Adhikarana 1 (1-2) · Śloka 2
अथातः कियन्तःशिरसीयमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
पूर्वचतुष्कचतुष्टयेन भेषजमभिहितं, सम्प्रति तद्विषयरोगाभिधानार्थं रोगचतुष्कोऽभिधातव्यः, चिकित्सा च विधेयत्वेनैव प्रधानमतः प्रथममुक्ता, किञ्च दर्शितश्चायं प्रथमाध्याय एव सम्बन्धः, एवं चाङ्गेषु मर्मसु च प्रधानभूतशिरोहृदयरोगाभिधायकत्वेन कियन्तः शिरसीयोऽभिधीयते||१-२||
Adhikarana 2 (3-7) · Śloka 7
कियन्तः शिरसि प्रोक्ता रोगा हृदि च देहिनाम्|
कति चाप्यनिलादीनां रोगा मानविकल्पजाः||३||
क्षयाः कति समाख्याताः पिडकाः कति चानघ!|
गतिः कतिविधा चोक्ता दोषाणां दोषसूदन!||४||
हुताशवेशस्य वचस्तच्छ्रुत्वा गुरुरब्रवीत्|
पृष्टवानसि यत् सौम्य! तन्मे शृणु सविस्तरम्||५||
दृष्टाः पञ्च शिरोरोगाः पञ्चैव हृदयामयाः|
व्याधीनां ह्यधिका षष्टिर्दोषमानविकल्पजा||६||
दशाष्टौ च क्षयाः सप्त पिडका माधुमेहिकाः|
दोषाणां त्रिविधा चोक्ता गतिर्विस्तरतः शृणु||७||
क्षयस्थानवृद्धयो दोषमानं, तस्य विकल्पो दोषान्तरसम्बन्धासम्बन्धकृतो भेदः| माधुमेहिका इत्यत्र मधुमेहशब्दः सामान्येन प्रमेहवचनः| यतोऽत्रैव सामान्येन ब्रूते- “विना प्रमेहमप्येता जायन्ते दुष्टमेदसः” इति; अन्यथा हि ‘विना मधुमेहं’ इति कृतं स्यात्; तथा चिकित्सिते वक्ष्यति सामान्येनैव यत्- “प्रमेहिणां याः पिडका मयोक्ता रोगाधिकारे पृथगेव सप्त” (चि. ६) इत्यादि| तथा मधुमेहपिडकानां चिकित्सितोपदेशाच्च सर्वमेहभवत्वं पिडकानां, मधुमेहभवत्वे हि मधुमेहस्यैवासाध्यत्वान्न तद्भवपिडकानामुपक्रमणीयत्वमस्ति; किञ्च प्रदेशान्तरेऽपि मधुमेहशब्देनायं सर्वप्रमेहानुक्तवान्, यथा- “गुल्मी च मधुमेही च राजयक्ष्मी च यो नरः| अचिकित्स्या भवन्त्येते बलमांसपरिक्षये” (इं. ९) इति| अत्र हि यदि वातिको मधुमेहोऽभिप्रेतः स्यात्तदा तस्य स्वरूपत एवासाध्यत्वेन ‘बलमांसपरिक्षये सति’ इति विशेषणमनर्थकं स्यात्| सुश्रुतेनापि च सामान्येन प्रमेहे एवैताः पिडका दर्शिताः, यदुक्तं- “तत्र वसामेदोभ्यामभिपन्नशरीरस्य त्रिभिर्दोषैश्चानुगतधातोः प्रमेहिणो दश पिडका जायन्ते” (सु. नि. ६) इत्यादि| सर्व एव प्रमेहा यस्माद्देहं मधुरीकृत्य जायन्ते तस्मान्मधुमेहा इत्युच्यन्ते, वचनं हि- “षट्पदपिप्पीलिकाभिश्च शरीरमूत्राभिसरणम्” (नि. ४) इति, तथा च वाग्भटः- “मधुरं यच्च सर्वेषु प्रायो मध्विव मेहति| सर्वे हि मधुमेहाख्या माधुर्याच्च तनोरतः” (वा. नि. १०) इति| विस्तरत इति शृण्वित्यनेन सम्बध्यते||३-७||
Adhikarana 3 (8-11) · Śloka 11
सन्धारणाद्दिवास्वप्नाद्रात्रौ जागरणान्मदात्|
उच्चैर्भाष्यादवश्यायात् प्राग्वातादतिमैथुनात्||८||
गन्धादसात्म्यादाघ्राताद्रजोधूमहिमातपात्|
गुर्वम्लहरितादानादति शीताम्बुसेवनात्||९||
शिरोऽभिघाताद्दुष्टामाद्रोदनाद्बाष्पनिग्रहात् |
मेघागमान्मनस्तापाद्देशकालविपर्ययात्||१०||
वातादयः प्रकुप्यन्ति शिरस्यस्रं च दुष्यति|
ततः शिरसि जायन्ते रोगा विविधलक्षणाः||११||
सन्धारणादिति वेगसन्धारणात्| हरितम् आर्द्रकादि| अतीति पूर्वेण परेण च शीताम्बुसेवनादित्यनेन सम्बध्यते| दुष्टादामात् दुष्टामात्; किंवा ‘उष्णामात्’ इति पाठः, तत्रोष्णाच्चामाच्चेत्यर्थः| देशकालविपर्ययादित्यत्र देशविपर्यय उपसर्गगृहीतत्वं देशस्य| अस्रं च प्रदुष्यतीत्यभिदधानः सर्वशिरोरोगेषु रक्तदुष्टिं दर्शयति||८-११||
Adhikarana 4 (12) · Śloka 12
प्राणाः प्राणभृतां यत्र श्रिताः सर्वेन्द्रियाणि च|
यदुत्तमाङ्गमाङ्गानां शिरस्तदभिधीयते||१२||
प्राणा इत्यादिनाऽङ्गेषु शिरःप्राधान्यं दर्शयन् प्रकृतशिरोरोगाणामेवात्यहितत्वं दर्शयति; तेन नोत्सूत्रं शिरःप्राधान्याभिधानम्| श्रिता इव श्रिताः, शिर-उपघाते उपघातात्| उपरिष्टादङ्गमुत्तमाङ्गम्||१२||
