Adhikarana 1 (1-2) · Śloka 2
अथातः स्वेदाध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
स्नेहपूर्वकत्वात् स्वेदस्य स्वेदाध्यायोऽभिधीयते| स्वेदप्रतिपादकोऽध्यायः स्वेदाध्यायः||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातः स्वेदाध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
स्नेहपूर्वकत्वात् स्वेदस्य स्वेदाध्यायोऽभिधीयते| स्वेदप्रतिपादकोऽध्यायः स्वेदाध्यायः||१-२||
Adhikarana 2 (3-5) · Śloka 5
अतः स्वेदाः प्रवक्ष्यन्ते यैर्यथावत्प्रयोजितैः| स्वेदसाध्याः प्रशाम्यन्ति गदा वातकफात्मकाः||३|| स्नेहपूर्वं प्रयुक्तेन स्वेदेनावजितेऽनिले| पुरीषमूत्ररेतांसि न सज्जन्ति कथञ्चन||४|| शुष्काण्यपि हि काष्ठानि स्नेहस्वेदोपपादनैः| नमयन्ति यथान्यायं किं पुनर्जीवतो नरान्||५||
🔊 Audio coming soon
वातकफात्मका असंसृष्टवातकफजाः, वातकफजत्वेऽप्युदरादयः स्वेदेन न शाम्यन्ति, अत आह- स्वेदसाध्याः; एतेनोदरादयोऽस्वेद्या व्यावर्त्यन्ते| स्नेहपूर्वमिति क्रियाविशेषणम्| न सज्जन्ति अप्रवृत्तानि न भवन्ति| यथान्यायं यथागमम्, एतच्च स्नेहस्वेदोपपादनैरित्यनेन सम्बध्यते; यदि वा यथान्यायं यथासहजं नमयन्तीति सम्बन्धः||३-५||
Adhikarana 3 (6) · Śloka 6
रोगर्तुव्याधितापेक्षो नात्युष्णोऽतिमृदुर्न च| द्रव्यवान् कल्पितो देशे स्वेदः कार्यकरो मतः||६||
🔊 Audio coming soon
रोगमृतुं व्याधितं च बलवत्त्वादिनाऽपेक्षत इति रोगर्तुव्याधितापेक्षः| नात्युष्णो नातिचण्डतापः| द्रव्यवानिति स्निग्धरूक्षादिद्रव्यवान्| कल्पित इति रोगादीनपेक्ष्य यथोचितेन द्रव्येण देशे चामाशयादौ यथायोग्यतया सम्पादित इति मन्तव्यम्||६||
Adhikarana 4 (7-8) · Śloka 8
व्याधौ शीते शरीरे च महान् स्वेदो महाबले| दुर्बले दुर्बलः स्वेदो मध्यमे मध्यमो हितः||७|| वातश्लेष्मणि वाते वा कफे वा स्वेद इष्यते| स्निग्धरूक्षस्तथा स्निग्धो रूक्षश्चाप्युपकल्पितः||८||
🔊 Audio coming soon
रोगाद्यपेक्षयोक्तकल्पनां दर्शयति- व्याधावित्यादि| व्याधौ महाबले तथा शीते कालकृते महाबले| महानिति चण्डताप एव पुनः पुनः क्रियमाणत्वेन मृदुस्वेदापेक्षयाऽधिकतापत्वेन ज्ञेयः| दुर्बल इति तथा मध्यम इति च व्याध्यादिषु पूर्ववद्योजनीयम्| स्निग्धरूक्षद्रव्यकृतः स्निग्धरूक्षः, स्निग्धरूक्षद्रव्यादयो वातश्लेष्मादिषु यथासङ्ख्यं मन्तव्याः; एतच्च स्निग्धरूक्षादिकथनं द्रव्यापेक्षकल्पनोदाहरणं; वाते स्निग्धः, कफे रूक्षः||७-८||
Adhikarana 5 (9) · Śloka 9
आमाशयगते वाते कफे पक्वाशयाश्रिते| रूक्षपूर्वो हितः स्वेदः स्नेहपूर्वस्तथैव च||९||
🔊 Audio coming soon
तं देशविशेषसम्बन्धेन व्यभिचारयन् देशापेक्षां कल्पनामाह- आमाशयेत्यादि| आमाशयगते वाते रूक्षपूर्वः स्थानापेक्षया पूर्वं रूक्षं कृत्वा पश्चाद्वातापेक्षः स्निग्धः कार्यः, एवं पक्वाशयगते कफे स्नेहपूर्वो व्याख्येयः; आमाशयशब्देन कफस्थानं ज्ञेयं, कफस्थानापेक्षया हि प्रथमं रूक्षः क्रियते, यदुक्तं- “स्थानं जयेद्धि पूर्वं तु स्थानस्थस्याविरुद्धतः” इति||९||
Adhikarana 6 (10) · Śloka 10
वृषणौ हृदयं दृष्टी स्वेदयेन्मृदु नैव वा| मध्यमं वङ्क्षणौ शेषमङ्गावयवमिष्टतः||१०||
