Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

16. cikitsāprābhr̥tīyō'dhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातश्चिकित्साप्राभृतीयमध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

पूर्वाध्यायोक्तवमनविरेचनयोर्विस्तरेण सम्यग्योगादिलक्षणं, तथा तत्प्रवृत्तिविषयबहुदोषपुरुषाद्यभिधातुं चिकित्साप्राभृतीयोऽभिधीयते| चिकित्सा प्रभृतरूपा सदा यत्नेन आतुरोपढौकनीयत्वेन च यस्य विद्यते स चिकित्साप्राभृतीयः||१-२||

Adhikarana 2 (3-4) · Śloka 4

चिकित्साप्राभृतो धीमान् शास्त्रवान् कर्मतत्परः| नरं विरेचयति यं स योगात् सुखमश्नुते||३|| यं वैद्यमानी त्वबुधो विरेचयति मानवम्| सोऽतियोगादयोगाच्च मानवो दुःखमश्नुते||४||

🔊 Audio coming soon

योगात् सम्यग्योगात्| सुखम् आरोग्यम्| विरेचयतीत्यत्र वामयतीत्यपि बोद्धव्यं, विरेचनशब्दस्य वमनेऽपि प्रवृत्तेः| सोऽतियोगादित्यादि| दुःखं विकारं; यदुक्तं- “विकारो दुःखमेव तु” (सू. ९)| ननु वमनादौ कस्मान्मिथ्यायोगो नोच्यते, यावता यस्य वस्तुन उचितो योगः स योगः, तस्य स्वल्पो वा योगः सर्वथा वा अयोगो अयोग उच्यते, तस्यैवातिमात्रयोगो विकारकरोऽतियोगः, अनुचितसम्बन्धेन तु वस्तुनो मिथ्यायोगः; तेनेहाप्युत्क्लिष्टश्लेष्मादिधर्मप्रयुक्ते पुरुषे विरेचनं सर्वथाऽयौगिकमेव, तच्च प्रयुक्तं प्रतीपगमनेनैव याति, विरेचने मिथ्यायोगोऽयमुचितः, एवं वमनादिष्वपि ज्ञेयम्| नैवम्, एवम्भूतमिथ्यायोगस्यायोगेनैव ग्रहणात्, उक्तं हि- “प्रातिलोम्येन दोषाणां हरणात्ते ह्यकृत्स्नशः| अयोगसञ्ज्ञे कृच्छ्रेण यदा गच्छति चाल्पशः” (सि. ६) इति| दुष्टविरेचनौषधस्य रसनयोपयुज्यमानस्य हीनमात्रत्वातिमात्रत्वाभ्यां विना यद्व्याधिकरणत्वं तन्मिथ्यायोगादेव परं भवति; यदुक्तं तिस्रैषणीये- “मिथ्यायोगो राशिवर्जेष्वाहारविधिविशेषायतनेषूपदेक्ष्यते” (सू. ११) इति| सत्यं भेषजस्य मिथ्यायोगोऽयं, वमनस्य तु दोषहरणरूपस्यायोग इति; एवं च विरेचनादावपि ज्ञेयम्| यद्यप्यत्रापि मिथ्यायोगः कथञ्चित् पार्यते कल्पयितुं, तथाऽपि प्रयोजनशून्यत्वादाचार्येण पृथङ्न कृतः, शब्दादिषु तु मिथ्यायोगिनां सम्बन्धमात्रस्यापि परिहारार्थं पृथक्कृत इति||३-४||

Adhikarana 3 (5-10) · Śloka 10

दौर्बल्यं लाघवं ग्लानिर्व्याधीनामणुता रुचिः| हृद्वर्णशुद्धिः क्षुत्तृष्णा काले वेगप्रवर्तनम्||५|| बुद्धीन्द्रियमनःशुद्धिर्मारुतस्यानुलोमता| सम्यग्विरिक्तलिङ्गानि कायाग्नेश्चानुवर्तनम् ||६|| ष्ठीवनं हृदयाशुद्धिरुत्क्लेशः श्लेष्मपित्तयोः| आध्मानमरुचिश्छर्दिरदौर्बल्यमलाघवम्||७|| जङ्घोरुसदनं तन्द्रा स्तैमित्यं पीनसागमः| लक्षणान्यविरिक्तानां मारुतस्य च निग्रहः||८|| विट्पित्तकफवातानामागतानां यथाक्रमम्| परं स्रवति यद्रक्तं मेदोमांसोदकोपमम्||९|| निःश्लेष्मपित्तमुदकं शोणितं कृष्णमेव वा| तृष्यतो मारुतार्तस्य सोऽतियोगः प्रमुह्यतः||१०||