Adhikarana 5 (13-14) · Śloka 14
अर्धावभेदको वा स्यात् सर्वं वा रुज्यते शिरः|
प्रतिश्यामुखनासाक्षिकर्णरोगशिरोभ्रमाः||१३||
अर्दितं शिरसः कम्पो गलमन्याहनुग्रहः|
विविधाश्चापरे रोगा वातादिक्रिमिसम्भवाः||१४||
प्रकृताञ्छिरोरोगानाह- अर्धेत्यादिना क्रिमिसम्भवा इत्यन्तेन| एतच्च ‘जायन्ते रोगा विविधलक्षणाः’ इत्यस्य विवरणम्||१३-१४||
Adhikarana 6 (15-21) · Śloka 21
पृथग्दिष्टास्तु ये पञ्च सङ्ग्रहे परमर्षिभिः|
शिरोगदांस्ताञ्छृणु मे यथास्वैर्हेतुलक्षणैः||१५||
उच्चैर्भाष्यातिभाष्याभ्यां तीक्ष्णपानात् प्रजागरात्|
शीतमारुतसंस्पर्शाद्व्यवायाद्वेगनिग्रहात्||१६||
उपवासादभीघाताद्विरेकाद्वमनादति|
बाष्पशोकभयत्रासाद्भारमार्गातिकर्शनात्||१७||
शिरोगताः सिरा वृद्धो वायुराविश्य कुप्यति|
ततः शूलं महत्तस्य वातात् समुपजायते||१८||
निस्तुद्येते भृशं शङ्कौ घाटा सम्भिद्यते तथा|
सभ्रूमध्यं ललाटं च तपतीवातिवेदनम्||१९||
वध्येते स्वनतः श्रोत्रे निष्कृष्येते इवाक्षिणी|
घूर्णतीव शिरः सर्वं सन्धिभ्य इव मुच्यते||२०||
स्फुरत्यति सिराजालं स्तभ्यते च शिरोधरा|
स्निग्धोष्णमुपशेते च शिरोरोगेऽनिलात्मके||२१||
शिरोगतत्वेन नासादिरोगेष्वपि प्राप्तेषु तान् विहायैवाष्टोदरीये प्रोक्तांस्तानेव शिरःशूललक्षणान् रोगान् प्रपञ्चेन वक्तुमाह- पृथगित्यादि| सङ्ग्रहे अष्टोदरीये; तेन नारूंषिकादयोऽत्रप्रकरणे शिरोरोगशब्देनोच्यन्ते; शिरोरोगशब्दस्य शूल एव रुजाकरे वृत्तत्वात् | तीक्ष्णपानं तीक्ष्णमद्यपानं; किंवा, तीक्ष्णं मरिचादि| वध्येते इव वध्येते, अत्यर्थपीडायुक्तत्वेन||१५-२१||
Adhikarana 7 (22-23) · Śloka 23
कट्वम्ललवणक्षारमद्यक्रोधातपानलैः|
पित्तं शिरसि सन्दुष्टं शिरोरोगाय कल्पते||२२||
दह्यते रुज्यते तेन शिरः शीतं सुषूयते |
दह्येते चक्षुषी तृष्णा भ्रमः स्वेदश्च जायते||२३||
शीतं सुषूयते शीतमिच्छति||२२-२३||
Adhikarana 8 (24-26) · Śloka 26
आस्यासुखैः स्वप्नसुखैर्गुरुस्निग्धातिभोजनैः|
श्लेष्मा शिरसि सन्दुष्टः शिरोरोगाय कल्पते||२४||
शिरो मन्दरुजं तेन सुप्तं स्तिमितभारिकम्|
भवत्युत्पद्यते तन्द्रा तथाऽऽलस्यमरोचकः||२५||
वाताच्छूलं भ्रमः कम्पः पिताद्दाहो मदस्तृषा|
कफाद्गुरुत्वं तन्द्रा च शिरोरोगे त्रिदोषजे||२६||
स्वप्नसुखमनुचितदिवास्वप्नेन ज्ञेयम्| सुप्तमिव सुप्तं, प्रबोधरहितत्वेन| भाराक्रान्तमिव भारिकम्||२४-२६||
Adhikarana 9 (27-29) · Śloka 29
तिलक्षीरगुडाजीर्णपूतिसङ्कीर्णभोजनात्|
क्लेदोऽसृक्कफमांसानां दोषलस्योपजायते||२७||
ततः शिरसि सङ्क्लेदात् क्रिमयः पापकर्मणः|
जनयन्ति शिरोरोगं जाता बीभत्सलक्षणम्||२८||
व्यधच्छेदरुजाकण्डूशोफदौर्गत्यदुःखितम् |
क्रिमिरोगातुरं विद्यात् क्रिमीणां दर्शनेन च||२९||
सङ्कीर्णभोजनं विरुद्धाहरः| दोषलस्य बहुदोषस्य| पापकर्मण इत्यनेनाधर्मवत एवायमतिदुःखक्रिमिरोगो भवतीति दर्शयति| बीभत्सलक्षणमिति घ्राणादिभ्यः पूयादिप्रवृत्तेः||२७-२९||
Adhikarana 10 (30-40) · Śloka 40
शोकोपवासव्यायामरूक्षशुष्काल्पभोजनैः |
वायुराविश्य हृदयं जनयत्युत्तमां रुजम्||३०||
वेपथुर्वेष्टनं स्तम्भः प्रमोहः शून्यता दरः |
हृदि वातातुरे रूपं जीर्णे चात्यर्थवेदना||३१||
उष्णाम्ललवणक्षारकटुकाजीर्णभोजनैः|
मद्यक्रोधातपैश्चाशु हृदि पित्तं प्रकुप्यति||३२||
हृद्दाहस्तिक्तता वक्रे तिक्ताम्लोद्गिरणं क्लमः|
तृष्णा मूर्च्छा भ्रमः स्वेदः पित्तहृद्रोगलक्षणम्||३३||
अत्यादानं गुरुस्निग्धमचिन्तनमचेष्टनम्|
निद्रासुखं चाभ्यधिकं कफहृद्रोगकारणम्||३४||
हृदयं कफहृद्रोगे सुप्तं स्तिमितभारिकम्|
तन्द्रारुचिपरीतस्य भवत्यश्मावृतं यथा||३५||
हेतुलक्षणसंसर्गादुच्यते सान्निपातिकः|
(हृद्रोगः कष्टदः कष्टसाध्य उक्तो महर्षिभिः) त्रिदोषजे तु हृद्रोगे यो दुरात्मा निषेवते||३६||