🔊 Audio coming soon
मृदु नैव वेति स्वेदैकसाध्ये वृषणादिगते व्याधौ मृदुस्वेदः, स्वेदव्यतिरिक्तोपायान्तरसम्भवे तु न वेति बोद्धव्यम्| इष्टत इत्यातुरेच्छातो वैद्येच्छातश्च| इष्टत इति भावादिच्छावचनः||१०||
Adhikarana 7 (11) · Śloka 11
सुशुद्धैर्नक्तकैः पिण्ड्या गोधूमानामथापि वा| पद्मोत्पलपलाशैर्वा स्वेद्यः संवृत्य चक्षुषी||११||
🔊 Audio coming soon
स्वेदे क्रियमाणे चक्षुषः स्वेदपरिहारोपायमाह- सुशुद्धैरित्यादि| नक्तकः कर्पटावयवः ||११||
Adhikarana 8 (12) · Śloka 12
मुक्तावलीभिः शीताभिः शीतलैर्भाजनैरपि| जलार्द्रैर्जलजैर्हस्तैः स्विद्यतो हृदयं स्पृशेत्||१२||
🔊 Audio coming soon
स्वेदे क्रियमाणे हृदयरक्षणार्थमाह- मुक्तावलीभिरित्यादि| जलजानि पङ्कजादीनि| एवमस्वेद्यत्वसामान्यत्वाद्वृषणरक्षाऽप्युन्नेतव्या, प्राधान्याद्धृदयचक्षुःपालनमुक्तम्||१२||
Adhikarana 9 (13) · Śloka 13
शीतशूलव्युपरमे स्तम्भगौरवनिग्रहे| सञ्जाते मार्दवे स्वेदे स्वेदनाद्विरतिर्मता||१३||
🔊 Audio coming soon
शीतशूलेत्यादि| स्वेद इति स्वेदभवे घर्मे| स्वेदनाद्विरतिर्मतेत्युपदिशन् शीतादिव्युपरमे सति स्वेदो निवर्तनीयः, शीताद्यनुपरमे च स्वेदः कर्तव्य इति द्वयमुपदिशति; ततश्च इत एव स्वेदनिवृत्तिविषयशीतादिव्युपरमोत्पादः स्वेदस्य सम्यग्योगलक्षणं तथा शीतादिव्युपरमानुत्पादश्च स्वेदानिवृत्तिविषयोऽयोगलक्षणमुक्तं भवतीति नायोगलक्षणानभिधानमुद्भावनीयम्||१३||
Adhikarana 10 (14-15) · Śloka 15
पित्तप्रकोपो मूर्च्छा च शरीरसदनं तृषा| दाहः स्वराङ्गदौर्बल्यमतिस्विन्नस्य लक्षणम्||१४|| उक्तस्तस्याशितीये यो ग्रैष्मिकः सर्वशो विधिः| सोऽतिस्विन्नस्य कर्तव्यो मधुरः स्निग्धशीतलः||१५||
🔊 Audio coming soon
अतिस्विन्नचिकित्सितमाह- उक्त इत्यादि| ग्रैष्मिको विधिरित्यनेन लब्धे पुनर्मधुरः स्निग्धशीतल इत्यादिवचनं “मद्यमल्पं न वा पेयं” (सू.अ.६) इत्यत्रोपदिष्टमद्यपानस्य प्रतिषेधार्थं, मधुरशीतादियोगविशेषविधानार्थं च||१४-१५||
Adhikarana 11 (16-19) · Śloka 19
कषायमद्यनित्यानां गर्भिण्या रक्तपित्तिनाम्| पित्तिनां सातिसाराणां रूक्षाणां मधुमेहिनाम्||१६|| विदग्धभ्रष्टब्रध्नानां विषमद्यविकारिणाम्| श्रान्तानां नष्टसञ्ज्ञानां स्थूलानां पित्तमेहिनाम्||१७|| तृष्यतां क्षुधितानां च क्रुद्धानां शोचतामपि| कामल्युदरिणां चैव क्षतानामाढ्यरोगिणाम्||१८|| दुर्बलातिविशुष्काणामुपक्षीणौजसां तथा| भिषक् तैमिरिकाणां च न स्वेदमवतारयेत्||१९||
🔊 Audio coming soon
अस्वेद्यानाह- कषायेत्यादि| कषायद्रव्यकृतं मद्यं कषायमद्यं; किंवा कषायशब्दोऽमधुरवचनः, न तेन यदुच्यते- कषायनित्यस्य वातप्रधानता स्यात् कषायस्य वातकारित्वात्, वाते च स्वेदो विहित एव, तत् कथं कषायनित्यं प्रति स्वेदनिषेध इति, तन्निरस्तं भवति| किंवा, कषायनित्या रूक्षातिस्तब्धगात्रा भवन्ति, कषायस्य विरूक्षकस्तम्भकत्वेन; ततश्च तेषां स्वेदः पर्वभेदमावहतीत्यतः कषायनित्यनिषेधः| रक्तपित्तिनामविधानादेव स्वेदे निषिद्धे, पुनः स्वेदनिषेधो रक्तपित्तिनां यद्यन्योऽपि स्वेदसाध्यो