Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

25. yajjaḥpuruṣīyō'dhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो यज्जःपुरुषीयमध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

य इमे योजनाचतुष्के षडुपक्रमा अभिहितास्तेऽन्नपानापेक्षयैव व्याधिहरणे समर्थाः, अतोऽन्नपानचतुष्कोऽभिधीयते| तत्रापि सङ्क्षेपेणान्नपानगुणाभिधायको यज्जःपुरुषीयोऽभिधीयते| तत्रादौ पुरुषव्याधिकारणनिश्चायकप्रकरणं त्वाहारगुणप्रश्नावतारार्थं तथा पूर्वोक्तषडुपक्रमणीयरोगकारणज्ञानार्थं च ‘यज्जःपुरुष’ इति प्रश्नं प्राधान्येनाधिकृत्य कृतोऽध्यायो यज्जःपुरुषीयो ज्ञेयः| यद्यपि ‘पुरुषो यज्जः’ इति प्रश्नक्रमः, तथाऽपि प्रश्नार्थोऽत्र गृहीतः||१-२||

Adhikarana 2 (3-4) · Śloka 4

पुरा प्रत्यक्षधर्माणं भगवन्तं पुनर्वसुम्| समेतानां महर्षीणां प्रादुरासीदियं कथा ||३|| आत्मेन्द्रियमनोर्थानां योऽयं पुरुषसञ्ज्ञकः| राशिरस्यामयानां च प्रागुत्पत्तिविनिश्चये||४||

🔊 Audio coming soon

प्रत्यक्षधर्मत्वं तपःप्रभावात्| इयमिति अग्रे वक्ष्यमाणा| कथा तत्त्वजिज्ञासार्थमन्योन्यपृच्छा| राशिः मेलकः, आत्मेन्द्रियमनोऽर्थसमुदाय इत्यर्थः| अस्य राशेरामयानां चोत्पत्तिविनिश्चये उत्पत्तिविनिश्चयविषयिणी कथा प्रादुरासीदिति सम्बन्धः||३-४||

Adhikarana 3 (5-6) · Śloka 6

तदन्तरं काशिपतिर्वामको वाक्यमर्थवित् | व्याजहारर्षिसमितिमुपसृत्याभिवाद्य च||५|| किन्नु भोः पुरुषो यज्जस्तज्जास्तस्यामयाः स्मृताः| न वेत्युक्ते नरेन्द्रेण प्रोवाचर्षीन् पुनर्वसुः||६||

🔊 Audio coming soon

तामेव परस्परप्रश्नरूपां कथां दर्शयति- तदन्तरमित्यादि| अन्तरशब्दः कालवचनः; यथा- “अपस्माराय कुर्वन्ति वेगं किञ्चिदथान्तरम्” (चि. १०) इति; किञ्चित्कालमित्यर्थः; तेन तदन्तरमिति कथारम्भकाल इत्यर्थः| काशी वाराणसी तस्याः पतिः, तेषां बहुत्वाद्विशेषणं- वामक इति| यस्माज्जातो यज्जः; तत एव पुरुषजनकात् कारणाज्जातास्तज्जाः| न वेति अन्यतः पुरुषो जायतेऽन्यतश्च तस्य रोगा इत्यर्थः| नरेन्द्रेणेति काशिपतिनाम्ना राजर्षिणा||५-६||

Adhikarana 4 (7) · Śloka 7

सर्व एवामितज्ञानविज्ञानच्छिन्नसंशयाः| भवन्तश्छेत्तुमर्हन्ति काशिराजस्य संशयम्||७||

🔊 Audio coming soon

अमिताभ्यां ज्ञानविज्ञानाभ्यां छिन्नः संशयो येषां ते तथा| “भवन्तश्छेत्तुमर्हन्ति काशिराजस्य संशयम्” इति पाठः सुगमः| “भवन्तोऽर्हन्ति नश्छेत्तुं काशिराजे च संशयम्” इति तु पाठे, नोऽस्माकं काशिराजेऽस्मन्मध्यगत इत्यर्थः| एतेन स्वपक्षे काशिराजे न व्यामोहवचनं वक्तव्यमिति शिक्षयति| चकारेणान्येषां च ऋषीणां संशयं समुच्चिनोति| अन्ये तु, नोऽस्माकं संशयं काशिराजे च संशयमिति व्याख्यानयन्ति| संशयद्वये चैकोऽत्र ऋषीणामात्मेन्द्रियेत्यादिना श्लोकेन दर्शितः संशयः, स च पुरुषस्यामयानां च प्रागुत्पत्तिं प्रथमोत्पत्तिं प्रतीति व्याख्यानयन्ति; द्वितीयस्तु काशिपतेर्यथोक्त एव||७||

Adhikarana 5 (8-9) · Śloka 9

पारीक्षिस्तत्परीक्ष्याग्रे मौद्गल्यो वाक्यमब्रवीत्| आत्मजः पुरुषो रोगाश्चात्मजाः कारणं हि सः||८|| स चिनोत्युपभुङ्क्ते च कर्म कर्मफलानि च| नह्यृते चेतनाधातोः प्रवृत्तिः सुखदुःखयोः||९||

🔊 Audio coming soon

आत्मजः पुरुष इत्यादिप्रश्नद्वयस्योत्तरं; तत्र पूर्वप्रश्नस्य पुरुषस्यामयानां च कुत उत्पत्तिरित्येवंरूपस्य प्रश्नस्योत्तरं आत्मजः पुरुषो रोगाश्चेति, काशिपतिप्रश्नमात्रेऽप्युत्तरमेतत् यत एवात्मतः पुरुषो जायते तत एव रोगा इत्यर्थरूपमेव | प्रश्नोत्तरता त्वस्य ग्रन्थस्य सुगमैव| कारणत्वे हेतुमाह- स चिनोतीत्यादि| चिनोति कर्म, कर्मफलानि च शरीरारोग्यविकारादीनि भुङ्क्त इति योजना| कर्मसहायस्यात्मनः शरीरविकारादिकर्तृत्वात् कारणत्वमिति भावः| एतदेव व्यतिरेकेणाह- नह्यृत इत्यादि| चेतनाधातुः आत्मा| सुखदुःखयोरिति सुखदुःखसाधनयोः नीरुक्शरीरविकारयोरित्यर्थः||८-९||

Adhikarana 6 (10-13) · Śloka 13

शरलोमा तु नेत्याह न ह्यात्माऽऽत्मानमात्मना| योजयेद्व्याधिभिर्दुःखैर्दुःखद्वेषी कदाचन||१०|| रजस्तमोभ्यां तु मनः परीतं सत्त्वसञ्ज्ञकम्| शरीरस्य समुत्पत्तौ विकाराणां च कारणम्||११|| वार्योविदस्तु नेत्याह न ह्येकं कारणं मनः | नर्ते शरीराच्छारीररोगा न मनसः स्थितिः||१२|| रसजानि तु भूतानि व्याधयश्च पृथग्विधाः| आपो हि रसवत्यस्ताः स्मृता निर्वृत्तिहेतवः||१३||

🔊 Audio coming soon

मन इत्युक्ते मन्यतेऽनेनेति व्युत्पत्त्याऽऽत्माऽपि शङ्क्येत, तदुक्तं- सत्त्वसञ्ज्ञकमिति| नर्ते शरीराच्छारीरा वातादिजन्याः शोषादयस्तिष्ठन्ति; तथा न मनसः स्थितिः, ऋते शरीरादिति योज्यम्| रजस्तमःपरीतस्य हि मनसो नित्यं शरीर एव स्थितिः; यत्तु निर्दोषं मनस्तत्तु न पुरुषस्य नापि च व्याधेः कारणमिति भावः| रसजानीत्यादौ स्मृता निर्वृत्तिहेतव इति व्याधिपुरुषयोः| एतेन व्याधिपुरुषजनकरसकारणत्वेनापः कारणकारणतया पुरुषविकारयोः कारणं भवन्ति| किंवा आपो निर्वृत्तिहेतव इति रसानां; किंवा यस्माद्रसवत्य आपस्तस्मात्ता निर्वृत्तिहेतव इति योजना||१०-१३||