🔊 Audio coming soon

दौर्बल्यमित्यादीनि विरेचनस्य सम्यग्युक्तायुक्तातियुक्तस्य लक्षणानि| अदौर्बल्यं स्थौल्यानपगमः | यथाक्रममिति पठन् क्रमेणैवेति दर्शयति; यदुक्तं- “प्राप्तिश्च विट्पित्तकफानिलानां सम्यग्विरिक्तस्य भवेत् क्रमेण” (सि. १) इति| आगतानां परमूर्ध्वमिति योजना||५-१०||

Adhikarana 4 (11-12) · Śloka 12

वमनेऽतिकृते लिङ्गान्येतान्येव भवन्ति हि| ऊर्ध्वगा वातरोगाश्च वाग्ग्रहश्चाधिको भवेत्||११|| चिकित्साप्राभृतं तस्मादुपेयाच्छरणं नरः| युञ्ज्याद् य एनमत्यन्तमायुषा च सुखेन च||१२||

🔊 Audio coming soon

अतियोगलक्षणं वमनेऽतिदिशति- वमन इत्यादि| वमनातियोगे विट्पित्तकफवातानामिति न योजनीयं, येन वमनप्रयोगे कफपित्तानिलागमरूपः क्रमो भवेत्| यदुक्तं- “क्रमात् कफः पित्तमथानिलश्च यस्यैति सम्यग्वमितिः स इष्टः” (सि. अ. १) इति||११-१२||

Adhikarana 5 (13-19) · Śloka 19

अविपाकोऽरुचिः स्थौल्यं पाण्डुता गौरवं क्लमः| पिडकाकोठकण्डूनां सम्भवोऽरतिरेव च||१३|| आलस्यश्रमदौर्बल्यं दौर्गन्ध्यमवसादकः| श्लेष्मपित्तसमुत्क्लेशो निद्रानाशोऽतिनिद्रता||१४|| तन्द्रा क्लैब्यमबुद्धित्वमशस्तस्वप्नदर्शनम्| बलवर्णप्रणाशश्च तृप्यतो बृंहणैरपि||१५|| बहुदोषस्य लिङ्गानि तस्मै संशोधनं हितम्| ऊर्ध्वं चैवानुलोमं च यथादोषं यथाबलम्||१६|| एवं विशुद्धकोष्ठस्य कायाग्निरभिवर्धते| व्याधयश्चोपशाम्यन्ति प्रकृतिश्चानुवर्तते||१७|| इन्द्रियाणि मनोबुद्धिर्वर्णश्चास्य प्रसीदति| बलं पुष्टिरपत्यं च वृषता चास्य जायते||१८|| जरां कृच्छ्रेण लभते चिरं जीवत्यनामयः| तस्मात् संशोधनं काले युक्तियुक्तं पिबेन्नरः||१९||

🔊 Audio coming soon

संशोधनविषयबहुदोषलक्षणमाह- अविपाक इत्यादि| अनायासकृतः श्रमः क्लमः; श्रमस्त्विह स्वल्पेनायासेन ज्ञेयः| अवसादको मनोऽवसादः| निद्रानाशो वातप्रधानेन दोषेण; अतिनिद्रता श्लेष्मप्रधानेन||१३-१९||

Adhikarana 6 (20-21) · Śloka 21

दोषाः कदाचित् कुप्यन्ति जिता लङ्घनपाचनैः| जिताः संशोधनैर्ये तु न तेषां पुनरुद्भवः||२०|| दोषाणां च द्रुमाणां च मूलेऽनुपहते सति| रोगाणां प्रसवानां च गतानामागतिर्ध्रुवा||२१||

🔊 Audio coming soon

समूलदोषापहारकत्वं संशोधनस्य, लङ्घनपाचनयोस्तु दोषापहरत्वे सत्यपि न संशोधनवद्दोषहन्तृत्वमित्याह- दोषा इत्यादि| कदाचिदिति अन्यहेतुप्राप्त्या| न तेषां पुनरुद्भव इति बलवद्दोषकारणत्वं विनेति मन्तव्यम्| उक्तेऽर्थे दृष्टान्तमाह- दोषाणामित्यादि| लङ्घनपाचनाभ्यां रोगकारणीभूतदोषप्रकोपहरणमात्रे कृते रोगो यो निवृत्तः स मूलभूताशयव्यवस्थितदोषानुच्छेदाद्यत्किञ्चिदनुगुणकालादिप्राप्त्या पुनः कुपितदोषेण भवतीति भावः||२०-२१||

