंयोगात्तु य आस्वादविशेषः स कार्यविशेषकरोऽपि; नहि यन्मधुराम्लेन क्रियते, तन्मधुरेण वाऽम्लेन वा शक्यम्; अतस्तेन परस्परसंयोगेनापरिसङ्ख्येयत्वं भविष्यतीत्याह- परस्परेत्यादि| संसृष्टमिति भावेक्तः, तेन परस्परसंसर्गभूयिष्ठत्वादेषां मधुरादीनामभिनिर्वृत्तेर्न गुणप्रकृतीनामसङ्ख्येयत्वमिति योजना; अयमर्थः- यद्यपि रसाः परस्परसंसर्गेणातिभूयसा युक्ताः सन्तोऽभिनिर्वृत्ता द्विरसादौ द्रव्ये भवन्ति, तथाऽपि न तेषां गुणा गुरुलघ्वादयः, प्रकृतयो वा मधुरादीनां या या आयुष्यत्वरसाभिवर्धकत्वाद्यास्ता असङ्ख्येया भवन्ति, किन्तु य एव मधुरादीनां प्रत्येकं गुणाः प्रकृतयश्च उद्दिष्टास्त एव मिश्रा भवन्ति| किंवा गुणप्रकृतीनामिति मधुरादिषड्गुणस्वरूपाणामित्यर्थः; तेन, रसस्य रसान्तरसंसर्गे दोषाणामिव दोषान्तरसंसर्गे रसानां नापरिसङ्ख्येयत्वमित्यर्थः| प्रकृतिशब्देन कर्म वोच्यते, तेन गुणकर्मणामित्यर्थः| मधुरादीनामवान्तरास्वादविशेषोऽपि परस्परसंसर्गकृते ज्ञेयः| यत एव हेतो रसानां संसृष्टानां नान्ये गुणकर्मणी भवतः, अत एव संसृष्टानां रसानां पृथक्कर्म शास्त्रान्तरेऽपि नोक्तमित्याह- तस्मादित्यादि| कर्मशब्देनेह गौरवलाघवादिकारका गुरुत्वादयो रसरक्तादिजननादयश्चापि बोद्धव्याः| न केवलमन्यशास्त्रकारै रसानां संसृष्टानां कर्म नोपदिष्टं, किन्तु वयमपि नोपदेक्ष्याम इत्याह- तच्चैवेत्यादि| तच्चैव कारणमिति परस्परसंसर्गेऽपि रसानामनधिकगुणकर्मत्वम्| लक्षणेन पृथक्त्वं लक्षणपृथक्त्वम्| तत्र लक्ष्यते येन तल्लक्षणम्; अतस्तु ‘मधुरो रसः’ इत्यादिना ग्रन्थेन, तथा ‘स्नेहनप्रीणनह्लादन’ इत्यादिना च यद्वाच्यं, तत् सर्वं गृह्यते;| किंवा, लक्षणशब्देन ‘मधुरो रस’ इत्यादिग्रन्थवाच्यं लक्षणमुच्यते, पृथक्त्वं च रसभेदज्ञानार्थं यद्वक्ष्यति ‘स्नेहनप्रीणन’ इत्यादि तद्गृह्यते||९||

Adhikarana 5 (10) · Śloka 10

अग्रे तु तावद्द्रव्यभेदमभिप्रेत्य किञ्चिदभिधास्यामः| सर्वं द्रव्यं पाञ्चभौतिकमस्मिन्नर्थे ; तच्चेतनावदचेतनं च, तस्य गुणाः शब्दादयो गुर्वादयश्च द्रवान्ताः, कर्म पञ्चविधमुक्तं वमनादि||१०||

🔊 Audio coming soon

अग्रे त्वित्यादि| रसेषु वाच्येषु द्रव्यभेदमभिप्रेत्य प्रतिपादनीयतया परिगृह्य रसानां द्रव्यज्ञानाधीनज्ञानत्वाद्द्रव्याभिधानमग्रे कृतमित्यर्थः| किञ्चिदिति आयुर्वेदोपयोगिद्रव्यस्वरूपं न सर्वम्, अप्रसङ्गदोषादिति भावः| सर्वद्रव्यमिति कार्यद्रव्यम्| अस्मिन्नर्थे अस्मिन् प्रकरणे| द्रवान्ता इति वचनेन पूर्वोक्तान् विंशतिगुणानाह| अत्र च परत्वापरत्वादीनामिहानभिधानेन चिकित्सायां परत्वादीनामप्राधान्यं दर्शयति; येऽपि तत्रापि युक्तिसंयोगपरिमाणसंस्काराभ्यासा अत्यर्थचिकित्सोपयोगिनोऽपि न ते पर्थिवादिद्रव्याणां शब्दादिवत् सांसिद्धिकाः किन्तर्ह्याधेयाः, अत इह नैसर्गिकगुणकथने नोक्ताः| उक्तमिति अपामार्गतण्डुलीये| एतच्च प्राधान्यादुच्यते, तेन बृंहणाद्यपि बोद्धव्यम्||१०||

Adhikarana 6 (11) · Śloka 11

तत्र द्रव्याणि गुरुखरकठिनमन्दस्थिरविशदसान्द्रस्थूलगन्धगुणबहुलानि पार्थिवानि , तान्युपचयसङ्घातगौरवस्थैर्यकराणि; द्रवस्निग्धशीतमन्दमृदुपिच्छिलरसगुणबहुलान्याप्यानि, तान्युपक्लेदस्नेहबन्धविष्यन्दमार्दवप्रह्लादकराणि; उष्णतीक्ष्णसूक्ष्मलघुरूक्षविशदरूपगुणबहुलान्याग्नेयानि, तानि दाहपाकप्रभाप्रकाशवर्णकराणि; लघुशीतरूक्षखरविशदसूक्ष्मस्पर्शगुणबहुलानि वायव्यानि, तानि रौक्ष्यग्लानिविचारवैशद्यलाघवकराणि; मृदुलघुसूक्ष्मश्लक्ष्णशब्दगुणबहुलान्याकाशात्मकानि, तानि मार्दवसौषिर्यलाघवकराणि||११||

🔊 Audio coming soon

बहुलशब्दो गुर्वादिभिः प्रत्येकं सम्बध्यते; किंवा गन्धेनैव, यतो गन्धगुणबहुला पृथिव्येव भवति; अत एव द्रव्यान्तरलक्षणेऽपि वैशेषिकगुणोऽन्त एव पठ्यते ‘रसगुणबहुलानि’ इत्यादि; तेन तत्रापि रसादिभिरेव बहुलशब्दो योज्यः| सर्वकार्यद्रव्याणां पाञ्चभौतिकत्वेऽपि पृथिव्याद्युत्कर्षेण पार्थिवत्वादि ज्ञेयम्| सङ्घातः काठिन्यं, स्थैर्यम् अविचाल्यम्| बन्धनं परस्परयोजनं, प्रह्लादः शरीरेन्द्रियतर्पणम्| सूक्ष्मं सूक्ष्मस्रोतोऽनुसारि| प्रभा वर्णप्रकाशिनी दीप्तिः; यदुक्तं- “वर्णमाक्रामति च्छाया प्रभा वर्णप्रकाशिका” (इं.अ.७) इत्यादि| विचरणं विचारो गतिरित्यर्थः| सौषिर्यं रन्ध्रबहुलता| अत्राकाशबाहुल्यं द्रव्यस्य पृथिव्यादिभूतान्तराल्पत्वेन भूरिव्यक्ताकाशत्वेन च ज्ञेयं, यदेव भूरिशुषिरं तन्नाभसं; किंवा आकाशगुणबहुलत्वेन नाभसं द्रव्यमित्युच्यते||११||

Adhikarana 7 (12) · Śloka 12

अनेनोपदेशेन नानौषधिभूतं जगति किञ्चिद्द्रव्यमुपलभ्यते तां तां युक्तिमर्थं च तं तमभिप्रेत्य||१२||

🔊 Audio coming soon

अनेनेति प्रतिनियतद्रव्यगुणोपदेशेन; यत् पार्थिवादि द्रव्यं यद्गुणं तद्गुणे देहे सम्पाद्ये तद् भेषजं भवतीत्यर्थः| तच्च पार्थिवादि द्रव्यं न सर्वथा न च सर्वस्मिन् व्याधौ भेषजमित्याह- तां तां युक्तिमित्यादि|- युक्तिमिति उपायम्, अर्थमिति प्रयोजनम्, अभिप्रेत्येति अधिकृत्य; तेन केनचिदुपायेन क्वचित् प्रयोजने किञ्चिद्द्रव्यमौषधं भवति न सर्वत्र| तेन यदुच्यते- वैरोधिकानां सर्वदाऽपथ्यत्वेन ‘नानौषधं द्रव्यम्’ इति वचो विरोधि; तन्न भवति, वैरोधिकानि हि संयोगसंस्कारदेशकालाद्यपेक्षाणि भवन्ति, वैरोधिकसंयोगाद्यभावे तु पथ्यान्यपि क्वचित् स्युः| यान्यपि (सर्वदाऽपि ) स्वभावादेव विषमन्दकादीन्यपथ्यानि, तान्यप्युपाययुक्तानि क्वचित् पथ्यानि भवन्ति; यथा उदरे- “विषस्य तिलं दद्यात्” (चि. १३) इत्यादि| यत्तु तृणपांशुप्रभृतीनि नोपयुज्यन्ते, अतो न तानि भेषजानीत्युच्यते; तन्न, तेषामपि भेषजस्वेदाद्युपायत्वेन भेषजत्वात्||१२||

Adhikarana 8 (13) · Śloka 13

न तु केवलं गुणप्रभावादेव द्रव्याणि कार्मुकाणि भवन्ति; द्रव्याणि हि द्रव्यप्रभावाद्गुणप्रभावाद्द्रव्यगुणप्रभावाच्च तस्मिंस्तस्मिन् काले तत्तदधिकरणमासाद्य तां तां च युक्तिमर्थं च तं तमभिप्रेत्य यत् कुर्वन्ति, तत् कर्म; येन कुर्विन्ति, तद्वीर्यं; यत्र कुर्वन्ति, तदधिकरणं; यदा कुर्वन्ति, स कालः; यथा कुर्वन्ति, स उपायः; यत् साधयन्ति, तत् फलम्||१३||

🔊 Audio coming soon

पार्थिवादिद्रव्याणां गुरुखरादिगुणयोगाद्भेषजत्वमुक्तं, तेन गुणप्रभावादेव भेषजं स्यादिति शङ्कां निरस्यन्नाह- न तु केवलमित्यादि| द्रव्यप्रभावाद्यथा- दन्त्या विरेचकत्वं, तथा मणीनां विषादिहन्तृत्वमित्यादि| गुणप्रभावाद्यथा- ज्वरे तिक्तको रसः, शीतेऽग्निरित्यादि| द्रव्यगुणप्रभावाद्यथा- कृष्णाजिनस्योपरीति, अत्रापि कृष्णत्वं गुणोऽजिनं च द्रव्यमभिप्रेतं; यथा वा- “मण्डलैर्जातरूपस्य तस्या एव पयः शृतम्” (चि. अ. २. पा. ३); तत्र मण्डलगुणयुक्तस्यैव जातरूपस्य कार्मुकत्वम् | कथं कुर्वन्तीत्याह- तस्मिंस्तस्मिन्नित्यादि| तां तां युक्तिमासाद्येति तां तां योजनां प्राप्य| यत् कुर्वन्तीत्यादावुदाहरणं यथा- शिरोविरेचनद्रव्याणि यच्छिरोविरेचनं कुर्वन्ति, तच्छिरोविरेचनं कर्म; येनोष्णत्वादिकारणेन शिरोविरेचनं कुर्वन्ति, तद्वीर्यं, वीर्यं शक्तिः, सा च द्रव्यस्य गुणस्य वा; यत्र शिरोविरेचनं कुर्वन्ति तदधिकरणं शिरः, नान्यत्राधिकरणे शिरोविरेचनद्रव्यं प्रभवतीत्यर्थः; यदेति वसन्तादौ शिरोगौरवादियुक्ते च काले, एतेनाकाले शीते शिरोविरेचनं स्तब्धत्वान्न कार्मुकं, किन्तु स्वकाल एव; यथा येन प्रकारेण प्रधमनावपीडनादिना तथा “प्रसारिताङ्गमुत्तानं शयने संस्तरास्तृते| ईषत्प्रलम्बशिरसं संवेश्य चावृतेक्षणम्” इत्यादिना विधिना कुर्वन्ति, स उपायः; यत् साधयन्ति शिरोगौरवशूलाद्युपरमं , तत् फलं; फलम् उद्देश्यम्| कर्म कार्यं साधनम्, उद्देश्यं फलं साध्यं; यथा- यागनिष्पाद्यो धर्मः कार्यतया कर्म, तज्जन्यस्तु स्वर्गादिरुद्देश्यः फलम्; एवं वमनादिष्वपि कर्माधिकरणाद्युन्नेयम्||१३||

Adhikarana 9 (14) · Śloka 14

भेदश्चैषां त्रिषष्टिविधविकल्पो द्रव्यदेशकालप्रभावाद्भवति, तमुपदेक्ष्यामः||१४||

🔊 Audio coming soon

सम्प्रति द्रव्यमभिधाय विकृतानां रसानामेव भेदमाह - भेदश्चैषामित्यादि| प्रभावशब्दो द्रव्यदेशकालैः प्रत्येकं युज्यते; तत्र द्रव्यप्रभावाद्यथा- ’सोमगुणातिरेकान्मधुरः’ इत्यादि; देशप्रभावाद्यथा- हिमवति द्राक्षादाडिमादीनि मधुराणि भवन्त्यन्यत्राम्लानीत्यादि; कालप्रभावाद्यथा- बालाम्रं सकषायं तरुणमम्लं पक्वं मधुरं, तथा हेमन्ते ओषध्यो मधुरा वर्षास्वम्ला इत्यादि| अग्निसंयोगादयो येऽन्ये रसहेतवस्तेऽपि काले द्रव्ये वाऽन्तर्भावनीयाः||१४||

