Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

28. vividhāśitapītīyō'dhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो विविधाशितपीतीयमध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

पूर्वाध्याये ‘अन्नं प्राणाः’ (सू. २७) इत्युक्तं, तद्येन प्रकारेणान्नं प्राणहेतुर्भवति तदभिधानार्थं विविधाशितपीतीयोऽभिधीयते| इयमप्यर्थपरा सञ्ज्ञा||१-२||

Adhikarana 2 (3) · Śloka 3

विविधमशितं पीतं लीढं खादितं जन्तोर्हितमन्तरग्निसन्धुक्षितबलेन यथास्वेनोष्मणा सम्यग्विपच्यमानं कालवदनवस्थितसर्वधातुपाकमनुपहतसर्वधातूष्ममारुतस्रोतः केवलं शरीरमुपचयबलवर्णसुखायुषा योजयति शरीरधातूनूर्जयति च| धातवो हि धात्वाहाराः प्रकृतिमनुवर्तन्ते||३||

🔊 Audio coming soon

विविधमित्यादि| विविधमिति अनेनाशितादीनामवान्तरभेदं दर्शयति; अशितादिषु यो यः प्राय उपयुज्यते स पूर्वमुक्तः| जन्तोर्हितमिति वचनमहितस्याशितादेर्बलवर्णादिकर्तृत्वाभावात्| अन्तरग्निना जाठरेण वह्निना सन्धुक्षितं बलं यस्य तेनान्तरग्निसन्धुक्षितबलेन| यथास्वेनोष्मणेति पृथिव्यादिरूपाशितादेर्यस्य य ऊष्मा पार्थिवाग्न्यादिरूपस्तेन; वचनं हि- “भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः| पञ्चाहारगुणान् स्वान् स्वान् पार्थिवादीन् पचन्ति हि” (चि. १५) इति| सम्यग्विपच्यमानमिति अशितादि| किंवा यथास्वेनोष्मणेति यस्य रुधिरादेर्य ऊष्मा धात्वग्निरूपस्तेन सम्यग्विपच्यमानमशितादि रसतामापन्नं यदा रक्तादिधातून् प्रतिपद्यते तदा रक्ताद्यूष्मणैव पच्यते; एवं विपच्यमानमशितादि शरीरमुपचयादिना योजयत्यूर्जयति वर्धयतीति योजना| किंविशिष्टं शरीरमित्याह- कालवदित्यादि|- यथा कालो नित्यगत्वेनानवस्थितः, तथाऽनवस्थितः अविश्रान्तः सर्वधातूनां पाको यस्मिन् शरीरे तत्तथा; एतेन सर्वदा स्वाग्निपाकक्षीयमाणधातोः शरीरस्याशितादिनोपचयादियोजनमुपपन्नमिति दर्शयति, यदि हि पाकक्षीयमाणं शरीरं न स्यात्तदा स्वतः सिद्धे उपचयादौ किमशितादि कुर्यादिति भावः| किंवा कालवदित्यशितादिविशेषणं; तेन यथोक्तकालकृतमशितादीत्यर्थः , अकालभोजनस्योपचयाद्यकारकत्वात्| तथा, अनवस्थितसर्वधातुपाकमित्येतदपि अशितादिविशेषणं, तेन अनवस्थितः सर्वधातुषु पाको यस्याशितादेस्तत्तथा; एतेन क्वचिदपि धातौ स्थगितस्याशितादे रसरूपस्य पाकविगमनान्नोपचयादिर्भवतीति दर्शयति| एतच्च व्याख्यानं नातिसुन्दरम्, अस्यार्थस्य अनुपहतेत्यादिशरीरविशेषणेनैव लब्धत्वात् पुनः शरीरविशेषणमनुपपन्नम्| अनुपहतेत्यादि अनुपहतानि सर्वधातूनामूष्ममारुतस्रोतांसि यस्य तत्तथा;, यदा हि एकोऽपि धातुपाचकोऽग्निरुपहतः मारुतो वा धातुपोषकरसवाही व्यानरूपः क्वचिदुपहतो भवति, तथा स्रोतो वा धातुपोषकरसवहमुपहतं स्यात्, तदा अशितादिकं धातूनामवर्धकत्वान्नोपचयादिकारकमिति भावः| केवलमिति कृत्स्नं शरीरं; किंवा केवलमिति अधर्मरहितम्, अधर्मयुक्ते हि शरीरे विफलमशितादि भवतीति| ननु शरीरधातूनां प्रकृतिस्थितानां स्वत एवोपचयाद्यस्ति, तत् किमशितादिना क्रियत इत्याह- धातवो हीत्यादि| धातुराहारो येषां ते धात्वाहाराः; धातवो रसादयो नित्यं क्षीयमाणा अशितादिजनितधात्वाहारा एव सन्तः परं स्वास्थ्यमनुवर्तन्ते, नान्यथेत्यर्थः||३||