Adhikarana 7 (22-23) · Śloka 23

भेषजक्षपिते पथ्यमाहारैरेव बृंहणम्| घृतमांसरसक्षीरहृद्ययूषोपसंहितैः||२२|| अभ्यङ्गोत्सादनैः स्नानैर्निरूहैः सानुवासनैः| तथा स लभते शर्म युज्यते चायुषा चिरम्||२३||

🔊 Audio coming soon

सम्प्रति शोधनेन यथा दोषक्षयस्तथा धातुक्षयोऽपि भवति, तेन तत्र प्रतीकारमाह- भेषजेत्यादि| आहारैरेवेति एवावधारणे; तेन भेषजेन बृंहणं निषेधति, भेषजस्य वीर्यप्रधानस्य तदा दुःसहत्वात्| सानुवासनैरित्यत्र चकारो बोद्धव्यः, तेनाभ्यङ्गादिभिश्च बृंहणं पथ्यम्||२२-२३||

Adhikarana 8 (24-26) · Śloka 26

अतियोगानुबद्धानां सर्पिःपानं प्रशस्यते| तैलं मधुरकैः सिद्धमथवाऽप्यनुवासनम्||२४|| यस्य त्वयोगस्तं स्निग्धं पुनः संशोधयेन्नरम्| मात्राकालबलापेक्षी स्मरन् पूर्वमनुक्रमम्||२५|| स्नेहने स्वेदने शुद्धौ रोगाः संसर्जने च ये| जायन्तेऽमार्गविहिते तेषां सिद्धिषु साधनम्||२६||

🔊 Audio coming soon

अतियोगादिचिकित्सामाह- अतियोगेत्यादि| स्मरन् पूर्वमनुक्रममित्यनेन यः पूर्वमयोगे हेतुभूतस्तं परिहरन्निति शिक्षयति| अमार्गविहिते अविधिविहिते| साधनमित्यत्र ‘वक्ष्यते’ इति शेषः||२४-२६||

Adhikarana 9 (27) · Śloka 27

जायन्ते हेतुवैषम्याद्विषमा देहधातवः| हेतुसाम्यात् समास्तेषां स्वभावोपरमः सदा||२७||

🔊 Audio coming soon

सम्प्रति यदेतत् सिद्धौ वक्ष्यमाणं रोगाणं साधनं तदनुषङ्गेण च सर्वभेषजानामेव क्षणभङ्गिभावे पक्षेऽपि रोगशमकत्वं प्रतिपादयितुं प्रकरणमारभते- जायन्त इत्यादि| तेषामिति विषमाणां धातूनां समानां च| स्वभावात् विनाशकारणनिरपेक्षादुपरमो विनाशः स्वभावोपरमः| सदेति अविलम्बेन; तेनोत्पन्नमात्रा एव विनश्यन्तीत्यर्थः||२७||

Adhikarana 10 (28) · Śloka 28

प्रवृत्तिहेतुर्भावानां न निरोधेऽस्ति कारणम्| केचित्तत्रापि मन्यन्ते हेतुं हेतोरवर्तनम्||२८||

🔊 Audio coming soon

अत्रैवार्थे उपपत्तिमाह- प्रवृत्तीत्यादि| प्रवृत्तिहेतुः उत्पत्तिहेतुर्भावानामस्ति, निरोधे विनाशे हेतुर्भावानां कारणं नास्ति; यस्मात् सर्व एव भावाः प्रदीपार्चिर्वदुत्पत्तौ कारणापेक्षिणः, विनाशे तु द्वितीयक्षणाविद्यमानत्वलक्षणे सहजसिद्धे न हेत्वन्तरमपेक्षन्ते; यतो न स्वाभाविकरूपे हेत्वन्तरापेक्षा भवति, नह्युत्पन्नः खङ्गः स्वाभाविके लौहमयत्वे कारणान्तरमपेक्षते; तदेवं सर्वेषामेव भावानां स्वाभाविके नाशे विषमधातूनामपि नाशः स्वाभाविक एवेति भावः| व्याधिप्रशमे च चिकित्सापेक्षकं पक्षान्तरमाह- केचिदित्यादि| तत्रापि विनाशेऽपि, हेतुं कारणं, हेतोरवर्तनमिति उत्पादकहेतोरभावं, मन्यन्त इति योजना| एवमपि हेतुपरम्परायाः क्षणिकत्वेन तत्कार्याणामपि स्वभावादेव नित्यं सन्निहितस्वहेतुविनाशरूपविनाशहेतूनां न विनाशहेतुचिकित्सापेक्षेति भावः||२८||