Adhikarana 7 (14-15) · Śloka 15

हिरण्याक्षस्तु नेत्याह न ह्यात्मा रसजः स्मृतः| नातीन्द्रियं मनः सन्ति रोगाः शब्दादिजास्तथा||१४|| षड्धातुजस्तु पुरुषो रोगाः षड्धातुजास्तथा| राशिः षड्धातुजो ह्येष साङ्ख्यैराद्यैः प्रकीर्तितः ||१५||

🔊 Audio coming soon

नह्यात्मेत्यादौ नातीन्द्रियं मनो रसजं स्मृतमिति योजना; यस्मादतीन्द्रियं मन आत्मा चातीन्द्रियः, तस्मान्न रसजौ; रसाद्धि जायमानं कारणगुणानुविधानादैन्द्रियकं स्यादित्यर्थः| हेत्वन्तरमाह- सन्तीत्यादि| अहितशब्दरूपादिजन्ये विकारे न रसः कारणमित्यर्थः| आत्मा पृथिव्यादीनि च पञ्च षड् धातवः| यदुक्तं- “खादयश्चेतनाषष्ठा धातवः पुरुषः स्मृतः” (शा. १) इति||१४-१५||

Adhikarana 8 (16-17) · Śloka 17

तथा ब्रुवाणं कुशिकमाह तन्नेति कौशिकः| कस्मान्मातापितृभ्यां हि विना षड्धातुजो भवेत्||१६|| पुरुषः पुरुषाद्गौर्गोरश्वादश्वः प्रजायते| पित्र्या मेहादयश्चोक्ता रोगास्तावत्र कारणम्||१७||

🔊 Audio coming soon

कुशिक इति हिरण्याक्षस्य नाम| कस्मादिति आक्षेपे| मातापित्रनपेक्षित्वे सर्वप्राणिषु षड्धातुसमुदायस्य विद्यमानत्वेन नरगोऽश्वादिभेदो न स्यादिति भावः| हेत्वन्तरमाह- पित्र्या मेहादयश्चोक्ता इति| पितृतोऽपत्यं गच्छन्तीति पित्र्याः; आदिशब्देन कुष्ठार्शःप्रभृतयो ग्राह्याः| स्वपक्षं दर्शयति- तावत्र कारणमिति; तौ मातापितरौ||१६-१७||

Adhikarana 9 (18-19) · Śloka 19

भद्रकाप्यस्तु नेत्याह नह्यन्धोऽन्धात् प्रजायते| मातापित्रोरपि च ते प्रागुत्पत्तिर्न युज्यते||१८|| कर्मजस्तु मतो जन्तुः कर्मजास्तस्य चामयाः| नह्यृते कर्मणो जन्म रोगाणां पुरुषस्य वा||१९||

🔊 Audio coming soon

न ह्यन्ध इत्यादि| मातापितृकारणत्वेऽन्धेन जातोऽन्धः स्यादित्यर्थः| हेत्वन्तरमाह- मातापित्रोरपीत्यादि| ते तव मातापितृकारणवादिनः, प्रागिति सर्गादौ मातापित्रोरुत्पत्तिर्न स्यात्; सर्गादौ निःशरीरिणि आदिभूतयोर्मातापित्रोरभावादुत्पादो नोपपन्न इति भावः||१८-१९||

Adhikarana 10 (20-21) · Śloka 21

भरद्वाजस्तु नेत्याह कर्ता पूर्वं हि कर्मणः| दृष्टं न चाकृतं कर्म यस्य स्यात् पुरुषः फलम्||२०|| भावहेतुः स्वभावस्तु व्याधीनां पुरुषस्य च| खरद्रवचलोष्णत्वं तेजोन्तानां यथैव हि||२१||

🔊 Audio coming soon

कर्ता पूर्वं हीत्यादि| कर्मणः पूर्वं कर्ता ‘भवति’ इति शेषः| येन कर्मणा स पुरुषः कर्तव्यः, तस्य कर्मणः पुरुषपूर्वभावित्वात् कारणत्वं स्वीकर्तव्यं; ततश्च स चेद्विना कर्म पुरुषोऽभूत् , तत् कथं पुरुषस्य कर्म कारणमिति भावः| अथ शङ्क्यते अकृतमेवादौ पुरुषजनकं कर्म भविष्यतीत्याह- दृष्टं न चेत्यादि| अकृतं कर्म न दृष्टं, प्रमाणेन नोपलब्धमित्यर्थः| यस्माच्छुभाशुभकर्म क्रियाजन्यमेव धर्माधर्मरूपं सर्वं भवतीति भावः| भावहेतुः उत्पत्तिहेतुः| स्वाभाविकत्वे दृष्टान्तमाह- खरेत्यादि| तेजोऽन्तानामिति “खरद्रवचलोष्णत्वं भूजलानिलतेजसाम्” (शा. १) इत्यादिवक्ष्यमाणक्रमेण भवेत्||२०-२१||

Adhikarana 11 (22-25) · Śloka 25

काङ्कायनस्तु नेत्याह न ह्यारम्भफलं भवेत्| भवेत् स्वभावाद्भावानामसिद्धिः सिद्धिरेव वा||२२|| स्रष्टा त्वमितसङ्कल्पो ब्रह्मापत्यं प्रजापतिः| चेतनाचेतनस्यास्य जगतः सुखदुःखयोः||२३|| तन्नेति भिक्षुरात्रेयो न ह्यपत्यं प्रजापतिः| प्रजाहितैषी सततं दुःखैर्युञ्ज्यादसाधुवत्||२४|| कालजस्त्वेव पुरुषः कालजास्तस्य चामयाः| जगत् कालवशं सर्वं कालः सर्वत्र कारणम्||२५||

🔊 Audio coming soon

स्वभावादित्यत्र आदौ ‘यदि’ इत्यध्याहर्तव्यं; तेन यदि स्वभावादेव भावानां विकारशरीरादीनां सिद्ध्यसिद्धी भवतः, तदा आरम्भफलं न भवेत्, स्वाभाविकत्वाद्भावानां; य इमे लोकशास्त्रसिद्धा यागकृष्यध्ययनाद्यारम्भास्ते निष्प्रयोजना भवेयुः, अकारणत्वादित्यर्थः | स्रष्टेत्यादौ जगतः सुखदुःखयोश्च स्रष्टा प्रजापतिरिति योजना| स च ब्रह्मणोऽपत्यम्| अमितसङ्कल्प इति युगपदपरिमितस्थावरजङ्गमरूपकार्यकर्तृत्वेनापरिमिततज्जननसङ्कल्प इत्यर्थः| असाधुवदिति असाधुः अपत्यद्रोहकारी||२२-२५||

Adhikarana 12 (26-29) · Śloka 29

तथर्षीणां विवदतामुवाचेदं पुनर्वसुः| मैवं वोचत तत्त्वं हि दुष्प्रापं पक्षसंश्रयात्||२६|| वादान् सप्रतिवादान् हि वदन्तो निश्चितानिव| पक्षान्तं नैव गच्छन्ति तिलपीडकवद्गतौ||२७|| मुक्त्वैवं वादसङ्घट्टमध्यात्ममनुचिन्त्यताम्| नाविधूते तमःस्कन्धे ज्ञेये ज्ञानं प्रवर्तते||२८|| येषामेव हि भावानां सम्पत् सञ्जनयेन्नरम्| तेषामेव विपद्व्याधीन्विविधान्समुदीरयेत्||२९||

🔊 Audio coming soon

पक्षसंश्रयादिति रागतः पक्षसङ्ग्रहात्| निश्चितानिवेति परमार्थतोऽनिश्चिता एव, परं पक्षरागाद्बुद्धिप्रकर्षान्निश्चिता इवाभिधीयन्ते पक्षा इत्यर्थः| पक्षान्तमिति सम्यगर्थावधारणरूपं पक्षान्तम्| तिलपीडकस्तैलार्थं यन्त्रोपरि स्थितो मनुष्यः; तिलपीडको यथा गतौ गमने सति, गम्यदेशाप्राप्त्या चान्तं नासादयति, पुनस्तत्रैव भ्रमणात्; तथा पक्षसंश्रयाद्वादिनोऽपीत्यर्थः| सङ्घट्टः अन्योन्यपीडको मेलकः| अध्यात्मं तत्त्वम्| स्कन्धः समूहः| पक्षरागश्चेह तत्त्वज्ञानप्रतिबन्धकत्वेन तमस्कन्ध उच्यते| सिद्धान्तमाह- येषामित्यादि| येषामिति यज्जातीयानां, ते च महाभूतादयः| तेन महाभूतत्वेनैव वातादीनां ग्रहणम्| सम्पदिति प्रशस्तगुणता| नरमिति संयोगिपुरुषम्| विपदिति वैगुण्यम्| समुदीरयेदिति जनयेत्| एतेषां च ऋषिवादानां कथनं पूर्वपक्षसिद्धान्तश्रवणेन शिष्यसन्देहनिवृत्त्यर्थम् ||२६-२९||