तिलक्षीरगुडादीनि ग्रन्थिस्तस्योपजायते|
मर्मैकदेशे सङ्क्लेदं रसश्चास्योपगच्छति||३७||
सङ्क्लेदात् क्रिमयश्चास्य भवन्त्युपहतात्मनः|
मर्मैकदेशे ते जाताः सर्पन्तो भक्षयन्ति च||३८||
तुद्यमानं स हृदयं सूचीभिरिव मन्यते|
छिद्यमानं यथा शस्त्रैर्जातकण्डूं महारुजम्||३९||
हृद्रोगं क्रिमिजं त्वेतैर्लिङ्गैर्बुद्ध्वा सुदारुणम्|
त्वरेत जेतुं तं विद्वान् विकारं शीघ्रकारिणम्||४०||
शोकोपवासेत्यादि हृद्रोगलक्षणम्| वेष्टनम् उद्वेष्टनमिव| दरः दरदरिका| अचिन्तनम् अल्पचिन्तनम्| अश्मावृतम् अश्माक्रान्तम्| ग्रन्थिरिव ग्रन्थिः, स च रसदोषकृतः| मर्मैकदेशे हृदयैकदेशे| द्वितीयं मर्मेतिपदं कर्मतापन्नम्||३०-४०||
Adhikarana 11 (41-44) · Śloka 44
द्व्युल्बणैकोल्बणैः षट् स्युर्हीनमध्याधिकैश्च षट्|
समैश्चैको विकारास्ते सन्निपातास्त्रयोदश||४१||
संसर्गे नव षट् तेभ्य एकवृद्ध्या समैस्त्रयः|
पृथक् त्रयश्च तैर्वृद्धैर्व्याधयः पञ्चविंशतिः||४२||
यथा वृद्धैस्तथा क्षीणैर्दोषेः स्युः पञ्चविंशतिः|
वृद्धिक्षयकृतश्चान्यो विकल्प उपदेक्ष्यते||४३||
वृद्धिरेकस्य समता चैकस्यैकस्य सङ्क्षयः|
द्वन्द्ववृद्धिः क्षयश्चैकस्यैकवृद्धिर्द्वयोः क्षयः ||४४||
‘कति चाप्यनिलादीनाम्’ इत्याद्युक्तस्योत्तरं- द्व्युल्बणैरित्यादि| हीनमध्याधिकैरिति वृद्धवृद्धतरवृद्धतमैः| संसर्गे नवेति च्छेदः| अस्यैव विवरणं- षट् तेभ्य इत्यादि| समैस्रय इति वृद्धैः समैः| वृद्धिक्षयकृत इत्यस्य विवरणं- वृद्धिरेकस्येत्यादि| अत्र च यद्यपि समताऽपि वृद्धिक्षयविकल्पे पठ्यते, तथाऽपि समतायाः स्वातन्त्र्येण विकाराकर्तृत्वात् ‘वृद्धिक्षयकृत’ इत्युक्तम्| वृद्धिरेकस्य समता चैकस्यैकस्य सङ्क्षय इत्यनेन षड्विकाराः| द्वन्द्ववृद्धिः क्षयश्चैकस्येत्यनेन त्रयः| एकवृद्धिर्द्वयोः क्षयः , तेन त्रयः| एवं द्विषष्टिप्रकारा भवन्ति||४१-४४||
Adhikarana 12 (45-61) · Śloka 61
प्रकृतिस्थं यदा पित्तं मारुतः श्लेष्मणः क्षये|
स्थानादादाय गात्रेषु यत्र यत्र विसर्पति||४५||
तदा भेदश्च दाहश्च तत्र तत्रानवस्थितः|
गात्रदेशे भवत्यस्य श्रमो दौर्बल्यमेव च||४६||
प्रकृतिस्थं कफं वायुः क्षीणे पित्ते यदा बली|
कर्षेत् कुर्यात्तदा शूलं सशैत्यस्तम्भगौरवम्||४७||
यदाऽनिलं प्रकृतिगं पित्तं कफपरिक्षये|
संरुणद्धि तदा दाहः शूलं चास्योपजायते||४८||
श्लेष्माणं हि समं पित्तं यदा वातपरिक्षये|
सन्निरुन्ध्यात्तदा कुर्यात् सतन्द्रागौरवं ज्वरम्||४९||
प्रवृद्धो हि यदा श्लेष्मा पित्ते क्षीणे समीरणम्|
रुन्ध्यात्तदा प्रकुर्वीत शीतकं गौरवं रुजम् ||५०||
समीरणे परिक्षीणे कफः पित्तं समत्वगम्|
कुर्वीत सन्निरुन्धानो मृद्वग्नित्वं शिरोग्रहम् ||५१||
निद्रां तन्द्रां प्रलापं च हृद्रोगं गात्रगौरवम्|
नखादीनां च पीतत्वं ष्ठीवनं कफपित्तयोः||५२||
हीनवातस्य तु श्लेष्मा पित्तेन सहितश्चरन्|
करोत्यरोचकापाकौ सदनं गौरवं तथा||५३||
हृल्लासमास्यस्रवणं पाण्डुतां दूयनं मदम्|
विरेकस्य च वैषम्यं वैषम्यमनलस्य च||५४||
हीनपित्तस्य तु श्लेष्मा मारुतेनोपसंहितः|
स्तम्भं शैत्यं च तोदं च जनयत्यनवस्थितम्||५५||
गौरवं मृदुतामग्नेर्भक्ताश्रद्धां प्रवेपनम्|
नखादीनां च शुक्लत्वं गात्रपारुष्यमेव च||५६||
मारुतस्तु कफे हीने पित्तं च कुपितं द्वयम्|
करोति यानि लिङ्गानि शृणु तानि समासतः||५७||
भ्रममुद्वेष्टनं तोदं दाहं स्फुटनवेपने|
अङ्गमर्दं परीशोषं दूयनं धूपनं तथा||५८||
वातपित्तक्षये श्लेष्मा स्रोतांस्यपिदधद्भृशम्|
चेष्टाप्रणाशं मूर्च्छां च वाक्सङ्गं च करोति हि||५९||
वातश्लेष्मक्षये पित्तं देहौजः स्रंसयच्चरेत्|
ग्लानिमिन्द्रियदौर्बल्यं तृष्णां मूर्च्छां क्रियाक्षयम्||६०||
पित्तश्लेष्मक्षये वायुर्मर्माण्यतिनिपीडयन्|