Adhikarana 10 (15) · Śloka 15

स्वादुरम्लादिभिर्योगं शेषैरम्लादयः पृथक्| यान्ति पञ्चदशैतानि द्रव्याणि द्विरसानि तु||१५||

🔊 Audio coming soon

भेदमाह- स्वादुरित्यादि| तत्र स्वादोरम्लादियोगात् पञ्च, शेषैरिति आदित्वेनोपयुक्तादन्यैः; तेनाम्लस्य लवणादियोगाच्चत्वारि, एवं लवणस्य कट्वादियोगात्त्रीणि, कटुकस्य तिक्तकषाययोगाद्द्वे, तिक्तस्य कषाययोगादेकम्, एवं पञ्चदश द्विरसानि ||१५||

Adhikarana 11 (16) · Śloka 17

पृथगम्लादियुक्तस्य योगः शेषैः पृथग्भवेत्| मधुरस्य तथाऽम्लस्य लवणस्य कटोस्तथा||१६|| त्रिरसानि यथासङ्ख्यं द्रव्याण्युक्तानि विंशतिः|१७|

🔊 Audio coming soon

त्रिरसमाह- पृथगित्यादि| मधुरस्याम्लादिरसचतुष्टयेन पृथगित्येकैकशो युक्तस्य शेषैर्लवणादिभिर्योगो भवति; तत्र मधुरस्याम्लयुक्तस्य शेषलवणादियोगाच्चत्वारि, तथा मधुरस्य लवणयुक्तस्य कट्वादियोगात्त्रीणि, तथा कटुयुक्तस्य तिक्तादियोगाद्द्वे, तथा तिक्तयुक्तस्य कषाययोगादेकम्, एवं मधुरेणादिस्थितेन दश| एवमम्लस्यादिस्थितस्य लवणयुक्तस्य कट्वादियोगात्त्रीणि, तथा कटुकयुक्तस्य शेषाभ्यां योगाद्द्वे, एवं तिक्तयुक्तस्य कषाययोगादेकम्, एवमम्लस्य षट्| अनेनैव न्यायेन लवणस्य त्रीणि, कटोश्चैकमेव; एवं मिलित्वा त्रिरसानि विंशतिः ||१६||-

Adhikarana 12 (17-20) · Śloka 21

वक्ष्यन्ते तु चतुष्केण द्रव्याणि दश पञ्च च||१७|| स्वाद्वम्लौ सहितौ योगं लवणाद्यैः पृथग्गतौ| योगं शेषैः पृथग्यातश्चतुष्करससङ्ख्यया||१८|| सहितौ स्वादुलवणौ तद्वत् कट्वादिभिः पृथक्| युक्तौ शेषैः पृथग्योगं यातः स्वादूषणौ तथा||१९|| कट्वाद्यैरम्ललवणौ संयुक्तौ सहितौ पृथक्| यातः शेषैः पृथग्योगं शेषैरम्लकटू तथा||२०|| युज्यते तु कषायेण सतिक्तौ लवणोषणौ|२१|

🔊 Audio coming soon

चतूरसे स्वाद्वम्लावादिस्थितौ लवणादिभिरेकैकश्येन युक्तौ शेषैः कट्वादिभिर्योगात् षड् भवन्ति| स्वादुलवणौ सहितौ आदिस्थितौ, कट्वादिभिरिति कटुतिक्ताभ्यां पृथग्युक्तौ, शेषैरिति तिक्तकषायाभ्यां, तेनेह बहुवचनं जातौ बोद्धव्यम्; एवं त्रीणि| स्वादूषणौ तथेत्यनेन स्वादुकटुकतिक्तकषायरूपमेकम्| कट्वाद्यैरित्यादावपि बहुवचनं जातौ| अम्ललवणौ संयुक्तौ कटुना सहितौ शेषाभ्यां योगाद्द्वे, तथाऽम्ललवणौ तिक्तयुक्तौ शेषयोगादेकम्| अम्लकटू तथेत्यनेनाम्लकटुतिक्तकषायरूपमेकम्| युज्येते त्वित्यादिना चैकम्| एवं पञ्चदश चतूरसानि||१७-२०||-

Adhikarana 13 (21) · Śloka 22

षट् तु पञ्चरसान्याहुरेकैकस्यापवर्जनात्||२१|| षट् चैवैकरसानि स्युरेकं षड्रसमेव तु|२२|

🔊 Audio coming soon

अपवर्जनादिति त्यागात्| अत्र च रसानां गुणत्वेनैकस्मिन् द्रव्ये समवायो योगशब्देनोच्यते||२१||-

Adhikarana 14 (22-23) · Śloka 23

इति त्रिषष्टिर्द्रव्याणां निर्दिष्टा रससङ्ख्यया||२२|| त्रिषष्टिः स्यात्त्वसङ्ख्येया रसानुरसकल्पनात् | रसास्तरतमाभ्यां तां सङ्ख्यामतिपतन्ति हि||२३||

🔊 Audio coming soon

रससंसर्गस्य प्रकारान्तरेणासङ्ख्येयतामाह- त्रिषष्टिः स्यादित्यादि| अनुरसोऽग्रे वक्ष्यमाणः| अत्र च त्रिषष्ट्यात्मकरसे रसानुरसकल्पना नास्ति, केवले मधुरादौ तदभावात्; तेन यथासम्भवं सप्तपञ्चाशत्संयोगविषयं रसानुरसकल्पनं ज्ञेयम्| किंवा, एकरसेऽप्यनुरसोऽस्त्येवाव्यपदेश्यः| प्रकारान्तरेणाप्यसङ्ख्येयतामाह- रसास्तरतमाभ्यामित्यादि| मधुरमधुरतरमधुरतमादिभेदादसङ्ख्येयता रसानां भवतीति भावः| किंवा, रसानुरसत्वेनैव याऽसङ्ख्येयता तत्रैवायं हेतुः- रसास्तरतमाभ्यामित्यादिः||२२-२३||

Adhikarana 15 (24) · Śloka 24

संयोगाः सप्तपञ्चाशत् कल्पना तु त्रिषष्टिधा| रसानां तत्र योग्यत्वात् कल्पिता रसचिन्तकैः||२४||

🔊 Audio coming soon

एवमसङ्ख्येयत्वेऽपि त्रिषष्टिविधैव कल्पना चिकित्साव्यवहारार्थमिहाचार्यैः कल्पितेत्याह- संयोगा इत्यादि| तत्र योग्यत्वादिति तत्र स्वस्थातुरहितचिकित्साप्रयोगेऽनतिसङ्क्षेपविस्तररूपतया हितत्वादित्यर्थः||२४||

Adhikarana 16 (25-26) · Śloka 26

क्वचिदेको रसः कल्प्यः संयुक्ताश्च रसाः क्वचित्| दोषौषधादीन् सञ्चिन्त्य भिषजा सिद्धिमिच्छता||२५|| द्रव्याणि द्विरसादीनि संयुक्तांश्च रसान् बुधाः| रसानेकैकशो वाऽपि कल्पयन्ति गदान् प्रति||२६||

🔊 Audio coming soon

तमेव चिकित्साप्रयोगमाह- क्वचिदित्यादि| अत्रादिग्रहणाद्देशकालबलादीनामनुक्तानां ग्रहणम्| एतदेव संयुक्तासंयुक्तरसकल्पनं भिन्नरसद्रव्यमेलकाद्वाऽनेकरसैकद्रव्यप्रयोगादेकरसद्रव्यप्रयोगाद्वा भवतीति दर्शयन्नाह- द्रव्याणीत्यादि| द्विरसादीनि उत्पत्तिसिद्धद्विरसत्रिरसादीनि; द्विरसं यथा- कषायमधुरो मुद्गः; त्रिरसं यथा- “मधुराम्लकषायं च विष्टम्भि गुरु शीतलम्| पित्तश्लेष्महरं भव्यं” (सू. २७) इत्यादि; चतूरसस्तिलः, यदुक्तं- “स्निग्धोष्णमधुरस्तिक्तः कषायः कटुकस्तिलः” (सू. २७); पञ्चरसं त्वामलकं हरीतकी च, “शिवा पञ्चरसा” इत्यादिवचनात्; व्यक्तषड्रसं तु द्रव्यमिहानुक्तं, विषं त्वव्यक्तषड्रससंयुक्तं; हारीते त्वेणमांसं व्यक्तषड्रससंयुक्तमुक्तम्| एवं द्विरसादिद्रव्ययोगाद्द्विरसाद्युपयोगः| तथा संयुक्तांश्च रसानिति एकैकरसादिद्रव्यमेलकात् संयुक्तान् रसानेकैकशः कल्पयन्ति प्रयोजयन्ति| गदान् प्रतीति प्राधान्येन, तेन स्वस्थवृत्तेऽपि बोद्धव्यं; किंवा, द्विरसादिभेदो गद एव, स्वस्थे तु सर्वरसप्रयोग एव; यदुक्तं- “समसर्वरसं सात्म्यं समधातोः प्रशस्यते” (सू. ७) इति| एवं च व्याख्याने सति ‘क्वचिदेको रस’ इत्यादिना सममस्य न पौनरुक्त्यम्| किंवा, ‘क्वचिदेको रस’ इत्यादिना स्वमतमुक्तम्, अत्रैवार्थे ‘द्रव्याणि द्विरसादीनि’ इत्यादिनाऽऽचार्यान्तरसम्मतिं दर्शयति; अत एवान्याचार्यान्तराभिप्रायेण कल्पयन्तीत्युक्तं, तेन न पौनरुक्त्यम्||२५-२६||

Adhikarana 17 (27) · Śloka 27

यः स्याद्रसविकल्पज्ञः स्याच्च दोषविकल्पवित्| न स मुह्येद्विकाराणां हेतुलिङ्गोपशान्तिषु ||२७||

🔊 Audio coming soon

रसज्ञानफलमाह- यः स्यादित्यादि| अत्र रसविकल्पज्ञानादेव व्याधिहेतुद्रव्यज्ञानं कृत्स्नमवरुद्धं, रसज्ञानेनैव प्रायः सकलद्रव्यगुणस्य वक्ष्यमाणत्वात्| दोषविकल्पज्ञानाच्च लिङ्गज्ञानं, यावद्धि लिङ्गं तत् सर्वं दोषविकल्पसम्बद्धम्| रसदोषविकल्पज्ञानात्तु भेषजज्ञानं, यतो रसतः स्वरूपज्ञानं भेषजद्रव्यस्य, दोषतश्च भेषजप्रयोगविषयविज्ञानम्| किंवा, रसविकल्पाच्च तथा दोषविकल्पाच्च हेत्वादिज्ञानं पृथगेव वक्तव्यं; रसभेदाद्धि तत्कार्यं लिङ्गमपि ज्ञायते, हेतुभेषजविज्ञानं तु रसभेदविज्ञानादेव वक्तव्यं, यतो रसभेदवद्द्रव्यमेव विकाराणां हेतुर्भेषजं च भवतीति; एवं दोषभेदं ज्ञात्वा च तस्य समानं हेतुं प्रत्येति, दोषविरोधि च द्रव्यं भेषजमिति| तद्युक्तमुक्तं- न स मुह्येद्विकाराणां हेतुलिङ्गोपशान्तिष्विति||२७||

Adhikarana 18 (28) · Śloka 28

व्यक्तः शुष्कस्य चादौ च रसो द्रव्यस्य लक्ष्यते| विपर्ययेणानुरसो रसो नास्ति हि सप्तमः||२८||

🔊 Audio coming soon

पूर्वोक्तरसानुरसलक्षणमाह- व्यक्त इत्यादि| शुष्कस्य चेति चकारादार्द्रस्य च, आदौ चेति चकारादन्ते च; तेन शुष्कस्य वाऽऽर्द्रस्य वा प्रथमजिह्वासम्बन्धे वाऽऽस्वादान्ते वा यो व्यक्तत्वेन मधुरोऽयमम्लोऽयमित्यादिना विकल्पेन गृह्यते, स व्यक्तः; यस्तूक्तावस्थाचतुष्टयेऽपि व्यक्तो नोपलभ्यते, किन्तर्ह्यव्यपदेश्यतया छायामात्रेण कार्यदर्शनेन वा मीयते, सोऽनुरस इति वाक्यार्थः| यतश्च मधुरादय एव व्यक्तत्वाव्यक्तत्वाभ्यां रसानुरसरूपाः, अतोऽव्यक्तो नाम सप्तमो रसो नास्ति| अयं चार्थः पूर्वं प्रतिषिद्धोऽप्यनुगुणस्पष्टहेतुप्राप्त्या पुनर्निषिध्यते| अन्ये त्वाहुः- शुष्कस्य चेत्यनेन यस्य द्रव्यस्य शुष्कस्य चार्द्रस्य चोपयोगः, तत्र शुष्कावस्थायां योऽव्यक्तः स रस उच्यते; यस्त्वार्द्रावस्थायां व्यक्तः सन् शुष्कावस्थायां नानुयाति , नासौ रसः, किन्त्वनुरसः| यथा- पिप्पल्या आर्द्राया मधुरो रसो व्यक्तः, शुष्कायास्तु पिप्पल्याः कटुकः; तेन कटुक एव रसः पिप्पल्याः, मधुरस्त्वनुरसः; यस्तु द्राक्षादीनामार्द्रावस्थायां शुष्कावस्थायां च मधुर एव, तत्र विप्रतिपत्तिरपि नास्ति, तेन तत्र मधुर एव रसः; नित्यार्द्रप्रयोज्यानां तु काञ्जिकतक्रादीनामादौ व्यक्तो य उपलभ्यते रसः, अनु चोपलभ्यते यः सोऽनुरसो युक्तस्तिक्तत्वादिः; तथा, आर्द्रावस्थायां शुष्कावस्थाविपरीतो यः पिप्पल्या इव मधुरः, सोऽनुरस इति| किन्त्वार्द्राऽपि पिप्पली मधुररसैवेति पश्यामः, यतो वक्ष्यति- “श्लेष्मला मधुरा चार्द्रा गुर्वी स्निग्धा च पिप्पली” (सू. २७) इति; मधुरस्य तत्रानुरसत्वे गुरुत्वश्लेष्मकर्तृत्वान्यनुपपन्नानि; तेन, आर्द्रा पिप्पली व्यक्तमधुररसैव, शुष्का तु मधुरानुरसेति युक्तम्||२८||