Adhikarana 3 (4) · Śloka 4

तत्राहारप्रसादाख्यो रसः किट्टं च मलाख्यमभिनिर्वर्तते| किट्टात् स्वेदमूत्रपुरीषवातपित्तश्लेष्माणः कर्णाक्षिनासिकास्यलोमकूपप्रजननमलाः केशश्मश्रुलोमनखादयश्चावयवाः पुष्यन्ति| पुष्यन्ति त्वाहाररसाद्रसरुधिरमांसमेदोस्थिमज्जशुक्रौजांसि पञ्चेन्द्रियद्रव्याणि धातुप्रसादसञ्ज्ञकानि शरीरसन्धिबन्धपिच्छादयश्चावयवाः| ते सर्व एव धातवो मलाख्याः प्रसादाख्याश्च रसमलाभ्यां पुष्यन्तः स्वं मानमनुवर्तन्ते यथावयःशरीरम्| एवं रसमलौ स्वप्रमाणावस्थितावाश्रयस्य समधातोर्धातुसाम्यमनुवर्तयतः| निमित्ततस्तु क्षीणवृद्धानां प्रसादाख्यानां धातूनां वृद्धिक्षयाभ्यामाहारमूलाभ्यां रसः साम्यमुत्पादयत्यारोग्याय, किट्टं च मलानामेवमेव| स्वमानातिरिक्ताः पुनरुत्सर्गिणः शीतोष्णपर्यायगुणैश्चोपचर्यमाणा मलाः शरीर धातुसाम्यकराः समुपलभ्यन्ते||४||