प्रणाशयति सञ्ज्ञां च वेपयत्यथवा नरम्||६१||
वृद्धिरेकस्येत्यादेरुदाहरणम्- प्रकृतिस्थं यदा पित्तमित्यादि| अत्र केचिदेतदेव परमुदाहरणं दृष्टान्तार्थं पठन्ति, शेषोदाहरणं तु कृत्स्ने तन्त्रे बोद्धव्यं; केचित्तु वृद्धिक्षयविकल्पस्य दुर्बोधत्वेन सर्वेषामेव द्वादशानामपि विकल्पानामाचार्येण लक्षणं कृतमिति कृत्वा सर्वमेव पठन्ति| ननु प्रकृतिस्थे पित्ते कथं तदा दाहश्चेति सङ्गतं भवति, न हि प्रकृतिस्थो दोषो विकारकारी, न च वायोर्दाहः सम्भवति| उच्यते- यत्र यत्रेति वचनाद् यत्र कुपितेन वायुना पित्तं नीतं, तत्र शरीरावयवे प्रकृतिमानस्थितमपि पित्तं वृद्धमेव, यतस्तस्मिन् प्रदेशे तावान् पित्तसम्बन्ध उचितो न भवत्येवेत्यधिकेन तत्र पित्तेन दाह उपपन्न एव, एवमन्यत्रापि प्रकृतिस्थस्यापि दोषस्य विकारे व्याख्येयम्| अन्ये तु ब्रुवते- प्रकृतिस्थानामपि दोषाणां दुष्टदोषसम्बन्धाद्विकारकारित्वं भवति; यथा- रक्तादीनाम्| हीनवातस्येत्यादि ‘द्वन्द्ववृद्धिः क्षयश्चैकस्य’ इत्यस्योदाहरणम्| देहौजो देहसारः; किंवा देहश्च ओजश्च देहौजः||४५-६१||
Adhikarana 13 (62) · Śloka 62
दोषाः प्रवृद्धाः स्वं लिङ्गं दर्शयन्ति यथाबलम्|
क्षीणा जहति लिङ्गं स्वं, समाः स्वं कर्म कुवेते||६२||
दोषाणां वृद्धिसाम्यक्षयलक्षणानि पृथगाह- दोषा इत्यादि| स्वं लिङ्गमिति वैकारिकम्| यथाबलमिति अतिवृद्धैरतिवृद्धं, मध्यवृद्धैर्मध्यवृद्धमित्यादि| लिङ्गं स्वं जहतीत्यनेन क्षीणानां प्रकृतिलिङ्गक्षयव्यतिरिक्तं विकारकर्तृत्वं नास्तीति दर्शयति; यतो वृद्धा उन्मार्गगामिनो दोषा दूष्यं दूषयन्तो ज्वरादीन् कुर्वन्ति न क्षीणाः, स्वयमेव दुःस्थितत्वात्| स्वं कर्मेति प्राकृतं कर्म| एते च द्विषष्टिर्भेदा आविष्कृततमत्वेनोक्ताः; तेनैकदोषक्षये द्विदोषवृद्धौ च वृद्धवृद्धतरभेदादिभ्योऽधिकत्वमुद्भावनीयम् | ननु भवत्वेवं सङ्ख्या यदि सन्निपातो दोषाणां स्यात्, स तु न भवितुमर्हति, यतो वातादीनां परस्परं विरुद्धाः सन्ति गुणाः, विरुद्धगुणानां तु परस्परोपघातो भवति, यथा- वह्नितोययोः| नैवं, विरोधो हि भावानां कार्योन्नेयः, नान्यतो दृष्टमात्रेण कल्पयितुं पार्यते; यतोऽन्यत्र तोयदहनयोर्भेद उपलब्धः, तत् किं पाञ्चभौतिकद्रव्यारम्भेऽपि तयोर्विरोधात् पाञ्चभौतिकं द्रव्यं न स्यात्, तोयाग्निगुणातिरेकाद्वाऽम्लरसो न स्यात् , तस्मादनुपलब्धत्वाद्दोषसंसर्गे विरोधस्य स्वभावपर्यनुयोगो न युज्यते| अथ मन्यसे- एवं विरुद्धगुणानामपि दोषाणामविरोधे “विरुद्धगुणसन्निपाते भूयसाऽल्पमवजीयते” (वि. १) इति, तथा “ह्रासहेतुर्विशेषस्तु” (सू. १) इति वचने तर्हि निरर्थके| न, अनयोः प्रभावात् प्रतिपादितविषयव्यतिरेके चरितार्थत्वात्| प्रभावस्तु तयोर्विरोधको भवत्येव; यथा- त्रिदोषकरनिकुचगता गुणाः समान् दोषान् कुर्वन्ति परं, न तु विरुद्धत्वेन दोषहरणं कुर्वते त्रिदोषकर्तृत्वप्रभावात्; तथा आमलकेऽम्लत्वं वातं हन्ति, माधुर्यशैत्ये तु पित्तं, श्लेष्माणं च कटुत्वतिक्तत्वे; निकुचे त्वम्लत्वं कषायशैत्याभिभूतं वातं न निहन्ति, माधुर्यशैत्ये चाम्लत्वाभिभूते पित्तं न जयत एवमादि| तस्माद्दोषाणां प्रभावोऽयं दृष्टत्वादवधार्यते- यत्- न ते परस्परमुपघ्नन्ति| एवम्भूतप्रभावत्वे तु तेषामदृष्टमेव कारणं, प्राणिनां दुःखजनकेन ह्यदृष्टेन तेऽविरोधेन निवेश्यन्ते, अत एव वक्ष्यति- “विरुद्धैरपि न त्वेते गुणैर्घ्नन्ति परस्परम्| दोषाः सहजसात्म्यत्वाद्धोरं विषमहीनिव” (चि. २६) इति| सहजं दैववशात् स्वाभाविकं सात्म्यत्वं सहजसात्म्यत्वम्| अनेन च व्याख्यानेन ‘यथा दोषा अन्योन्यं नोपघ्नन्ति, तथा रसरक्तादीनपि नोपहन्युः’ इत्यादि यदुच्यते कैश्चित्, तत् सर्वं निरस्तम्| ननु, “कालदूष्यप्रकृतिभिर्दोषस्तुल्यो हि सन्ततम्| निष्प्रत्यनीकः कुरुते” (चि. ३) इति