Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

13. snēhādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातः स्नेहाध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

निर्देशवातकलाकलीये वातादयोऽभिहिताः, तेषां भेषजं यथा कल्पनीयं तदुपदेष्टुं कल्पनाचतुष्कोऽभिधीयते| भेषजानां कल्पना भेषजकल्पना, सा च कल्पना आश्रयद्रव्याभिधानं विना न पार्यते कल्पयितुम् ; अतः स्नेहादिद्रव्यगोचरा स्नेह-स्वेद-वमन-विरेचनकल्पनेहाभिधीयते, बस्तिकल्पना त्विह बहुवक्तव्यत्वान्नोक्ता| अत्रापि वमनादिप्रवृत्तौ स्नेहस्यैव प्रथमं विधीयमानतया तथा दोषप्रधानस्य वातस्य प्रधानभेषजत्वाच्च तत्प्रतिपादक एव स्नेहाध्यायोऽभिधीयते| स्नेहस्य प्रतिपादकोऽध्यायः स्नेहाध्यायः||१-२||

Adhikarana 2 (3) · Śloka 3

साङ्ख्यैः सङ्ख्यातसङ्ख्येयैः सहासीनं पुनर्वसुम्| जगद्धितार्थं पप्रच्छ वह्निवेशः स्वसंशयम्||३||

🔊 Audio coming soon

सङ्ख्या सम्यग्ज्ञानं, तेन व्यवहरन्तीति साङ्ख्याः| सङ्ख्यातं ज्ञातं सङ्ख्येयं ज्ञेयं यैस्ते तथा; यदि वा ‘सङ्ख्यातसङ्ख्येयम्’ इति पाठः, तदा पुनर्वसुविशेषणमेतत्; अर्थस्तु समानः| साङ्ख्यैः सहावस्थानोपदर्शनमात्रेयस्य कर्तव्यप्रश्नानुगुणमनःसमाधानोपदर्शनार्थम्| संशयमिति संशयेन विषयिणा विषयं लक्षयति, तेन संशयमिति संशयविषयमित्यर्थः||३||

Adhikarana 3 (4-8) · Śloka 8

किंयोनयः कति स्नेहाः के च स्नेहगुणाः पृथक्| कालानुपाने के कस्य कति काश्च विचारणाः||४|| कति मात्राः कथम्मानाः का च केषूपदिश्यते| कश्च केभ्यो हितः स्नेहः प्रकर्षः स्नेहने च कः||५|| स्नेह्याः के के न च स्निग्धास्निग्धातिस्निग्धलक्षणम्| किं पानात् प्रथमं पीते जीर्णे किञ्च हिताहितम्||६|| के मृदुक्रूरकोष्ठाः का व्यापदः सिद्धयश्च काः| अच्छे संशोधने चैव स्नेहे का वृत्तिरिष्यते||७|| विचारणाः केषु योज्या विधिना केन तत् प्रभो!| स्नेहस्यामितविज्ञान ज्ञानमिच्छामि वेदितुम्||८||

🔊 Audio coming soon

कोऽसौ संशय इत्याह- किंयोनय इत्यादि| किंयोनयः किमाधारकारणाः| कालश्चानुपानं च कालानुपाने| विचारणा द्रव्यान्तरासंयुक्तस्नेहपानं वर्जयित्वा स्नेहोपयोगः| कथम्माना कीदृङ्माना| का चेति मात्रा| प्रकर्षः कालप्रकर्षः| स्नेहने स्नेहयुक्तिक्रियायाम्| के नचेति के न च स्नेह्याः| किं पानात् स्नेहपानात् प्रथमं पूर्वं हिताहितं; किञ्च पीते स्नेहे तथा जीर्णे च स्नेहे हिताहितमिति योज्यम्| सिद्धयो व्यापत्साधनानि भेषजानि| अच्छे इति संशोधनपृथङ्निर्देशाद्गोबलीवर्दन्यायेन संशमन इति भवति| वृत्तिरिति वृत्तिः उपचारविधानम्| ज्ञानं शास्त्रम्||४-८||

Adhikarana 4 (9-11) · Śloka 11

अथ तत्संशयच्छेत्ता प्रत्युवाच पुनर्वसुः| स्नेहानां द्विविधा सौम्य योनिः स्थावरजङ्गमा||९|| तिलः प्रियालाभिषुकौ बिभीतकश्चित्राभयैरण्डमधूकसर्षपाः| कुसुम्भबिल्वारुकमूलकातसीनिकोचकाक्षोडकरञ्जशिग्रुकाः||१०|| स्नेहाशयाः स्थावरसञ्ज्ञितास्तथा स्युर्जङ्गमा मत्स्यमृगाः सपक्षिणः| तेषां दधिक्षीरघृतामिषं वसा स्नेहेषु मज्जा च तथोपदिश्यते||११||

🔊 Audio coming soon

अभिषुक औत्तरापथिकः| चित्रा गोरक्षकर्कटी, तद्बीजमिह; यदि वा चित्रा लोहितैरण्डः| अतसी ‘उमा’ इति ख्याता | आरुकनिकोचकाक्षोडा औत्तरापथिकाः| स्नेहाशयाः स्नेहस्थानानि| एते चाविष्कृततमत्वेनोक्ताः, तेन निम्बतैलादयो बोद्धव्याः| आमिषं मांसम्||९-११||

Adhikarana 5 (12) · Śloka 1

सर्वेषां तैलजातानां तिलतैलं विशिष्यते| बलार्थे स्नेहने चाग्र्यमैरण्डं तु विरेचने||१२|| (कटूष्णं तैलमैरण्डं वातश्लेष्महरं गुरु | कषायस्वादुतिक्तैश्च योजितं पित्तहन्त्रपि ||१||)|

🔊 Audio coming soon

तैलजातानामिति जातशब्दः प्रकारवचनः; यथा- “यदाहारजातमग्निवेश” (सू.अ.२५) इत्यादि| अत्र यद्यपि योगात्तिलभवमेव तैलं, तथाऽपि रूढ्येह सर्व एव स्थावरस्नेहास्तैलमित्युच्यन्ते| यदुक्तं सुश्रुते- “निष्पत्तेस्तद्गुणत्वाच्च तैलत्वमितरेष्वपि” (सु.सू.अ.४५) इति| विशिष्यते अतिरिच्यते| अग्र्यमित्यैरण्डेन सम्बध्यते||१२||

Adhikarana 6 (13) · Śloka 13

सर्पिस्तैलं वसा मज्जा सर्वस्नेहोत्तमा मताः| एषु चैवोत्तमं सर्पिः संस्कारस्यानुवर्तनात्||१३||