वातश्लेष्मजो विकारो भवति तत्रापि स्वेदनिषेधार्थं, तथा रक्तपित्तिनां वमनविरेचनाङ्गतया प्राप्तस्वेदप्रतिप्रसवनिषेधार्थं च; एवं पित्तमेहिकामल्यादिष्वपि व्याख्येयम्| पित्तिनामिति पित्तप्रकृतीनाम्| मधुमेहशब्देन सर्व एवं मेहा गृह्यन्ते, मधुमेहशब्दो हि सर्वेष्वेव मेहेषु वर्तत इति कियन्तःशिरसीये दर्शनीयं, मेहेषु च सर्वेष्वेव शरीरशैथिल्यप्रवृत्तेषु विशेषतः शरीरशैथिल्यहेतुत्वेन स्वेदो न युज्यते; पित्तमेहिनामिति तु पुनरभिधानं पित्तसम्बन्धेन विशेषप्रतिषेधतादर्शनार्थम्| ब्रध्नः गुदः| मद्यविकारिणामिति मद्यनित्यस्य वातकफजमदात्यये स्वेदनिषेधार्थम्| आढ्यरोगीह वातरक्ती| एषु चास्वेदविषयेषु यदि स्वेदैकसाध्यः सन्न्यासादिर्भवति तदा महाप्रत्यवायभयादल्पप्रत्यवायमुपेक्ष्यापि स्वेदो विधेय इति न्यायसिद्धमेव; यदाहुर्न्यायविदः- “भूयोविरोधे स्वल्पमन्याय्यम्” इति||१६-१९||
Adhikarana 12 (20-24) · Śloka 24
प्रतिश्याये च कासे च हिक्काश्वासेष्वलाघवे| कर्णमन्याशिरःशूले स्वरभेदे गलग्रहे||२०|| अर्दितैकाङ्गसर्वाङ्गपक्षाघाते विनामके| कोष्ठानाहविबन्धेषु मूत्राघाते विजृम्भके||२१|| पार्श्वपृष्ठकटीकुक्षिसङ्ग्रहे गृध्रसीषु च| मूत्रकृच्छ्रे महत्त्वे च मुष्कयोरङ्गमर्दके||२२|| पादजानूरुजङ्घार्तिसङ्ग्रहे श्वयथावपि| खल्लीष्वामेषु शीते च वेपथौ वातकण्टके||२३|| सङ्कोचायामशूलेषु स्तम्भगौरवसुप्तिषु | सर्वाङ्गेषु विकारेषु स्वेदनं हितमुच्यते||२४||
🔊 Audio coming soon
प्रतिश्याये चेत्यादिना स्वेद्यान् दर्शयति| विनामकः शरीरविनमनकारी वातः| विजृम्भको बहिरायामः, जृम्भाबहुत्वं वा| पादजानूरुजङ्घाभिरर्तिः सङ्ग्रहश्च पृथक् सम्बध्यते| खल्ली हस्तपदावमोटनम्| वातकण्टको गुल्फाश्रितो वातः| अलाघव इति पूर्वमुक्तेऽपि पुनर्गौरववचनमङ्गानां गुरुतरत्वप्रतिपादनार्थम्, अलाघववचनं तु लाघवप्रतिषेधमात्रप्रयोजनं नातिगुरुत्वं ब्रूते, यतः सर्वत्र नञ् विरुद्धे न वर्तते, यथा “अरूक्षमनभिष्यन्दि त्वासीनप्रचलायितम्” (सू.अ.२१) इत्यत्र न ह्यरूक्षशब्देन स्निग्धत्वमभिप्रेतं, किं तर्हि रूक्षताप्रतिषेधमात्रमेव||२०-२४||
Adhikarana 13 (25-27) · Śloka 27
तिलमाषकुलत्थाम्लघृततैलामिषौदनैः| पायसैः कृशरैर्मांसैः पिण्डस्वेदं प्रयोजयेत्||२५|| गोखरोष्ट्रवराहाश्वशकृद्भिः सतुषैर्यवैः| सिकतापांशुपाषाणकरीषायसपूटकैः||२६|| श्लैष्मिकान् स्वेदयेत् पूर्वैर्वातिकान् समुपाचरेत्| द्रव्याण्येतानि शस्यन्ते यथास्वं प्रस्तरेष्वपि||२७||
🔊 Audio coming soon
वक्ष्यमाणानां सङ्करादिस्वेदानां द्रव्याण्याह- तिलमाषेत्यादि| पिण्डरूपः स्वेदः पिण्डस्वेदः| करीषः शुष्कगोमयः; आयसः अयोविकारः, स चेह पुटकरणयोग्यो बोद्धव्यः| पूर्वैरिति तिलमाषादिभिः| यथास्वमित्यनेन तिलमाषादयो वाते, गोखरादिग्रन्थोक्ताश्च श्लेष्मणि, प्रस्तरस्वेदे कर्तव्या इति दर्शयति||२५-२७||
Adhikarana 14 (28) · Śloka 28
भूगृहेषु च जेन्ताकेषूष्णगर्भगृहेषु च| विधूमाङ्गारतप्तेषु स्वभ्यक्तः स्विद्यते सुखम्||२८||
🔊 Audio coming soon
भूगृहेष्विति भूस्वेदार्थेषु गृहेषु| उष्णगर्भगृहेष्विति कुटीस्वेदं दर्शयति| स्वभ्यक्त इति सम्यगभ्यक्तः||२८||