चिकित्सिते वक्ष्यति, तेन प्रकृतिर्दोषस्य प्रतिपक्षा भवतीत्युक्तं, प्रकृतिश्च जन्मप्रभृतिवृद्धो वातादिरुच्यते, “दोषानुशयिता ह्येषां देहप्रकृतिरुच्यते” (सू. ७) इत्यादिवचनात्; तदयं प्राकृतेन दोषेण दोषस्य विरोधः कथं तर्ह्युपपन्नः? उच्यते- तत्र प्रकृतेः प्रत्यनीकता अननुगुणत्वेन मन्तव्या, समानां हि प्रकृतिं प्राप्य दोषः प्रवृद्धबलो भवति, असमानां तु प्राप्य तथा बलवान्न भवति, नासमानया प्रकृत्या हन्यते; एवमन्यत्राप्युन्नेयम्| अतिवृद्धेन वायुनाश्लेष्मणो दुर्बलस्य दुष्टत्वाद्विरोधो भवत्येव क्वचित्, नैतावता संसर्गसन्निपातासम्भवः||६२||
Adhikarana 14 (63-72) · Śloka 72
वातादीनां रसादीनां मलानामोजसस्तथा|
क्षयास्तत्रानिलादीनामुक्तं सङ्क्षीणलक्षणम् ||६३||
घट्टते सहते शब्दं नोच्चैर्द्रवति शूल्यते|
हृदयं ताम्यति स्वल्पचेष्टस्यापि रसक्षये||६४||
परुषा स्फुटिता म्लाना त्वग्रूक्षा रक्तसङ्क्षये|
मांसक्षये विशेषेण स्फिग्ग्रीवोदरशुष्कता||६५||
सन्धीनां स्फुटनं ग्लानिरक्ष्णोरायास एव च|
लक्षणं मेदसि क्षीणे तनुत्वं चोदरस्य च||६६||
केशलोमनखश्मश्रुद्विजप्रपतनं श्रमः|
ज्ञेयमस्थिक्षये लिङ्गं सन्धिशैथिल्यमेव च||६७||
शीर्यन्त इव चास्थीनि दुर्बलानि लघूनि च|
प्रततं वातरोगीणि क्षीणे मज्जनि देहिनाम्||६८||
दौर्बल्यं मुखशोषश्च पाण्डुत्वं सदनं श्रमः|
क्लैब्यं शुक्राविसर्गश्च क्षीणशुक्रस्य लक्षणम्||६९||
क्षीणे शकृति चान्त्राणि पीडयन्निव मारुतः|
रूक्षस्योन्नमयन् कुक्षिं तिर्यगूर्ध्वं च गच्छति||७०||
मूत्रक्षये मूत्रकृच्छ्रं मूत्रवैवर्ण्यमेव च|
पिपासा बाधते चास्य मुखं च परिशुष्यति||७१||
मलायनानि चान्यानि शून्यानि च लघूनि च|
विशुष्काणि च लक्ष्यन्ते यथास्वं मलसङ्क्षये||७२||
सम्प्रत्यष्टादशक्षयानाह- वातादीनामित्यादि| अत्र मलानामित्यनेन मूत्रपुरीषयोः पञ्चेन्द्रियमलानां च ग्रहणम्| विशेषेणेतिवचनादन्यगात्राणामपि शुष्कता लभ्यते| सन्धीनामित्यादि भेदः- क्षयलक्षणम्, केशेत्यादि अस्थिक्षयस्य| बाधते चास्येति कर्मणि शेषलक्षणा षष्ठी| मलायनानीत्यनेन पञ्चेन्द्रियाधिष्ठानानां मुखनासिकाचक्षुःकर्णानां त्वगिन्द्रियाधिष्ठानभूतानां च लोमकूपप्रजननानां यथास्वं मलायनानि गृह्यन्ते| यदुक्तं जतूकर्णे- “दोषाणां धातूनामोजोमूत्रशकृदिन्द्रियमलानाम्| अष्टादशक्षयास्ते लक्ष्याः स्वगुणक्रियानाशात्” इति||६३-७२||
Adhikarana 15 (73-75) · Śloka 1
बिभेति दुर्बलोऽभीक्ष्णं ध्यायति व्यथितेन्द्रियः|
दुश्छायो दुर्मना रूक्षः क्षामश्चैवौजसः क्षये||७३||
हृदि तिष्ठति यच्छुद्धं रक्तमीषत्सपीतकम्|
ओजः शरीरे सङ्ख्यातं तन्नाशान्ना विनश्यति||७४||
प्रथमं जायते ह्योजः शरीरेऽस्मिञ्छरीरिणाम्|
सर्पिर्वर्णं मधुरसं लाजगन्धि प्रजायते||७५||
(भ्रमरैः फलपुष्पेभ्यो यथा सम्भ्रियते मधु|
तद्वदोजः स्वकर्मभ्यो गुणैः सम्भ्रियते नृणाम्||१||)|
ओजःक्षयलक्षणमाह- बिभेतीत्यादि| दुर्मना मनोबलविहीनः| ओजसो दुर्ज्ञेयत्वेन लक्षणमाह- हृदीत्यादि| शुद्धमिति शुक्लं, रक्तमीषदिति किञ्चिद्रक्तं, सपीतकमिति ईषत्पीतकं; तेन शुक्लवर्णमोजः, रक्तपीतौ तु वर्णावत्रानुगतौ; किंवा, ईषदित्यल्पप्रमाणं, तेनाष्टबिन्दुकमोज इति दर्शयति| यदुक्तं तन्त्रान्तरे- “प्राणाश्रयस्यौजसोऽष्टौ बिन्दवो हृदयाश्रयाः” इति| एतच्चाष्टबिन्दुकं परमोजो ज्ञेयम्, अर्धाञ्जलिपरिमाणं तु यदोजस्तदप्रधानं; यच्छारीरे वक्ष्यति- “तावच्चैव श्लैष्मिकस्यौजसः प्रमाणम्” (शा. ७) इत्यनेन; तस्माद्द्विविधमिहौजः| अत एवार्थे दशमहामूलीये वक्ष्यति- “तत् परस्यौजसः स्थानं” (सू. ३०) इति; परस्य श्रेष्ठस्याष्टबिन्दुकस्येत्यर्थः| इह च क्षयलक्षणमर्धाञ्जलिमानस्यैव ज्ञैयम्, अष्टबिन्दुकस्य त्ववयवनाशेऽपि मृत्युर्भवतीति हृदीत्यादिना ग्रन्थेन