🔊 Audio coming soon

सर्वस्नेहोत्तमा इत्यत्र सर्वशब्देन दधिक्षीरादयो गृह्यन्ते; सर्वस्नेहोत्तमत्वं च सर्पिरादीनां स्नेहगुणप्रकर्षवत्त्वेन| संस्कारो गुणान्तरारोपणं, तस्यानुवर्तनमनुविधानं स्वीकरणमिति यावत्| एतदुक्तं भवति- यत्- न तथा तैलादयो द्रव्यान्तरसंस्कृताः संस्कारगुणान् वहन्ति यथा सर्पिरिति| अत एवोक्तं- “नान्यः स्नेहस्तथा कश्चित् संस्कारमनुवर्तते| यथा सर्पिरतः सर्पिः सर्वस्नेहोत्तमं मतम्” (नि. अ.१)| अत एव संस्कारकद्रव्यचित्रकादिगुणानुविधानेऽपि सर्पिर्न स्वगुणान् स्नेहशैत्यादीन् जहाति, किञ्च स्वगुणान् तद्गुणांश्च वहति, यतोऽनुशब्देन पश्चाद्वाचिना स्वगुणवर्तनस्य पश्चात् संस्कारकगुणवर्तनमुच्यते| अत एवोक्तं- “स्नेहाद्वातं शमयति पित्तं माधुर्यशैत्यतः| घृतं तुल्यगुणं दोषं संस्कारात्तु जयेत् कफम्” (नि. अ.१) इति| न च वाच्यं रूक्षोष्णचित्रकादिसंस्काराद्रूक्षोष्णं सर्पिर्भूतं, ततश्च सर्पिषः स्नेहशैत्ये तद्विरुद्धे कथं तिष्ठतः? इति; यतः सर्पिःसम्बद्धचित्रकावयवानुगतं हि रूक्षोष्णत्वं, सर्पिर्गते च स्नेहशैत्ये इति भिन्नाश्रयत्वान्न विरोधः; इदमेव च सर्पिषः संस्कारानुवर्तनं यत्- स्वगुणविरुद्धस्यापि तस्यानुपघातेन धारणं; संस्कारकचित्रकादिगुणवहनेऽपि सर्पिषः शैत्यादयः कदाचिदभिभूयन्ते संस्कारकगुणैरुष्णादिभिर्न पुनः स्नेहगुणः, तस्य स्नेहेषु सर्वात्मना व्यवस्थितस्य प्रबलत्वात्; अत एव सर्पिरादयः स्नेहप्रधानत्वात् ‘स्नेहा’ इत्युच्यन्ते| अन्ये तु संस्कारानुवर्तनं स्वगुणोपघातेन संस्कारकगुणवहनं ब्रुवते, एतच्च तैले तिष्ठति न सर्पिषीति वदन्ति; सर्पिषि तु संस्कारानुवर्तनमुक्तं यत् तत् सर्पिषि सर्वथा कस्यचिद्गुणस्य संस्कारगुणेनानुपघाताद्भवति ; तथाहि- दाहप्रशमनार्थं ज्वरे चन्दनादिशीतद्रव्यसाधिततैलमुक्तं, यतः शीतेन साधितं तैलमुष्णमपि स्वभावाच्छीतमेव भवतीति||१३||

Adhikarana 7 (14-17) · Śloka 17

घृतं पित्तानिलहरं रसशुक्रौजसां हितम्| निर्वापणं मृदुकरं स्वरवर्णप्रसादनम्||१४|| मारुतघ्नं न च श्लेष्मवर्धनं बलवर्धनम्| त्वच्यमुष्णं स्थिरकरं तैलं योनिविशोधनम्||१५|| विद्धभग्नाहतभ्रष्टयोनिकर्णशिरोरुजि| पौरुषोपचये स्नेहे व्यायामे चेष्यते वसा||१६|| बलशुक्ररसश्लेष्ममेदोमज्जविवर्धनः| मज्जा विशेषतोऽस्थ्नां च बलकृत् स्नेहने हितः||१७||

🔊 Audio coming soon

स्नेहगुणानभिधत्ते- घृतमित्यादि| निर्वापणं दाहप्रशमनम्| मारुतघ्नमित्यादि तैलगुणाः| स्थिरकरम् अङ्गस्थैर्यकरम्| विद्धेत्यादि वसागुणाः| पौरुषोपचयः शुक्रोपचयः| स्नेहे शरीरस्नेहने कर्तव्ये| बलशुक्रेत्यादि मज्जगुणाः||१४-१७||

Adhikarana 8 (18) · Śloka 18

सर्पिः शरदि पातव्यं वसा मज्जा च माधवे| तैलं प्रावृषि नात्युष्णशीते स्नेहं पिबेन्नरः||१८||

🔊 Audio coming soon

सर्पिरादिपानकालमाह- सर्पिः शरदीत्यादि| माधवे वैशाखे| प्रावृडाषाढश्रावणौ, यदुक्तं- “प्रावृट् शुक्रनभौ ज्ञेयौ” (सि.अ.६) इति| शरदि बहुपित्तत्वेन पित्तविरुद्धं घृतमेव यौगिकं, नान्यस्तैलादिः| वसामज्ज्ञोस्तु नातिशीतोष्णत्वात् साधारणे; यतस्तयोरनुपाने शीतत्वेन वोष्णत्वेन वा निर्देशो न कृतः; “यथासत्त्वं तु शैत्यौष्ण्ये वसामज्ज्ञोर्विनिर्दिशेत्” (सू.अ.२७) इति तु वचनेन शैत्यौष्ण्याभिधानं सामान्येन, तैलसर्पिर्वदौष्ण्यशैत्यानभिधानान्न प्रकर्षप्राप्तशैत्योष्णत्वप्रापकम्| अत एवोक्तं- “तैलवसामज्जसर्पिषां तु यथापूर्वं श्रेष्ठत्वं वातश्लेष्मविकारेषु भवति, यथोत्तरं पित्तविकारेषु” (वि.अ.८) इति| अत्रोत्तरस्य सर्पिषः शैत्यात् पित्तहरत्वं, तैलस्य तूष्णत्वाद्वातश्लेष्महरत्वं, वसामज्ज्ञोस्तु साधारणत्वेन मध्यगतत्वमिति स्थितम्| एवं वसामज्ज्ञोः साधारणत्वेन तथा बल्यत्वधातुवृद्धिकरत्वाभ्यामनतिशीतोष्णे तथा बलक्षयधातुक्षययुक्ते माधवे प्रयोगो युक्तः| चैत्रस्तु मुख्यसाधारणगुणोऽपि प्रभूतश्लेष्मतया न स्नेहविषय इत्यनुक्तः| सामान्येन स्नेहोपयोगे शस्तं कालमाह- नात्युष्णेत्यादि| नात्युष्णे ग्रीष्मे, नातिशीते हेमन्ते शिशिरे च तथा वर्षजनितशैत्ये वर्षाकाले| अयं चानात्ययिकविकारे सति कालनियमो ज्ञेयः, अग्रे उष्णे शीते च काले स्नेहोपदेशात्||१८||