🔊 Audio coming soon

योऽसौ धातूनामाहारस्तमाह- तत्रेत्यादि| तत्रेति अशितादौ| रसः किट्टं चाभिनिवर्तत इत्यन्वयः| आहारप्रसाद इत्याख्या यस्य स तथा; प्रसादः सारः| किट्टम् असारभागः| किट्टादिति किट्टांशात् ; तेन अन्नाद्यः किट्टांशस्ततो मूत्रपुरीषे भवतो वायुश्च, रसात् पच्यमानान्मलः कफः, एवमादि ग्रहण्यध्याये वक्ष्यमाणमनुसर्तव्यं; वक्ष्यति हि- “किट्टमन्नस्य विण्मूत्रं रसस्य तु कफोऽसृजः| पित्तं मांसस्य खमलो मलः स्वेदस्तु मेदसः|| स्यात् किट्टं केशलोमास्थ्नो मज्ज्ञः स्नेहोऽक्षिविट् त्वचाम्” (चि. १५) इति| आदिग्रहणादक्षिस्नेहादि ग्राह्यम्| यद्यपि च वातोऽनशनादप्युपलभ्यते, तथाऽपि रूक्षकिट्टादिभोजनमलांशादप्युत्पद्यत एवेति किट्टाद्वातोत्पत्तिर्युक्तैव; न चायं नियमो यन्मलादेवोत्पद्यत इति, व्यायामादवगाहादेरपि च वातादिसद्भावात्| प्रजननं लिङ्गम्| रसपोष्यमाह- पुष्यन्ति त्वित्यादि| पञ्चेन्द्रियद्रव्याणीति पृथिव्यादीनि घ्राणादीन्द्रियकारणानि| धातुप्रसादसञ्ज्ञकानीति अत्यर्थशुद्धेनैव धातुप्रसादेनेन्द्रियाण्यारभ्यन्त इति दर्शयति| शरीरं बध्नातीति शरीरबन्धः स्नायुसिरादिः| आदिग्रहणादार्तवस्तन्यादिग्रहणम्| अत्राहाररसाद् रक्तादिपोषणे केचिद्ब्रुवते- यत्- रसो रक्तरूपतया परिणमति, रक्तं च मांसरूपतया, एवं मांसादयोऽप्युत्तरोत्तरधातुरूपतया परिणमन्ति| अत्रापि च पक्षे केचिद्ब्रुवते- क्षीराद्यथा सर्वात्मना दधि भवति, तथा कृत्स्नो रसो रक्तं भवति; एवं रक्तादयोऽपि मांसादिरूपा भवन्ति| अन्ये त्वाहुः- केदारीकुल्यान्यायेन रसस्य धातुपोषणं; तत्रान्नादुत्पन्नो रसो धातुरूपं रसमधिगम्य कियताऽप्यंशेन तं रसं वर्धयति; अपरश्च रसराशिस्तत्र गतः सन् शोणितगन्धवर्णयुक्तत्वाच्छोणितमिव भूत्वा कियताऽपि शोणितसमानेनांशेन धातुरूपं शोणितं पुष्णाति, शेषश्च भागो मांसं याति, तत्रापि शोणितवद्व्यवस्था; तथा मेदःप्रभृतिष्वपीति| अत एव च मुख्यार्थोऽयं ग्रन्थो भवति; यथा- “रसाद्रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च| अस्थ्नो मज्जा ततः शुक्रं शुक्राद्गर्भः प्रसादजः ” (चि. १५) इति; तथा हारीतेऽप्युक्तं- “रसः सप्ताहादर्वाक् परिवर्तमानः श्वेतकपोतहरितहारिद्रपद्मकिंशुकालक्तकरसप्रख्यश्चायं यथाक्रमं दिवसपरिवर्ताद्वर्णपरिवर्तमापद्यमानः पित्तोष्मोपरागाच्छोणितत्वमापद्यते” इति; तथा सुश्रुतेऽप्युक्तं- “स खल्वाप्यो रस एकैकस्मिन् धातौ त्रीणि त्रीणि कलासहस्राणि पञ्चदश च कला अवतिष्ठते, एवं मासेन रसः शुक्रीभवति” (सु. सू. १४) इति| अन्ये त्वाहुः- खलेकपोतन्यायेनायमन्नरसः पृथक्पृथग्धातुमार्गे गतः सन् रसादीन् पोषयति, न त्वस्य धातुपोषको रसभागो धात्वन्तरेण समं