Adhikarana 15 (29-33) · Śloka 33
ग्राम्यानूपौदकं मांसं पयो बस्तशिरस्तथा| वराहमध्यपित्तासृक् स्नेहवत्तिलतण्डुलाः||२९|| इत्येतानि समुत्क्वाथ्य नाडीस्वेदं प्रयोजयेत्| देशकालविभागज्ञो युक्त्यपेक्षो भिषक्तमः||३०|| वारुणामृतकैरण्डशिग्रुमूलकसर्षपैः| वासावंशकरञ्जार्कपत्रैरश्मन्तकस्य च||३१|| शोभाञ्जनकसैरेयमालतीसुरसार्जकैः | पत्रैरुत्क्वाथ्य सलिलं नाडीस्वेदं प्रयोजयेत्||३२|| भूतीकपञ्चमूलाभ्यां सुरया दधिमस्तुना| मूत्रैरम्लैश्च सस्नेहैर्नाडीस्वेदं प्रयोजयेत्||३३||
🔊 Audio coming soon
बस्तशिरः छागमस्तकम्| स्नेहवन्तश्चैरण्डबीजादयः तिलाश्च तण्डुलाश्च स्नेहवत्तिलतण्डुलाः| ग्राम्येत्यादिना वातापहो नाडीस्वेद उक्तः, वारुणेत्यादिना कफापहः, भूतीकेत्यादिना वातश्लेष्मापहः| वारुणो वरुणः अमृतका गुडूची, सर्षपैरित्यत्र पत्रैरिति सम्बध्यते| वंशो वेणुः| पुनः शोभाञ्जनग्रहणाद्द्वितीयो विटपशोभाञ्जनो गृह्यते, सैरेयः झिण्टी||२९-३३||
Adhikarana 16 (34) · Śloka 34
एत एव च निर्यूहाः प्रयोज्या जलकोष्ठके| स्वेदनार्थं घृतक्षीरतैलकोष्ठांश्च कारयेत्||३४||
🔊 Audio coming soon
एत एवेति नाडीस्वेदोक्तास्त्रयोऽपि| जलकोष्ठः अवगाहार्थं कृतं महज्जलपात्रम्; एवं घृतक्षीरतैलकोष्ठाश्च व्याख्याताः||३४||
Adhikarana 17 (35-37) · Śloka 37
गोधूमशकलैश्चूर्णैर्यवानामम्लसंयुतैः| सस्नेहकिण्वलवणैरुपनाहः प्रशस्यते||३५|| गन्धैः सुरायाः किण्वेन जीवन्त्या शतपुष्पया| उमया कुष्ठतैलाभ्यां युक्तया चोपनाहयेत्||३६|| चर्मभिश्चोपनद्धव्यः सलोमभिरपूतिभिः| उष्णवीर्यैरलाभे तु कौशेयाविकशाटकैः||३७||
🔊 Audio coming soon
गोधूमशकलैः गोधूमचूर्णैः| किण्वः सुराबीजम्| उपनाहः बहलं लेपं दत्त्वा चर्मादिभिरावृत्य व्याधियुक्तस्याङ्गस्य बन्धनम्; चर्मभिश्चोपनद्धव्य इत्यत्र उपनाहोऽनग्निस्वेदो ग्राह्यः| गन्धैः सुगन्धिद्रव्यैरुपनाहो बन्धनीयः| उष्णवीर्यैरिति उष्णवीर्यमृगादिप्राणिप्रभवैः | आविकशाटकः कम्बलः||३५-३७||
Adhikarana 18 (38) · Śloka 38
रात्रौ बद्धं दिवा मुञ्चेन्मुञ्चेद्रात्रौ दिवा कृतम्| विदाहपरिहारार्थं, स्यात् प्रकर्षस्तु शीतले||३८||
🔊 Audio coming soon
उपनाहस्वेदे बन्धमोक्षावधिं दर्शयति- रात्रौ बद्धमित्यादि| दिवाकृतमित्यत्र ‘बन्धं’ इति शेषः| विदाहः रक्तादिविदाहः| शीतले इत्यत्र “काले” इति शेषः| प्रकर्ष उक्ताद्बन्धनकालादधिककालत्वं बन्धनस्य||३८||
Adhikarana 19 (39-40) · Śloka 40
सङ्करः प्रस्तरो नाडी परिषेकोऽवगाहनम्| जेन्ताकोऽश्मघनः कर्षूः कुटी भूः कुम्भिकैव च||३९|| कूपो होलाक इत्येते स्वेदयन्ति त्रयोदश| तान् यथावत् प्रवक्ष्यामि सर्वानेवानुपूर्वशः||४०||
🔊 Audio coming soon
सम्प्रति साग्निस्वेदानां सङ्करादीनां लक्षणमभिधातुं सङ्करादीन् स्वेदान् नामतस्तावदुद्दिशति- सङ्कर इत्यादि| सङ्करादिशब्दाश्चायुर्वेदपरम्परासिद्धाः; तत्र क्वचिन्नाडीस्वेदादौ नाड्या प्रणीयत इत्यन्वयोऽप्यनुसरणीयः, जेन्ताकादयश्चान्वयनिरपेक्षा एव||३९-४०||
Adhikarana 20 (41) · Śloka 41
तत्र वस्त्रान्तरितैरवस्त्रान्तरितैर्वा पिण्डैर्यथोक्तैरुपस्वेदनं सङ्करस्वेद इति विद्यात्||४१||