Adhikarana 19 (29-35) · Śloka 35

परापरत्वे युक्तिश्च सङ्ख्या संयोग एव च| विभागश्च पृथक्त्वं च परिमाणमथापि च||२९|| संस्कारोऽभ्यास इत्येते गुणा ज्ञेयाः परादयः| सिद्ध्युपायाश्चिकित्साया लक्षणैस्तान् प्रचक्ष्महे||३०|| देशकालवयोमानपाकवीर्यरसादिषु| परापरत्वे, युक्तिश्च योजना या तु युज्यते||३१|| सङ्ख्या स्याद्गणितं, योगः सह संयोग उच्यते| द्रव्याणां द्वन्द्वसर्वैककर्मजोऽनित्य एव च||३२|| विभागस्तु विभक्तिः स्याद्वियोगो भागशो ग्रहः| पृथक्त्वं स्यादसंयोगो वैलक्षण्यमनेकता||३३|| परिमाणं पुनर्मानं, संस्कारः करणं मतम्| भावाभ्यसनमभ्यासः शीलनं सततक्रिया||३४|| इति स्वलक्षणैरुक्ता गुणाः सर्वे परादयः| चिकित्सा यैरविदितैर्न यथावत् प्रवर्तते||३५||

🔊 Audio coming soon

सम्प्रति पूर्वोक्तगुर्वादिगुणातिरिक्तान् परत्वापरत्वादीन् दशगुणान् रसधर्मत्वेनोपदेष्टव्यानाह- परेत्यादि| तच्च परत्वं प्रधानत्वम्, अपरत्वम् अप्रधानत्वम्| तद्विवरणं- देशकालेत्यादि| तत्र देशो मरुः परः, अनूपोऽपरः; कालो विसर्गः परः, आदानमपरः; वयस्तरुणं परम्, अपरमितरत्; मानं च शरीरस्य यथा वक्ष्यमाणं शारीरे परं, ततोऽन्यदपरं; पाकवीर्यरसास्तु ये यस्य योगिनस्ते तं प्रति पराः, अयौगिकास्त्वपराः| आदिग्रहणात् प्रकृतिबलादीनां ग्रहणम्| किंवा, परत्वापरत्वे वैशेषिकोक्ते ज्ञेये; तत्र देशापेक्षया सन्निकृष्टदेशसम्बन्धिनमपेक्ष्य विदूरदेशसम्बन्धिनि परत्वं, सन्निकृष्टदेशसम्बन्धिनि चापरत्वं भवति; एवं सन्निकृष्टविप्रकृष्टकालापेक्षया च स्थविरे परत्वं, यूनि चापरत्वं भवति| वयःप्रभृतिषु परत्वापरत्वं यथासम्भवं कालदेशकृतमेवेहोपयोगादुपचरितमप्यभिहितं, यतो न गुणे मानादौ गुणान्तरसम्भवः| युक्तिश्चेत्यादौ योजना दोषाद्यपेक्षया भेषजस्य समीचीनकल्पना, अत एवोक्तं- या तु युज्यते; या कल्पना यौगिकी भवति सा तु युक्तिरुच्यते, अयौगिकी तु कल्पनाऽपि सती युक्तिर्नोच्यते पुत्रोऽप्यपुत्रवत्| युक्तिश्चेयं संयोगपरिमाणसंस्काराद्यन्तर्गताऽप्यत्युपयुक्तत्वात् पृथगुच्यते| सङ्ख्यां लक्षयति- सङ्ख्येत्यादि| गणितमिहैकद्वित्र्यादि| संयोगमाह- योग इत्यादि | सहेति मिलितानां द्रव्याणां योगः प्राप्तिरित्यर्थः, सहेत्यनेनेहाकिञ्चित्करं परस्परसंयोगं निराकरोति| तद्भेदमाह- द्वन्द्वेत्यादि| तत्र द्वन्द्वकर्मजो यथा- युध्यमानयोर्मेषयोः, सर्वकर्मजो यथा- भाण्डे प्रक्षिप्यमाणानां माषाणां बहुलमाषक्रियायोगजः, एककर्मजो यथा- वृक्षवायसयोः| अनित्य इति संयोगस्य कर्मजत्वेनानित्यत्वं दर्शयति| विभागमाह- विभागस्त्वित्यादि| विभक्तिः विभजनम्| विभक्तिमेव विवृणोति- वियोग इति; संयोगस्य विगमो वियोगः| तत् किं संयोगाभाव एव वियोग इत्याह- भागशो ग्रह इति|- विभागशो विभक्तत्वेन ग्रहणं यतो भवतीति भावः; तेन विभक्तिरित्येषा भावरूपा प्रतीतिः, न संयोगाभावमात्रं भवति, किन्तर्हि भावरूपविभागगुणयुक्ता इत्यर्थः | पृथक्त्वं तु ‘इदं द्रव्यं पटलक्षणं, घटात् पृथग्’ इत्यादिका बुद्धिर्यतो भवति, तत् पृथक्त्वं भवति| तच्चाचार्यस्त्रैविध्येनाह- पृथक्त्वमित्यादि| तत्र यत् सर्वथाऽसंयुज्यमानयोरिव मेरुहिमाचलयोः पृथक्त्वम्, एतदसंयोग इत्यनेनोक्तम्| तथा संयुज्यमानानामपि पृथक्त्वं विजातीयानां महिषवराहादीनां, तदाह- वैलक्षण्यमित्यादि|- विशिष्टलक्षणयुक्तत्वलक्षितं विजातीयानां पृथक्त्वमित्यर्थः| तथैकजातीयानामप्यविलक्षणानां माषाणां पृथक्त्वं भवतीत्याह- अनेकतेति| एकजातीयेषु हि संयुक्तेषु न वैलक्षण्यं नाप्यसंयोगः, अथ चानेकता पृथक्त्वरूपा भवतीति भावः| किंवा, पृथक्त्वं गुणान्तरमिच्छन् लोकव्यवहारार्थमसंयोगवैलक्षण्यानेकतारूपमेव यथोदाहृतं पृथक्त्वं दर्शयति | मानं प्रस्थाढकादितुलादिमेयम्| करणं गुणान्तराधायकत्वं संस्करणमित्यर्थः; यद्वक्ष्यति- “संस्कारो हि गुणान्तराधानमुच्यते” (वि. १) इति| भावस्य षष्टिकादेर्व्यायामादेश्चाभ्यसनमभ्यासः| अभ्यसनमेव लोकप्रसिद्धाभ्यां पर्यायाभ्यां विवृणोति- शीलनं सततक्रियेति; यं लोकाः शीलनसततक्रियाभ्यामभिदधति सोऽभ्यास इति भावः| अयं च संयोगसंस्कारविशेषरूपोऽपि विशेषेण चिकित्सोपयुक्तत्वात् पृथगुच्यते| न यथावत् प्रवर्तत इति वचनेन शब्दादिषु च गुर्वादिषु च परादीनामप्राधान्यं सूचयति||२९-३५||

Adhikarana 20 (36) · Śloka 36

गुणा गुणाश्रया नोक्तास्तस्माद्रसगुणान् भिषक्| विद्याद्द्रव्यगुणान् कर्तुरभिप्रायाः पृथग्विधाः||३६||

🔊 Audio coming soon

सम्प्रति रसानां परस्परसंयोगो गुण उक्तः, तथाऽग्रे च स्निग्धत्वादिर्गुणो वाच्यः, स च गुणरूपरसे न सम्भवतीति यथा रसानां गुणनिर्देशो बोद्धव्यस्तदाह- गुणा इत्यादि| गुणा गुणाश्रया नोक्ता इति दीर्घञ्जीवितीये “समवायी तु निश्चेष्टः कारणं गुणः” (सू. १) इत्यनेन| रसगुणानिति रसे स्निग्धादीन् गुणान्निर्दिष्टान् तद्रसाधारद्रव्यगुणानेव विद्यात्| ननु, यदि द्रव्यगुणा एव ते, तत् किमिति रसगुणत्वेनोच्यन्त इत्याह- कर्तुरित्यादि; कर्तुरिति तन्त्रकर्तुः| अभिप्राया इति तत्र तत्रोपचारेण तथा सामान्यशब्दादिप्रयोगेण तन्त्रकरणबुद्धयः; सामान्यशब्दोपचारादिप्रयोगश्च प्रकरणादिवशादेव स्फुटत्वात् तथा प्रयोजनवशाच्च क्रियते| तच्च प्रकरणादि ‘अतश्च प्रकृतं बुद्ध्वा’ इत्यादौ दर्शयिष्यामः| इह च द्रव्यगुणानां रसेषु यदुपचरणं तस्यायमभिप्रायो- यत्- मधुरादिनिर्देशेनैव स्निग्धशीतादिगुणा अपि प्रायो मधुराद्यव्यभिचारिणो द्रव्ये निर्दिष्टा भवन्तीति न मधुरत्वं निर्दिश्य स्निग्धत्वादिप्रतिपादनं पुनः पृथक् क्रियत इति||३६||

Adhikarana 21 (37) · Śloka 37

अतश्च प्रकृतं बुद्ध्वा देशकालान्तराणि च| तन्त्रकर्तुरभिप्रायानुपायांश्चार्थमादिशेत्||३७||

🔊 Audio coming soon

अभिप्रायपृथक्त्वे सति यथा ग्रन्थो बोद्धव्यस्तदाह- अतश्चेत्यादि| तत्र प्रकृतं बुद्ध्वा, यथा- “क्षाराः क्षीरं फलं पुष्पम्” इत्यत्रोद्भिदगणस्य प्रकृतत्वात् क्षीरमिति स्नुह्यादिक्षीरमेव क्षीरशब्देन वदेत्| देशान्तरं बुद्ध्वेति यथा- शिरसि शोधनेऽभिधीयमाने “क्रिमिव्याधौ” (सू. २) इति, तच्छिरोगतक्रिमिव्याधावेव भवति| कालान्तरे यथा- वमनकालेऽभिहितं “प्रतिग्रहांश्चोपहारयेत्” (सू. १५) इति, तत्र प्रतिग्रहशब्देन पात्रमुच्यते, न तु ग्रहणं प्रतिग्रहः| तन्त्रकर्तुरभिप्रायानिति यथोक्तं रसेषु गुणारोपणे तद्बोद्धव्यम्| उपायानिति शास्त्रोपायान् तन्त्रयुक्तिरूपान्| अर्थम् अभिधेयम्| यद्यपि प्रकृतादयोऽपि तन्त्रकर्तुरभिप्राया एव, तथाऽपि यत्र प्रकृतत्वादि न स्फुटं प्रतीयते तत्र तन्त्रकर्तुरभिप्रायत्वेन बोद्धव्यम्||३७||

Adhikarana 22 (38) · Śloka 38

षड्विभक्तीः प्रवक्ष्यामि रसानामत उत्तरम्| षट् पञ्चभूतप्रभवाः सङ्ख्याताश्च यथा रसाः||३८||

🔊 Audio coming soon

षड्विभक्तीरिति मधुरादिषड्विभागानित्यर्थः| षट् पञ्चभूतप्रभवा इति पञ्चभूतप्रभवाः सन्तो यथोक्तेन प्रकारेण ‘सोमगुणातिरेकात्’ इत्यादिना यथा षट् सङ्ख्याताः षट्सङ्ख्यापरिच्छिन्ना भवन्ति, तथा वक्ष्यामीति योजना||३८||

Adhikarana 23 (39) · Śloka 39

सौम्याः खल्वापोऽन्तरिक्षप्रभवाः प्रकृतिशीता लघ्व्यश्चाव्यक्तरसाश्च, तास्त्वन्तरिक्षाद्भ्रश्यमाना भ्रष्टाश्च पञ्चमहाभूतगुणसमन्विता जङ्गमस्थावराणां भूतानां मूर्तीरभिप्रीणयन्ति, तासु मूर्तिषु षडभिमूर्च्छन्ति रसाः||३९||

🔊 Audio coming soon

सम्प्रति रसानामादिकारणमेव तावदाह- सौम्या इत्यादि| सौम्याः सोमदेवताकाः| भ्रश्यमाना इति वदता भूमिसम्बन्धव्यतिरेकेणान्तरीक्षेरितैः पृथिव्यादिपरमाण्वादिभिः सम्बन्धो रसारम्भको भवतीति दर्श्यते| मूर्तीरिति व्यक्तीः| अभिप्रीणयन्तीति तर्पयन्ति, किंवा जनयन्ति| अभिमूर्च्छन्ति रसा इति व्यक्तिं यान्ति| अत्र चान्तरीक्षमुदकं रसकारणत्वे प्रधानत्वादुक्तं, तेन क्षितिस्थमपि स्थावरजङ्गमोत्पत्तौ रसकारणं भवत्येव||३९||