Adhikarana 9 (19) · Śloka 19

वातपित्ताधिको रात्रावुष्णे चापि पिबेन्नरः| श्लेष्माधिको दिवा शीते पिबेच्चामलभास्करे||१९||

🔊 Audio coming soon

कालविशेषे दोषविशेषे च पानक्रमं दर्शयति- वातेत्यादिना| वातश्च पित्तं च वातपित्तं, तदधिको वातपित्ताधिकः| रात्राविति सायम्| उष्णे ग्रीष्मे| श्लेष्माधिकग्रहणमत्यन्तशीतविकारगृहीतपुरुषोपलक्षणार्थं, तेन वातश्लेष्माधिकः श्लेष्माधिकश्च गृह्यते; अत एव सुश्रुतेऽप्युक्तं- “वातपित्ताधिको रात्रौ वातश्लेष्माधिको दिवा” (सु.चि.३१) इति| केवलवाताधिकस्य तथा पित्ताधिकस्य श्लेष्माधिकस्य च साधारणे शरदादौ काले उत्सर्गसिद्ध एव पानकालो वक्ष्यमाणो भवति| वक्ष्यति हि- “पिबेत् संशमनं स्नेहमन्नकाले” इत्यादि| अन्ये तु ब्रुवते- वाताधिकग्रहणेन केवलवातस्यापि ग्रहणं, श्लेष्माधिकव्यपदेशाच्च वातश्लेष्म-पित्तश्लेष्मणोरपि ग्रहणमिति| शीते हेमन्तादौ| अमलः प्रबलरश्मिर्यस्मिन् दिनस्य भागे भास्करः सोऽमलभास्करो मध्याह्न इति यावत्||१९||

Adhikarana 10 (20-21) · Śloka 21

अत्युष्णे वा दिवा पीतो वातपित्ताधिकेन वा| मूर्च्छां पिपासामुन्मादं कामलां वा समीरयेत्||२०|| शीते रात्रौ पिबन् स्नेहं नरः श्लेष्माधिकोऽपि वा| आनाहमरुचिं शूलं पाण्डुतां वा समृच्छति||२१||

🔊 Audio coming soon

उक्तकालनियमविपर्यये दोषमाह- अत्युष्णे वेत्यादि| अत्युष्णे काले दिवा पीतः स्नेहः श्लैष्मिकस्यापि यथोक्तविकारकरः, तथा वातपित्ताधिकेन पीतः शीतकालेऽपि यथोक्तविकारकरः; एवं निशापानेऽपि वाक्यार्थः; परं निषिद्धस्य कालस्य दोषस्य च मेलकेऽत्यये चोक्तविकारप्रकर्षाप्रकर्षौ तर्कणीयौ||२०-२१||

Adhikarana 11 (22) · Śloka 22

जलमुष्णं घृते पेयं यूषस्तैलेऽनु शस्यते| वसामज्ज्ञोस्तु मण्डः स्यात् सर्वेषूष्णमथाम्बु वा||२२||

🔊 Audio coming soon

अनुपानमाह- जलमित्यादि| तैलेऽन्विति अनुपाने| अनुपानपरिमाणं तु सम्यग्भेषजपाकार्थं क्रियमाणं भेषजावैकारिकपाकेनैवोन्नेयं, वृद्धवैद्यव्यवहाराच्च||२२||

Adhikarana 12 (23-25) · Śloka 25

ओदनश्च विलेपी च रसो मांसं पयो दधि| यवागूः सूपशाकौ च यूषः काम्बलिकः खडः||२३|| सक्तवस्तिलपिष्टं च मद्यं लेहास्तथैव च| भक्ष्यमभ्यञ्जनं बस्तिस्तथा चोत्तरबस्तयः||२४|| गण्डूषः कर्णतैलं च नस्तःकर्णाक्षितर्पणम्| चतुर्विंशतिरित्येताः स्नेहस्य प्रविचारणाः ||२५||

🔊 Audio coming soon

विचारणाः सङ्ख्यया स्वरूपेण चैकग्रन्थेनाह- ओदनश्चेत्यादि| विलेपी विरलद्रवा यवागूर्बहुसिक्थसमन्विता ज्ञेया| सशाकपल्लवेन कृतो यूषः खडः| काम्बलिको दधिलवणस्नेहतिलादिकृत ईषदम्लः| एतयोरुदाहरणं यथा- “तक्रे कपित्थचाङ्गेरीमरिचाजाजिचित्रकैः | सुपक्वः खडयूषोऽयमयं काम्बलिको मतः|| दध्यम्लो लवणस्नेहतिलमाषान्वितः शृतः” इति| लेहः शर्करादीनां पाकात् कृतः; लिह्यत इति लेहः| प्रविचार्यते अवचार्यतेऽनुकल्पेनोपयुज्यतेऽनयेति प्रविचारणा ओदनादयः; ओदनादयश्च स्नेहप्रविचारणायां स्नेहयुक्ता एव बोद्धव्याः; अभ्यञ्जनादयस्तु यद्यपि शुद्धस्नेहसम्पाद्यास्तथाऽपि जठराग्निसम्बन्धे न व्याप्रियन्त इति तन्त्रे विचारणाशब्देनोच्यन्ते||२३-२५||

Adhikarana 13 (26) · Śloka 26

अच्छपेयस्तु यः स्नेहो न तामाहुर्विचारणाम्| स्नेहस्य स भिषग्दृष्टः कल्पः प्राथमकल्पिकः||२६||

🔊 Audio coming soon

केवलस्नेहपानं तु स्नेहने शक्त्यतिशयवत्त्वेन न विचारणासञ्ज्ञयोच्यते, एतदेवाह- अच्छपेय इत्यादि| अच्छश्च पेयश्च अच्छपेयः, ओदनाद्यसम्बन्धे सति पेय इत्यर्थः| न तामाहुर्विचारणामिति वचनेन वैद्यपरम्परासिद्धोऽयं व्यवहार इति दर्शयति| भिषग्भिर्दृष्टो भिषग्दृष्टः| प्रथमे श्रेष्ठे कल्पे पक्षे भवतीति प्राथमकल्पिकः, श्रेष्ठ इत्यर्थः||२६||

Adhikarana 14 (27-28) · Śloka 28

रसैश्चोपहितः स्नेहः समासव्यासयोगिभिः| षड्भिस्त्रिषष्टिधा सङ्ख्यां प्राप्नोत्येकश्च केवलः||२७|| एवमेताश्चतुःषष्टिः स्नेहानां प्रविचारणा | ओकर्तुव्याधिपुरुषान् प्रयोज्या जानता भवेत्||२८||