🔊 Audio coming soon
पिण्डैर्यथोक्तैरिति तिलमाषादिपिण्डैस्तथा गोखरादिग्रन्थोक्तपुटकरूपैश्च पिण्डैः; स्वेदनमेवोपस्वेदनम्||४१||
Adhikarana 21 (42) · Śloka 42
शूकशमीधान्यपुलाकानां वेशवारपायसकृशरोत्कारिकादीनां वा प्रस्तरे कौशेयाविकोत्तरप्रच्छदेपञ्चाङ्गुलोरुबूकार्कपत्रप्रच्छदे वा स्वभ्यक्तसर्वगात्रस्य शयानस्योपस्वेदनं प्रस्तरस्वेद इति विद्यात्||४२||
🔊 Audio coming soon
पुलाकः तुच्छधान्यम्| उत्कारिका माषादिकृतोत्काराकृतिव्यञ्जनविशेषः | प्रस्तीर्यत इति प्रस्तरः शयनप्रमाणेन स्वेदवस्तूनां विस्तरणं, तस्मिन् प्रस्तरे| कौशेयाविकोत्तरप्रच्छदे कौशेयाविकपिहित इत्यर्थः| पञ्चाङ्गुल एरण्डभेदः||४२||
Adhikarana 22 (43) · Śloka 43
स्वेदनद्रव्याणां पुनर्मूलफलपत्रशुङ्गादीनां मृगशकुनपिशितशिरस्पदादीनामुष्णस्वभावानां वा यथार्हमम्ललवणस्नेहोपसंहितानां मूत्रक्षीरादीनां वा कुम्भ्यां बाष्पमनुद्वमन्त्यामुत्क्वथितानां नाड्या शरेषीकावंशदलकरञ्जार्कपत्रान्यतमकृतया गजाग्रहस्तसंस्थानया व्यामदीर्घया व्यामार्धदीर्घया वा व्यामचतुर्भागाष्टभागमूलाग्रपरिणाहस्रोतसा सर्वतो वातहरपत्रसंवृतच्छिद्रया द्विस्त्रिर्वा विनामितया वातहरसिद्धस्नेहाभ्यक्तगात्रो बाष्पमुपहरेत्; बाष्पो ह्यनृजुगामी विहतचण्डवेगस्त्वचमविदहन् सुखं स्वेदयतीति नाडीस्वेदः||४३||
🔊 Audio coming soon
स्वेदनेत्यादिना नाडीस्वेदमाह| स्वेदनद्रव्याणि स्वेदोपगगणोक्तानि इह च नाडीस्वेदक्वाथार्थमुक्तानि| शिरःपदं मस्तकम्| बाष्पमनुद्वमन्त्यामित्यनेन क्वथनकाले बाष्पो यथा न निर्याति तथा कर्तव्यमिति दर्शयति| उत्क्वथितानां बाष्पं स्नेहाक्तगात्रः सन् नाड्या उपहरेदिति सम्बन्धः| नाडीकरणविधिमाह- शरेषीकेत्यादि| वंशदलो वंशविदलः | गजाग्रहस्तसंस्थानत्वं नाड्या अग्र एव बोद्धव्यम्| व्यामः तिर्यग्विस्तृतबाहुद्वयप्रमाणं; व्यामदीर्घत्वं नाड्या बहलस्वेदे कर्तव्यम्| व्यामचतुर्थभागेन व्यामाष्टभागेन च मूले अग्रे च यथासङ्ख्यं मानं नाड्या वेदितव्यं; परिणाहेन वेष्टनेन स्रोतो रन्ध्रं यस्याः सा तथा| यथोक्तनाडीकरणे गुणमाह- बाष्पो हीत्यादि| विहतचण्डवेगत्वं नाडीकाया दीर्घत्वेन वक्रत्वेन च बोद्धव्यम्||४३||
Adhikarana 23 (44) · Śloka 44
वातिकोत्तरवातिकानां पुनर्मूलादीनामुत्क्वाथैः सुखोष्णैः कुम्भीर्वर्षणिकाः प्रनाडीर्वा पूरयित्वा यथार्हसिद्धस्नेहाभ्यक्तगात्रं वस्त्रावच्छन्नं परिषेचयेदिति परिषेकः||४४||
🔊 Audio coming soon
परिषेकविधिमाह- वातिकेत्यादि| वातिकानि वातहराणि, उत्तरवातिकानि उत्तरवाते प्रधानवाते वातश्लेष्मणि हितानीह ग्राह्याणि| वर्षणिका अल्पघटी, ‘सहस्रधारा’ इत्यन्ये; प्रणाडी वेणुनलनाड्याद्याः||४४||
Adhikarana 24 (45) · Śloka 45
वातहरोत्क्वाथक्षीरतैलघृतपिशितरसोष्णसलिलकोष्ठकावगाहस्तु यथोक्त एवावगाहः||४५||
🔊 Audio coming soon
यथोक्त एवेति लोकप्रसिद्ध एव| अवगाहः अवगाहस्वेदः||४५||
Adhikarana 25 (46) · Śloka 46