Adhikarana 24 (40) · Śloka 40

तेषां षण्णां रसानां सोमगुणातिरेकान्मधुरो रसः, पृथिव्यग्निभूयिष्ठत्वादम्लः, सलिलाग्निभूयिष्ठत्वाल्लवणः, वाय्वग्निभूयिष्ठत्वात् कटुकः, वाय्वाकाशातिरिक्तत्वात्तिक्तः, पवनपृथिवीव्यतिरेकात् कषाय इति| एवमेषां रसानां षट्त्वमुपपन्नं न्यूनातिरेकविशेषान्महाभूतानां भूतानामिव स्थावरजङ्गमानां नानावर्णाकृतिविशेषाः; षडृतुकत्वाच्च कालस्योपपन्नो महाभूतानां न्यूनातिरेकविशेषः||४०||

🔊 Audio coming soon

सोमगुणातिरेकादिति अतिरेकशब्देन सर्वेष्वेव रसेषु सर्वभूतसान्निध्यमस्ति, क्वचित्तु कस्यचिद्भूतगुणस्यातिरेकाद्रसविशेषो भवतीति दर्शयति; एतच्च मधुरं प्रति अब्गुणातिरिक्तत्वं विशेषोत्पत्तौ कारणत्वेन ज्ञेयं; यच्चाधारकारणत्वमपां, तत् सर्वसाधारणम्| एवं लवणेऽप्यपां कारणत्वं ज्ञेयम्| लवणस्तु सुश्रुते पृथिव्यग्न्यतिरेकात् पठितः, अस्मिंश्च विरोधे कार्यविरोधो नास्त्येव| ननु, उष्णशीताभ्यामग्निसलिलाभ्यां कृतस्य लवणस्याप्युष्णशीतत्वेन भवितव्यं, तल्लवणं कथमुष्णं भवति? नैवं, यतो भूतानामयं स्वभावः- यत्- केनचित् प्रकारेण सन्निविष्टाः कञ्चिद्गुणमारभन्ते, न सर्वम्| यथा- मकुष्ठकेऽद्भिर्मधुरो रसः क्रियते, न स्नेहः; तथा सैन्धवे वह्निनाऽपि नोष्णत्वमारभ्यते| अयं च भूतानां सन्निवेशोऽदृष्टप्रभावकृत एव, स च सन्निवेशः कार्यदर्शनेनोन्नेयः| तेन यत्र कार्यं दृश्यते तत्र कल्प्यते, यथा- लवणे उष्णत्वादग्निर्विष्यन्दित्वाच्च जलमनुमीयते| आगमवेदनीयश्चायमर्थो नात्रास्मद्विधानां कल्पनाः प्रसरन्ति| एतेन यदुच्यते- तोयवत् पृथिव्यादयोऽपि किमिति पृथग्रसान्तरं न कुर्वन्ति, तथा तोयवातादिसंयोगादिभ्यः किमिति रसान्तराणि नोत्पद्यन्त इति, तदपि भूतस्वभावापर्यनुयोगादेव प्रत्युक्तम्| इह च कारणत्वं भूतानां रसस्य मधुरत्वादिविशेष एव निमित्तकारणरूपमुच्यते, तेन नीरसानामपि हि दहनादीनां कारणत्वमुपपन्नमेव व्युत्पादितम्| रसभेदं दृष्टान्तेन साधयन्नाह- एवमित्यादि| रसानां षट्त्वं महाभूतानां न्यूनातिरेकविशेषात् सोमगुणातिरेकपृथिव्यग्न्यतिरेकादेः षडुत्पादकारणादुपपन्नं, षड्भ्यः कारणेभ्यः षट् कार्याणि भवन्तीति युक्तमेवेति भावः| भूतानां यथा नानावर्णाकृतिविशेषा महाभूतानां न्यूनातिरेकविशेषात्, तथा रसानामपीति| भूतानां यथोक्तानामतिरेकविशेषहेतुमाह- षडृतुकत्वादित्यादि| षडृतुकत्वेन कालो नानाहेमन्तादिरूपतया कञ्चिद्भूतविशेषं क्वचिद्वर्धयति, स चात्मकार्यं रसं पुष्टं करोति, यथा- हेमन्तकाले सोमगुणातिरेको भवति, शिशिरे वाय्वाकाशातिरेकः, एवं तस्याशितीयोक्तरसोत्पादक्रमेण वसन्तादावपि भूतोत्कर्षो ज्ञेयः; षडृतुकाच्चेति चकारेणाहोरात्रकृतोऽपि भूतोत्कर्षो ज्ञेयः, तथाऽदृष्टकृतश्च; तेन हेमन्तादावपि रसान्तरोत्पादः क्वचिद्वस्तुन्युपपन्नो भवति| यद्यपि च, ऋतुभेदेऽपि भूतोत्कर्षविशेष एव कारणं, यदुक्तं- “तावेतावर्कवायू” (सू. ६) इत्यादि, तथाऽपि बीजाङ्कुरकार्यकारणभाववत् संसारानादितयैव भूतविशेषर्त्वोः कार्यकारणभावो वाच्यः||४०||

Adhikarana 25 (41) · Śloka 41

तत्राग्निमारुतात्मका रसाः प्रायेणोर्ध्वभाजः, लाघवादुत्प्लवनत्वाच्च वायोरूर्ध्वज्वलनत्वाच्च वह्नेः; सलिलपृथिव्यात्मकास्तु प्रायेणाधोभाजः, पृथिव्या गुरुत्वान्निम्नगत्वाच्चोदकस्य; व्यामिश्रात्मकाः पुनरुभयतोभाजः||४१||

🔊 Audio coming soon

भूतविशेषकृतं रसानां धर्मान्तरमाह- तत्रेत्यादि| प्रायेणेति न सर्वे| रसा इति रसयुक्तानि द्रव्याणि| प्लवनत्वादिति गतिमत्त्वात्; यद्यपि गतिरधोऽपि स्यात्, तथाऽपि लघुत्वपरिगतगतिरिह वायोरूर्ध्वमेव गमनं करोति, यथा- शाल्मलीतुलानाम्| हेत्वन्तरमाह- ऊर्ध्वज्वलनत्वाच्चाग्नेरिति; अग्नेरप्यूर्ध्वगतित्वादित्यर्थः| निम्नगत्वमधोगत्वमेव||४१||

Adhikarana 26 (42) · Śloka 42

तेषां षण्णां रसानामेकैकस्य यथाद्रव्यं गुणकर्माण्यनुव्याख्यास्यामः||४२||

🔊 Audio coming soon

यथाद्रव्यमिति यद्यस्य रसस्य द्रव्यमाधारस्तदनतिक्रमेण| एतेन रसानां गुणकर्मणी रसाधारे द्रव्ये बोद्धव्ये इति दर्शयति||४२||

Adhikarana 27 (43) · Śloka 43

तत्र, मधुरो रसः शरीरसात्म्याद्रसरुधिरमांसमेदोस्थिमज्जौजःशुक्राभिवर्धन आयुष्यः षडिन्द्रियप्रसादनो बलवर्णकरः पित्तविषमारुतघ्नस्तृष्णादाहप्रशमनस्त्वच्यः केश्यः कण्ठ्यो बल्यः प्रीणनो जीवनस्तर्पणो बृंहणः स्थैर्यकरः क्षीणक्षतसन्धानकरो घ्राणमुखकण्ठौष्ठजिह्वाप्रह्लादनो दाहमूर्च्छाप्रशमनः षट्पदपिपीलिकानामिष्टतमः स्निग्धः शीतो गुरुश्च| स एवङ्गुणोऽप्येक एवात्यर्थमुपयुज्यमानः स्थौल्यं मार्दवमालस्यमतिस्वप्नं गौरवमनन्नाभिलाषमग्नेर्दौर्बल्यमास्यकण्ठयोर्मांसाभिवृद्धिं श्वासकासप्रतिश्यायालसकशीतज्वरानाहास्यमाधुर्यवमथुसञ्ज्ञास्वरप्रणाशगलगण्डगण्डमालाश्लीपद- गलशोफबस्तिधमनीगलोपलेपाक्ष्यामयाभिष्यन्दानित्येवम्प्रभृतीन् कफजान् विकारानुपजनयति (१)|४३|

🔊 Audio coming soon

तत्रेत्यादि| मधुर आदावुच्यते प्रशस्तायुष्यादिगुणतया प्रायः प्राणिप्रियतया च| षडिन्द्रियाणि मनसा समम्| जीवनः अभिघातादिमूर्च्छितस्य जीवनः| आयुष्यस्तु आयुःप्रकर्षकारित्वेन| क्षीणस्य सन्धानकरो धातुपोषकत्वेन; किंवा क्षीणश्चासौ क्षतश्चेति, तेन क्षीणक्षतस्य उरःक्षतं सन्दधाति| षट्पदाद्यभीष्टत्वगुणकथनं प्रमेहपूर्वरूपादिज्ञानोपयुक्तम् | यदुक्तं- “मूत्रेऽभिधावन्ति पिपीलिकाश्च” (चि. ६) इति, तथा रिष्टे वक्ष्यति- “यस्मिन् गृध्नन्ति मक्षिकाः” (इ. ५) इति, अनेन च मधुरत्वं ज्ञायते| अक्ष्यामयेनैवाभिष्यन्दे लब्धे विशेषोपादानार्थं पुनर्वचनं; किंवा अभिष्यन्दो नासादिष्वपि ज्ञेयः (१)||४३||

Adhikarana 28 (43) · Śloka 43

अम्लो रसो भक्तं रोचयति, अग्निं दीपयति, देहं बृंहयति ऊर्जयति, मनो बोधयति, इन्द्रियाणि दृढीकरोति, बलं वर्धयति, वातमनुलोमयति, हृदयं तर्पयति, आस्यमास्रावयति, भुक्तमपकर्षयति क्लेदयति जरयति, प्रीणयति, लघुरुष्णः स्निग्धश्च| स एवङ्गुणोऽप्येक एवात्यर्थमुपयुज्यमानो दन्तान् हर्षयति, तर्षयति, सम्मीलयत्यक्षिणी, संवेजयति लोमानि, कफं विलापयति, पित्तमभिवर्धयति, रक्तं दूषयति,मांसं विदहति, कायं शिथिलीकरोति, क्षीणक्षतकृशदुर्बलानां श्वयथुमापादयति, अपि च क्षताभिहतदष्टदग्धभग्नशूनप्रच्युतावमूत्रितपरिसर्पितमर्दितच्छिन्नभिन्नविश्लिष्टोद्विद्धोत्पिष्टादीनि पाचयत्याग्नेयस्वभावात्, परिदहति कण्ठमुरो हृदयं च (२)|४३|

🔊 Audio coming soon

हृदयं तर्पयतीति हृद्यो भवति| भुक्तमपकर्षयतीति सारयति; क्लेदयति तथा जरयति भुक्तमेव| अवमूत्रितं मूत्रविषैर्जन्तुभिः, परिसर्पितं च स्पर्शविशेषैः कारण्डादिभिः (२)||४३||

Adhikarana 29 (43) · Śloka 43

लवणो रसः पाचनः क्लेदनो दीपनश्च्यावनश्छेदनो भेदनस्तीक्ष्णः सरो विकास्यधःस्रंस्यवकाशकरो वातहरः स्तम्भबन्धसङ्घातविधमनः सर्वरसप्रत्यनीकभूतः, आस्यमास्रावयति, कफं विष्यन्दयति, मार्गान् विशोधयति, सर्वशरीरावयवान् मृदूकरोति, रोचयत्याहारम्, आहारयोगी, नात्यर्थं गुरुः स्निग्ध उष्णश्च| स एवङ्गुणोऽप्येक एवात्यर्थमुपयुज्यमानः पित्तं कोपयति, रक्तं वर्धयति, तर्षयति, मूर्च्छयति , तापयति, दारयति, कुष्णाति मांसानि, प्रगालयति कुष्ठानि, विषं वर्धयति, शोफान् स्फोटयति, दन्तांश्च्यावयति, पुंस्त्वमुपहन्ति, इन्द्रियाण्युपरुणद्भि, वलिपलितखालित्यमापादयति, अपि च लोहितपित्ताम्लपित्तविसर्पवातरक्तविचर्चिकेन्द्रलुप्तप्रभृतीन्विकारानुपजनयति (३)|४३|

🔊 Audio coming soon

विकासी क्लेदच्छेदनः | अधःस्रंसी विष्यन्दनशीलः| सर्वरसप्रत्यनीकभूत इति यत्र मात्रातिरिक्तो लवणो भवति तत्र नान्यो रस उपलक्ष्यते| आहारयोगीति आहारे सदा युज्यते| मोहयति वैचित्यं कुरुते| मूर्च्छयतीति सञ्ज्ञानाशं करोति (३)||४३||