दर्शयति| एतच्चौजः सर्वधातुसमुदायरूपं, तेन सप्तधातुष्वेवावरुद्धमिति नाष्टमधातुत्वातिप्रसक्तिः ; अत एव सुश्रुतेऽप्युक्तं- “रसादीनां शुक्रान्तानां धातूनां यत् परं तेजस्तत् खल्वोजः” (सु. सू. १५) इति| अन्यत्राप्युक्तं- “भ्रमरैः फलपुष्पेभ्यो यथा संह्रियते मधु| तद्वदोजः शरीरेभ्यो गुणैः संह्रियते नृणाम्” इति| ‘प्रथमं जायते’ इत्यादिपाठस्तु नातिप्रसिद्धः| एते चाष्टादश क्षया आविष्कृततमत्वेनोक्ताः; तेन उदकक्षयस्वरक्षयाद्यनभिधानं नोद्भावनीयम्; उक्तं हि- “स्वरक्षयमुरोरोगं” इति; तथोदकक्षयलक्षणं यथा- “जिह्वाताल्वोष्ठकण्ठक्लोमसंशोषं पिपासां चातिवृद्धां दृष्ट्वा उदकवहान्यस्य स्रोतांसि प्रदुष्टानीति जानीयात्” (वि. ५) इति||७३-७५||
Adhikarana 16 (76-77) · Śloka 77
व्यायामोऽनशनं चिन्ता रूक्षाल्पप्रमिताशनम्|
वातातपौ भयं शोको रूक्षपानं प्रजागरः||७६||
कफशोणितशुक्राणां मलानां चातिवर्तनम्|
कालो भूतोपघातश्च ज्ञातव्याः क्षयहेतवः||७७||
सामान्येन क्षयाणां हेतुमाह- व्यायाम इत्यादि| प्रमिताशनम् एकरसाभ्यासः| अतिवर्तनम् अतिप्रवृत्तिः, बहिर्गमनमिति यावत्| कालो वार्धक्यमादानं च| भूतोपघातः पिशाचाद्युपघातः| अत्र वातक्षयहेतुर्नोक्तो विलक्षणत्वात्, स चाचिन्तनदिवास्वपनादिर्ज्ञेयः; किंवा, अनशनात् किट्टाभावः, ततश्च किट्टरूपस्य वातस्याप्यनुत्पादात् क्षयो ज्ञेयः||७६-७७||
Adhikarana 17 (78-89) · Śloka 89
गुरुस्निग्धाम्ललवणान्यतिमात्रं समश्नताम्|
नवमन्नं च पानं च निद्रामास्यासुखानि च||७८||
त्यक्तव्यायामचिन्तानां संशोधनमकुर्वताम्|
श्लेष्मा पित्तं च मेदश्च मांसं चातिप्रवर्धते||७९||
तैरावृतगतिर्वायुरोज आदाय गच्छति|
यदा बस्तिं तदा कृच्छ्रो मधुमेहः प्रवर्तते||८०||
स मारुतस्य पित्तस्य कफस्य च मुहुर्मुहुः|
दर्शयत्याकृतिं गत्वा क्षयमाप्यायते पुनः||८१||
उपेक्षयाऽस्य जायन्ते पिडकाः सप्त दारुणाः|
मांसलेष्ववकाशेषु मर्मस्वपि च सन्धिषु||८२||
शराविका कच्छपिका जालिनी सर्षपी तथा|
अलजी विनताख्या च विद्रधी चेति सप्तमी||८३||
अन्तोन्नता मध्यनिम्ना श्यावा क्लेदरुगन्विता|
शराविका स्यात् पिडका शरावाकृतिसंस्थिता||८४||
अवगाढार्तिनिस्तोदा महावास्तुपरिग्रहा|
श्लक्ष्णा कच्छपपृष्ठाभा पिडका कच्छपी मता||८५||
स्तब्धा सिराजालवती स्निग्धास्रावा महाशया|
रुजानिस्तोदबहुला सूक्ष्मच्छिद्रा च जालिनी||८६||
पिडका नातिमहती क्षिप्रपाका महारुजा|
सर्षपी सर्षपाभाभिः पिडकाभिश्चिता भवेत्||८७||
दहति त्वचमुत्थाने तृष्णामोहज्वरप्रदा|
विसर्पत्यनिशं दुःखाद्दहत्यग्निरिवालजी||८८||
अवगाढरुजाक्लेदा पृष्ठे वाऽप्युदरेऽपि वा|
महती विनता नीला पिडका विनता मता||८९||
सम्प्रति सप्तपिडका वक्तव्याः, अतस्तासां प्रधानहेतुत्वेन प्रमेहानेव तावन्निदानादिक्रमेणाह- गुर्वित्यादि| नवं पानमिति नवं मद्यम्| निद्रामास्यासुखानि चेत्यत्रान्ते ‘भजतां’ इति शेषः| ओजः प्रसादो धातूनामिति यावत्| कृच्छ्र् इति कृच्छ्रसाध्यः| उपेक्षया अचिकित्सया| शराविकादिसञ्ज्ञान्वयो विवरणे स्फुटः| अलजीसञ्ज्ञा रूढा| एताश्च प्राधान्यादुक्ताः| तेन सुश्रुतेऽपि पिडकाधिक्यमुक्तं यत्, तन्न विरोधि| सिराजालं सिरासमूहः| चिता अधिष्ठिता||७८-८९||
Adhikarana 18 (90-100) · Śloka 100
विद्रधिं द्विविधामाहुर्बाह्यामाभ्यन्तरीं तथा|
बाह्या त्वक्स्नायुमांसोत्था कण्डराभा महारुजा||९०||
शीतकान्नविदाह्युष्णरूक्षशुष्कातिभोजनात्|
विरुद्धाजीर्णसङ्क्लिष्टविषमासात्म्यभोजनात्||९१||
व्यापन्नबहुमद्यत्वाद्वेगसन्धारणाच्छ्रमात्|
जिह्मव्यायामशयनादतिभाराध्वमैथुनात्||९२||
अन्तःशरीरे मांसासृगाविशन्ति यदा मलाः|
तदा सञ्जायते ग्रन्थिर्गम्भीरस्थः सुदारुणः||९३||
हृदये क्लोम्नि यकृति प्लीह्नि कुक्षौ च वृक्कयोः|