सम्बन्धमप्यनुभवति, रसादिपोषकाणि स्रोतांस्युत्तरोत्तरं सूक्ष्ममुखानि दीर्घाणि च, तेनैव रसपोषकरसभागो रसमार्गचारित्वाद्रसं पोषयति, एवं रसपोषणकालादुत्तरकालं (रक्तपोषकमार्गचारित्वात् ) रक्तपोषको रसभागो रक्तं पोषयति, तथा शोणितपोषणकालादुत्तरकालं मांसपोषको रसभागो मांसं पोषयति, विदूरसूक्ष्ममार्गचारित्वात्; एवं मेदःप्रभृतिपोषणेऽपि ज्ञेयम्| तेन, “रसाद्रक्तं ततो मांसं” इत्यादेरयमर्थः- यत्- रसपुष्टिकालादुत्तरकालं रक्तं जायते, तथा रक्तपुष्टिकालादुत्तरकालं मांसं प्रजायते इत्यादि| एवं सुश्रुतहारीतवचने अपि व्याख्येये| यच्च “रक्तं विबद्धमार्गत्वान्मांसादीन्न प्रपद्यते” (चि.अ.८) इति राजयक्ष्मणि वक्ष्यति, तद्धृदयचारिशोणिताभिप्रायेण, न तु पोषकशोणिताभिप्रायेण | किञ्च, परिणामपक्षे वृष्यप्रयोगस्य रक्तादिरूपतापत्तिक्रमेणातिचिरेण शुक्रं भवतीति, क्षीरादयश्च सद्य एव वृष्या दृश्यन्ते; खलेकपोतपक्षे तु वृष्योत्पन्नो रसः प्रभावाच्छीघ्रमेव शुक्रेण सम्बद्धः सन् तत्पुष्टिं करोतीति युक्तं; तथा रसदुष्टौ सत्यां परिणामपक्षे तज्जन्मनां शोणितादीनां सर्वेषामेव दुष्टिः स्यात्, दुष्टकारणजातत्वात्| खलेकपोतपक्षे तु यद्धातुपोषको रसभागो दुष्टः स एव दुष्यति न सर्वे, तदितरेषामदुष्टकारणत्वात्; तथा मेदोवृद्धौ सत्यां भूरिकारणत्वेनास्थ्नाऽपि भूयसा भवितव्यं, दृश्यते च भूरिमेदस इतरधातुपरिक्षयः; वचनं च- “मेदस्विनो मेद एवोपचीयते, न तथेतरे धातवः” (सू.अ.२१) इति; एवमादि परिणामवादे दूषणम्| एषु च पक्षेषु सर्वात्मपरिणामवादो विरुद्ध एव, येन सर्वात्मपरिणामे त्रिचतुरोपवासेनैव नीरसत्वाच्छरीरस्य मरणं स्यात्, मासोपवासे च केवलं शुक्रमयं शरीरं स्यात्| केदारीकुल्यान्यायस्तु तुल्यबल एव खलेकपोतन्यायेन; यतो यदुक्तं वृष्यप्रभावं प्रति तत् केदारीकुल्यापक्षेऽपि प्रभावादेव शीघ्रं रक्तादिधातूनभिगम्य शुक्रं जनयिष्यति वृष्यं, यथा खलेकपोतपक्षेऽपि प्रभवादिति| यत्तु रसदुष्टौ शोणितदूषणं; तन्न भवति, धातुभूतशोणितांशपोषकस्य रसभागस्यादुष्टत्वात्; इति समानं पूर्वेण| अत्रापि हि पक्षे न सर्वो रसो धातुरूपशोणिततामापद्यते, किं तर्हि कश्चिदेव शोणितसमानो भागः; शेषस्तु शोणितस्थानगतत्वेन किञ्चिच्छोणितसमानवर्णादित्वाच्च शोणितमुच्यते; अनेन न्यायेन मेदोवृद्धौ सत्यामस्थिवृद्धिरपि निरस्ता, यतो न मेदसा अस्थि पोष्यते, अपि तर्हि मेदःस्थानगतेनैव रसेन मेदोनुकारिणा| एवमनयोः पक्षयोर्महाजनादृतत्वेन तुल्यन्यायत्वेन च नैकमपि निश्चितं ब्रूमः, बुद्धिविभवान्न पक्षबलाबलम्, अत्र न कश्चित् कार्यविरोध इत्युपरम्यते| नन्वाहाररसाद्रसादयः पुष्यन्तीति वदता धातुरसादाहाररसोत्पादः