🔊 Audio coming soon

प्रकारान्तरेण विचारणाभेदमाह- रसैश्चेत्यादि| समासो रसानामन्योन्यमेलकः, व्यासोऽमेलकः; समासव्यासवद्भिः षड्भी रसैरोदनादिगतैरुपहितो युक्तः सन् स्नेहस्त्रिषष्टिसङ्ख्यां प्राप्नोति| एकश्च केवल इत्यच्छपेयं वर्जयित्वाऽभ्यञ्जनादिप्रयोज्यः| त्रिषष्ठी रसभेदा आत्रेयभद्रकाप्यीये “स्वादुरम्लादिभिर्योगं” (सू.अ.२६) इत्यादिवाक्ये वक्ष्यमाणा बोद्धव्याः| एवं स्नेहानां रसयुक्तानां चतुःषष्टिः प्रविचारणा भवन्ति| चतुःषष्टिरिति स्नेहानामित्यनेन सम्बध्यते, तेन प्रविचारणेत्येकवचनमुपपन्नं भवति| न सर्वविचारणा सर्वत्र कर्तव्या, किन्तु सात्म्यर्तुव्याधिदोषपुरुषान् परीक्ष्य या यत्र युज्यते सा तत्र कर्तव्येत्याह- ओकर्त्वित्यादि| ओकः अभ्यासः| पुरुषग्रहणेन कस्मिन् देशेऽयं पुरुषो वर्तत इति परीक्षया देशोऽप्यवरुद्धो बोद्धव्यः, वयोबलप्रभृतयश्च बोद्धव्याः||२७-२८||

Adhikarana 15 (29-40) · Śloka 40

अहोरात्रमहः कृत्स्नमर्धाहं च प्रतीक्षते| प्रधाना मध्यमा ह्रस्वा स्नेहमात्रा जरां प्रति||२९|| इति तिस्रः समुद्दिष्टा मात्राः स्नेहस्य मानतः| तासां प्रयोगान् वक्ष्यामि पुरुषं पुरुषं प्रति||३०|| प्रभूतस्नेहनित्या ये क्षुत्पिपासासहा नराः| पावकश्चोत्तमबलो येषां ये चोत्तमा बले||३१|| गुल्मिनः सर्पदष्टाश्च विसर्पोपहताश्च ये| उन्मत्ताः कृच्छ्रमूत्राश्च गाढवर्चस एव च||३२|| पिबेयुरुत्तमां मात्रां तस्याः पाने गुणाञ्छृणु| विकाराञ्छमयत्येषां शीघ्रं सम्यक्प्रयोजिता||३३|| दोषानुकर्षिणी मात्रा सर्वमार्गानुसारिणी| बल्या पुनर्नवकरी शरीरेन्द्रियचेतसाम्||३४|| अरुष्कस्फोटपिडकाकण्डूपामाभिरर्दिताः| कुष्ठिनश्च प्रमीढाश्च वातशोणितिकाश्च ये||३५|| नातिबह्वाशिनश्चैव मृदुकोष्ठास्तथैव च| पिबेयुर्मध्यमां मात्रां मध्यमाश्चापि ये बले||३६|| मात्रैषा मन्दविभ्रंशा न चातिबलहारिणी| सुखेन च स्नेहयति शोधनार्थे च युज्यते||३७|| ये तु वृद्धाश्च बालाश्च सुकुमाराः सुखोचिताः| रिक्तकोष्ठत्वमहितं येषां मन्दाग्नयश्च ये||३८|| ज्वरातीसारकासाश्च येषां चिरसमुत्थिताः| स्नेहमात्रां पिबेयुस्ते ह्रस्वां ये चावरा बले||३९|| परिहारे सुखा चैषा मात्रा स्नेहनबृंहणी| वृष्या बल्या निराबाधा चिरं चाप्यनुवर्तते||४०||

🔊 Audio coming soon

मात्रायाः सङ्ख्यां प्रमाणं चाह- अहोरात्रमित्यादि| अहोरात्रशब्दोऽष्टप्रहरोपलक्षणः, एवमहःशब्दार्धाहशब्दौ चतुःप्रहरद्विप्रहरोपलक्षणौ, तेन प्रहराद्यतीतेऽप्यहनि पीता मात्रा यथोक्तप्रहरकालप्राप्त्या दिनान्तरे रात्रौ वा जीर्यमाणा मन्तव्या; अन्ये त्वहोरात्रशब्देन न्यूनेनाप्यह्ना युक्ता रात्रिरहोरात्रशब्देनोच्यते , कृत्स्नार्धाहौ तु प्रहरोपलक्षणाविति वदन्ति| अत्र यदा अहोरात्रपरिणामिनी मात्रा क्रियते, तदा तदहराहारो न कर्तव्यः; अत एवैतत्पानं पुरुषविशेषविषयकथने उक्तं- “क्षुत्पिपासासहानराः” इति| प्रभूतस्नेहनित्याः प्रभूतस्नेहसात्म्याः| सम्यग्यो जितेतिवचनेन महाव्यापत्तित्वमस्याः सूचयति| सर्वमार्गाः कोष्ठसन्धिमर्मशाखाः| पुनर्नवकरी निःशेषदोषहरत्वेन| अरुष्केत्यादि मध्यममात्रागुणः; अरुष्का अरूंषिका| शोधनार्थ इति शोधनार्थ(ङ्ग)स्नेहकरणे; एतेन उत्तममात्रा संशमने एव परं, न तु शोधनाङ्गस्नेहे कर्तव्येति दर्शयति| ये त्वित्यादि ह्रस्वमात्रागुणः| परिहारे सुखेति अल्पपरिहारत्वेन||२९-४०||

Adhikarana 16 (41-43) · Śloka 43

वातपित्तप्रकृतयो वातपित्तविकारिणः| चक्षुःकामाः क्षताः क्षीणा वृद्धा बालास्तथाऽबलाः||४१|| आयुःप्रकर्षकामाश्च बलवर्णस्वरार्थिनः| पुष्टिकामाः प्रजाकामाः सौकुमार्यार्थिनश्च ये||४२|| दीप्त्योजःस्मृतिमेधाग्निबुद्धीन्द्रियबलार्थिनः| पिबेयुः सर्पिरार्ताश्च दाहशस्त्रविषाग्निभिः||४३||

🔊 Audio coming soon

यः स्नेहो यत्र कार्यस्तमाह- वातपित्तेत्यादि| वातपित्तविकारग्रहणेनैव वातपित्तप्रकृतिषु लब्धेषु पुनस्तदभिधानं वातपित्तप्रकृतीनां स्तोकश्लेष्मविकारेऽपि घृतपानोपदेशार्थम्; एवं वातव्याधिभिराविष्टा वातप्रकृतयश्च य इत्यत्र व्याख्येयम्| बलार्थिन इत्यत्र बलशब्दः स्मृत्यादिभिः सम्बध्यते| आर्ताः पीडिताः, दाहादिभिरिति सम्बन्धः||४१-४३||