Adhikarana 30 (43) · Śloka 43

कटुको रसो वक्त्रं शोधयति, अग्निं दीपयति, भुक्तं शोषयति, घ्राणमास्रावयति, चक्षुर्विरेचयति, स्फुटीकरोतीन्द्रियाणि, अलसकश्वयथूपचयोदर्दाभिष्यन्दस्नेहस्वेदक्लेदमलानुपहन्ति, रोचयत्यशनं, कण्डूर्विनाशयति , व्रणानवसादयति, क्रिमीन् हिनस्ति, मांसं विलिखति, शोणितसङ्घातं भिनत्ति, बन्धांश्छिनत्ति, मार्गान् विवृणोति, श्लेष्माणं शमयति, लघुरुष्णो रूक्षश्च| स एवङ्गुणोऽप्येक एवात्यर्थमुपयुज्यमानो विपाकप्रभावात् पुंस्त्वमुपहन्ति, रसवीर्यप्रभावान्मोहयन्ति, ग्लापयति, सादयति, कर्शयति, मूर्च्छयति, नमयति, तमयति, भ्रमयति, कण्ठं परिदहति, शरीरतापमुपजनयति, बलं क्षिणोति, तृष्णां जनयति; अपि च वाय्वग्निगुणबाहुल्याद्भ्रमदवथुकम्पतोदभेदैश्चरणभुजपार्श्वपृष्ठप्रभृतिषु मारुतजान् विकारानुपजनयति (४); तिक्तो रसः स्वयमरोचिष्णुरप्यरोचकघ्नो विषघ्नः क्रिमिघ्नो मूर्च्छादाहकण्डूकुष्ठतृष्णाप्रशमनस्त्वङ्मांसयोः स्थिरीकरणो ज्वरघ्नो दीपनः पाचनः स्तन्यशोधनो लेखनः क्लेदमेदोवसामज्जलसीकापूयस्वेदमूत्रपुरीषपित्तश्लेष्मोपशोषणो रूक्षः शीतो लघुश्च| स एवङ्गुणोऽप्येक एवात्यर्थमुपयुज्यमानो रौक्ष्यात्खरविषदस्वभावाच्च रसरुधिरमांसमेदोस्थिमज्जशुक्राण्युच्छोषयति, स्रोतसां खरत्वमुपपादयति, बलमादत्ते, कर्शयति, ग्लपयति, मोहयति, भ्रमयति, वदनमुपशोषयति, अपरांश्च वातविकारानुपजनयति (५); कषायो रसः संशमनः सङ्ग्राही सन्धानकरः पीडनो रोपणः शोषणः स्तम्भनः श्लेष्मरक्तपित्तप्रशमनः शरीरक्लेदस्योपयोक्ता रूक्षः शीतोऽलघुश्च| स एवङ्गुणोऽप्येक एवात्यर्थमुपयुज्यमान आस्यं शोषयति, हृदयं पीडयति, उदरमाध्मापयति, वाचं निगृह्णाति, स्रोतांस्यवबध्नाति, श्यावत्वमापादयति, पुंस्त्वमुपहन्ति, विष्टभ्य जरां गच्छति, वातमूत्रपुरीषरेतांस्यवगृह्णाति, कर्शयति, ग्लपयति, तर्षयति, स्तम्भयति, खरविशदरूक्षत्वात् पक्षवधग्रहापतानकार्दितप्रभृतींश्च वातविकारानुपजनयति||४३||

🔊 Audio coming soon

विपाकस्य प्रभावो विपाकप्रभावः, विपाकश्च कटूनां कटुरेव; रसस्य वीर्यस्य च प्रभावो रसवीर्यप्रभावः; अयं च वक्ष्यमाणे सर्वत्र हेतुः| चरणादीनां साक्षाद्ग्रहणं तत्रैव प्रायो वातविकारभावात्| अत्र च विपाकप्रभावादिकथनमुदाहरणार्थं, तेन मधुरादिषु विपाकादिकार्यमुन्नेयम्| ग्लपयति हर्षक्षयं करोति| पीडनो व्रणपीडनः| शरीरक्लेदस्योपयोक्तेति आचूषकः| ‘शीतोऽलघुश्च’ इत्यकारप्रश्लेषादलघुः | अवगृह्णातीति बद्धानि करोति ||४३||

Adhikarana 31 (44) · Śloka 44

इत्येवमेते षड्रसाः पृथक्त्वेनैकत्वेन वा मात्रशः सम्यगुपयुज्यमाना उपकाराय भवन्त्यध्यात्मलोकस्य, अपकारकराः पुनरतोऽन्यथा भवन्त्युपयुज्यमानाः; तान् विद्वानुपकारार्थमेव मात्रशः सम्यगुपयोजयेदिति||४४||

🔊 Audio coming soon

पृथक्त्वेनेति एकैकशो मात्रशः| एकत्वेनेति एकीकृत्य समुदायमात्रश इत्यर्थः| मात्रश इति मात्रया| तच्चैकीकरणं द्वित्र्यादिभिः सर्वैर्ज्ञेयम्| अध्यात्मलोकस्येति सर्वप्राणिजनस्य| अन्यथेति अमात्रया||४४||

Adhikarana 32 (45) · Śloka 45

भवन्ति चात्र- शीतं वीर्येण यद्द्रव्यं मधुरं रसपाकयोः| तयोरम्लं यदुष्णं च यद्द्रव्यं कटुकं तयोः||४५||

🔊 Audio coming soon

सम्प्रति रसद्वारेणैव द्रव्याणां वीर्यमाह- शीतमित्यादि | यद्द्रव्यं रसे पाके च मधुरं तच्छीतं वीर्येण ज्ञेयं; तथा तयोरिति रसपाकयोर्यदम्लं द्रव्यं तदुष्णं वीर्येण; तथा यच्च द्रव्यं तयोरिति रसपाकयोः कटुकमुक्तं तच्चोष्णं वीर्येण, ‘भवति’ इति शेषः| किंवा ‘यच्चोष्णं कटुकं तयोः’ इति पाठः| तत्र यद्रसतो मधुरं तद्वीर्यतः शीतमिति वक्तव्ये यद्रसपाकयोरिति करोति, तन्मधुररसोचितपाकस्यैव मधुरद्रव्यस्य शीतवीर्यताप्राप्त्यर्थम्; एवमम्लकटुकयोरपि वाच्यम्||४५||

Adhikarana 33 (46-47) · Śloka 47

तेषां रसोपदेशेन निर्देश्यो गुणसङ्ग्रहः| वीर्यतोऽविपरीतानां पाकतश्चोपदेक्ष्यते||४६|| यथा पयो यथा सर्पिर्यथा वा चव्यचित्रकौ| एवमादीनि चान्यानि निर्दिशेद्रसतो भिषक्||४७||

🔊 Audio coming soon

तेषामिति मधुरपाकादीनां, रसोपदेशेनेति रसमात्रकथनेनैव, यतो विपाकोऽपि रसत एव प्रायो ज्ञायते; यद्वक्ष्यति- ‘कटुतिक्तकषायाणां विपाकः प्रायशः कटुः’ इत्यादि| एतच्च न सर्वत्रेत्याह- वीर्यत इत्यादि| वीर्यतोऽविपरीतानां रसद्वारा वीर्यज्ञानं, न तु रसविरुद्धवीर्याणां महापञ्चमूलादीनां; न केवलं रसेन किन्तर्हि पाकतश्च य उपदेक्ष्यते गुणसङ्ग्रहः ‘शुक्रहा बद्धविण्मूत्रो विपाको वातलः कटुः’ इत्यादिना, स च वीर्यतोऽविरुद्धानां विज्ञेयः; यदि तत्र वीर्यं विरोधि भवति तदा विपाकोऽपि यथोक्तगुणकारी न स्यात्| किंवा, पाकतश्चाविपरीतानां रसोपदेशेन गुणसङ्ग्रहः शीतोष्णलक्षणो निर्देश्यः, यस्यास्तु पिप्पल्याः कटुकाया अपि विपरीतमधुरपाकित्वं, न तत्र कटुरसत्वेनोष्णत्वमित्यर्थः| अस्मिंश्च पक्षे ‘उपदेक्ष्यते’ इति ‘यथा पयः’ इत्यादिना सम्बध्यते| तान्येवाविपरीतवीर्यविपाकान्याह- यथा पय इत्यादि| पयःप्रभृतीनि हि द्रव्यगुणकथनेऽविरुद्धवीर्यविपाकान्युपदेष्टव्यानि||४६-४७||

Adhikarana 34 (48-49) · Śloka 49

मधुरं किञ्चिदुष्णं स्यात् कषायं तिक्तमेव च| यथा महत्पञ्चमूलं यथाऽब्जानूपमामिषम्||४८|| लवणं सैन्धवं नोष्णमम्लमामलकं तथा| अर्कागुरुगुडूचीनां तिक्तानामुष्णमुच्यते||४९||

🔊 Audio coming soon

सम्प्रति यत्र विरुद्धवीर्यत्वेन रसेनोष्णत्वादि न निर्देश्यं तदाह- मधुरमित्यादि| किञ्चित् कषायं चोष्णं तिक्तं चोष्णमिति योजना, कषायतिक्तलवणानामुदाहरणमसूत्रितानामपि प्रकरणात् कृतम्| महत्पञ्चमूलं बिल्वादिपञ्चमूलमिह| एतच्च तिक्तस्य कषायस्य चोष्णतायामुदाहरणम्, अब्जानूपामिषं तु मधुरस्योष्णवीर्यत्वे||४८-४९||

Adhikarana 35 (50-52) · Śloka 52

किञ्चिदम्लं हि सङ्ग्राहि किञ्चिदम्लं भिनत्ति च| यथा कपित्थं सङ्ग्राहि भेदि चामलकं तथा||५०|| पिप्पली नागरं वृष्यं कटु चावृष्यमुच्यते| कषायः स्तम्भनः शीतः सोऽभयायामतोऽन्यथा||५१|| तस्माद्रसोपदेशेन न सर्वं द्रव्यामादिशेत्| दृष्टं तुल्यरसेऽप्येवं द्रव्ये द्रव्ये गुणान्तरम्||५२||

🔊 Audio coming soon

वीर्यप्रसङ्गादन्यमप्यम्लादीनां विरुद्धगुणमाह- किञ्चिदित्यादि| अभयायामतोऽन्यथेति अभयायां कषायो रसो भेदनश्चोष्णश्चेत्यर्थः||५०-५२||

Adhikarana 36 (53-56) · Śloka 57

रौक्ष्यात् कषायो रूक्षाणामुत्तमो मध्यमः कटुः| तिक्तोऽवरस्तथोष्णानामुष्णत्वाल्लवणः परः||५३|| मध्योऽम्लः कटुकश्चान्त्यः स्निग्धानां मधुरः परः| मध्योऽम्लो लवणश्चान्त्यो रसः स्नेहान्निरुच्यते||५४|| मध्योत्कृष्टावराः शैत्यात् कषायस्वादुतिक्तकाः | स्वादुर्गुरुत्वादधिकः कषायाल्लवणोऽवरः||५५|| अम्लात् कटुस्ततस्तिक्तो लघुत्वादुत्तमोत्तमः| केचिल्लघूनामवरमिच्छन्ति लवणं रसम्||५६|| गौरवे लाघवे चैव सोऽवरस्तूभयोरपि|५७|

🔊 Audio coming soon

रौक्ष्यादित्यादि| रौक्ष्येण कषाय उत्तम इति रूक्षतमः, तिक्तो रूक्षः, कटुस्तु मध्यो रूक्षतरः; एवमन्यत्रापि| कटुकश्चान्त्य इति अवर इत्यर्थः| एवं लवणश्चान्त्य इति अवर इत्यर्थः| लवणोऽवर इति गुरुत्वेनेत्यर्थः| अम्लात् कटुरित्यादौ अम्लात् कटुर्लघुः, ततः कटुकादुत्तमात्तिक्तो लघुत्वेनोत्तमोत्तमः; उत्तमात् कटुकादुत्तम उत्तमोत्तमः| एकीयमतमाह- केचिदित्यादि| एकीयमतं वचनभङ्ग्या स्वीकुर्वन्नाह- गौरव इत्यादि| एतेन, गौरवे लाघवे चावरत्वं लवणस्य स्वीकुर्वन् गौरवेऽवर इत्यनेनाम्लकटुतिक्तेभ्यो गुरुत्वं स्वीकरोति लवणस्य, लाघवे चावर इत्यनेनाम्लादपि लघुनोऽल्पं लाघवं लवणस्य स्वीकरोति| न च वाच्यम्- अम्ले पृथिवी कारणं लवणे तु तोयं, ततः पृथिव्यपेक्षया तोयजन्यस्य लवणस्यैव लाघवमुचितमिति; यतो न भूतनिवेशेन गौरवलाघवे शक्येतेऽवधारयितुं, तथाहि तोयातिरेककृतो मधुरः पृथिव्यतिरेककृतात् कषायाद्गुरुर्भवति||५३-५६||-

Adhikarana 37 (57-58) · Śloka 58

परं चातो विपाकानां लक्षणं सम्प्रवक्ष्यते||५७|| कटुतिक्तकषायाणां विपाकः प्रायशः कटुः| अम्लोऽम्लं पच्यते स्वादुर्मधुरं लवणस्तथा||५८||

🔊 Audio coming soon

सम्प्रति विपाकस्यापि रसरूपत्वाल्लक्षणमाह- परमित्यादि| प्रायोग्रहणात् पिप्पलीकुलत्थादीनां रसाननुगुणपाकितां दर्शयति| कटुकादिशब्देन च तदाधारं द्रव्यमुच्यते, यतो न रसाः पच्यन्ते किन्तु द्रव्यमेव| लवणस्तथेति लवणोऽपि मधुरविपाकः प्राय इत्यर्थः| विपाकलक्षणं तु- जठराग्नियोगादाहारस्य निष्ठाकाले यो गुण उत्पद्यते स विपाकः; वचनं हि- “जाठरेणाग्निना योगाद्यदुदेति रसान्तरम्| आहारपरिणामान्ते स विपाकः प्रकीर्तितः” (वा. सू. ९)||५७-५८||

Adhikarana 38 (59-60) · Śloka 60

मधुरो लवणाम्लौ च स्निग्धभावात्त्रयो रसाः| वातमूत्रपुरीषाणां प्रायो मोक्षे सुखा मताः||५९|| कटुतिक्तकषायास्तु रूक्षभावात्त्रयो रसाः| दुःखाय मोक्षे दृश्यन्ते वातविण्मूत्ररेतसाम्||६०||

🔊 Audio coming soon

सम्प्रति वक्ष्यमाणविपाकलक्षणे मधुराम्लपाकयोर्वातमूत्रपुरीषानवरोधकत्वे तथा कटोर्विपाकस्य वातमूत्रपुरीषविबन्धकत्वे हेतुमाह- मधुर इत्यादि| अत्र मधुराम्ललवणा निष्ठापाकं गता अपि सन्तः स्नेहगुणयोगाद्वातमूत्रपुरीषाणां विसर्गं सुखेन कुर्वन्तीति वाक्यार्थः| तेन मधुराम्लपाकयोरेतत् समानं लक्षणम्| एवं कटुतिक्तकषायेष्वपि विपर्ययेऽपि वाक्यार्थः||५९-६०||