पृथक् स्वीक्रियते, ततश्च तस्य किं स्थानं किंवा प्रमाणमिति किमिति नोक्तम्? उच्यते- न तस्याहारोत्कर्षापकर्षावेवंविधौ, उत्कर्षापकर्षस्य निश्चितप्रमाणत्वाभावात्; स्थानं तु धमन्य एव| पोषकाहाररसस्य तस्य च पृथग्रसादिधातुभ्यः प्रदेशान्तरग्रहणं न क्रियते, रसादिकारणरूपतया रसादिग्रहणेनैव ग्रहणात्| अत्र यद्यप्योजः सप्तधातुसाररूपं, तेन धातुग्रहणेनैव लभ्यते, तथाऽपि प्राणधारणकर्तृत्वेन पृथक् पठितं; ये तु शुक्रजन्यमोज इच्छन्ति, तेषामष्टमो धातुरोजः स्यादिति पक्षे चातिदेशं कृत्वा वक्ष्यति- “रसादीनां शुक्रान्तानां यत् परं तेजः, तत् खल्वोजः” (सु.सू.अ.१५) इति| उपपादितपोषणानां धातुमलानां प्रकृत्यनुविधानमुपसंहरति- ते सर्व इत्यादि| मलाख्या अपि स्वेदमूत्रादयः स्वमानावस्थिता देहधारणाद्धातवो भवन्तीत्युक्तं- धातवो मलाख्या इति| यथावयःशरीरमिति यस्मिन् वयसि बाल्यादौ यादृशं मानं धातूनां तादृशं पुष्यन्तः, तथा यस्मिञ् शरीरे प्रकृत्या दीर्घे ह्रस्वे कृशे वा स्थूले वा यादृशं मानं धातूनां तादृशं पुष्यन्त इति योजना| एवमित्यादौ स्वप्रमाणावस्थिताविति अनतिरिक्तावन्यूनौ च| आश्रयस्येति शरीरस्य; यथावत्पक्वौ सर्वाश्रयं पश्चाद्धमनीभिः प्रपद्येते, सर्वशरीरमित्यर्थः| समधातोरिति समरसादेः समस्वेदमूत्रादेश्च| निमित्तत इत्यादि| निमित्तत इत्यनेनानिमित्ते अरिष्टरूपे क्षयवृद्धी निराकरोति| वृद्धिक्षयाभ्यामाहारमूलाभ्यामिति यथासङ्ख्यं वृद्धक्षीणाहारकृताभ्याम्, एतेनाहारविशेषकृतवृद्धिक्षयो रसः साम्यं करोतीत्यर्थः | धातुसाम्यस्यारोग्यत्वे सिद्धेऽपि यदारोग्यायेति ब्रूते तेन प्राकृतधातूनां क्षयेण वाऽतिवृद्ध्या वा साम्यं निराकरोति, अस्य साम्यस्य रोगकर्तृत्वादेव| किट्टं च मलानामेवमेवेति यथा रसस्तथा किट्टमप्यारोग्याय मलानां साम्यं प्रतिपादितरसक्रमेण करोति| वृद्धमलानां चिकित्सान्तरमाह- स्वमानेत्यादि| उत्सर्गो बहिर्निःसरणं संशोधनरूपमेषां शास्त्रोक्तमस्ति, उत्सर्गं वा वहन्तीत्युत्सर्गिणः | वृद्धानां मलानां चिकित्सान्तरमाह- शीतोष्णेत्यादि| पर्ययः विपर्ययः; तेन शीतोष्णविपरीतगुणैरित्यर्थः; तेन, शीतसमुत्थे मले उष्णं तथोष्णसमुत्थे शीतमुपचारो भवति| आदिशब्दश्चात्र लुप्तनिर्दिष्टः; तेन स्निग्धरूक्षादीनामपि विपरीतगुणानां ग्रहणम्| किंवा पर्ययगुणा द्वन्द्वगुणाः स्निग्धरूक्षमृदुतीक्ष्णादयः, तैश्च यथायोग्यतयोपचर्यमाणा इति ज्ञेयम्| एतेन, वृद्धमलानां त्रिविधोऽप्युपक्रमो निदानवर्जनशोधनशमनरूप उक्तो भवति; तत्र निदानवर्जनं वृद्धमले मलवृद्धिहेत्वाहारपरित्यागादल्पमलाहारोपयोगाद्वा बोद्धव्यं, संशोधनं च उत्सर्गिण इत्यनेनोक्तं, शमनं च शीतोष्णेत्यादिग्रन्थेनोक्तम्||४||