Adhikarana 17 (44-46) · Śloka 46

प्रवृद्धश्लेष्ममेदस्काश्चलस्थूलगलोदराः| वातव्याधिभिराविष्टा वातप्रकृतयश्च ये||४४|| बलं तनुत्वं लघुतां दृढतां स्थिरगात्रताम् | स्निग्धश्लक्ष्णतनुत्वक्तां ये च काङ्क्षन्ति देहिनः||४५|| कृमिकोष्ठाः क्रूरकोष्ठास्तथा नाडीभिरर्दिताः| पिबेयुः शीतले काले तैलं तैलोचिताश्च ये||४६||

🔊 Audio coming soon

तैलविषयमाह- प्रवृद्धेत्यादि| शीतले काल इति तैलस्योष्णत्वेन शीतलेऽपि काल इत्यर्थः; तेन सामान्यप्रतिषेधः ‘नात्युष्णशीते स्नेहं पिबेन्नरः’ इति न विरुध्यते; यदि वा सर्पिःपानकालापेक्षया शीतत्वं बोद्धव्यम्||४४-४६||

Adhikarana 18 (47-49) · Śloka 49

वातातपसहा ये च रूक्षा भाराध्वकर्शिताः| संशुष्करेतोरुधिरा निष्पीतकफमेदसः||४७|| अस्थिसन्धिसिरास्नायुमर्मकोष्ठमहारुजः| बलवान्मारुतो येषां खानि चावृत्य तिष्ठति||४८|| महच्चाग्निबलं येषां वसासात्म्याश्च ये नराः| तेषां स्नेहयितव्यानां वसापानं विधीयते||४९||

🔊 Audio coming soon

वसाविषयमाह- वातातपेत्यादि| संशुष्कनिष्पीतशब्दौ क्षीणार्थावेव| महारुज इत्यस्थ्यादिभिः सम्बध्यते| खानि स्रोतांसि||४७-४९||

Adhikarana 19 (50) · Śloka 51

दीप्ताग्नयः क्लेशसहा घस्मराः स्नेहसेविनः| वातार्ताः क्रूरकोष्ठाश्च स्नेह्या मज्जानमाप्नुयुः||५०|| येभ्यो येभ्यो हितो यो यः स्नेहः स परिकीर्तितः|५१|

🔊 Audio coming soon

दीप्ताग्नय इत्यादि मज्जपानविषयः| घस्मरा बहुभक्षकाः| आप्नुयुः उपयुञ्जीरन्||५०||-

Adhikarana 20 (51) · Śloka 51

स्नेहनस्य प्रकर्षौ तु सप्तरात्रत्रिरात्रकौ||५१||

🔊 Audio coming soon

प्रकर्षाविति अल्पप्रकर्षभूयःप्रकर्षौ ; तेन, अल्पत्वेन त्रैरात्रिकः प्रकर्षः, भूयस्त्वेन साप्तरात्रिक इति च भवति| एतच्च वक्ष्यमाणसद्यःस्नेहप्रयोगातिरिक्तप्रयोगे बोद्धव्यं; यदि वा, सद्यःस्नेहप्रयोगा अपि त्र्यहेणैव स्नेहयन्ति, स्तुत्यर्थं तु तेषु सद्य इत्युक्तम्| यदुक्तं- “त्र्यहावरं सप्तदिनं परं तु स्निग्धो नरः स्वेदयितव्य इष्टः| नातः परं स्नेहनमादिशन्ति सात्म्यीभवेत् सप्तदिनात् परं तु” (सि.अ.१.) इति||५१||

Adhikarana 21 (52) · Śloka 52

स्वेद्याः शोधयितव्याश्च रूक्षा वातविकारिणः| व्यायाममद्यस्त्रीनित्याः स्नेह्याः स्युर्ये च चिन्तकाः||५२||

🔊 Audio coming soon

सामान्येन स्नेह्यानाह- स्वेद्या इत्यादि| स्वेद्याः स्वतन्त्रस्वेदसाध्या वातरुगार्तादयः, शोधनाङ्गस्वेदसाध्यानां तु शोधयितव्या इत्यनेनैव गृहीतत्वात्| चिन्तका इति चिन्ताबहुलाः||५२||

Adhikarana 22 (53-56) · Śloka 56

संशोधनादृते येषां रूक्षणं सम्प्रवक्ष्यते| न तेषां स्नेहनं शस्तमुत्सन्नकफमेदसाम्||५३|| अभिष्यण्णाननगुदा नित्यमन्दाग्नयश्च ये| तृष्णामूर्च्छापरीताश्च गर्भिण्यस्तालुशोषिणः||५४|| अन्नद्विषश्छर्दयन्तो जठरामगरार्दिताः| दुर्बलाश्च प्रतान्ताश्च स्नेहग्लाना मदातुराः||५५|| न स्नेह्या वर्तमानेषु न नस्तो बस्तिकर्मसु| स्नेहपानात् प्रजायन्ते तेषां रोगाः सुदारुणाः||५६||

🔊 Audio coming soon

अस्नेह्यानाह- संशोधनादृत इत्यादि| येषां रूक्षणं वक्ष्यते लङ्घनबृंहणीये- “अभिष्यन्दा महादोषा मर्मस्था व्याधयश्च ये| ऊरुस्तम्भप्रभृतयो रूक्षणीया निदर्शिताः” (सू. अ.२२) इत्यनेन, तेषां शोधनादृते स्नेहनं न शस्तं, यदा तु शोधनेन विरूक्ष्यन्ते तदा परं शोधनाङ्ग(र्थ)स्तत्र स्नेहः कर्तव्य इति भावः| उत्सन्नो वृद्धः कफो मेदश्च येषां ते तथा; एतच्च विशेषणं विरूक्षणीया एवम्भूता एव भवन्तीति दर्शयति | अभिष्यण्णः द्रवप्रधानश्लेष्मविकारी| गरः कृत्रिमं विषम्| अतिप्रतान्तः अतिक्षीणद्रवधातुः| वर्तमानेषु क्रियमाणेष्वित्यर्थः||५३-५६||

Adhikarana 23 (57-59) · Śloka 59

पुरीषं ग्रथितं रूक्षं वायुरप्रगुणो मृदुः| पक्ता खरत्वं रौक्ष्यं च गात्रस्यास्निग्धलक्षणम्||५७|| वातानुलोम्यं दीप्तोऽग्निर्वर्चः स्निग्धमसंहतम्| मार्दवं स्निग्धता चाङ्गे स्निग्धानामुपजायते||५८|| पाण्डुता गौरवं जाड्यं पुरीषस्याविपक्वता| तन्द्रीररुचिरुत्केशः स्यादतिस्निग्धलक्षणम्||५९||

🔊 Audio coming soon

अस्निग्धलक्षणमाह- पुरीषमित्यादि| मृदुरिति पक्तुर्विशेषणम्| वातानुलोम्यमित्यादि स्निग्धलक्षणम्| पाण्डुतेत्यादि अतिस्निग्धलक्षणम्| जाड्यम् इन्द्रियजडत्वम्||५७-५९||