Adhikarana 39 (61-62) · Śloka 62

शुक्रहा बद्धविण्मूत्रो विपाको वातलः कटुः| मधुरः सृष्टविण्मूत्रो विपाकः कफशुक्रलः||६१|| पित्तकृत् सृष्टविण्मूत्रः पाकोऽम्लः शुक्रनाशनः| तेषां गुरुः स्यान्मधुरः कटुकाम्लावतोऽन्यथा||६२||

🔊 Audio coming soon

सम्प्रति विपाकलक्षणं हेतुव्युत्पादितं शुक्रहत्वादिविशेषयुक्तं वक्तुमाह- शुक्रहेत्यादि| अतोऽन्यथेति लघुः||६१-६२||

Adhikarana 40 (63) · Śloka 63

विपाकलक्षणस्याल्पमध्यभूयिष्ठतां प्रति| द्रव्याणां गुणवैशेष्यात्तत्र तत्रोपलक्षयेत्||६३||

🔊 Audio coming soon

सम्प्रति यथोक्तविपाकलक्षणानां द्रव्यभेदे क्वचिदल्पत्वं क्वचिन्मध्यत्वं क्वचिच्चोत्कृष्टत्वं यथा भवति तदाह- विपाकेत्यादि| विपाकलक्षणस्याल्पमध्यभूयिष्ठतामुपलक्षयेत्, प्रति प्रति द्रव्याणां गुणवैशेष्याद्धेतोरित्यर्थः| एतेन, द्रव्येषु यद्गुणवैशेष्यं मधुरत्वमधुरतरत्वमधुरतमत्वादि, ततो हेतोर्विपाकानामल्पत्वादयो विशेषा भवन्तीत्युक्तं भवति| अत्र केचिद्ब्रुवते- प्रतिरसं पाको भवति, यथा मधुरादीनां षण्णां षण्मधुरादयः पाका इति; केचिद्ब्रुवते- बलवतां रसानामबलवन्तो रसा वशतां यान्ति, ततश्चानवस्थितः पाकः| तत्रैतद्द्वितयमपि पाके व्यवस्थाऽकरणमनादृत्य सुश्रुतेन द्विविधः पाको मधुरः कटुश्चाङ्गीकृतः| द्वैविध्यं च पञ्चभूतात्मके द्रव्ये गुरुभूतपृथिवीतोयातिरेकान्मधुरः पाको भवति, शेषलघुभूतातिरेकात्तु कटुकः पाको भवति; यदुक्तं- “द्रव्येषु पच्यमानेषु येष्वम्बुपृथिवीगुणाः| निर्वर्तन्तेऽधिकास्तत्र पाको मधुर उच्यते|| तेजोऽनिलाकाशगुणाः पच्यमानेषु येषु तु| निर्वर्तन्तेऽधिकास्तत्र पाकः कटुक उच्यते ” (सु. सू. ४०) इति| प्रतिरसपाके तथाऽनवस्थितपाके च द्रव्यं रसगुणेनैव तुल्यं पाकावस्थायामपि भवति, तेन न कश्चिद्विशेषो विपाकेन तत्र बोध्यत इति सुश्रुतेन तत्पक्षद्वयमुपेक्षितमिति साधुकृतम्| तृतीयाम्लपाकनिरासस्तु दोषमावहति, यतो व्रीहिकुलत्थादीनामम्लपाकतया पित्तकर्तृत्वमुपलभ्यते; अथ मन्यसे- व्रीह्यादेरुष्णवीर्यत्वेन तत्र पित्तकर्तृत्वं; तन्न, मधुरस्य व्रीहेस्तन्मते मधुरविपाकस्योष्णवीर्यतायामपि सत्यां न पित्तकर्तृत्वमुपपद्यते, रसविपाकाभ्यामेकस्य वीर्यस्य बाधनीयत्वात्| किञ्च, अम्लपाकत्वाद्व्रीह्यादेः पित्तमम्लगुणमुत्पद्यते, यदि तु तदुष्णवीर्यताकृतं स्यात्तदा कटुगुणभूयिष्ठं पित्तं स्यात्; दृश्यते च व्रीहिभक्षणादम्लोद्गारादिनाऽम्लगुणभूयिष्ठतैवेति| किञ्च, पृथिवीसोमगुणातिरेकान्मधुरः पाको भवति, वाय्वग्न्याकाशातिरेकाच्च कटुर्भवतीति पक्षे यदा व्यामिश्रगुणातिरेकता भवति तदा सोमाग्न्यात्मकस्याम्लस्योत्पादः कथं प्रतिक्षेपणीयः| अथवा, तन्त्रकारयोः किमनयोरनेन वचनमात्रविरोधेन कर्तव्यं; यतो यदम्लपाकं चरको ब्रूते, तत् सुश्रुतेन वीर्योष्णमिति कृत्वा समाधीयते; तेन न कश्चिद्द्रव्यगुणे विरोधः| यत्तु सुश्रुतेऽम्लपाकनिरासार्थं दूषणमुच्यते “पित्तं हि विदग्धमम्लतामुपैति” (सु. सू. ४०) इत्यादिना, तदनभ्युपगमादेव निरस्तम्| ननु, लवणस्य मधुरपाकित्वे पित्तरक्तादिकर्तृत्वमनुपपन्नं, तथा तिक्तकषाययोः कटुपाकित्वे पित्तहन्तृत्वमनुपपन्नं? नैवं, सत्यपि लवणस्य मधुरपाकित्वे तत्र लवणरस उष्णं च वीर्यं यदस्ति तेन तत् पित्तरक्तादिकारकं, विपाकस्तु तत्र पित्तरक्तहरणलक्षणे कार्ये बाधितः सन् ‘सृष्टविण्मूत्रं’ इत्यादिना लक्षणेन लक्ष्यत एव| एतेन यदुच्यते- लवणे मधुरो विपाकश्चेद्रसवीर्याभ्यां बाधितः सन् स्वकार्यकरो न भवति तत् किं तेनोपदिष्टेनेति, तन्निरस्तं भवति| यतोऽस्त्येव सृष्टविण्मूत्रतादिना तत्र लवणे मधुरविपाकित्वं लक्षणीयम्| अनया दिशा तिक्तकषाययोरपि पूर्वपक्षपरिहारः| अन्ये त्वेतद्दोषभयाल्लवणोऽप्यम्लं पच्यत इति व्याख्यानयन्ति, लवणस्तथेत्यत्र तथाशब्देन विप्रकृष्टस्याम्लमित्यस्य कर्षणादिति| तन्न, “कट्वादीनां कटुर्विपाकोऽम्लोऽम्लस्य शेषयोर्मधुरः” इति जतूकर्णवचनात्| नच वाच्यं, कस्मात्त्रय एव विपाका भवन्ति न पुनस्तिक्तादयोऽपीति; यतो भूतस्वभाव एवैषः, येन मधुरादयस्त्रय एव भवन्ति, भूतस्वभावाश्चापर्यनुयोज्याः| ननु, यश्च रसविपरीतः पाको यथा- लवणस्य मधुरः, तिक्तकषाययोश्च कटुः, स उच्यतां; यस्तु समानगुणो मधुरस्य मधुरोऽम्लस्याम्लः कटुकस्य वा कटुकः, तत्कथने किं प्रयोजनं? यतो रसगुणैरेव तत्र विपाकगुणोऽपि ज्ञास्यते| नैवं, येन लवणादिवद्विसदृशरसान्तरोत्पादशङ्कानिरासार्थमपि तत्रानुगुणोऽपि विपाको वक्तव्य एव; विपाकजश्च रस आहारपरिणामान्ते भवति, प्राकृतस्तु रसो विपाकविरुद्धः परिणामकालं वर्जयित्वा ज्ञेयः; तेन पिप्पल्याः कटुकरसत्वमादौ कण्ठस्थश्लेष्मक्षपणमुखशोधनादिकर्तृत्वेन सप्रयोजनं, मधुरविपाकत्वं तु परिणामेन वृष्यत्वादिज्ञापनेन सप्रयोजनम्| तथा, यत्र विपाकस्य रसाः समानगुणतयाऽनुगुणा भवन्ति तत्र बलवत् कार्यं भवति, विपर्यये तु दुर्बलमिति ज्ञेयम्| एतच्च पाकत्रयं द्रव्यनियतं, तेन ग्रहण्यध्याये वक्ष्यमाणाहारावस्थापाकाद्भिन्नमेव; तत्र ह्यविशेषेण सर्वेषामेव रसानामवस्थावशात् त्रयः पाका वाच्याः “अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः” (चि. १५) इत्यादिना ग्रन्थेन||६३||

Adhikarana 41 (64-65) · Śloka 65

मृदुतीक्ष्णगुरुलघुस्निग्धरूक्षोष्णशीतलम्| वीर्यमष्टविधं केचित्, केचिद्द्विविधमास्थिताः||६४|| शीतोष्णमिति, वीर्यं तु क्रियते येन या क्रिया| नावीर्यं कुरुते किञ्चित् सर्वा वीर्यकृता क्रिया||६५||

🔊 Audio coming soon

एकीयमतेन वीर्यलक्षणमाह- मृद्वित्यादि| एतच्चैकीयमतद्वयं पारिभाषिकीं वीर्यसञ्ज्ञां पुरस्कृत्य प्रवृत्तम्| वैद्यके हि रसविपाकप्रभावव्यतिरिक्ते प्रभूतकार्यकारिणी गुणे वीर्यमति सञ्ज्ञा, तेनाष्टविधवीर्यवादिमते पिच्छिलविशदादयो गुणा न रसादिविपरीतं कार्यं प्रायः कुर्वन्ति, तेन तेषां रसाद्युपदेशेनैव ग्रहणं; मृद्वादीनां तु रसाद्यभिभावकत्वमस्ति, यथा- पिप्पल्यां कटुरसकार्यं पित्तकोपनमभिभूय तद्गते मृदुशीतवीर्ये पित्तमेव शमयत इति, तथा कषाये तिक्तानुरसे महति पञ्चमूले तत्कार्यं वातकोपनमभिभूयोष्णेन वीर्येण तद्विरुद्धं वातशमनमेव क्रियते, तथा मधुरेऽपीक्षौ शीतवीर्यत्वेन वातवृद्धिरित्यादि| यदुक्तं सुश्रुते- “एतानि खलु वीर्याणि स्वबलगुणोत्कर्षाद्रसमभिभूयात्मकर्म दर्शयन्ति ” (सु. सू. ४०) इत्यादि| शीतोष्णवीर्यवादिमतं त्वग्नीषोमीयत्वाज्जगतः शीतोष्णयोरेव प्राधान्याज्ज्ञेयम्| उक्तं च “नानाऽऽत्मकमपि द्रव्यमग्नीषोमौ महाबलौ| व्यक्ताव्यक्तं जगदिव नातिक्रामति जातुचित्” (वा. सू. ९) इति| एतच्च मतद्वयमप्याचार्यस्य परिभाषासिद्धमनुमतमेव, येनोत्तरत्र “रसवीर्यविपाकानां सामान्यं यत्र लक्ष्यते” इत्यादौ पारिभाषिकमेव वीर्यं निर्देक्ष्यति| पारिभाषिकवीर्यसञ्ज्ञापरित्यागेन तु शक्तिपर्यायस्य वीर्यस्य लक्षणमाह- वीर्यं त्वित्यादि | वीर्यमिति शक्तिः| येनेति रसेन वा विपाकेन वा प्रभावेण वा गुर्वादिपरादिभिर्वा गुणैर्या क्रिया तर्पणह्लादनशमनादिरूपा क्रियते , तस्यां क्रियायां तद् रसादि वीर्यम्| अत एवोक्तं सुश्रुते- “येन कुर्वन्ति तद्वीर्यम्” (सु. सू. ४०) इति| अत्रैव लोकप्रसिद्धामुपपत्तिमाह- नावीर्यमित्यादि | अवीर्यम् अशक्तमित्यर्थः| वीर्यकृतेति वीर्यवता कृता वीर्यकृता||६४-६५||

Adhikarana 42 (66) · Śloka 66

रसो निपाते द्रव्याणां, विपाकः कर्मनिष्ठया| वीर्यं यावदधीवासान्निपाताच्चोपलभ्यते||६६||

🔊 Audio coming soon

रसादीनामेकद्रव्यनिविष्टानां भेदेन ज्ञानार्थं लक्षणमाह- रसो निपात इत्यादि| निपात इति रसनायोगे| कर्मनिष्ठयेति कर्मणो निष्ठा निष्पत्तिः कर्मनिष्ठा क्रियापरिसमाप्तिः, रसोपयोगे सति योऽन्त्याहारपरिणामकृतः कर्मविशेषः कफशुक्राभिवृद्ध्यादिलक्षणः, तेन विपाको निश्चीयते| अधीवासः सहावस्थानं, यावदधीवासादिति यावच्छरीरनिवासात्; एतच्च विपाकात् पूर्वं निपाताच्चोर्ध्वं ज्ञेयम्| निपाताच्चेति शरीरसंयोगमात्रात्; तेन किञ्चिद्वीर्यमधीवासादुपलभ्यते, यथा- आनूपमांसादेरुष्णत्वं; किञ्चिच्च निपातादेव लभ्यते, यथा- मरीचादीनां तीक्ष्णत्वादि; किञ्चिच्च निपाताधीवासाभ्यां, यथा- मरीचादीनामेव| एतेन रसः प्रत्यक्षेणैव; विपाकस्तु नित्यपरोक्षः, तत्कार्येणानुमीयते; वीर्यं तु किञ्चिदनुमानेन, यथा- सैन्धवगतं शैत्यमानूपमांसगतं वा औष्ण्यं, किञ्चिच्च वीर्यं प्रत्यक्षेणैव, यथा- राजिकागतं तैक्ष्ण्यं घ्राणेन, पिच्छिलविशदस्निग्धरूक्षादयः चक्षुःस्पर्शनाभ्यां निश्चीयन्त इति वाक्यार्थः| एतच्च वीर्यं सहजं कृत्रिमं च ज्ञेयम् | एतच्च यथासम्भवं गुरुलघ्वादिषु वीर्येषु लक्षणं ज्ञेयम्| द्रव्याणामिति उपयुज्यमानद्रव्याणाम्| एतच्च वीर्यलक्षणं पारिभाषिकवीर्यविषयमेव||६६||