Adhikarana 13 (30-32) · Śloka 32

अथात्रेयस्य भगवतो वचनमनुनिशम्य पुनरेव वामकः काशिपतिरुवाच भगवन्तमात्रेयं- भगवन्! सम्पन्निमित्तजस्य पुरुषस्य विपन्निमित्तजानां च रोगाणां किमभिवृद्धिकारणमिति||३०|| तमुवाच भगवानात्रेयः- हिताहारोपयोग एक एव पुरुषवृद्धिकरो भवति, अहिताहारोपयोगः पुनर्व्याधिनिमित्तमिति ||३१|| एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच- कथमिह भगवन्! हिताहितानामाहारजातानां लक्षणमनपवादमभिजानीमहे; हितसमाख्यातानामाहारजातानामहितसमाख्यातानां च मात्राकालक्रियाभूमिदेहदोषपुरुषावस्थान्तरेषु विपरीतकारित्वमुपलभामह इति||३२||

🔊 Audio coming soon

हिताहारोपयोग एक एवेत्यवधारणेनास्य प्राधान्यं दर्शयति नान्यप्रतिषेधम्, आचारस्य स्वप्नादेस्तथा शब्दादीनामपि कारणत्वेनोक्तत्वात्| व्याधिनिमित्तमिति व्याध्यभिवृद्धिनिमित्तं मध्यपदलोपाज्ज्ञेयम्, अभिवृद्धिकारणस्यैव पृष्टत्वात्; तथाऽहिताहारस्य यद्व्याधिनिमित्तत्वं, तस्य ‘तेषामेव विपद्व्याधीन् विविधान् समुदीरयेत्’ इत्यनेनैवोक्तत्वात्| किंवा व्याधिनिमित्तशब्देन सामान्येन जनको वर्धकश्च हेतुरुच्यते| अनपवादमिति अव्यभिचारि| हिताहिताहारदुर्ज्ञानताहेतुमाह- हितसमाख्यातानामित्यादि| विपरीतकारित्वमिति पथ्यस्यापथ्यत्वं तथा अपथ्यस्य पथ्यत्वं मात्रादिवशाद्भवति| तत्र पथ्या रक्तशाल्यादयोऽतिमात्रा हीनमात्रा वा मात्रादोषादपथ्या भवन्ति| तथा कालवशात्त एव रक्तशाल्यादयो लघुत्वाद्बलवदग्नीनां हेमन्ते न हिताः; कालशब्देन चेह नित्यग एव कालो गृह्यते, आवस्थिकस्य पुरषावस्थाशब्देन गृहीतत्वात्| क्रिया तु संस्करणं, तेन च रक्तशालिरसम्यक्स्विन्नाप्रस्रुतत्वादिना ओदनदोषेणाहितो भवति, तथा स एव भूमिसम्बन्धादानूपदेशजः सन्नपथ्यो भवति| तथा देहापेक्षया मेदस्विनो रक्तशालिर्लघुतया न हितो भवति, तदुक्तं- “गुरु चातर्पणं चेष्टं स्थूलानां कर्शनं प्रति” (सू. २१) इति| तथा स एव दोषे वायावहितः, दोषशब्देन व्याधिरपि ग्रहीतव्यः| तथा- पुरुषस्य बाल्यावस्थायां श्लेष्मप्रधानायां तिक्तादि पथ्यं, तत्तु वार्धक्ये वृद्धवाते न पथ्यम्| अवस्थान्तरशब्दश्च मात्रादिभिः प्रत्येकं सम्बध्यते| एवमहितस्यापि मात्रादिपरिग्रहेण हितत्वमुन्नेतव्यम्||३०-३२||

Adhikarana 14 (33-34) · Śloka 34

तमुवाच भगवानात्रेयः- यदाहारजातमग्निवेश! समांश्चैव शरीरधातून् प्रकृतौ स्थापयति विषमांश्च समीकरोतीत्येतद्धितं विद्धि, विपरीतं त्वहितमिति; इत्येतद्धिताहितलक्षणमनपवादं भवति||३३|| एवंवादिनं च भगवन्तमात्रेयमग्निवेश उवाच- भगवन्! न त्वेतदेवमुपदिष्टं भूयिष्ठकल्पाः सर्वभिषजो विज्ञास्यन्ति||३४||

🔊 Audio coming soon

सिद्धान्तयति- यदाहारजातमित्यादि| अनेन च ग्रन्थेन हिताहितत्वं न स्वरूपेण भावानां, किन्तु मात्रादिसव्यपेक्षमिति दर्शितं भवति| न त्वेतदित्यादि| एतदिति हिताहितम्| एवमुपदिष्टमिति यदाहारजातमित्यादिलक्षणोद्दिष्टम्| विज्ञास्यन्ति न त्विति सम्बन्धः| एतस्मिन् हिताहितलक्षणे मात्राद्यवस्थान्तरज्ञानं विना न हितत्वमहितत्वं वा हितानां रक्तशाल्यादीनामहितानां यवकादीनां च ज्ञातुं पार्यते, मात्राद्यवस्थायाश्च दुर्ज्ञानत्वेन सर्ववैद्या ज्ञातुमक्षमा इति भावः||३३-३४||

Adhikarana 15 (35) · Śloka 35

तमुवाच भगवानात्रेयः- येषां हि विदितमाहारतत्त्वमग्निवेश! गुणतो द्रव्यतः कर्मतः सर्वावयवशश्च मात्रादयो भावाः, त एतदेवमुपदिष्टं विज्ञातुमुत्सहन्ते| यथा तु खल्वेतदुपदिष्टं भूयिष्ठकल्पाः सर्वभिषजो विज्ञास्यन्ति, तथैतदुपदेक्ष्यामो मात्रादीन् भावाननुदाहरन्तः; तेषां हि बहुविधविकल्पा भवन्ति| आहारविधिविशेषांस्तु खलु लक्षणतश्चावयवतश्चानुव्याख्यास्यामः||३५||

🔊 Audio coming soon

एतदेवासर्वभिषग्ज्ञेयत्वं लक्षणस्याह- येषां हीत्यादि| गुणत इति इह प्रकरणे गुरुलघुत्वादिगुणतः| द्रव्यत इति कारणतः, यथा- इदमाप्यमिदमाग्नेयमित्यादि; किंवा द्रव्यत इत्याहारद्रव्याद्रक्तशाल्यादेः| कर्मतः कार्यतः; यथा- इदं जीवनमिदं बृंहणमित्यादि| सर्वावयवशश्चेति रसवीर्यविपाकप्रभावेभ्यः| मात्रादयश्चानन्तरोक्ताः पुरुषान्ता ज्ञेयाः| आहारतत्त्वं च गुणादिभ्यो विदितं मात्रादयश्च विदिता इति योजना| किंवा गुणशब्देन रसवीर्यादीनामपि ग्रहणं, सर्वावयवशश्चेति मात्रादिज्ञानेन सम्बध्यते| यथेत्यादौ एतदिति हिताहितम्| भूयिष्ठकल्पा नानाप्रकारा उत्तमाधममध्यमा इत्यर्थः, भूयिष्ठकल्पा इति कृत्वा सर्वग्रहणमुत्तमादीनामेव श्रेष्ठश्रेष्ठतरश्रेष्ठतमादिभेदग्रहणार्थं; किंवा शल्याद्यष्टाङ्गाध्यायिवैद्यग्रहणार्थं ; किंवा भूयिष्ठकल्पा इति विज्ञातभूरिहिताहितोदाहरणाः; अग्र्याधिकारे हि बहु हिताहितं वक्तव्यं, तच्चाल्पबुद्धीनां व्यवहाराय भवति, प्रकृष्टबुद्धीनां चानुक्तज्ञानायेति भावः| लक्षणत इति लक्षणमाहारत्वं स्थावरजङ्गमात्मकत्वादि, एतच्च ‘तद्यथा- आहारत्वं’ इत्यादिना ‘करणबाहुल्यात्’ इत्यन्तेन वक्ष्यति| अवयवत इति एकदेशतः, एकदेशाश्च लोहितशाल्यादयः; ते तु ‘तद्यथा लोहितशालयः’ इत्यादिना वक्ष्यन्ते||३५||