नाभ्यां वङ्क्षणयोर्वाऽपि बस्तौ वा तीव्रवेदनः||९४||
दुष्टरक्तातिमात्रत्वात् स वै शीघ्रं विदह्यते|
ततः शीघ्रविदाहित्वाद्विद्रधीत्यभिधीयते||९५||
व्यधच्छेदभ्रमानाहशब्दस्फुरणसर्पणैः|
वातिकीं, पैत्तिकीं तृष्णादाहमोहमदज्वरैः||९६||
जृम्भोत्क्लेशारुचिस्तम्भशीतकैः श्लैष्मिकीं विदुः|
सर्वासु च महच्छूलं विद्रधीषूपजायते||९७||
शस्त्रास्त्रैर्भिद्यत इव चोल्मुकैरिव दह्यते|
विद्रधी व्यम्लता याता वृश्चिकैरिव दश्यते||९८||
तनु रूक्षारुणं श्यावं फेनिलं वातविद्रधी|
तिलमाषकुलत्थोदसन्निभं पित्तविद्रधी||९९||
श्लैष्मिकी स्रवति श्वेतं पिच्छिलं बहलं बहु|
लक्षणं सर्वमेवैतद्भजते सान्निपातिकी||१००||
विद्रधिं द्विविधामित्यनेनाभ्यन्तरविद्रधेरपि विद्रधित्वेन पिडकानां सप्तत्वेऽविरोध इति दर्शयति| कण्डराभा स्थूलस्नाय्वाकारा| अन्तर्विद्रधेर्गरीयस्त्वेन निदानान्याह- शीतकेत्यादि| सङ्क्लिष्टं दोषलम्| व्यापन्नं च बहु च मद्यमुपयुङ्क्ते यः स व्यापन्नबहुमद्यः| अन्तःशरीर इति कोष्ठे| मला दोषाः| ग्रन्थिरिव ग्रन्थिः| स इति ग्रन्थिः| व्यधादयो व्यथाप्रकाराः | शीतमेव शीतकम्| व्यम्लतां याता विदाहं प्राप्ता| तमकः श्वासभेदः||९०-१००||
Adhikarana 19 (101-103) · Śloka 103
अथासां विद्रधीनां साध्यासाध्यत्वविशेषज्ञानार्थं स्थानकृतं लिङ्गविशेषमुपदेक्ष्यामः- तत्र प्रधानमर्मजायां विद्रध्यां हृद्धट्टनतमकप्रमोहकासश्वासाः, क्लोमजायां पिपासामुखशोषगलग्रहाः, यकृज्जायां श्वासः, प्लीहजायामुच्छ्वासोपरोधः, कुक्षिजायां कुक्षिपार्श्वान्तरांसशूलं, वृक्कजायां पृष्ठकटिग्रहः, नाभिजायां हिक्का, वङ्क्षणजायां सक्थिसादः, बस्तिजायां कृच्छ्रपूतिमूत्रवर्चसत्वं चेति||१०१||
पक्वप्रभिन्नासूर्ध्वजासु मुखात् स्रावः स्रवति, अधोजासु गुदात्, उभयतस्तु नाभिजासु||१०२||
आसां हृन्नाभिबस्तिजाः परिपक्वाः सान्निपातिकी च मरणाय; शेषाः पुनः कुशलमाशुप्रतिकारिणं चिकित्सकमासाद्योपशाम्यन्ति|
तस्मादचिरोत्थितां विद्रधीं शस्त्रसर्पविद्युदग्नितुल्यां स्नेहविरेचनैराश्वेवोपक्रमेत् सर्वशो गुल्मवच्चेति||१०३||
कुक्षिपार्श्वान्तरांसशूलमिति कुक्षिपार्श्वान्तरांसेषु शूलम् | हृन्नाभिबस्तिजासु सान्निपातिकीं पृथक् पठन् सान्निपातिकीं पक्वामपक्वां चासाध्यां दर्शयति| शस्त्रादिदृष्टान्तत्रयाच्छस्त्रवन्मर्मच्छेदकत्वं, सर्पवदाशुसञ्ज्ञाहारित्वं, विद्युदग्निवदाशुमारकत्वं ज्ञेयम्||१०१-१०३||
Adhikarana 20 (104-107) · Śloka 107
भवन्ति चात्र- विना प्रमेहमप्येता जायन्ते दुष्टमेदसः|
तावच्चैता न लक्ष्यन्ते यावद्वास्तुपरिग्रहः||१०४||
शराविका कच्छपिका जालिनी चेति दुःसहाः|
जायन्ते ता ह्यतिबलाः प्रभूतश्लेष्ममेदसः||१०५||
सर्षपी चालजी चैव विनता विद्रधी च याः|
साध्यः पित्तोल्बणास्तास्तु सम्भवन्त्यल्पमेदसः||१०६||
मर्मस्वंसे गुदे पाण्योः स्तने सन्धिषु पादयोः|
जायन्ते यस्य पिडिकाः स प्रमेही न जीवति||१०७||
प्रमेहं विनाऽप्युक्तपिडकासम्भवं दर्शयति- विनेत्यादि| एतेन च पिडकानां माधुमेहिकत्वं यत् पूर्वमुक्तं तत् प्रायिकत्वेन ज्ञेयम्| वास्तु स्थानम्| विद्रधी चेति बाह्यविद्रधी||१०४-१०७||
Adhikarana 21 (108-111) · Śloka 111
तथाऽन्याः पिडकाः सन्ति रक्तपीतासितारुणाः|
पाण्डुराः पाण्डुवर्णाश्च भस्माभा मेचकप्रभाः||१०८||
मृद्व्यश्च कठिनाश्चान्याः स्थूलाः सूक्ष्मास्तथाऽपराः|
मन्दवेगा महावेगाः स्वल्पशूला महारुजः||१०९||
ता बुद्ध्वा मारुतादीनां यथास्वैर्हेतुलक्षणैः|
ब्रूयादुपचरेच्चाशु प्रागुपद्रवदर्शनात्||११०||
तृट्श्वासमांससङ्कोथमोहहिक्कामदज्वराः|
वीसर्पमर्मसंरोधाः पिडकानामुपद्रवाः||१११||