अथ जेन्ताकं चिकीर्षुर्भूमिं परीक्षेत- तत्र पूर्वस्यां दिश्युत्तरस्यां वा गुणवति प्रशस्ते भूमिभागे कृष्णमधुरमृत्तिके सुवर्णमृत्तिके वा परीवापपुष्करिण्यादीनां जलाशयानामन्यतमस्य कूले दक्षिणे पश्चिमे वा सूपतीर्थे समसुविभक्तभूमिभागे सप्ताष्टौ वाऽरत्नीरुपक्रम्योदकात् प्राङ्मुखमुदङ्मुखं वाऽभिमुखतीर्थं कूटागारं कारयेत्, उत्सेधविस्तारतः परमरत्नीः षोडश, समन्तात् सुवृत्तं मृत्कर्मसम्पन्नमनेकवातायनम्; अस्य कूटागारस्यान्तः समन्ततो भित्तिमरत्निविस्तारोत्सेधां पिण्डिकां कारयेदाकपाटात्, मध्ये चास्य कूटागारस्य चतुष्किष्कुमात्रं पुरुषप्रमाणं मृन्मयं कन्दुसंस्थानं बहुसूक्ष्मच्छिद्रमङ्गारकोष्ठकस्तम्भं सपिधानं कारयेत्; तं च खादिराणामाश्वकर्णादीनां वा काष्ठानां पूरयित्वा प्रदीपयेत्; स यदा जानीयात् साधु दग्धानि काष्ठानि गतधूमान्यवतप्तं च केवलमग्निना तदग्निगृहं स्वेदयोग्येन चोष्मणा युक्तमिति, तत्रैनं पुरुषं वातहराभ्यक्तगात्रं वस्त्रावच्छन्नं प्रवेशयेत्, प्रवेशयंश्चैनमनुशिष्यात्- सौम्य! प्रविश कल्याणायारोग्याय चेति, प्रविश्य चैनां पिण्डिकामधिरुह्य पार्श्वापरपार्श्वाभ्यां यथासुखं शयीथाः, न च त्वया स्वेदमूर्च्छापरीतेनापि सता पिण्डिकैषा विमोक्तव्याऽऽप्राणोच्छ्वासात्, भ्रश्यमानो ह्यतः पिण्डिवकावकाशाद्द्वारमनधिगच्छन् स्वेदमूर्च्छापरीततया सद्यः प्राणाञ्जह्याः, तस्मात् पिण्डिकामेनां न कथञ्चन मुञ्चेथाः; त्वं यदा जानीयाः- विगताभिष्यन्दमात्मानं सम्यक्प्रस्रुतस्वेदपिच्छं सर्वस्रोतोविमुक्तं लघूभूतमपगतविबन्धस्तम्भसुप्तिवेदनागौरवमिति, ततस्तां पिण्डिकामनुसरन् द्वारं प्रपद्येथाः, निष्क्रम्य च न सहसा चक्षुषोः परिपालनार्थं शीतोदकमुपस्पृशेथाः, अपगतसन्तापक्लमस्तु मुहूर्तात् सुखोष्णेन वारिणा यथान्यायं परिषिक्तोऽश्नीयाः; इति जेन्ताकस्वेदः||४६||
🔊 Audio coming soon
जेन्ताकविधिमाह- अथेत्यादि| अथशब्दो मङ्गले आनन्तर्ये वा| पूर्वस्यामुत्तरस्यां वेति ग्रामाद्बाद्धव्यम्| गुणवतीति सस्यप्ररोहादियुक्तत्वेन; प्रशस्तभूमिभागत्वं तुषाङ्गारादिरहितत्वेन| परीवापः दीर्घिका| सुष्ठु उप समीपे तीर्थं यस्य तस्मिन् सूपतीर्थे| अरत्निः हस्तः| प्राङ्मुखमिति पश्चिमे, उदङ्मुखमिति दक्षिणे; एवं ह्यभिमुखं तीर्थं भवति| कूटागारमिति वर्तुलागारम्| आकपाटादित्यनेन द्वारपर्यन्तं लक्षयति| किष्कुः हस्तः| पुरुषप्रमाणमिति ऊर्ध्वतः| कन्दुः कन्द्वाकाराग्निस्थानम्| अङ्गारार्थं कोष्ठोऽवकाशो विद्यते यस्मिन् सोऽङ्गारकोष्ठकः, स एव स्तम्भ इत्यङ्गारकोष्ठकस्तम्भः| खादिराणामिति पूरणे षष्ठी| स इत्यत्र ‘त्वं’ इत्यध्याहार्यं, जानीया इत्यर्थः; किंवा, ‘जानीयात्’ इति पाठः, उत्तरत्रापि ‘प्रवेशयेत्’ इति पाठः; एवं च सुगमम्| पिच्छा स्वेदस्यैव पिच्छिलो भागः| सर्वेषु स्रोतःसु विमुक्तं सर्वस्रोतोविमुक्तम् अपगतविबन्धस्तु अपगतमलविबन्धो बोद्धव्यः| चक्षुषोः परिपालनार्थमिति अत्रोपतप्तस्य सहसा शीतजलप्रवेशे शीतजलपराहत ऊष्मा नयनोपघातं करोतीत्यभिप्रायः| अत्र च जेन्ताके भूमिविशेषपरिग्रहजलसान्निध्यादयो मङ्गलार्थाः; जलसान्निध्यं तु स्विद्यमानस्य दर्शनेन दृष्टेः परिपालनार्थं च, तथा स्वेदातियोगप्रतिक्रियार्थं कूटागारस्य जलसान्निध्ये सुखेन करणार्थं च||४६||
Adhikarana 26 (47-49) · Śloka 50