Adhikarana 16 (36) · Śloka 36

तद्यथा- आहारत्वमाहारस्यैकविधमर्थाभेदात्; स पुनर्द्वियोनिः, स्थावरजङ्गमात्मकत्वात्; द्विविधप्रभावः, हिताहितोदर्कविशेषात्; चतुर्विधोपयोगः, पानाशनभक्ष्यलेह्योपयोगात्; षडास्वादः, रसभेदतः षड्विधत्वात्; विंशतिगुणः, गुरुलघुशीतोष्णस्निग्धरूक्षमन्दतीक्ष्णस्थिरसरमृदुकठिन- विशदपिच्छिलश्लक्ष्णखरसूक्ष्मस्थूलसान्द्रद्रवानुगमात्; अपरिसङ्ख्येयविकल्पः, द्रव्यसंयोगकरणबाहुल्यात्||३६||

🔊 Audio coming soon

अर्थाभेदादिति अभ्यवह्रियमाणत्वार्थाभेदात्| द्वियोनिरिति द्विप्रभवः| हितरूपोऽहितरूपो वोदर्को हिताहितोदर्कः, स एव विशेषः; उदर्क उत्तरकालीनं फलम्| गुरुलाघवादयो युग्माः परस्परविरोधिनो ज्ञेयाः; अनुगमादिति अनुगतत्वात्| आत्रेयभद्रकाप्यीये (सू. २६) वक्ष्यमाणाः परत्वादयो गुणा न तथाऽत्रोपकारका इति नेहोच्यन्ते| ये तु तत्र संयोगकरणे आहारविधौ भूर्युपयोगिनी, ते बहुविधत्वेन त्वपरिसङ्ख्येयविकल्पहेतुत्वेनैव निवेशिते| परिमाणं तु मात्रा, सा चेहानुदाहरणीयत्वेन प्रतिज्ञाता ‘मात्रादीन् भावाननुदाहरन्तः’ इति वचनेन| द्रव्यसंयोगकरणबाहुल्यादिति द्रव्यं शूकधान्यादिकं, संयोग आहारद्रव्याणां मेलकः, करणं संस्कारः||३६||

Adhikarana 17 (37) · Śloka 37

तस्य खलु ये ये विकारावयवा भूयिष्ठमुपयुज्यन्ते, भूयिष्ठकल्पानां च मनुष्याणां प्रकृत्यैव हिततमाश्चाहिततमाश्च, तांस्तान् यथावदुपदेक्ष्यामः||३७||

🔊 Audio coming soon

विकारावयवा इति विकारैकदेशाः| भूयिष्ठकल्पानामिति किञ्चिन्न्यूनबहूनां , कल्पशब्दो ह्ययमीषदसमाप्त्यर्थः , यथाराजकल्प इति| एतेन प्रायशो बहूनां ये हिता अहिताश्च त उच्यन्त इत्यर्थः| अन्ये तु भूयिष्ठकल्पानामिति समानधातुप्रकृतीनामिति ब्रुवते| प्रकृत्येति न संयोगकरणादिना, किन्तु स्वभावेन||३७||

Adhikarana 18 (38) · Śloka 38

तद्यथा- लोहितशालयः शूकधान्यानां पथ्यतमत्वे श्रेष्ठतमा भवन्ति, मुद्गाः शमीधान्यानाम्, आन्तरिक्षमुदकानां, सैन्धवं लवणानां, जीवन्तीशाकं शाकानाम्, ऐणेयं मृगमांसानां, लावः पक्षिणां, गोधा बिलेशयानां, रोहितो मत्स्यानां, गव्यं सर्पिः सर्पिषां, गोक्षीरं क्षीराणां, तिलतैलं स्थावरजातानां स्नेहानां, वराहवसा आनूपमृगवसानां, चुलुकीवसा मत्स्यवसानां, पाकहंसवसा जलचरविहङ्गवसानां, कुक्कुटवसा विष्किरशकुनिवसानां, अजमेदः शाखादमेदसां, शृङ्गवेरं कन्दानां, मृद्वीका फलानां, शर्करेक्षुविकाराणाम्, इति प्रकृत्यैव हिततमानामाहारविकाराणां प्राधान्यतो द्रव्याणि व्याख्यातानि भवन्ति||३८||

🔊 Audio coming soon

लोहितशाली रक्तशालिः| शूकधान्यानामित्यादौ निर्धारणे षष्ठी| पथ्यतमत्व इति तमप्प्रयोगः सजातीयेभ्यः प्रकृष्टत्वेन श्रेष्ठतमा इति, यथा- श्रेष्ठतम इति प्रशस्यः; किंवा तमप्ग्रहणं स्वार्थिकं, यथा- “युधिष्ठिरः श्रेष्ठतमः कुरूणाम्” इति, तथा ‘अन्यतमं जिह्वावैषयिकम्’ (सू. २६) इति| यद्यपि काकमाची त्रिदोषघ्नी रसायनी च, तथाऽपीह जीवन्ती स्वस्थहितत्वप्रकर्षादुच्यते, स्वस्थहितत्वप्रकर्षश्चेह वचनादेव लभ्यते| एवमन्यत्रापि व्याख्येयम्| काकमाच्यां त्वयं विशेषः- यत्- काकमाची पर्युषिता मरणाय| यद्यपि गोधारोहितौ कफपित्तवर्धनौ, वचनं हि- “भूशया वारिजाताश्च कफपित्तविवर्धनाः” इति, तथाऽपीह सजातीयेषु पथ्यत्वप्रकर्षेणेहोच्येते; तथा किञ्चिद्दोषकरस्यापि ऋतुभेदेन पथ्यत्वं भवत्येव; किञ्चित् स्वस्थहितत्वं द्रव्यस्य पृथगेव गुणः न दोषकर्तृत्वं दोषहरत्वं वाऽपेक्षते; यदुक्तं- “किञ्चिद्दोषप्रशमनं किञ्चिद्धातुप्रदूषणम्| स्वस्थवृत्तौ मतं किञ्चिद्द्रव्यं त्रिविधमुच्यते” (सू. १) इति| चुल्लुकी ‘सुगृह’ इति ख्यातः| पाकहंसः श्वेतहंसः||३८||

Adhikarana 19 (39) · Śloka 39

अहिततमानप्युपदेक्ष्यामः- यवकाः शूकधान्यानामपथ्यतमत्वेन प्रकृष्टतमा भवन्ति, माषाः शमीधान्यानां, वर्षानादेयमुदकानाम्, ऊषरं लवणानां, सर्षपशाकं शाकानां, गोमांसं मृगमांसानां, काणकपोतः पक्षिणां, भेको बिलेशयानां, चिलिचिमो मत्स्यानाम्, आविकं सर्पिः सर्पिषाम्, अविक्षीरं क्षीराणां, कुसुम्भस्नेहः स्थावरस्नेहानां, महिषवसा आनूपमृगवसानां, कुम्भीरवसा मत्स्यवसानां, काकमद्गुवसा जलचरविहङ्गवसानां, चटकवसा विष्किरशुकनिवसानां, हस्तिमेदः शाखादमेदसां, निकुचं फलानाम्, आलुकं कन्दानां, फाणितमिक्षुविकाराणाम्, इति प्रकृत्यैवाहिततमानामाहारविकाराणां प्रकृष्टतमानि द्रव्याणि व्याख्यातानि भवन्ति; (इति) हिताहितावयवो व्याख्यात आहारविकाराणाम्||३९||