प्रमेहपिडकाप्रसङ्गेनान्यासामपि पिडकानामाविष्कृतानां लक्षणं ब्रूते- तथाऽन्या इत्यादि| पाण्डुरा धूसराः, पाण्डुवर्णास्तु रूक्षपाण्डुवर्णा ज्ञेयाः| मेचकप्रभाः स्निग्धकृष्णवर्णाः| उपचरेच्चेति मारुतादीनां भेषजैरित्यर्थाद्भवति| प्रागुपद्रवदर्शनादित्यनेन उपद्रवयुक्ता पिडका असाध्येति दर्शयति| सङ्कोथः पूतिभावः||१०८-१११||
Adhikarana 22 (112-113) · Śloka 113
क्षयः स्थानं च वृद्धिश्च दोषाणां त्रिविधा गतिः|
ऊर्ध्वं चाधश्च तिर्यक्च विज्ञेया त्रिविधाऽपरा||११२||
त्रिविधा चापरा कोष्ठशाखामर्मास्थिसन्धिषु|
इत्युक्ता विधिभेदेन दोषाणां त्रिविधा गतिः||११३||
सम्प्रति दोषाणां गतिं विवृणोति- क्षय इत्यादि| स्थानं स्वमानवस्थानम्| गतिः प्रकारोऽवस्था वा| चय इत्यत्र प्रशब्दो लुप्तनिर्दिष्टः, तेन प्रकृष्टचयः; एवं प्रकृष्टः कोपः प्रकोपः; एवं प्रशमोऽपि| एतेन वर्षादिषु पित्तादीनां प्रकृष्टश्चयो भवतीति दर्श्यते, इतरदोषस्यापि च स्तोकमात्रेण चयो यथासम्भवं सूच्यते; तेन शरद्यनुबलत्वेन कफप्रकोपो भवतीत्यादि गृहीतं भवति||११२-११३||
Adhikarana 23 (114) · Śloka 115
चयप्रकोपप्रशमाः पित्तादीनां यथाक्रमम्|
भवन्त्येकैकशः षट्सु कालेष्वभ्रागमादिषु||११४||
गतिः कालकृता चैषा चयाद्या पुनरुच्यते|११५|
यथाक्रममिति वर्षाशरद्धेमन्तवसन्तग्रीष्मप्रावृट्क्रमेण; किंवा यथाक्रममिति यथायोग्यतया| पित्तादीनामिति पित्तश्लेष्मवातानाम्| एकैकश इति अयौगपद्येन| एतच्च प्राधान्येनैव ज्ञेयं, तेन प्रावृषि श्लेष्मपित्तकोपेनाप्रधानेन न व्यभिचारः| यदुक्तं- “वर्षास्वग्निबले हीने कुप्यन्ति पवनादयः” (सू.अ.६) इति| अत्र हि पवनादय इति पवनप्रधानाः; एवं वसन्ते वातपित्तप्रकोपे व्याख्येयम्| अत्र च षट्सु ऋतुषु पित्तश्लेष्मवातानां प्रबलचयादयो विभज्यमानत्वेन; तेन पित्तचयकाले वातस्य कोपः, शरदि पित्तस्य प्रकोपकाले वातप्रशमः, हेमन्ते पित्तप्रशमः कफस्य चयः, वसन्ते तु कफप्रकोप एव परं, तथा कफप्रशमके ग्रीष्मे वातचय इति च स्यात्| वातं परित्यज्य पित्तादीनामित्यभिधानां विसर्गस्याभिप्रेतत्वेनाग्रे वक्तव्यत्वात् कृतं, विसर्गे च पित्तचय एव भवतीति कृत्वा||११४||-
Adhikarana 24 (115-118) · Śloka 118
गतिश्च द्विविधा दृष्टा प्राकृती वैकृती च या||११५||
पित्तादेवोष्मणः पक्तिर्नराणामुपजायते|
तच्च पित्तं प्रकुपितं विकारान् कुरुते बहून्||११६||
प्राकृतस्तु बलं श्लेष्मा विकृतो मल उच्यते|
स चैवौजः स्मृतः काये स च पाप्मोपदिश्यते||११७||
सर्वा हि चेष्टा वातेन स प्राणः प्राणीनां स्मृतः|
तेनैव रोगा जायन्ते तेन चैवोपरुध्यते||११८||
गतिभेदान्तरमाह- गतिश्चेत्यादि| अत्र पित्तमादौ कृतं शरीरस्थितिहेत्वग्निकर्तृत्वेन| पक्तिः पाकः| बलमिति बलहेतुत्वेन| मल इति शरीरमलिनीकरणात्| ओज इति सारभूतं; यदि वा द्वितीयश्लैष्मिकौजोहेतुत्वेनौजः| वक्ष्यति हि शारीरे- “तावच्चैव श्लैष्मिकस्यौजसश्च प्रमाणम्” (शा.अ.७) इति| दुःखहेतुत्वात् पाप्मा| सर्वा हि चेष्टा इति अविकृतगमनाद्याः| उपरुध्यते म्रियते||११५-११८||
Adhikarana 25 (119) · Śloka 119
नित्यं सन्निहितामित्रं समीक्ष्यात्मानमात्मवान्|
नित्यं युक्तः परिचरेदिच्छन्नायुरनित्वरम्||११९||
आत्मवानिति प्रशंसायां मतुप्प्रत्ययः| युक्त इत्युद्युक्तः| अनित्वरम् अगत्वरम्||११९||
Adhikarana 26 (120-121) · Śloka 121
तत्र श्लोकौ- शिरोरोगाः सहृद्रोगा रोगा मानविकल्पजाः|
क्षयाः सपिडकाश्चोक्ता दोषाणां गतिरेव च||१२०||
कियन्तःशिरसीयेऽस्मिन्नध्याये तत्त्वदर्शिना|
ज्ञानार्थं भिषजां चैव प्रजानां च हितैषिणा||१२१||
तत्र श्लोकावित्यादि||१२०-१२१||
Adhikarana puShpikA · Śloka 17
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने कियन्तःशिरसीयो नाम सप्तदशोऽध्यायः||१७||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने रोगचतुष्के कियन्तःशिरसीयो नाम सप्तदशोऽध्यायः||१७||