Adhikarana 24 (60-61) · Śloka 61

द्रवोष्णमनभिष्यन्दि भोज्यमन्नं प्रमाणतः| नातिस्निग्धमसङ्कीर्णं श्वः स्नेहं पातुमिच्छता||६०|| पिबेत् संशमनं स्नेहमन्नकाले प्रकाङ्क्षितः| शुद्ध्यर्थं पुनराहारे नैशे जीर्णे पिबेन्नरः||६१||

🔊 Audio coming soon

स्नेहात् पूर्वं यत् पथ्यं तदाह- द्रवोष्णमित्यादि| असङ्कीर्णम् अविरुद्धवीर्यम्| श्व इत्यागामिदिने| अन्नकाले द्विप्रहरादिलक्षणे बुभुक्षा कदाचिन्न स्यादपि तदर्थं विशेषणं- प्रकाङ्क्षित इति| शुद्ध्यर्थं तु स्नेहं नैशे दिनान्तरकृते आहारे जीर्ण एव प्रातरेव पिबेदित्यर्थः| संशमनार्थस्नेहो यदि जरणान्ते प्रातरेव क्रियते तदा कोष्ठोपलेपकदोषस्याक्षयात्तेन दोषेण सम्बद्धो दोषोत्क्लेशं कुर्यान्न संशमनं, संशोधनार्थस्तु दोषोत्क्लेशं करोतीत्यपेक्षणीय एवेति भावः| एतच्च कालकथनमुत्सर्गेण, तेन “वातपित्ताधिको रात्रौ” इत्युक्तकालविरोधो न भवति||६०-६१||

Adhikarana 25 (62-64) · Śloka 64

उष्णोदकोपचारी स्याद्ब्रह्मचारी क्षपाशयः | शकृन्मूत्रानिलोद्गारानुदीर्णांश्च न धारयेत्||६२|| व्यायाममुच्चैर्वचनं क्रोधशोकौ हिमातपौ| वर्जयेदप्रवातं च सेवेत शयनासनम्||६३|| स्नेहं पीत्वा नरः स्नेहं प्रतिभुञ्जान एव च| स्नेहमिथ्योपचाराद्धि जायन्ते दारुणा गदाः||६४||

🔊 Audio coming soon

क्षपायामेव स्वपितीति क्षपाशयः| अप्रवातं चेति शयनासनविशेषणम्| स्नेहं प्रतिभुञ्जान इति स्नेहे जीर्णेऽपि स्नेहप्रयोगानुगुणमन्यस्नेहमविरुद्धवीर्यादिगुणयुक्तं भुञ्जानः| एतेन स्नेहे पीते जीर्णे किञ्च हिताहितमिति प्रश्नद्वयस्योत्तरमिदम्- उष्णोदकोपचारी स्यादित्यादि भवति||६२-६४||

Adhikarana 26 (65-69) · Śloka 69

मृदुकोष्ठस्त्रिरात्रेण स्निह्यत्यच्छोपसेवया| स्निह्यति क्रूरक्रोष्ठस्तु सप्तरात्रेण मानवः||६५|| गुडमिक्षुरसं मस्तु क्षीरमुल्लोडितं दधि| पायसं कृशरां सर्पिः काश्मर्यत्रिफलारसम्||६६|| द्राक्षारसं पीलुरसं जलमुष्णमथापि वा| मद्यं वा तरुणं पीत्वा मृदुकोष्ठो विरिच्यते||६७|| विरेचयन्ति नैतानि क्रूरकोष्ठं कदाचन| भवति क्रूरकोष्ठस्य ग्रहण्यत्युल्बणानिला||६८|| उदीर्णपित्ताऽल्पकफा ग्रहणी मन्दमारुता| मृदुकोष्ठस्य तस्मात् स सुविरेच्यो नरः स्मृतः||६९||

🔊 Audio coming soon

मृदुकोष्ठादिलक्षणमाह- मृद्वित्यादि| अभ्यर्हितत्वात् कोष्ठज्ञानस्यान्यथाऽपि तल्लक्षणमाह- गुडमित्यादि| उल्लोडितं दधिसरः| कृशरा तिलतण्डुलमाषकृता यवागूः; वचनं हि- “तिलतण्डुलमाषैस्तु कृशरा त्रिसरेति च”| क्रूरकोष्ठाविरेचनहेतुमाह- भवतीत्यादि| ग्रहणी कोष्ठस्थाग्न्यधिष्ठानभूता नाडी; यदुक्तम्- “अग्न्यधिष्ठानमन्नस्य ग्रहणाद्ग्रहणी मता” (चि.अ.१५) इति| उदीर्णपित्तेत्यादि मृदुकोष्ठस्वरूपकथनम्| क्रूरकोष्ठस्य ग्रहणीगतो वायुर्गुडादीनां सरत्वं प्रतिबध्नाति, मृदुकोष्ठस्य हि ग्रहण्यां विरोधको वायुर्नास्ति, स्तम्भकोऽपि श्लेष्माऽल्पः, उद्भूतसरत्वगुणं च पित्तं प्रबलं; तेन गुडादिभिः सुखं विरेचनं भवतीति भावः||६५-६९||

Adhikarana 27 (70-78) · Śloka 78

उदीर्णपित्ता ग्रहणी यस्य चाग्निबलं महत्| भस्मीभवति तस्याशु स्नेहः पीतोऽग्नितेजसा||७०|| स जग्ध्वा स्नेहमात्रां तामोजः प्रक्षारयन् बली| स्नेहाग्निरुत्तमां तृष्णां सोपसर्गामुदीरयेत्||७१|| नालं स्नेहसमृद्धस्य शमायान्नं सुगुर्वपि| स चेत् सुशीतं सलिलं नासादयति दह्यते| यथैवाशीविषः कक्षमध्यगः स्वविषाग्निना||७२|| अजीर्णे यदि तु स्नेहे तृष्णा स्याच्छर्दयेद्भिषक्| शीतोदकं पुनः पीत्वा भुक्त्वा रूक्षान्नमुल्लिखेत्||७३|| न सर्पिः केवलं पित्ते पेयं सामे विशेषतः| सर्वं ह्यनुरजेद्देहं हत्वा सञ्ज्ञां च मारयेत्||७४|| तन्द्रा सोत्क्लेश आनाहो ज्वरः स्तम्भो विसञ्ज्ञता| कुष्ठानि कण्डूः पाण्डुत्वं शोफार्शांस्यरुचिस्तृषा||७५|| जठरं ग्रहणीदोषाः स्तैमित्यं वाक्यनिग्रहः| शूलमामप्रदोषाश्च जायन्ते स्नेहविभ्रमात्||७६|| तत्राप्युल्लेखनं शस्तं स्वेदः कालप्रतीक्षणम्| प्रति प्रति व्याधिबलं बुद्ध्वा स्रंसनमेव च||७७|| तक्रारिष्टप्रयोगश्च रूक्षपानान्नसेवनम्| मूत्राणां त्रिफलायाश्च स्नेहव्यापत्तिभेषजम्||७८||