🔊 Audio coming soon

प्रकृष्टतमा इति तमप्प्रयोगः पूर्ववत् स्वार्थिकः| यद्यप्यपथ्यतम इति तमप्प्रयोगेणैव प्रकृष्टत्वं प्रतिपादितं, तथाऽप्यपथ्यतमानां बहूनां मध्ये प्रकर्षख्यापनार्थं प्रकृष्टतम इति पदम्| वर्षासु नादेयं वर्षानादेयम्| ऊषरदेशभवमूषरम्| काणकपोत इत्यत्र काणशब्दोऽल्पवचनः; यथा- काणो मेघ इति| चिलिचिमो महाशकली मत्स्यो रोहितभेदः, अत्रैव ह्यग्रे रोहितभेदमेव चिलिचिमं वक्ष्यति| काकमद्गुः पानीयकाकिका| चटकः प्रसिद्धः| हिताहितावयव इत्यादि| अत्रादौ ‘इति’ शब्दोऽध्याहार्यः, तेन इति हिताहितावयव आहारविकाराणां व्याख्यातो भवतीति पूर्वेणैव योजनीयम्||३९||

Adhikarana 20 (40) · Śloka 40

अतो भूयः कर्मौषधानां च प्राधान्यतः सानुबन्धानि द्रव्याण्यनुव्याख्यास्यामः| तद्यथा- अन्नं वृत्तिकराणां श्रेष्ठम्, उदकमाश्वासकराणां (सुरा श्रमहराणां ), क्षीरं जीवनीयानां, मांसं बृंहणीयानां, रसस्तर्पणीयानां, लवणमन्नद्रव्यरुचिकराणाम्, अम्लं हृद्यानां, कुक्कुटो बल्यानां, नक्ररेतो वृष्याणां, मधु श्लेष्मपित्तप्रशमनानां, सर्पिर्वातपित्तप्रशमनानां, तैलं वातश्लेष्मप्रशमनानां, वमनं श्लेष्महराणां, विरेचनं पित्तहराणां, बस्तिर्वातहराणां, स्वेदो मार्दवकराणां, व्यायामः स्थैर्यकराणां, क्षारः पुंस्त्वोपघातिनां, (तिन्दुकमनन्नद्रव्यरुचिकराणाम् ,) आमं कपित्थमकण्ठ्यानाम्, आविकं सर्पिरहृद्यानाम्, अजाक्षीरं शोषघ्नस्तन्यसात्म्यरक्तसाङ्ग्राहिकरक्तपित्तप्रशमनानाम्, अविक्षीरं श्लेष्मपित्तजननानां, महिषीक्षीरं स्वप्नजननानां, मन्दकं दध्यभिष्यन्दकराणां, गवेधुकान्नं कर्शनीयानाम्, उद्दालकान्नं विरूक्षणीयानाम्, इक्षुर्मूत्रजननानां, यवाः पुरीषजननानां, जाम्बवं वातजननानां, शष्कुल्यः श्लेष्मपित्तजननानां, कुलत्था अम्लपित्तजननानां, माषाः श्लेष्मपित्तजननानां, मदनफलं वमनास्थापनानुवासनोपयोगिनां, त्रिवृत् सुखविरेचनानां, चतुरङ्गुलो मृदुविरेचनानां, स्नुक्पयस्तीक्ष्णविरेचननां, प्रत्यक्पुष्पा शिरोविरेचनानां, विडङ्गं क्रिमिघ्नानां, शिरीषो विषघ्नानां, खदिरः कुष्ठघ्नानां, रास्ना वातहराणाम्, आमलकं वयःस्थापनानां, हरीतकी पथ्यानाम्, एरण्डमूलं वृष्यवातहराणां, पिप्पलीमूलं दीपनीयपाचनीयानाहप्रशमनानां, चित्रकमूलं दीपनीयपाचनीयगुदशोथार्शःशूलहराणां, पुष्करमूलं हिक्काश्वासकासपार्श्वशूलहराणां, मुस्तं साङ्ग्राहिकदीपनीयपाचनीयानाम्, उदीच्यं निर्वापणदीपनीयपाचनीयच्छर्द्यतीसारहराणां, कट्वङ्गं साङ्ग्राहिकपाचनीयदीपनीयानाम्, अनन्ता साङ्ग्राहिकरक्तपित्तप्रशमनानाम्, अमृता साङ्ग्राहिकवातहरदीपनीयश्लेष्मशोणितविबन्धप्रशमनानां, बिल्वं साङ्ग्राहिकदीपनीयवातकफप्रशमनानाम्, अतिविषा दीपनीयपाचनीयसाङ्ग्राहिकसर्वदोषहराणाम्, उत्पलकुमुदपद्मकिञ्जल्कः साङ्ग्राहिकरक्तपित्तप्रशमनानां, दुरालभा पित्तश्लेष्मप्रशमनानां, गन्धप्रियङ्गुः शोणितपित्तातियोगप्रशमनानां, कुटजत्वक् श्लेष्मपित्तरक्तसाङ्ग्राहिकोपशोषणानां, काश्मर्यफलं रक्तसाङ्ग्राहिकरक्तपित्तप्रशमनानां, पृश्निपर्णी साङ्ग्राहिकवातहरदीपनीयवृष्याणां, विदारिगन्धा वृष्यसर्वदोषहराणां, बला साङ्ग्राहिकबल्यवातहराणां, गोक्षुरको मूत्रकृच्छ्रानिलहराणां, हिङ्गुनिर्यासश्छेदनीयदीपनीयानुलोमिकवातकफप्रशमनानाम्, अम्लवेतसो भेदनीयदीपनीयानुलोमिकवातश्लेष्महराणां, यावशूकः स्रंसनीयपाचनीयार्शोघ्नानां, तक्राभ्यासो ग्रहणीदोषशोफार्शोघृतव्यापत्प्रशमनानां, क्रव्यान्मांसरसाभ्यासो ग्रहणीदोषशोषार्शोघ्नानां, क्षीरघृताभ्यासो रसायनानां, समघृतसक्तुप्राशाभ्यासो वृष्योदावर्तहराणां, तैलगण्डूषाभ्यासो दन्तबलरुचिकराणां, चन्दनं दुर्गन्धहरदाहनिर्वापणलेपनानां, रास्नागुरुणी शीतापनयनप्रलेपनानां, लामज्जकोशीरं दाहत्वग्दोषस्वेदापनयनप्रलेपनानां, कुष्ठं वातहराभ्यङ्गोपनाहोपयोगिनां, मधुकं चक्षुष्यवृष्यकेश्यकण्ठ्यवर्ण्यविरजनीयरोपणीयानां, वायुः प्राणसञ्ज्ञाप्रदानहेतूनाम्, अग्निरामस्तम्भशीतशूलोद्वेपनप्रशमनानां, जलं स्तम्भनीयानां, मृद्भृष्टलोष्ट्रनिर्वापितमुदकं तृष्णाच्छर्द्यतियोगप्रशमनानाम्, अतिमात्राशनमामप्रदोषहेतूनां, यथाग्न्यभ्यवहारोऽग्निसन्धुक्षणानां, यथासात्म्यं चेष्टाभ्यवहारौ सेव्यानां, कालभोजनमारोग्यकराणां, तृप्तिराहारगुणानां, वेगसन्धारणमनारोग्यकराणां, मद्यं सौमनस्यजननानां, मद्याक्षेपो धीधृतिस्मृतिहराणां, गुरुभोजनं दुर्विपाककराणाम्, एकाशनभोजनं सुखपरिणामकराणां, स्त्रीष्वतिप्रसङ्गः शोषकराणां, शुक्रवेगनिग्रहः षाण्ड्यकराणां, पराघातनमन्नाश्रद्धाजननानाम्, अनशनमायुषो ह्रासकराणां, प्रमिताशनं कर्शनीयानाम्, अजीर्णाध्यशनं ग्रहणीदूषणानां, विषमाशनमग्निवैषम्यकराणां, विरुद्धवीर्याशनं निन्दितव्याधिकराणां, प्रशमः पथ्यानां, आयासः सर्वापथ्यानां, मिथ्यायोगो व्याधिकराणां, रजस्वलाभिगमनमलक्ष्मीमुखानां, ब्रह्मचर्यमायुष्याणां, परदाराभिगमनमनायुष्याणां, सङ्कल्पो वृष्याणां, दौर्मनस्यमवृष्याणाम्, अयथाबलमारम्भः प्राणोपरोधिनां, विषादो रोगवर्धनानां, स्नानं श्रमहराणां, हर्षः प्रीणनानां, शोकः शोषणानां, निवृत्तिः पुष्टिकराणां, पुष्टिःस्वप्नकराणाम्, अतिस्वप्नस्तन्द्राकराणां, सर्वरसाभ्यासो बलकराणाम्, एकरसाभ्यासो दौर्बल्यकराणां, गर्भशल्यमाहार्याणाम्, अजीर्णमुद्धार्याणां, बालो मृदुभेषजीयानां, वृद्धो याप्यानां, गर्भिणी तीक्ष्णौषधव्यवायव्यायामवर्जनीयानां, सौमनस्यं गर्भधारणानां, सन्निपातो दुश्चिकित्स्यानाम्, आमो विषमचिकित्स्यानां , ज्वरो रोगाणां, कुष्ठं दीर्घरोगाणां, राजयक्ष्मा रोगसमूहानां, प्रमेहोऽनुषङ्गिणां, जलौकसोऽनुशस्त्राणां, बस्तिस्तन्त्राणां, हिमवानौषधिभूमीनां, सोम ओषधीनां, मरुभूमिरारोग्यदेशानाम्, अनूपोऽहितदेशानाम्, निर्देशकारित्वमातुरगुणानां, भिषक् चिकित्साङ्गानां, नास्तिकोवर्ज्यानां, लौल्यं क्लेशकराणाम्, अनिर्देशकारित्वमरिष्टानां, अनिर्वेदो वार्तलक्षणानां, वैद्यसमूहो निःसंशयकराणं, योगो वैद्यगुणानां, विज्ञानमौषधीनां, शास्त्रसहितस्तर्कः साधनानां, सम्प्रतिपत्तिः कालज्ञानप्रयोजनानाम्, अव्यवसायः कालातिपत्तिहेतूनां, दृष्टकर्मता निःसंशयकराणाम्, असमर्थता भयकराणां, तद्विद्यसम्भाषा बुद्धिवर्धनानाम्, आचार्यः शास्त्राधिगमहेतूनाम्, आयुर्वेदोऽमृतानां, सद्वचनमनुष्ठेयानाम्, असद्ग्रहणं सर्वाहितानां, सर्वसन्न्यासः सुखानामिति||४०||