Adhikarana 11 (29-30) · Śloka 30

एवमुक्तार्थमाचार्यमग्निवेशोऽभ्यभाषत| स्वभावोपरमे कर्म चिकित्साप्राभृतस्य किम्||२९|| भेषजैर्विषमान् धातून् कान् समीकुरुते भिषक्| का वा चिकित्सा भगवन्! किमर्थं वा प्रयुज्यते||३०||

🔊 Audio coming soon

एवमुत्थितायां शङ्कायां गुरुं पृच्छति- एवमित्यादि| किमिति आक्षेपे| कर्म साध्यं; स्वभावोपरमे सति न किमपि साध्यं पश्यामीति भावः| कान् समीकुरुते इति विषमाणामस्थिरत्वेन साम्यं तत्र कर्तुं न पार्यत इत्याशयः| का वा चिकित्सेति रोगप्रशमं प्रत्यकारणत्वेन चिकित्सा नास्तीत्यर्थः| किमर्थं वा प्रयुज्यत इति यन्निवृत्त्यर्थं चिकित्सा प्रयुज्यते तद्धातुवैषम्यं स्वत एव निवृत्तमिति चिकित्साप्रयोजनं नास्ति||२९-३०||

Adhikarana 12 (31-32) · Śloka 33

तच्छिष्यवचनं श्रुत्वा व्याजहार पुनर्वसुः| श्रूयतामत्र या सोम्य! युक्तिर्दृष्टा महर्षिभिः||३१|| न नाशकारणाभावाद्भावानां नाशकारणम्| ज्ञायते नित्यगस्येव कालस्यात्ययकारणम्||३२|| शीघ्रगत्वाद्यथा भूतस्तथा भावो विपद्यते|३३|

🔊 Audio coming soon

पूर्वोक्तहेतुविनाशं दृष्टान्तेन हेतुमन्तमाह- न नाशेत्यादि| भावानां नाशकारणं न ज्ञायते, तत् किमभावादेव, यथा- शशविषाणम्, उत वा ज्ञानायोग्यत्वात् पृथिव्यां निखातमूलकीलकादिवत् सदपि न ज्ञायते, इत्याह- नाशकारणाभावादिति; न ज्ञानायोग्यत्वेन, किन्तर्ह्यभावादेवेत्यर्थः| अत्र दृष्टान्तमाह- नित्यगस्येत्यादि| निमेषादिरूपत्वेन नित्यगस्य| एवं मन्यते- नित्यगः कालो यथा विनश्वरत्वेन न हेत्वन्तरं विनाशेऽपेक्षते, तथा सर्व एव भावाः; यद्धि यस्य हेत्वन्तरापेक्षं न तस्य तदवश्यम्भावि, यथा- पटस्य रागः; हेत्वन्तरापेक्षी चेद्विनाशः स्यात्, नावश्यम्भावी स्यात्; एतद्विपर्ययाच्चानपेक्षत्वं विनाशस्य सिद्धम्| सम्प्रत्यहेतुको विनाश उत्पत्त्यनन्तरमेव भवति, पश्चादस्थिरत्वेन संस्काराधानमपि भावेषु न पार्यते कर्तुमित्याह- शीघ्रगत्वादित्यादि| यथा भूत इति यादृश उत्पन्नः, तथेति तादृश एव विपद्यते; कुतः? शीघ्रगत्वात् अस्थिरत्वात्||३१-३२||

Adhikarana 13 (33) · Śloka 33

निरोधे कारणं तस्य नास्ति नैवान्यथाक्रिया||३३||

🔊 Audio coming soon

पूर्वसाधितमहेतुविनाशित्वं तथा शीघ्रगत्वहेतुसाधितं चासंस्कार्यत्वमुपसंहरति- निरोध इत्यादि| तस्येति भावस्य| अन्यथाक्रिया अन्यथाकरणं, संस्काराधानमिति यावत्; एतेन विषमे धातौ साम्यं संस्कार आधीयतामित्येवंरूपाऽपि चिकित्सा निरस्ता मन्तव्या||३३||