🔊 Audio coming soon

सम्प्रति स्नेहव्यापदो दर्शयति- उदीर्णेत्यादि| ओजः सर्वधातुसारभूतं हृदि स्थितं, प्रक्षारयन् स्थानाद्भ्रंशयन् क्षपयंश्च| बलीत्यनेन स्नेहेन्धनो वह्निर्नितरां बलवान् भवतीति दर्शयति| वचनं हि- “नालं स्नेहसमृद्धस्य शमायान्नं सुगुर्वपि” इति| उत्तमां महतीं मात्राम्| सोपसर्गां सोपद्रवाम्| कक्षः काष्ठसमूहः| छर्दयेदिति प्रथमं स्नेहमेव तृष्णाकारकं छर्दयित्वा पुनः शीतोदकं पीत्वा रूक्षान्नं च भुक्त्वा उल्लिखेदिति योजनीयम्| न सर्पिरित्यादि|- न सर्पिः सामे पित्ते पेयं, केवलं त्वसंस्कृतं विशेषतो न पेयं सामपित्त एवेति योजना; एवं मन्यते- संस्कृतं तिक्तकादिभिर्युतं सामे पित्ते तिक्तकादिपाचनगुणानुयोगाद्योग्यं कदाचिद्भवत्यपि , असंस्कृतं तु सर्वथा विरुद्धमेव; यदिवा, केवलमसंस्कृतं सर्पिः पित्ते सामान्येन सामे निरामे वा न पेयं, सामे पित्ते विशेषत इति योजना| एतेन, यत्रापि सामान्येन घृतं विहितं, यथा- “अत ऊर्ध्वं कफे मन्दे वातपित्तोत्तरे ज्वरे| परिपक्वेषु दोषेषु सर्पिःपानं यथाऽमृतम्” (चि.अ.३) इत्यादौ, तत्राप्युचितभेषजसंस्कृतमेव बोद्धव्यम्| यदिवा, न केवलं पित्ते सामे सर्पिर्विशेषतो न पेयं, किन्तर्हि तैलादीन्यपि वातश्लेष्मविहितानि तयोः सामयोर्न पेयानीत्यर्थः| अस्मिन् व्याख्यानेऽपेयमित्यकारप्रश्लेषो द्रष्टव्यः| अनुरजेत् पित्तवर्णं कुर्यात्| सञ्ज्ञा स्मृतिः, तद्धननं चेह व्याधिप्रभावात्| स्तैमित्यम् आर्द्रवस्त्रागुण्ठितत्वमिव| आमप्रदोषा अलसकविसूचिकादयः| कालप्रतीक्षणं स्नेहजनितदोषक्षयं यावदभोजनम्| तक्रस्यारिष्टानां च चिकित्सावक्ष्यमाणानां प्रयोगः| मूत्राणां त्रिफलायाश्च सेवनमिति सम्बन्धः||७०-७८||

Adhikarana 28 (79) · Śloka 79

अकाले चाहितश्चैव मात्रया न च योजितः| स्नेहो मिथ्योपचाराच्च व्यापद्येतातिसेवितः||७९||

🔊 Audio coming soon

मिथ्योपचारात् यथोक्तविध्यननुष्ठानात्| अतिसेवितः कालप्रकर्षेण सेवितः||७९||

Adhikarana 29 (80) · Śloka 80

स्नेहात् प्रस्कन्दनं जन्तुस्त्रिरात्रोपरतः पिबेत्| स्नेहवद्द्रवमुष्णं च त्र्यहं भुक्त्वा रसौदनम्||८०||

🔊 Audio coming soon

संशोधनस्नेहपाने वृत्तिप्रचारमाह- स्नेहादित्यादि| स्नेहात् स्नेहप्रयोगात्| त्रिरात्रोपरतः त्रिरात्रं परित्यक्तस्नेहपान इत्यर्थः| प्रस्कन्दनं विरेचनम्| स्नेहोपरमत्रिरात्र एव भोजनं दर्शयति- स्नेहवदित्यादि| रसप्रधानमोदनं रसौदनम्||८०||

Adhikarana 30 (81) · Śloka 81

एकाहोपरतस्तद्वद्भुक्त्वा प्रच्छर्दनं पिबेत्|८१|

🔊 Audio coming soon

वमने स्नेहवृत्तिमाह- एकेत्यादि| एकाहोपरतः स्नेहादिति योजना| तद्वदिति स्नेहवद्द्रवमुष्णं च रसौदनं स्नेहोपरमदिवस एव|८१|-

Adhikarana 31 (81) · Śloka 81

स्यात्त्वसंशोधनार्थीये वृत्तिः स्नेहे विरिक्तवत्||८१||

🔊 Audio coming soon

संशमनविधिमाह- स्यात्त्वित्यादि| असंशोधनार्थीये संशमने| वृत्तिः उपचारः| विरिक्तवदित्यनेनागतावेक्षणेनोपकल्पनीयवक्ष्यमाणं “सम्यग्विरिक्तं चैनं” (सू. अ.१५) इत्यादिग्रन्थप्रतिपादनीयमुपचारमाह, नतु पेयादिक्रममात्रम् | यद्यपि वमनोक्ता एव तत्रोच्चैर्भाष्यादयो विरेचनवृत्तावप्यतिदिष्टास्तथाऽपीह वमनविधि परित्यज्य विरेचनविध्यतिदेशो धूमपानप्रतिषेधार्थः, विरेचने हि तत्र “धूमपानवर्जं” (सू. अ.१५) इति कृतं, स्नेहपाने च धूमपानं निषिद्धं मात्राशितीये- “न मद्यदुग्धे पीत्वा च न स्नेहं” (सू. अ.५) इत्यादिना||८१||

Adhikarana 32 (82-90) · Śloka 1

स्नेहद्विषः स्नेहनित्या मृदुकोष्ठाश्च ये नराः| क्लेशासहा मद्यनित्यास्तेषामिष्टा विचारणा||८२|| लावतैत्तिरमायूरहांसवाराहकौक्कुटाः| गव्याजौरभ्रमात्स्याश्च रसाः स्युः स्नेहने हिताः||८३|| यवकोलकुलत्थाश्च स्नेहाः सगुडशर्कराः| दाडिमं दधि सव्योषं रससंयोगसङ्ग्रहः||८४|| स्नेहयन्ति तिलाः पूर्वं जग्धाः सस्नेहफाणिताः| कृशराश्च बहुस्नेहास्तिलकाम्बलिकास्तथा||८५|| फाणितं शृङ्गवेरं च तैलं च सुरया सह| पिबेद्रूक्षो भृतैर्मांसैर्जीर्णेऽश्नीयाच्च भोजनम्||८६|| तैलं सुराया मण्डेन वसां मज्जानमेव वा| पिबन् सफाणितं क्षीरं नरः स्निह्यति वातिकः||८७|| धारोष्णं स्नेहसंयुक्तं पीत्वा सशर्करं पयः| नरः स्निह्यति पीत्वा वा सरं दध्नः सफाणितम्||८८|| पाञ्चप्रसृतिकी पेया पायसो माषमिश्रकः| क्षीरसिद्धो बहुस्नेहः स्नेहयेदचिरान्नरम्||८९|| सर्पिस्तैलवसामज्जातण्डुलप्रसृतैः शृ(कृ)ता| पाञ्चप्रसृतिकी पेया पेया स्नेहनमिच्छता||९०|| (शौकरो वा रसः स्निग्धः सर्पिर्लवणसंयुतः | पीतो द्विर्वासरे यत्नात् स्नेहयेदचिरान्नरम् ||१||)|