🔊 Audio coming soon

अतो भूय इति अत इति हेतौ, यस्माद्धिताहिताद्युक्तं न तु तेषां कर्मेत्यर्थः| भूयः शब्दः पुनरर्थे, कर्मेति कार्यम्; तेन, अतो भूय आहारविकाराणां कर्म| यथा- ‘अन्नं वृत्तिकराणाम्’, ‘उदकमाश्वासकराणाम्’ इत्यादि; तथौषधानां च कर्म, यथा- ‘त्रिवृत् सुखविरेचनानाम्’ इत्यादि वक्ष्यामः| प्राधान्यत इत्यनेन न सर्वेषामाहारविकाराणामौषधानां च कर्माभिधानं , किन्तु यथाप्रधानमिति दर्शयति| सानुबन्धानीति सप्रयोजनानि, यथा- अजीर्णमुद्धार्याणामित्यादि; अजीर्णज्वरादिकर्मकथनं हि चिकित्सोपयोगि व्यक्तमेव| द्रव्याणीति महाभूतानि, यथा- जलं स्तम्भनानां, वायुः प्राणसञ्ज्ञाप्रदानहेतूनाम्, इत्यादि| द्रव्याणीत्युपलक्षणं; तच्च सानुबन्धानीत्यस्य विशेषणं, तेनाद्रव्यमपि सानुबन्धमुच्यते; यथा- ‘शास्त्रसहितस्तर्कः साधनानाम्’ इत्यादि| किंवा, हिताहितावयवमिति कर्मविशेषणं; तेन, हिताहितैकदेशरूपं कर्माहारविकारणामिति भवति; तत्र हितं कर्म ‘अन्नं वृत्तिकराणाम्’ इत्यादि, अहितं कर्म ‘आविकं सर्पिरहृद्यानाम्’ इत्यादि| औषधानां कर्म ‘त्रिवृत् सुखविरेचनानाम्’ इत्यादि व्याख्यानं पूर्ववदेव| वृत्तिकराणामिति शरीरस्थितिकराणाम् | अन्नद्रव्यरुचिकराणामिति लवणमन्नेन संयुक्तं सदन्ने रुचिं करोतीत्यर्थः| अम्लं हृद्यानामिति रुच्यानाम्, अम्लं तु स्वयमेव रोचते| मधु श्लेष्मपित्तप्रशमनानामिति द्रवद्रव्येषु, दुरालभा त्वौषधद्रव्येषु; तेन दुरालभाया मधुनश्च श्लेष्मपित्तप्रशमनश्रेष्ठत्वावधारणं न विरोधि| बस्तिरिति अविशेषादास्थापनानुवासने| अविक्षीरं पित्तश्लेष्मजननानामिति पेयेषु मध्ये, माषाः पित्तश्लेष्मजननानामिति भोज्येषु, शष्कुल्यः पित्तश्लेष्मजननानामिति भक्ष्येषु मध्ये; किंवा, त्रयमप्येतत् पित्तश्लेष्मजननं प्रति समानमिति त्रितयमप्युच्यते; एवमन्यत्रापि तुल्यश्रेष्ठताभिधानं तज्जातीयश्रेष्ठताभिप्रायेण तथा तुल्यत्वेन च ज्ञेयम्| मन्दकमिति मन्दजातम्| उद्दालको वनकोद्रवः| गुदशोथः अर्शः| गन्धप्रियङ्गुः प्रियङ्गुरेव| क्रव्यं मांसमत्तीति क्रव्याद् व्याघ्रादिः| समघृत इत्यत्र समशब्दः सहार्थः| उद्वेपनमिति वेपनम्| उदकमाश्वासनस्तम्भनानामिति वक्तव्ये, यत् पृथक् ‘उदकमाश्वासकराणां’, तथा ‘जलं स्तम्भनानां’ इति करोति, तेन कर्मद्वयेऽपि जलस्यानन्यसाधारणतां दर्शयति; मिलित्वा गुणपाठे ह्युभयकर्मकर्तृष्वेव प्राधान्यं स्यात्; एवमन्यत्राप्यनेककर्मकर्तृत्वे यस्य प्राधान्यमुक्तं पिप्पलीमूलादौ, तत्र तथाभूतानेककर्मकर्तृत्वेष्वेव प्राधान्यं ज्ञेयं, न पृथक्कर्मणि| लामज्जकोशीरमुशीरद्वयं सगन्धमगन्धं च गृह्यते| एकाशनभोजनमिति एककालभोजनम्; अनेनैकाशनस्य सुखपरिणामतामात्रमुच्यते, न द्वितीयान्नप्रतिषेधः क्रियते; एतेन द्विर्भोजनेऽप्यव्याहताग्नितानिद्रादयः सुखपरिणामकारणत्वेन ज्ञेयाः| शोषद्वाराणामिति शोषकारणानाम्| पराघातनं वधस्थानं, वध्यमानप्राणिदर्शनाद्धि घृणया नान्ने श्रद्धा स्यात्| ‘यथाऽशितं’ इति केचित् पठन्ति, तन्नातिसाधु| प्रमिताशनम् अतीतकालभोजनं, स्तोकभोजनं वा| विषमाशनं प्रकृतिकरणादिविषमाशनम्| निन्दितव्याधिः श्वित्रकुष्ठादिः| अलक्ष्मीमुखानाम् अलक्ष्मीकारणानाम्| मिथ्यायोगः सम्यग्योगादन्यस्त्रिविधो योगः| सङ्कल्पः स्त्रीसङ्गसङ्कल्पः| ज्वरो रोगाणामिति रुजाकर्तॄणाम्| अनुषङ्गी पुनर्भावी| तन्त्राणामिति कर्मणाम्| सोम ओषधिराजः पञ्चदशपर्वा| वार्तलक्षणानामिति आरोग्यलक्षणानाम्| ज्ञानमिति औषधादिविज्ञानम्| साधनानामिति ज्ञानसाधनानाम्| सम्प्रतिपत्तिः यथाकर्तव्यतानुष्ठानम् | तृप्तिराहारगुणानामित्यत्र गुणशब्दः प्रशस्तधर्मवचनः| एकरसाभ्यासः कर्शनानामिति अपवादं वर्जयित्वा, तेन घृताभ्यासो रसायनानामिति न विरुध्यते| अमृतानामिति जीवितप्रधा(दा)नहेतूनाम्| सर्वसन्न्यासः सर्वक्रियात्यागः , स हि परमसुखमोक्षहेतुः शारीरे वक्तव्यः||४०||