Adhikarana 14 (34-36) · Śloka 36

याभिः क्रियाभिर्जायन्ते शरीरे धातवः समाः| सा चिकित्सा विकाराणां कर्म तद्भिषजां स्मृतम्||३४|| कथं शरीरे धातूनां वैषम्यं न भवेदिति| समानां चानुबन्धः स्यादित्यर्थं क्रियते क्रिया||३५|| त्यागाद्विषमहेतूनां समानां चोपसेवनात्| विषमा नानुबध्नन्ति जायन्ते धातवः समाः||३६||

🔊 Audio coming soon

एवं व्यवस्थिते पूर्वाक्षिप्तं चिकित्सितं समादधति- याभिरित्यादि| ‘सा चिकित्सा’ इत्यनेन ‘का वा चिकित्सा’ इत्याक्षेपः परिहृतः| ‘कर्म तद्’ इत्यनेन प्रथमोद्दिष्ट आक्षेपः परिहृतः| ‘इत्यर्थं क्रियते क्रिया’ इत्यनेन ‘किमर्थं वा’ इत्याक्षेपः परिहृतः| ‘कान् समीकुरुते’ इत्याक्षेपस्तु ‘समैस्तु हेतुभिर्यस्माद्’ इत्यादिना परिहृतः| विषमेषु धातुषु याभिः क्रियाभिः सामा धातवो जन्यन्ते सा चिकित्सा| एवं मन्यते- यद्यपि धातुवैषम्यं क्षणिकत्वेन विनश्वरं, तथाऽपि विनश्यदपि तद्धातुवैषम्यं स्वकार्यं विषममेव धातुमारभते, एवं सोऽप्यपरं विषममिति न धातुवैषम्यसन्ताननिवृत्तिर्धातुसाम्यजनकहेतुं विना; यदा तु धातुसाम्यहेतुरुपयुक्तो भवति, तदा तेन सहितं वैषम्यसन्ततिपतितमपि कारणं सममेव धातुसन्तानमारभते, यथा- मुद्गरप्रहारसहितो घटपरमाणुसन्तानो विसदृशं कपालसन्तानमारभते; एवं व्यवस्थिते ‘कथं शरीरे’ इत्यादिग्रन्थो व्याख्येयः| वैषम्यं न भवेत् नोत्पद्यत इत्यर्थः| समानां चानुबन्ध इति सन्तत्योत्पादः| विषमा नानुबध्नन्तीति हेत्वभावाद्विषमसन्तानस्योत्पादो न भवति| समानां चोपसेवनादिति समहेतूनां सेवनात्||३४-३६||

Adhikarana 15 (37-38) · Śloka 38

समैस्तु हेतुभिर्यस्माद्धातून् सञ्जनयेत् समान्| चिकित्साप्राभृतस्तस्माद्दाता देहसुखायुषाम्||३७|| धर्मस्यार्थस्य कामस्य नृलोकस्योभयस्य च| दाता सम्पद्यते वैद्यो दानाद्देहसुखायुषाम्||३८||

🔊 Audio coming soon

देहसुखायुषां दानात् धर्मादीनां दाता भवति, देहसम्पत्तिसाध्यत्वाद्धर्मादीनामिति भावः||३७-३८||

Adhikarana 16 (39-41) · Śloka 41

तत्र श्लोकाः- चिकित्साप्राभृतगुणो दोषो यश्चेतराश्रयः| योगायोगातियोगानां लक्षणं शुद्धिसंश्रयम्||३९|| बहुदोषस्य लिङ्गानि संशोधनगुणाश्च ये| चिकित्सासूत्रमात्रं च सिद्धिव्यापत्तिसंश्रयम्||४०|| या च युक्तिश्चिकित्सायां यं चार्थं कुरुते भिषक्| चिकित्साप्राभृतेऽध्याये तत् सर्वमवदन्मुनिः||४१||

🔊 Audio coming soon

सङ्ग्रहे सिद्धिसंश्रयं च व्यापत्तिसंश्रयं च सिद्धिव्यापत्तिसंश्रयं; तत्र सिद्धिसंश्रयं सिद्धिस्थानसंश्रयेण , व्यापत्तिसंश्रयं ‘अतियोगानुबद्धानां’ इत्यादिनोक्तम्||३९-४१||

Adhikarana puShpikA · Śloka 4

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने चिकित्साप्राभृतीयो नाम षोडशोऽध्यायः||१६|| समाप्तः कल्पनाचतुष्कः||४||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने चतुर्थे कल्पनाचतुष्के चिकित्साप्राभृतीयो नाम षोडशोऽध्यायः||१६||