Adhikarana 43 (67) · Śloka 67

रसवीर्यविपाकानां सामान्यं यत्र लक्ष्यते| विशेषः कर्मणां चैव प्रभावस्तस्य स स्मृतः||६७||

🔊 Audio coming soon

प्रभावलक्षणमाह- रसवीर्येत्यादि| सामान्यमिति तुल्यता| विशेषः कर्मणामिति दन्त्याद्याश्रयाणां विरेचनत्वादीनाम्| सामान्यं लक्ष्यत इत्यनेन रसादिकार्यत्वेन यन्नावधारयितुं शक्यते कार्यं तत् प्रभावकृतमिति सूचयति, अत एवोक्तम्- प्रभावोऽचिन्त्य उच्यते; रसवीर्यविपाककार्यतयाऽचिन्त्य इत्यर्थः||६७||

Adhikarana 44 (68-72) · Śloka 73

कटुकः कटुकः पाके वीर्योष्णश्चित्रको मतः| तद्वद्दन्ती प्रभावात्तु विरेचयति मानवम् ||६८|| विषं विषघ्नमुक्तं यत् प्रभावस्तत्र कारणम्| ऊर्ध्वानुलोमिकं यच्च तत् प्रभावप्रभावितम्||६९|| मणीनां धारणीयानां कर्म यद्विविधात्मकम्| तत् प्रभावकृतं तेषां प्रभावोऽचिन्त्य उच्यते ||७०|| सम्यग्विपाकवीर्याणि प्रभावश्चाप्युदाहृतः| किञ्चिद्रसेन कुरुते कर्म वीर्येण चापरम्||७१|| द्रव्यं गुणेन पाकेन प्रभावेण च किञ्चन| रसं विपाकस्तौ वीर्यं प्रभावस्तानपोहति||७२|| बलसाम्ये रसादीनामिति नैसर्गिकं बलम्|७३|

🔊 Audio coming soon

अस्यैव दुरभिगमत्वादुदाहरणानि बहून्याह- कटुक इत्यादिना| तद्वदिति चित्रकसमानगुणा | विषघ्नमुक्तमिति “तस्माद्दंष्ट्राविषं मौलं” (चि. २३) इत्यादिना| ऊर्ध्वानुलोमिकमिति युगपदुभयभागहरं, किंवा ऊर्ध्वहरं तथाऽनुलोमहरं च| कर्म यद्विविधात्मकमिति विषहरणशूलहरणादि| एतच्चोदाहरणमात्रं, तेन जीवनमेध्यादिद्रव्यस्य रसाद्यचिन्त्यं सर्वं ‘प्रभाव’ इति ज्ञेयम्| प्रभावश्चेह द्रव्यशक्तिरभिप्रेता, सा च द्रव्याणां सामान्यविशेषः दन्तीत्वादियुक्ता व्यक्तिरेव, यतः शक्तिर्हि स्वरूपमेव भावानां, नातिरिक्तं किञ्चिद्धर्मान्तरम्; एवं प्रदेशान्तरोक्तगुणप्रभावादिष्वपि वाच्यम्; यथोक्तं- ‘द्रव्याणि हि द्रव्यप्रभावाद्गुणप्रभावात्’ इत्यादि| न च वाच्यं दन्त्यादिः स्वरूपत एव विरेचयति, तेन किमिति जलाद्युपहता दन्ती न विरेचयतीति; प्रतिबन्धकाभावविशिष्टस्यैव प्रभावस्य कारणत्वात्, जलोपहतायां दन्त्यां जलोपघातः प्रतिबन्धक इत्याद्यनुसरणीयम्| नैयायिकशक्तिवादे या च विषस्य विषघ्नत्वे उपपत्तिरुक्ता ऊर्ध्वाधोगामित्वविरोधलक्षणा साऽन्तर्भागत्वात् प्रभावादेव भवति| एवमूर्ध्वानुलोमिकत्वादौ पार्थिवत्वादिकथनेऽपि वाच्यम्||६८-७२||-

Adhikarana 45 (74-79) · Śloka 79

षण्णां रसानां विज्ञानमुपदेक्ष्याम्यतः परम्||७३|| स्नेहनप्रीणनाह्लादमार्दवैरुपलभ्यते| मुखस्थो मधुरश्चास्यं व्याप्नुवँल्लिम्पतीव च||७४|| दन्तहर्षान्मुखास्रावात् स्वेदनान्मुखबोधनात्| विदाहाच्चास्यकण्ठस्य प्राश्यैवाम्लं रसं वदेत्||७५|| प्रलीयन् क्लेदविष्यन्दमार्दवं कुरुते मुखे| यः शीघ्रं लवणो ज्ञेयः स विदाहान्मुखस्य च||७६|| संवेजयेद्यो रसानां निपाते तुदतीव च| विदहन्मुखनासाक्षि संस्रावी स कटुः स्मृतः||७७|| प्रतिहन्ति निपाते यो रसनं स्वदते न च| स तिक्तो मुखवैशद्यशोषप्रह्लादकारकः ||७८|| वैशद्यस्तम्भजाड्यैर्यो रसनं योजयेद्रसः| बध्नातीव च यः कण्ठं कषायः स विकास्यपि||७९||

🔊 Audio coming soon

विज्ञायतेऽनेनेति विज्ञानं लक्षणमित्यर्थः| प्रलीयन्निति विलीनो भवन् | संस्रावयतीति संस्रावी| विकासीति हृदयविकसनशीलः; उक्तं हि सुश्रुते- “हृदयं पीडयति” (सु. सू. ४२) इति||७४-७९||

Adhikarana 46 (80) · Śloka 80

एवमुक्तवन्तं भगवन्तमात्रेयमग्निवेश उवाच- भगवन्! श्रुतमेतदवितथमर्थसम्पद्युक्तं भगवतो यथावद्द्रव्यगुणकर्माधिकारे वचः, परं त्वाहारविकाराणां वैरोधिकानां लक्षणमनतिसङ्क्षेपेणोपदिश्यमानं शुश्रूषामह इति||८०||

🔊 Audio coming soon

सम्प्रति विरुद्धाहारं वक्तुमाह- एवमित्यादि| शरीरधातुविरोधं कुर्वन्तीति वैरोधिकाः, लक्ष्यते वैरोधिकमनेनेति लक्षणं वैरोधिकाभिधायको ग्रन्थ एव| ‘यत् किञ्चिद्दोषमास्राव्य’ इत्यादि वैरोधिकलक्षणं ज्ञेयम्||८०||

Adhikarana 47 (81) · Śloka 81

तमुवाच भगवानात्रेयः- देहधातुप्रत्यनीकभूतानि द्रव्याणि देहधातुभिर्विरोधमापद्यन्ते; परस्परगुणविरुद्धानि कानिचित्, कानिचित् संयोगात्, संस्कारादपराणि, देशकालमात्रादिभिश्चापराणि, तथा स्वभावादपराणि||८१||

🔊 Audio coming soon

देहधातुप्रत्यनीकभूतानीति देहधातूनां रसादीनां वातादीनां च प्रकृतिस्थानां प्रत्यनीकस्वरूपाणि| विरोधमापद्यन्त इति देहधातूनां विरोधमाचरन्ति, दूषयन्तीति यावत्| यथाभूतानि द्रव्याणि देहधातुभिर्विरोधमापद्यन्ते तदाह- परस्परविरुद्धानि कानिचिदित्यादि| तत्र परस्परगुणविरुद्धानि यथा- “न मत्स्यान् पयसाऽभ्यवहरेत्, उभयं ह्येतत्” इत्यादिनोक्तानि| संयोगविरुद्धं यथा- “तदेव निकुचं पक्वं न माष” इत्यादि नोक्तं; यत् संस्कारादिविरुद्धगुणकथनं विना साहित्यमात्रेण विरुद्धमुच्यते, तत् संयोगविरुद्धम्| मत्स्यपयसोस्तु यद्यपि सहोपयोगो विरुद्धत्वेनोक्तः, तथाऽप्यसौ गुणविरुद्धत्वेन कथित इति गुणविरोधकस्यैवोदाहरणम्| विरोधश्च विरुद्धगुणत्वे सत्यपि क्वचिदेव द्रव्यप्रभावाद्भवति; तेन षड्रसाहारोपयोगे मधुराम्लयोर्विरुद्धशीतोष्णवीर्ययोर्विरोधो नोद्भावनीयः| संस्कारतो विरुद्धं यथा- “न कपोतान् सर्षपतैलभृष्टान्” इत्यादि| देशो द्विविधः- भूमिः, शरीरं च| तत्र भूमिविरुद्धं यथा- “तदेव भस्मपांशुपरिध्वस्तम्”, किंवा यत् किञ्चिदगोचरभृतं तद्देशविरुद्धं; शरीरविरुद्धं यथा- उष्णार्तस्य मधु मरणाय| कालविरुद्धं यथा- पर्युषिता काकमाची मरणाय| मात्राविरुद्धं यथा- समघृते मधुसर्पिषी मरणाय| आदिग्रहणाद्दोषप्रकृत्यादिविरुद्धानां ग्रहणम्| स्वभावविरुद्धं यथा- विषम्||८१||

Adhikarana 48 (82-83) · Śloka 83

तत्र यान्याहारमधिकृत्य भूयिष्ठमुपयुज्यन्ते तेषामेकदेशं वैरोधिकमधिकृत्योपदेक्ष्यामः- न मत्स्यान् पयसा सहाभ्यवहरेत्, उभयं ह्येतन्मधुरं मधुरविपाकं महाभिष्यन्दि शीतोष्णत्वाद्विरुद्धवीर्यं विरुद्धवीर्यत्वाच्छोणितप्रदूषणाय महाभिष्यन्दित्वान्मार्गोपरोधाय च||८२|| तन्निशम्यात्रेयवचनमनु भद्रकाप्योऽग्निवेशमुवाच- सर्वानेव मत्स्यान् पयसा सहाभ्यवहरेदन्यत्रैकस्माच्चिलिचिमात्, स पुनः शकली लोहितनयनः सर्वतो लोहितराजी रोहिताकारः प्रायो भूमौ चरति, तं चेत् पयसा सहाभ्यवहरेन्निःसंशयं शोणितजानां विबन्धजानां च व्याधीनामन्यतममथवा मरणं प्राप्नुयादिति||८३||

🔊 Audio coming soon

वैरोधिकमधिकृत्येति वैरोधिकमुद्दिश्य| शीतोष्णत्वादिति पयः शीतमुष्णवीर्याश्च मत्स्याः, शेषं मधुरत्वादि समानम्| एतच्च द्रव्यप्रभावादेव विरोधि| ‘स पुनः शकली’ इत्यादिना ‘नान्दिनिः’ इति ख्यातो मत्स्य उच्यते||८२-८३||

Adhikarana 49 (84) · Śloka 84

नेति भगवानात्रेयः- सर्वानेव मत्स्यान्न पयसा सहाभ्यवहरेद्विशेषतस्तु चिलिचिमं, स हि महाभिष्यन्दित्वात् स्थूललक्षणतरानेतान् व्याधीनुपजनयत्यामविषमुदीरयति च| ग्राम्यानूपौदकपिशितानि च मधुतिलगुडपयोमाषमूलकबिसैर्विरूढधान्यैर्वा नैकध्यमद्यात्, तन्मूलं हि बाधिर्यान्ध्यवेपथुजाड्यकलमूकतामैण्मिण्यमथवा मरणमाप्नोति| न पौष्करं रोहिणीकं शाकं कपोतान् वा सर्षपतैलभ्रष्टान्मधुपयोभ्यां सहाभ्यवहरेत्, तन्मूलं हि शोणिताभिष्यन्दधमनीप्रवि(ति)चयापस्मारशङ्खकगलगण्डरोहिणीनामन्यतमं प्राप्नोत्यथवा मरणमिति| न मूलकलशुनकृष्णगन्धार्जकसुमुखसुरसादीनि भक्षयित्वा पयः सेव्यं, कुष्ठाबाधभयात्| न जातुकशाकं न निकुचं पक्वं मधुपयोभ्यां सहोपयोज्यम्, एतद्धि मरणायाथवा बलवर्णतेजोवीर्योपरोधायालघुव्याधये षाण्ढ्याय चेति| तदेव निकुचं पक्वं न माषसूपगुडसर्पिर्भिः सहोपयोज्यं वैरोधिकत्वात्| तथाऽऽम्राम्रातकमातुलुङ्गनिकुचकरमर्दमोचदन्तशठबदरकोशाम्रभव्यजाम्बवकपित्थतिन्तिडीक- पारावताक्षोडपनसनालिकेरदाडिमामलकान्येवम्प्रकाराणि चान्यानि द्रव्याणि सर्वं चाम्लं द्रवमद्रवं च पयसा सह विरुद्धम्| तथा कङ्गुवनकमकुष्ठककुलत्थमाषनिष्पावाः पयसा सह विरुद्धाः| पद्मोत्तरिकाशाकं शार्करो मैरेयो मधु च सहोपयुक्तं विरुद्धं वातं चातिकोपयति| हारिद्रकः सर्षपतैलभृष्टो विरुद्धः पित्तं चातिकोपयति| पायसो मन्थानुपानो विरुद्धः श्लेष्माणं चातिकोपयति| उपोदिका तिलकल्कसिद्धा हेतुरतीसारस्य| बलाका वारुण्या सह कुल्माषैरपि विरुद्धा, सैव शूकरवसापरिभृष्टा सद्यो व्यापादयति| मयूरमांसमेरण्डसीसकावसक्तमेरण्डाग्निप्लुष्टमेरण्डतैलयुक्तं सद्यो व्यापादयति| हारिद्रकमांसं हारिद्रसीसकावसक्तं हारिद्राग्निप्लुष्टं सद्यो व्यापादयति; तदेव भस्मपांशुपरिध्वस्तं सक्षौद्रं सद्यो मरणाय| मत्स्यनिस्तालनसिद्धाः पिप्पल्यस्तथा काकमाची मधु च मरणाय| मधु चोष्णमुष्णार्तस्य च मधु मरणाय| मधुसर्पिषी समघृते, मधु वारि चान्तरिक्षं समघृतं, मधु पुष्करबीजं, मधु पीत्वोष्णोदकं, भल्लातकोष्णोदकं, तक्रसिद्धः कम्पिल्लकः, पर्युषिता काकमाची, अङ्गारशूल्यो भासश्चेति विरुद्धानि| इत्येतद्यथाप्रश्नमभिनिर्दिष्टं भवतीति||८४||