Adhikarana 21 (41) · Śloka 41

भवन्ति चात्र- अग्र्याणां शतमुद्दिष्टं यद्द्विपञ्चाशदुत्तरम्| अलमेतद्विकाराणां विघातायोपदिश्यते||४१||

🔊 Audio coming soon

अग्र्याणामित्यादौ अग्र्यशब्दः श्रेष्ठवचनः| अलमिति समर्थम्| अत्र ज्वरप्रमेहादयोऽपि स्वरूपेणातिपीडाकरत्वानुषङ्गिकत्वादिना ज्ञाताः सन्तश्चिकित्सायामुपयुक्ता भवन्ति, अतो ज्वरादिज्ञानमपि विकाराणां विघाताय समर्थं भवति | अग्र्याणां च विकारशमकत्वाभिधानं प्राधान्यादुच्यते, स्तुत्यर्थं वा; तेन यदुच्यते- एत एव चेदग्र्याधिकारे विहिता विकाराञ्छमयन्ति, तत् किमपरचिकित्साभिधानेनेति; तन्निरस्तं भवति| विकारविघातश्चेहोत्पन्नानामौषधोपयोगेन, तथाऽनुत्पन्नानां स्वास्थ्यपरिपालनेन ज्ञेयः||४१||

Adhikarana 22 (42-44) · Śloka 44

समानकारिणो येऽर्थास्तेषां श्रेष्ठस्य लक्षणम्| ज्यायस्त्वं कार्यकर्तृत्वे वरत्वं चाप्युदाहृतम्||४२|| वातपित्तकफानां च यद्यत् प्रशमने हितम्| प्राधान्यतश्च निर्दिष्टं यद्व्याधिहरमुत्तमम्||४३|| एतन्निशम्य निपुणं चिकित्सां सम्प्रयोजयेत्| एवं कुर्वन् सदा वैद्यो धर्मकामौ समश्नुते||४४||

🔊 Audio coming soon

अग्र्याधिकारोक्तं सङ्ग्रहेण कथयति- समानेत्यादि| समानकारिणः तुल्यकर्माणः| श्रेष्ठस्य लक्षणमिति प्रशस्तस्य लक्षणं; लक्षणं त्विह पाठ एव, पाठेन हि श्रैष्ठ्यं लक्ष्यते ज्ञायत इत्यर्थः| ज्यायस्त्वं बृहत्त्वं , तदप्रशस्तगुणबृहत्त्वं ज्ञेयम्; अत एवाहिताधिकारकथने श्रेष्ठतमशब्दं त्यक्त्वा ‘अपथ्यतमत्वे प्रकृष्टतमा भवन्ति’ इत्युक्तं, तेन श्रेष्ठस्य लक्षणमिति रक्तशाल्यादीनां हिताहाराणां ज्ञेयं, ज्यायस्त्वं चाहिताहाराणां यवकादीनामपथ्यतमत्वे प्रकर्षशालित्वम्| कार्यकर्तृत्वे वरत्वं चेति कर्मणि चोत्कृष्टत्वं, तच्च ‘अन्नं वृत्तिकराणाम्’ इत्यादिनोक्तं ज्ञेयम्| वातपित्तकफानां चेत्यादौ ‘बस्तिर्वातहराणां’, ‘विरेचनं पित्तहराणां’, ‘वमनं श्लेष्महराणाम्’, ‘आस्थापनं वातहरणाम्’ इत्यादि ज्ञेयम्| यद्व्याधिहरमिति ‘खदिरः कुष्ठहराणां’, ‘पुष्करमूलं हिक्काश्वासकासपार्श्वशूलानाहहराणाम्’ इत्यादि ज्ञेयम्| किंवा ‘अवरत्वम्’ इति पाठः; तदा अवरत्वम् अन्यथा अनभिप्रेतकर्तृत्वं, तच्च ‘रजस्वलागमनमलक्ष्मीमुखानाम्’ इत्यादि ज्ञेयम्| श्रेष्ठत्वज्यायस्त्वाभ्यां प्रशस्ताप्रशस्तकर्मणामपि ग्रहणं व्याख्येयम्||४२-४४||

Adhikarana 23 (45-47) · Śloka 47

पथ्यं पथोऽनपेतं यद्यच्चोक्तं मनसः प्रियम्| यच्चाप्रियमपथ्यं च नियतं तन्न लक्षयेत्||४५|| मात्राकालक्रियाभूमिदेहदोषगुणान्तरम् | प्राप्य तत्तद्धि दृश्यन्ते ते ते भावास्तथा तथा||४६|| तस्मात् स्वभावो निर्दिष्टस्तथा मात्रादिराश्रयः| तदपेक्ष्योभयं कर्म प्रयोज्यं सिद्धिमिच्छता||४७||

🔊 Audio coming soon

सम्प्रत्युक्तस्य पथ्यस्य हितापरनाम्नो लक्षणमाह- पथ्यमित्यादि| पथः शरीरमार्गात् स्रोतोरूपादनपेतम्; अपेतम् अपकारकम्, अनपेतम् अनपकारकमित्यर्थः| पथोग्रहणेन पथोवाह्या दोषा धातवश्च, तथा पथोनिर्वर्तका धातवो गृह्यन्ते; तेन कृत्स्नमेव शरीरं गृहीतं भवति, ततश्च शरीरानुपघाति पथ्यमिति भवति| किंवा, स्वस्थस्वास्थ्यरक्षणमातुरव्याधिपरिमोक्षश्चेति पन्थाः, तस्मादनपेतं पथ्यम्| एवमपि मनोऽनुपघातित्वं न लभ्यत इत्याह- यच्चोक्तं मनसः प्रियमिति| मनसोऽतिप्रीत्याऽभिलषितं, तेन मनसो हितमिति प्रियार्थः; तेन प्रशमज्ञानातीक्ष्णत्वादयो गृह्यन्ते| एतेन, ‘मनःशरीरानुपघाति पथ्यं’ इति पथ्यलक्षणमनपवादमुक्तं भवति| अन्ये तु पथ्यलक्षणद्वयमेतत् पठन्ति, वदन्ति च- “यद्येकं लक्षणं स्यात्तदा ज्वरादिषु तिक्तं भेषजं मनसोऽप्रियत्वेन न पथ्यं स्यात्; एतच्चानुमतमेव , यद् ज्वरे तिक्तप्रयोगस्य तदात्वे न मनसोऽनुकूलत्वं, न चैतावता शरीरं प्रत्यपथ्यत्वं भवति”, अतो यन्मात्रं मनोऽनुकूलत्वं मानसविकाराकर्तृत्वात् तद्व्यपदेश्यमेव; किंवा तावन्मात्रमनोऽननुकूलत्वं मानसविकाराकर्तृत्वादव्यपदेश्यमेव| तदेतदपथ्यत्वं किमाहाराचाराणां नियतमस्ति नेत्याह- यच्चेत्यादि| नियतं निश्चितमिदमप्रियमेव सर्वदेदमपथ्यमेव सर्वदेत्येवंरूपं किञ्चिन्नास्तीत्यर्थः| कुतो नास्तीत्याह- मात्रेत्यादि| गुणान्तरशब्दो मात्रादिभिः सम्बध्यते| तत्तदिति मात्रादिगुणान्तरम्| ते ते इति हिताहिताहाराचाराः| तथा तथेति हितोक्ता अपि हिताश्चाहिताश्च, तथा अहितोक्ताश्चाहिता हिताश्च| एवं प्रियमपि मधुराद्यप्रियं, तिक्ताद्यप्रियमपि प्रियम्| अत्रोदाहरणं यथा- पथ्यं तावद्घृतं; तदतिमात्रमपथ्यं भवति, काले च वसन्तेऽपथ्यं, संस्कारेण च विरुद्धद्रव्यसंस्कृतमपथ्यं, भूमौ चानूपायामपथ्यम्, एवं देहेऽतिस्थूले दोषे च कफेऽपथ्यम्| अपथ्यमपि विषं मात्रादिना हितं भवति, यथा रसायने- “विषस्य तिलं दद्यात्” (चि.अ.१) इत्यादि| एवमन्यदप्यूह्यम्| यस्मादेवमेकान्तमपथ्यत्वमनिश्चितं, प्रायोवादपथ्यता तु निश्चिता; तस्मात् स्वभावो निर्दिष्ट इति पथ्यानां रक्तशाल्यादीनामपथ्यानां च यवकादीनामित्यर्थः; स्वभावः प्रकृत्या पथ्यता अपथ्यता च| तथा मात्रादिराश्रय इति निर्दिष्ट इति सम्बन्धः| मात्रादिः मात्राकालक्रियादिः| आश्रय इति पथ्यत्वापथ्यत्वयोः| मात्रादीन्याश्रित्य भावानां पथ्यत्वापथ्यत्वं च पारमार्थिकं भवतीत्यर्थः| उभयमिति स्वभावं मात्रादिं च||४५-४७||