शयानस्य प्रमाणेन घनामश्ममयीं शिलाम्| तापयित्वा मारुतघ्नैर्दारुभिः सम्प्रदीपितैः||४७|| व्यपोज्झ्य सर्वानङ्गारान् प्रोक्ष्य चैवोष्णवारिणा| तां शिलामथ कुर्वीत कौषेयाविकसंस्तराम्||४८|| तस्यां स्वभ्यक्तसर्वाङ्गः स्वपन् स्विद्यति ना सुखम्| कौरवाजिनकौषेयप्रावाराद्यैः सुसंवृतः ||४९|| इत्यक्तोऽश्मघनस्वेदः,...|५०|
🔊 Audio coming soon
कौरवं कार्पासम्||४७-४९||-
Adhikarana 27 (50-51) · Śloka 51
...कर्षूस्वेदः प्रवक्ष्यते| खानयेच्छयनस्याधः कर्षूं स्थानविभागवित्||५०|| दीप्तैरधूमैरङ्गारैस्तां कर्षूं पूरयेत्ततः| तस्यामुपरि शय्यायां स्वपन् स्विद्यति ना सुखम्||५१||
🔊 Audio coming soon
कर्षूः अभ्यन्तरविस्तीर्णः स्वल्पमुखो गर्तः||५०-५१||
Adhikarana 28 (52-55) · Śloka 55
अनत्युत्सेधविस्तारां वृत्ताकारामलोचनाम्| घनभित्तिं कुटीं कृत्वा कुष्ठाद्यैः सम्प्रलेपयेत्||५२|| कुटीमध्ये भिषक् शय्यां स्वास्तीर्णामुपकल्पयेत्| प्रावाराजिनकौशेयकुथकम्बलगोलकैः||५३|| हसन्तिकाभिरङ्गारपूर्णाभिस्तां च सर्वशः| परिवार्यान्तरारोहेदभ्यक्तः स्विद्यते सुखम्||५४|| य एवाश्मघनस्वेदविधिर्भूमौ स एव तु| प्रशस्तायां निवातायां समायामुपदिश्यते||५५||
🔊 Audio coming soon
अनत्युत्सेधविस्तारामिति स्वल्पप्रमाणोच्छ्रायविस्ताराम्| अलोचनां निर्जालकाम्| कुष्ठाद्यैरिति अत्रादिशब्दः प्रकारवचनः, तेनोष्णसुगन्धिद्रव्यैरिति भवति| हसन्तिका अङ्गारधानि(रि)का, परिवार्येति हसन्तिकाभिरित्यनेन सम्बध्यते| तामिति उपकल्पितशय्यां कुटीम्, आरोहेदिति सम्बन्धः||५२-५५||
Adhikarana 29 (56-58) · Śloka 58
कुम्भीं वातहरक्वाथपूर्णां भूमौ निखानयेत्| अर्धभागं त्रिभागं वा शयनं तत्र चोपरि||५६|| स्थापयेदासनं वाऽपि नातिसान्द्रपरिच्छदम्| अथ कुम्भ्यां सुसन्तप्तान् प्रक्षिपेदयसो गुडान्||५७|| पाषाणान् वोष्मणा तेन तत्स्थः स्विद्यति ना सुखम्| सुसंवृताङ्गः स्वभ्यक्तः स्नेहैरनिलनाशनैः||५८||
🔊 Audio coming soon
शयनं तत्र चोपरीति अत्र कुम्भीकोपरि शयनं खट्टादि तथा कर्तव्यं यथा कुम्भीका न भज्यते| तत्स्थ इति यथोक्तशयनासनस्थः||५६-५८||
Adhikarana 30 (59-60) · Śloka 60
कूपं शयनविस्तारं द्विगुणं चापि वेधतः| देशे निवाते शस्ते च कुर्यादन्तःसुमार्जितम्||५९|| हस्त्यश्वगोखरोष्ट्राणां करीषैर्दग्धपूरिते| स्ववच्छन्नः सुसंस्तीर्णेऽभ्यक्तः स्विद्यति ना सुखम्||६०||
🔊 Audio coming soon
कूपमिति कूपमिव कूपं गभीरत्वेन| द्विगुणमिति विस्ताराद्बोद्धव्यम्| वेधत इत्यधःखननप्रमाणेन| सुसंस्तीर्ण इति सुष्ठु संस्तीर्णे आच्छादिते, शय्यया खट्वोपरिस्थितया आच्छादिते कूपे इति बोद्धव्यम्||५९-६०||
Adhikarana 31 (61-63) · Śloka 63
धीतीकां तु करीषाणां यथोक्तानां प्रदीपयेत्| शयनान्तःप्रमाणेन शय्यामुपरि तत्र च||६१|| सुदग्धायां विधूमायां यथोक्तामुपकल्पयेत्| स्ववच्छन्नः स्वपंस्तत्राभ्यक्तः स्विद्यति ना सुखम्||६२|| होलाकस्वेद इत्येष सुखः प्रोक्तो महर्षिणा| इति त्रयोदशविधः स्वेदोऽग्निगुणसंश्रयः||६३||
🔊 Audio coming soon