🔊 Audio coming soon

विचारणाविषयमाह- स्नेहद्विष इत्यादिना| लावादिरसानामुक्तानां संस्कारमाह- यवेत्यादि| रसे स्नेहार्थोक्तरस उचितः संयोगो येषां ते रससंयोगाः, तेषां सङ्ग्रहणं सङ्ग्रहः| पूर्वमिति भोजनात् पूर्वम्| तिलप्रधानः काम्बलिकस्तिलकाम्बलिकः| फाणितमित्यादौ शृङ्गवेरमिति शृङ्गवेररसम्| भृतैः भटित्रीकृतैः| पाञ्चप्रसृतिकी अग्रे वक्ष्यमाणा| माषमिश्रको माषतण्डुलकृतमन्नम्| पेया पातव्या||८२-९०||

Adhikarana 33 (91-94) · Śloka 94

ग्राम्यानूपौदकं मांसं गुडं दधि पयस्तिलान्| कुष्ठी शोथी प्रमेही च स्नेहने न प्रयोजयेत्||९१|| स्नेहैर्यथार्हं तान् सिद्धैः स्नेहयेदविकारिभिः| पिप्पलीभिर्हरीतक्या सिद्धैस्त्रिफलयाऽपि वा||९२|| द्राक्षामलकयूषाभ्यां दध्ना चाम्लेन साधयेत्| व्योषगर्भं भिषक् स्नेहं पीत्वा स्निह्यति तं नरः||९३|| यवकोलकुलत्थानां रसाः क्षारः सुरा दधि| क्षीरसर्पिश्च तत् सिद्धं स्नेहनीयं घृतोत्तमम्||९४||

🔊 Audio coming soon

यथार्हमिति यो यत्र स्नेहो युज्यते सर्पिरादिः| सिद्धैरिति पिप्पलीभिस्तथा हरीतक्या तथा त्रिफलया चेति पृथग्योजनीयं; पिप्पल्यादिसिद्धस्नेहश्च कुष्ठादिषु यथासङ्ख्यमिति केचित्| यूषशब्दः क्वाथवचनः| व्योषगर्भं व्योषकल्कम्| अत्र त्रिभिर्द्रव्यैर्मिलित्वा चातुर्गुण्यम्| यवकोलादौ षड्द्रव्याणि स्नेहसमानि| क्षारो यवक्षारः कल्कः||९१-९४||

Adhikarana 34 (95) · Śloka 95

तैलमज्जवसासर्पिर्बदरत्रिफलारसैः| योनिशुक्रप्रदोषेषु साधयित्वा प्रयोजयेत्||९५||

🔊 Audio coming soon

तैलमज्जेत्यादि|- चतुःस्नेहोऽकल्क एव, तैलमज्जवसासर्पिरित्येकवद्भावाद्द्वितीयान्तः प्रयोगः||९५||

Adhikarana 35 (96-97) · Śloka 97

गृह्णात्यम्बु यथा वस्त्रं प्रस्रवत्यधिकं यथा| यथाग्नि जीर्यति स्नेहस्तथा स्रवति चाधिकः||९६|| यथा वाऽऽक्लेद्य मृत्पिण्डमासिक्तं त्वरया जलम्| स्रवति स्रंसते स्नेहस्तथा त्वरितसेवितः||९७||

🔊 Audio coming soon

सम्प्रति स्नेह उपयुक्तो यथा शरीरं सस्नेह्याधिको दृश्यते, तदाह- गृह्णातीत्यादि| तच्च शिष्येणाध्यायादावपृष्टमपि शिष्यहिततयाऽभिधीयते| यथाग्नीति अग्न्यनधिक इत्यर्थः| नन्वग्न्यधिकश्चेत् स्रवति, तदवधि च स्नेहलक्षणमुक्तं, यदुच्यते- “अधस्तात् स्नेहदर्शनम्” इति, तेनैकदिन एवाधिकस्नेहपानं क्रियतामित्याह- यथा चेत्यादि| आक्लेद्य ईषत्क्लेदयित्वा| त्वरितसेवितः स्नेहो धातूनस्नेहयित्वैव स्रंसतेऽधो याति यावान्, न तावता स्नेहनं भवतीति भावः||९६-९७||

Adhikarana 36 (98) · Śloka 98

लवणोपहिताः स्नेहाः स्नेहयन्त्यचिरान्नरम्| तद्ध्यभिष्यन्द्यरूक्षं च सूक्ष्ममुष्णं व्यवायि च||९८||

🔊 Audio coming soon

स्नेहने सर्वस्नेहेषु लवणप्रयोगमाह- लवणोपहिता इत्यादि| तदिति लवणम्| अभिष्यन्दि दोषसङ्घातविच्छेदकम्| व्यवायि अखिलदेहव्याप्तिपूर्वकपाकगामि||९८||

Adhikarana 37 (99) · Śloka 99

स्नेहमग्रे प्रयुञ्जीत ततः स्वेदमनन्तरम्| स्नेहस्वेदोपपन्नस्य संशोधनमथेतरत् ||९९||

🔊 Audio coming soon

अतो वक्ष्यमाणस्वेदोपकल्पनाध्याययोः सम्बन्धसूचकं स्वेदादिषु स्नेहस्य प्राग्भावमाह- स्नेहमित्यादि||९९||

Adhikarana 38 (100) · Śloka 100

तत्र श्लोकः- स्नेहाः स्नेहविधिः कृत्स्नव्यापत्सिद्धिः सभेषजा| यथाप्रश्नं भगवता व्याहृतं चान्द्रभागिना||१००||

🔊 Audio coming soon

चान्द्रभागी पुनर्वसुः||१००||

Adhikarana puShpikA · Śloka 13

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने स्नेहाध्यायो नाम त्रयोदशोऽध्यायः समाप्तः||१३||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यव्याख्यायामायुर्वेददीपिकायां सूत्रस्थाने कल्पनाचतुष्के स्नेहाध्यायो नाम त्रयोदशोऽध्यायः||१३||