Adhikarana 24 (49) · Śloka 49

तदात्रेयस्य भगवतो वचनमनुनिशम्य पुनरपि भगवन्तमात्रेयमग्निवेश उवाच- यथोद्देशमभिनिर्दिष्टः केवलोऽयमर्थो भगवता श्रुतश्चास्माभिः| आसवद्रव्याणामिदानीमनपवादं लक्षणमनतिसङ्क्षेपेणोपदिश्यमानं शुश्रूषामह इति||४८|| तमुवाच भगवानात्रेयः- धान्यफलमूलसारपुष्पकाण्डपत्रत्वचो भवन्त्यासवयोनयोऽग्निवेश! सङ्ग्रहेणाष्टौ शर्करानवमीकाः| तास्वेव द्रव्यसंयोगकरणतोऽपरिसङ्ख्येयासु यथापथ्यतमानामासवानां चतुरशीतिं निबोध| तद्यथा- सुरासौवीरतुषोदकमैरेयमेदकधान्याम्लाः षड् धान्यासवा भवन्ति, मृद्वीकाखर्जूरकाश्मर्यधन्वनराजादनतृणशून्यपरूषकाभयामलकमृगलिण्डिकाजाम्बवकपित्थ- कुवलबदरकर्कन्धुपीलुप्रियालपनसन्यग्रोधाश्वत्थप्लक्षकपीतनोदुम्बराजमोदशृङ्गाटकशाङ्खिनीफलासवाः षड्विंशतिर्भवन्ति, विदारिगन्धाश्वगन्धाकृष्णगन्धाशतावरीश्यामात्रिवृद्दन्तीद्रवन्तीबिल्वोरुबूकचित्रकमूलैरेकादश मूलासवा भवन्ति, शालप्रियकाश्वकर्णचन्दनस्यन्दनखदिरकदरसप्तपर्णार्जुनासनारिमेदतिन्दुककिणिहीशमी- शुक्तिशिंशपाशिरीषवञ्जलधन्वनमधूकैः सारासवा विंशतिर्भवन्ति, पद्मोत्पलनलिकुमुदसौगन्धिकपुण्डरीकशतपत्रमधूकप्रियङ्गुधातकीपुष्पैर्दश पुष्पासवा भवन्ति, इक्षुकाण्डेक्ष्विक्षुवालिकापुण्ड्रकचतुर्थाः काण्डासवा भवन्ति, पटोलताडकपत्रासवौ द्वौ भवतः, तिल्वकलोध्रैलवालुकक्रमुकचतुर्थास्त्वगासवा भवन्ति, शर्करासव एक एवेति| एवमेषामासवानां चतुरशीतिः परस्परेणासंसृष्टानामासवद्रव्याणामुपनिर्दिष्टा भवति| एषामासवानामासुतत्वादासवसञ्ज्ञा| द्रव्यसंयोगविभागविस्तारस्त्वेषां बहुविधकल्पः संस्कारश्च| यथास्वं संयोगसंस्कारसंस्कृता ह्यासवाः स्वं कर्म कुर्वन्ति| संयोगसंस्कारदेशकालमात्रादयश्च भावास्तेषां तेषामासवानां ते ते समुपदिश्यन्ते तत्तत्कार्यमभिसमीक्ष्येति||४९||

🔊 Audio coming soon

इदानीमग्र्याधिकारादासवेष्वनन्तेषु य आसवा अग्र्यास्त उच्यन्ते| धान्यादीन्येकत्वेन पठित्वा पृथक् शर्करां पठति, धान्यादीनामवान्तरजातिमत्वात्; शर्करायास्त्ववान्तरजातिर्नास्ति, या तु यासशर्करा सा नासवकारणतया श्रूयते, मधुशर्करा तु मध्वन्तर्निविष्टैव| मधु तु नासवयोनितया पृथक्पठितं, येन तत्कृतस्यासवस्य धान्यसम्बन्धाद्धान्यासवेनैव ग्रहणम् | एवं गौडासवादिष्वपि बोद्धव्यम्| द्रव्यं च संयोगश्च करणं च द्रव्यसंयोगकरणं, ततोऽपरिसङ्ख्येयाः स्युः| सौवीरं निस्तुषयवकृतं, मैरेयं सुराकृता सुरा, मेदकः श्वेतसुरा जगलाख्या, धान्याम्बु काञ्जिकम्| तृणशून्यं केतकी, मृगलिण्डिका विभीतकं, कुवलमिति स्थूलबदरी, कर्कन्धुः शृगालबदरी| कदरः श्वेतखदिरः, अश्वकर्णः शालभेदः, अरिमेदो विट्खदिरः, किणिही अपामार्गः, शुक्तिः बदरी| पद्मं सरक्तमष्टदलपद्मं, नलिनं श्वेतमष्टदलपद्मं, पुण्डरीकं श्वेतशतपत्रपद्मं, शतपत्रं त्वरुणम्| इक्षुशब्दप्राप्तस्यापि पुण्ड्रकस्य पुनरभिधानमासवं प्रति तस्य प्राधान्यख्यापनार्थम्| क्रमुकं गुवाकम्| तिल्वकः शाबरलोध्रः| आसुतत्वादिति सन्धानरूपत्वात्| द्रव्यसंयोगविभाग इत्यादौ ‘एषाम्’ इति पदेन प्रत्येकं धान्यादिद्रव्यकृता आसवा उक्ताः| तेषां च विभागोऽनुपपन्न एकरूपत्वादिति चेत्? तन्न, तेषामपि सजातीयद्रव्यविभागस्य विद्यमानत्वात्| किञ्च संस्कारकद्रव्यविभागस्यापि तत्र शक्यत्वात्; नह्येकेनैव द्रव्येण सुरादयः क्रियन्ते, प्राधान्यात्तु धान्यादयोऽभिधीयन्ते| संस्कारश्च बहुविधविकल्प इति योजना| संयोगसंस्कारकरणप्रयोजनमाह- यथास्वमित्यादि| यथास्वमिति यद्युज्यते; देशो भस्मराशिधान्यराश्यादिः सन्धानेषु वक्ष्यमाणः, कालस्तु पक्षमासादिस्थापनं, मात्रा सन्धानद्रव्यमात्रा| आदिग्रहणाद्द्रव्यस्वभावेतिकर्तव्यतासङ्ग्रहणम्| तत्तत्कार्यमिति देशकालशरीरदोषादिभिन्नं हितत्वम्||४९||

Adhikarana 25 (50) · Śloka 50

भवति चात्र- मनःशरीराग्निबलप्रदानामस्वप्नशोकारुचिनाशनानाम्| संहर्षणानां प्रवरासवानामशीतिरुक्ता चतुरुत्तरैषा||५०||

🔊 Audio coming soon

मनःशरीरेत्यादिना गुणकथनं युक्त्या पीतस्यासवस्य ज्ञेयम्||५०||

Adhikarana 26 (51) · Śloka 51

तत्र श्लोकः- शरीररोगप्रकृतौ मतानि तत्त्वेन चाहारविनिश्चयं च| उवाच यज्जःपुरुषादिकेऽस्मिन् मुनिस्तथाऽग्र्याणि वरासवांश्च||५१||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 25

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने यज्जःपुरुषीयो नाम पञ्चविंशोऽध्यायः||२५||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यव्याख्यायामायुर्वेददीपिकाख्यायां सूत्रस्थानेऽन्नपानचतुष्के यज्जःपुरीषीयो नाम पञ्चविंशोऽध्यायः||२५||