🔊 Audio coming soon

ग्राम्यपिशितादीनि मध्वादीनामन्यतरेणापि विरुद्धानि| कलमूकतेति कलमूकता अव्यक्तवचनता| पौष्करादीनां मधुपयोभ्यां सहाभ्यवहारो विरुद्धः, पौष्करं पुष्करत्रत्ररूपं शाकं, रोहिणी कटुरोहिणी| (धमनीप्रतिचयः सिराजग्रन्थिः |) जातुशाकं वंशपत्रिका| वैरोधिकत्वादित्यनेन प्रकरणलब्धस्यापि वैरोधिकत्वस्य पुनरभिधानं सामान्योक्तषाण्ढ्यादिव्याधिकर्तृतोपदर्शनार्थम्, एवमन्यत्रापि सामान्येऽपि वैरोधिकत्वमात्राभिधाने वक्तव्यम्| तथाऽम्लेत्यादौ अम्लग्रहणेन लब्धानाप्यम्लाम्रातकादीनामभिधानं विशेषविरोधसूचनार्थम्| सर्वग्रहणेनैव द्रवाद्रवाम्ले प्राप्ते पुनर्द्रवाद्रववचनं ‘सर्व’ शब्दस्य द्रवाद्रवाम्लकार्त्स्न्यार्थताप्रतिषेधार्थं, भवति हि प्रकरणादेकदेशेऽपि सर्वव्यपदेशः, यथा सर्वान् भोजयेदितिः, किंवा सर्वग्रहणमम्लविपाकानां व्रीह्यादीनां ग्रहणार्थम्| पयसेति तृतीययैव सहार्थे लब्धे पुनः सहेत्यभिधानं केवलाम्लादियुक्तस्यैव विरोधितोपदर्शनार्थं; तेन, अम्लपयःसंयोगे गुडादिसंयोगे सति विरुद्धत्वं न दुग्धाम्रादीनाम्| वनको वनकोद्रवः| पद्मोत्तरिका कुसुम्भः| शार्कर इति मैरेयविशेषणम्| वातं चातिकोपयतीति वचनेन पित्तकफावल्पं कोपयतीति बोधयति; एवं पित्तं चातिकोपयति कफं चातिकोपयतीत्येतयोरपि वाच्यम्| हारिद्रको ‘हरिताल’ इति ख्यातः पक्षी| बलाका वारुण्या सह विरुद्धा, तथा कुल्माषैश्च बलाका विरुद्धा| एरण्डसीसकावसक्तमिति एरण्डकाष्ठावसक्तं, सीसको हि भटित्रकरणकाष्ठमुच्यते| तदेवेति हारिद्रकमांसम्| मत्स्या निस्ताल्यन्ते पच्यन्ते यस्मिन् तन्मत्स्यनिस्तालनं; किंवा निस्तालनं वसा, जतूकर्णेऽप्युक्तं- “मत्स्यवसासिद्धाः पिप्पल्यः” इति| काकमाची मधु चेति संयोगविरुद्धम्| भासो गोष्ठकुक्कुटः||८४||

Adhikarana 50 (85) · Śloka 85

भवन्ति चात्र श्लोकाः- यत् किञ्चिद्दोषमास्राव्य न निर्हरति कायतः| आहारजातं तत् सर्वमहितायोपपद्यते||८५||

🔊 Audio coming soon

अनुक्तवैरोधिकसङ्ग्रहार्थमाह- यत् किञ्चिदित्यादि| आह्रियत इत्याहारो भेषजमपि| दोषमास्राव्येति दोषानुत्क्लिष्टरूपान् जनयित्वा न निर्हरतीति| अनेन वमनविरेचनद्रव्याणि निराकरोति, तानि हि दोषानास्राव्य निर्हरन्ति||८५||

Adhikarana 51 (86-101) · Śloka 101

यच्चापि देशकालाग्निमात्रासात्म्यानिलादिभिः| संस्कारतो वीर्यतश्च कोष्ठावस्थाक्रमैरपि||८६|| परिहारोपचाराभ्यां पाकात् संयोगतोऽपि च| विरुद्धं तच्च न हितं हृत्सम्पद्विधिभिश्च यत्||८७|| विरुद्धं देशतस्तावद्रूक्षतीक्ष्णादि धन्वनि| आनूपे स्निग्धशीतादि भेषजं यन्निषेव्यते||८८|| कालतोऽपि विरुद्धं यच्छीतरूक्षादिसेवनम्| शीते काले, तथोष्णे च कटुकोष्णादिसेवनम्||८९|| विरुद्धमनले तद्वदन्नपानं चतुर्विधे| मधुसर्पिः समधृतं मात्रया तद्विरुध्यते||९०|| कटुकोष्णादिसात्म्यस्य स्वादुशीतादिसेवनम्| यत्तत् सात्म्यविरुद्धं तु विरुद्धं त्वनिलादिभिः||९१|| या समानगुणाभ्यासविरुद्धान्नौषधक्रिया| संस्कारतो विरुद्धं तद्यद्भोज्यं विषवद्भवेत्||९२|| एरण्डसीसकासक्तं शिखिमांसं यथैव हि| विरुद्धं वीर्यतो ज्ञेयं वीर्यतः शीतलात्मकम्||९३|| तत् संयोज्योष्णवीर्येण द्रव्येण सह सेव्यते| क्रूरकोष्ठस्य चात्यल्पं मन्दवीर्यमभेदनम्||९४|| मृदकोष्ठस्य गुरु च भेदनीयं तथा बहु| एतत् कोष्ठविरुद्धं तु, विरुद्धं स्यादवस्थया||९५|| श्रमव्यवायव्यायामसक्तस्यानिलकोपनम्| निद्रालसस्यालसस्य भोजनं श्लेष्मकोपनम्||९६|| यच्चानुत्सृज्य विण्मूत्रं भुङ्क्ते यश्चाबुभुक्षितः| तच्च क्रमविरुद्धं स्याद्यच्चातिक्षुद्वशानुगः||९७|| परिहारविरुद्धं तु वराहादीन्निषेव्य यत्| सेवेतोष्णं घृतादींश्च पीत्वा शीतं निषेवते||९८|| विरुद्धं पाकतश्चापि दुष्टदुर्दारुसाधितम्| अपक्वतण्डुलात्यर्थपक्वदग्धं च यद्भवेत्| संयोगतो विरुद्धं तद्यथाऽम्लं पयसा सह||९९|| अमनोरुचितं यच्च हृद्विरुद्धं तदुच्यते| सम्पद्विरुद्धं तद्विद्यादसञ्जातरसं तु यत्||१००|| अतिक्रान्तरसं वाऽपि विपन्नरसमेव वा| ज्ञेयं विधिविरुद्धं तु भुज्यते निभृते न यत्| तदेवंविधमन्नं स्याद्विरुद्धमुपयोजितम्||१०१||

🔊 Audio coming soon

यच्चापि देशकालाग्नीत्यादिग्रन्थं केचित् पठन्ति, स च व्यक्त एव||८६-१०१||

Adhikarana 52 (102-103) · Śloka 103

षाण्ढ्यान्ध्यवीसर्पदकोदराणां विस्फोटकोन्मादभगन्दराणाम्| मूर्च्छामदाध्मानगलग्रहाणां पाण्ड्वामयस्यामविषस्य चैव||१०२|| किलासकुष्ठग्रहणीगदानां शोथाम्लपित्तज्वरपीनसानाम् | सन्तानदोषस्य तथैव मृत्योर्विरुद्धमन्नं प्रवदन्ति हेतुम्||१०३||

🔊 Audio coming soon

षाण्ढ्यं नपुंसकता| सन्तानदोषो मृतवत्सत्वादिः| एतच्च वैरोधिककथनं विशेषवचनेन बाध्यते; तेन लशुनस्य क्षीरेण पानं क्वचिन्न विरोधि; यदुक्तं- “साधयेच्छुद्धशुष्कस्य लशुनस्य चतुष्पलम्| क्षीरोदकेऽष्टगुणिते क्षीरशेषं च पाययेत्” (चि.अ.५), तथा “मूलकस्वरसं क्षीरं” इत्यादिप्रयोगेषून्नेयम्| किंवा, अनेकद्रव्यसंयोगादत्र विरोधिनामविरोधः; विरोधिमात्रसंयोग एव विरोधी भवति| यतु मधुन उष्णेन वमनेन संयुक्तस्य सत्यपि मदनफलादिद्रव्यसंयोगेऽविरोधार्थमुक्तमपक्वगमनादि, तन्मधुनो द्रव्यान्तरसंयोगेऽप्युष्णसम्बन्धत्वे विरोधित्वोपदर्शनार्थं; यतो विषान्वयं मधु, विषस्य चोष्णविरोधि| लशुनादीनां तु द्रव्यान्तरासंयोगे सत्येव मेलको विरुद्ध इति शास्त्रवचनादुन्नीयते||१०२-१०३||

Adhikarana 53 (104-106) · Śloka 106

एषां खल्वपरेषां च वैरोधिकनिमित्तानां व्याधीनामिमे भावाः प्रतिकारा भवन्ति| तद्यथा- वमनं विरेचनं च, तद्विरोधिनां च द्रव्याणां संशमनार्थमुपयोगः, तथाविधैश्च द्रव्यैः पूर्वमभिसंस्कारः शरीरस्येति||१०४|| भवतश्चात्र- विरुद्धाशनजान् रोगान् प्रतिहन्ति विवेचनम्| वमनं शमनं चैव पूर्वं वा हितसेवनम्||१०५|| सात्म्यतोऽल्पतया वाऽपि दीप्ताग्नेस्तरुणस्य च| स्निग्धव्यायामबलिनां विरुद्धं वितथं भवेत्||१०६||

🔊 Audio coming soon

तद्विरोधिनामिति षाढ्यादिहराणाम्| तथाविधैरिति विरुद्धाहारजव्याधिविरुद्धैः| अभिसंस्कार इति सततोपयोगेन शरीरभावनम्| किंवा तथाविधैरिति रसायनप्रयोगैः| एतच्चानागताबाधचिकित्सितं ज्ञेयम्||१०४-१०६||

Adhikarana 54 (107-113) · Śloka 113

तत्र श्लोकाः- मतिरासीन्महर्षीणां या या रसविनिश्चये| द्रव्याणि गुणकर्मभ्यां द्रव्यसङ्ख्या रसाश्रया||१०७|| कारणं रससङ्ख्याया रसानुरसलक्षणम्| परादीनां गुणानां च लक्षणानि पृथक्पृथक्||१०८|| पञ्चात्मकानां षट्त्वं च रसानां येन हेतुना| ऊर्ध्वानुलोमभाजश्च यद्गुणातिशयाद्रसाः||१०९|| षण्णां रसानां षट्त्वे च सविभक्ता विभक्तयः| उद्देशश्चापवादश्च द्रव्याणां गुणकर्मणि||११०|| प्रवरावरमध्यत्वं रसानां गौरवादिषु| पाकप्रभावयोर्लिङ्गं वीर्यसङ्ख्याविनिश्चयः||१११|| षण्णामास्वाद्यमानानां रसानां यत् स्वलक्षणम्| यद्यद्विरुध्यते यस्माद्येन यत्कारि चैव यत्||११२|| वैरोधिकनिमित्तानां व्याधीनामौषधं च यत्| आत्रेयभद्रकाप्यीये तत् सर्वमवदन्मुनिः||११३||

🔊 Audio coming soon

सङ्ग्रहे द्रव्यसङ्ख्या रसाश्रया इति ‘भेदश्चैषां’ इत्यादिना; रससङ्ख्या हि परमार्थतो द्रव्यसङ्ख्यैव, निर्गुणत्वाद्रसानामिति भावः| कारणं रससङ्ख्याया इति ‘रसानां तत्र योग्यत्वात्’ इत्यादिना| विभक्तयो भेदः ‘तत्र मधुर’ इत्यादिना| उद्देशो द्रव्याणां ‘शीतं वीर्येण’ इत्यादिना, अपवादो द्रव्याणां ‘मधुरं किञ्चित्’ इत्यादिना||१०७-११३||

Adhikarana puShpikA · Śloka 26

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने आत्रेयभद्रकाप्यीयो नाम षड्विंशोऽध्यायः||२६||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने अन्नपानचतुष्के आत्रेयभद्रकाप्यीयो नाम षड्विंशतितमोऽध्यायः||२६||