Adhikarana 4 (5) · Śloka 5

तेषां तु मलप्रसादाख्यानां धातूनां स्रोतांस्ययनमुखानि| तानि यथाविभागेन यथास्वं धातूनापूरयन्ति| एवमिदं शरीरमशितपीतलीढखादितप्रभवम्| अशितपीतलीढखादितप्रभवाश्चास्मिञ् शरीरे व्याधयो भवन्ति| हिताहितोपयोगविशेषास्त्वत्र शुभाशुभविशेषकरा भवन्तीति||५||

🔊 Audio coming soon

अयनानि च तानि मुखानि चेत्ययनमुखानि, अत्र आयान्त्यनेनेत्ययनानि मार्गाणि, मुखानि तु यैः प्रविशन्ति; एतेन मलानां धातूनां च यदेवायनं तदेव प्रवेशमुखमिति नान्येन प्रवेशो नान्येन च गमनमित्युक्तं भवति| रसादीनां यथास्वनाम स्रोतोमुखं चायनं च| किंवा, अयनस्य गमनस्य मुखानि मार्गाणि; तेन, अयनमुखानि गतिमार्गाणीत्यर्थः| तानि च स्रोतांसि मलप्रसादपूरितानि धातून् यथास्वमिति यद्यस्य पोष्यं तच्च तत् पूरयति| यथाविभागेनेति यस्य धातोर्यो विभागः प्रमाणं तेनैव प्रमाणेन पूरयति, तादृक्प्रमाणान्येव पुष्यन्ति, नाधिकन्यूनानीत्यर्थः| एतच्च प्रकृतिस्थानां कर्म, विकृतानां तु न्यूनातिरिक्तधातुकरणमस्त्येवेति बोद्धव्यम्| उक्तं चान्यत्र- “स्रोतसा च यथास्वेन धातुः पुष्यति धातुना” (चि. ८) इति| उपसंहरति- एवमित्यादि| कथमशितादेर्विरुद्धयोः शरीरतदुपघातकरोगयोरुत्पाद इत्याह- हिताहितेत्यादि| हितरूपोऽशितादिविशेषः शुभरूपविशेषकारकः, अहितरूपस्त्वशितादिविशेषोऽशुभरूपविशेषकरो भवति; तेन नैकरूपात् कारणाद्विरुद्धकार्योदय इति भावः||५||

Adhikarana 5 (6) · Śloka 6

एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच- दृश्यन्ते हि भगवन्! हितसमाख्यातमप्याहारमुपयुञ्जाना व्याधिमन्तश्चागदाश्च, तथैवाहितसमाख्यातम्; एवं दुष्टे कथं हिताहितोपयोगविशेषात्मकं शुभाशुभविशेषमुपलभामह इति||६||

🔊 Audio coming soon

दृश्यन्ते हि भगवन्नित्यादौ तथैवाहितसमाख्यातमुपयुञ्जाना व्याधिमन्तश्चागदाश्चेति सम्बन्धः| विशेषात्मकमिति विशेषोद्भवम्||६||

Adhikarana 6 (7) · Śloka 7

तमुवाच भगवानात्रेयः- न हिताहारोपयोगिनामग्निवेश! तन्निमित्ता व्याधयो जायन्ते, न च केवलं हिताहारोपयोगादेव सर्वव्याधिभयमतिक्रान्तं भवति, सन्ति ह्यृतेऽप्यहिताहारोपयोगादन्या रोगप्रकृतयः, तद्यथा- कालविपर्ययः, प्रज्ञापराधः, शब्दस्पर्शरूपरसगन्धाश्चासात्म्या इति| ताश्च रोगप्रकृतयो रसान् सम्यगुपयुञ्जानमपि पुरुषमशुभेनोपपादयन्ति; तस्माद्धिताहारोपयोगिनोऽपि दृश्यन्ते व्याधिमन्तः| अहिताहारोपयोगिनां पुनः कारणतो न सद्यो दोषवान् भवत्यपचारः| न हि सर्वाण्यपथ्यानि तुल्यदोषाणि, न च सर्वे दोषास्तुल्यबलाः, न च सर्वाणि शरीराणि व्याधिक्षमत्वे समर्थानि भवन्ति| तदेव ह्यपथ्यं देशकालसंयोगवीर्यप्रमाणातियोगाद्भूयस्तरमपथ्यं सम्पद्यते| स एव दोषः संसृष्टयोनिर्विरुद्धोपक्रमो गम्भीरानुगतश्चिरस्थितः प्राणायतनसमुत्थो मर्मोपघाती कष्टतमः क्षिप्रकारितमश्च सम्पद्यते| शरीराणि चातिस्थूलान्यतिकृशान्यनिविष्टमांसशोणितास्थीनि दुर्बलान्यसात्म्याहारोपचितान्यल्पाहाराण्यल्पसत्त्वानि च भवन्त्यव्याधिसहानि, विपरीतानि पुनर्व्याधिसहानि| एभ्यश्चैवापथ्याहारदोषशरीरविशेषेभ्यो व्याधयो मृदवो दारुणाः क्षिप्रसमुत्थाश्चिरकारिणश्च भवन्ति| त एव वातपित्तश्लेष्माणः स्थानविशेषे प्रकुपिता व्याधिविशेषानभिनिर्वर्तयन्त्यग्निवेश!||७||