धीतीकामित्यादिना होलाकस्वेदः| धीतीका शुष्कगोमयादिकृतोऽग्न्याश्रयविशेषः| यथोक्तानामिति पूर्वोक्तहस्त्यश्वादिभवानाम्| शयनान्तःप्रमाणेन धीतीकां ‘कृत्वा’ इत्यध्याहार्य योज्यम्| यथोक्तामिति नातिसान्द्रपरिच्छदाम्| उपसंहरति- इतीत्यादि| साक्षादग्नेर्गुणमुष्णत्वमाश्रित्य स्वेदयतीत्यग्निगुणसंश्रयः||६१-६३||
Adhikarana 32 (64) · Śloka 65
व्यायाम उष्णसदनं गुरुप्रावरणं क्षुधा| बहुपानं भयक्रोधावुपनाहाहवातपाः||६४|| स्वेदयन्ति दशैतानि नरमग्निगुणादृते|६५|
🔊 Audio coming soon
सम्प्रत्यनग्निस्वेदानाह- व्यायाम इत्यादि| उष्णसदनमिति अग्निसन्तापव्यतिरेकेण निर्जालकतया घनभित्तितया च यद्गृहं स्वेदयति तद्बोद्धव्यम्| बहुपानमिति बहुमद्यपानम्| उपनाहो द्विविधः- साग्निरनग्निश्च; तत्र यः साग्निरुपनाहः स सङ्कर एव बोद्धव्यः, यदुक्तं- “कोलं कुलत्थाः सुरदारुरास्नाः” (सू.अ.३) इत्यादिनाऽऽरग्वधीये; यस्त्वनग्निर्बहलत्वेन शरीरोष्मरोधं कृत्वा स्वेदयति स इह बोद्धव्यः| आतपश्च यद्यप्युष्णः, तथाऽप्यग्निकृतं तस्योष्णत्वं न भवतीत्यनग्निस्वेद उक्तः| अग्निगुणादृते इति साक्षादग्निसम्बन्धेन कृतादुष्णत्वाद्विना||६४||-
Adhikarana 33 (65-66) · Śloka 66
इत्युक्तो द्विविधः स्वेदः संयुक्तोऽग्निगुणैर्न च||६५|| एकाङ्गसर्वाङ्गगतः स्निग्धो रूक्षस्तथैव च| इत्येतत्त्रिविधं द्वन्द्वं स्वेदमुद्दिश्य कीर्तितम्||६६||
🔊 Audio coming soon
सर्वस्वेदमुपसंहरति- इत्युक्त इत्यादि| एकाङ्गगताः सङ्करनाड्यादयः, सर्वाङ्गगताः प्रस्तरजेन्ताकादयः| स्निग्धो वातविहितः स्वेदः| रूक्षः कफविहितः| स्निग्धरूक्षस्तु वातश्लेष्मविहितोऽनयोर्न भिद्यत इति पृथङ्गोक्तः| द्वन्द्वं परस्परं विरुद्धं युग्मम्||६५-६६||
Adhikarana 34 (67) · Śloka 67
स्निग्धः स्वेदैरुपक्रम्यः स्विन्नः पथ्याशनो भवेत्| तदहः स्विन्नगात्रस्तु व्यायामं वर्जयेन्नरः||६७||
🔊 Audio coming soon
स्विन्नेन यथा कर्तव्यं तदाह- स्निग्ध इत्यादि| पथ्याशनो भवेदित्यत्र यद्यपि शृङ्गग्राहिकया पथ्यं नोक्तं, तथाऽपि स्वेदप्रवृत्तिविषयदोषस्य यत् पथ्यं तदेव बोद्धव्यम्||६७||
Adhikarana 35 (68-71) · Śloka 71
तत्र श्लोकाः- स्वेदो यथा कार्यकरो हितो येभ्यश्च यद्विधः| यत्र देशे यथा योग्यो देशो रक्ष्यश्च यो यथा||६८|| स्विन्नातिस्विन्नरूपाणि तथाऽतिस्विन्नभेषजम्| अस्वेद्याः स्वेदयोग्याश्च स्वेदद्रव्याणि कल्पना||६९|| त्रयोदशविधः स्वेदो विना दशविधोऽग्निना| सङ्ग्रहेण च षट् स्वेदाः स्वेदाध्याये निदर्शिताः||७०|| स्वेदाधिकारे यद्वाच्यमुक्तमेतन्महर्षिणा | शिष्यैस्तु प्रतिपत्तव्यमुपदेष्टा पुनर्वसुः||७१||
🔊 Audio coming soon
सङ्ग्रहे स्वेदो यथा कार्यकर इति स्नेहपूर्वं प्रयुक्तेनेत्यादि| येभ्यश्च यद्विध इति वाते स्निग्ध इत्यादि सङ्गृह्णाति| यत्र देशे यथा योग्य इति आमाशयगते वाते रूक्षपूर्व इत्यादि| शेषं सुगमम्||६८-७१||
Adhikarana puShpikA · Śloka 14
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने स्वेदाध्यायो नाम चतुर्दशोऽध्यायः||१४||
🔊 Audio coming soon
इति श्रीचक्रपाणिदत्तकृतायां चरकतात्पर्यटीकायामायुर्वेददीपिकाख्यायां सूत्रस्थाने निर्देशचतुष्के स्वेदाध्यायश्चतुर्दशः||१४||