🔊 Audio coming soon

तन्निमित्ता इति हिताहारनिमित्ताः| न केवलमिति न परम्| रोगप्रकृतय इति रोगकारणानि| अहिताहारोपयोगिनामित्यादि| कारणत इति निमित्तान्तरात् प्रतिबन्धकात्; तच्च कारणं ‘तदेव ह्यपथ्यं’ इत्यादिवक्ष्यमाणग्रन्थविपरीतं बोद्धव्यम्| सद्य इति तत्कालम्| अनेनापथ्यस्य रोगजननं प्रति कालान्तरविकारकर्तृत्वं प्रायो भवतीति दर्शयति; अन्यथा सद्य इत्यनर्थकं स्यात्, कालान्तरेऽपि दोषाकर्तृत्वात्| दोषवानिति व्याधिजनकः| अपचार इति अहिताहारोपयोगः| उक्ते कारणमाह- नहीत्यादि| तुल्यदोषाणीति तुल्यदोषकराणि| व्याधिक्षमत्वं व्याधिबलविरोधित्वं व्याध्युत्पादप्रतिबन्धकत्वमिति यावत्| तदेवापथ्यतुल्यदोषतादि विवृणोति- तदेवेत्यादि| अत्र यद्यपि प्रस्तुतत्वादपथ्यप्रतिबन्धकानि कारणानि वक्तव्यानि, तथाऽपि समानन्यायतयाऽपथ्यशक्तिवर्धकान्युच्यन्ते| तत्र देशादीनां योगादिति अनुगुणदेशादियोगात्; यथा- व्रीहिः पित्तकर्तृत्वेनापथ्यः, स चानूपदेशयोगाद्भूयस्तरमपथ्यो भवति, धन्वदेशे तु हीनबलो भवति; तथा शरत्कालस्यानुगुणस्य योगाद्बलवान् भवति, हेमन्ते दुर्बलः; संयोगाद्यथा- स व्रीहिर्दधिफाणितादियुक्तो बलवान् , मध्वादियुक्तश्च दुर्बलः; वीर्याद्यथा- स एवोष्णीकृतो बलवान्, शीतस्तु दुर्बलः; स एव च प्रामाणातियोगाद्बली, हीनमात्रस्त्वबलः; इत्याद्यनुसर्तव्यम्| दोषतुल्यबलतामाह- स एव दोष इत्यादि| संसृष्टा मिलिता बहवो योनयः कारणानि यस्य स तथा, किंवा संसृष्टयोनिरिति अनुगुणदूष्यः; यथा- पित्तस्य रक्तं दूष्यमासाद्य कष्टत्वं क्षिप्रकारित्वं च भवति| विरुद्धोपक्रमो यथा- पित्तं मेहारम्भकं, वचनं हि- “पित्तमेहाः सर्व एव याप्याः, विरुद्धोपक्रमत्वात्” (नि.अ.४) इति; विरुद्धता चोपक्रमस्यात्र यत् पित्तहरं मधुरादि तन्मेहप्रधानदूष्यमेदसो विरुद्धं, मेदोनुगुणं तु कट्वादि पित्ते विरुद्धमिति| गम्भीरानुगत इति गम्भीरमज्जादिधातुगतः; वचनं हि- “त्वङ्मांसाश्रयमुत्तानं गम्भीरं त्वन्तराश्रयम्” (चि.अ.३९) इति| चिरस्थित इति देहे चिरकालावस्थानेन कृतमूलत्वात् कष्टसाध्यः| प्राणायतनसमुत्थ इति अग्रेऽध्याये (सू.अ.२९) वक्ष्यमाणशङ्खादिदशप्राणायतनाश्रयी| मर्मोपघातीति प्राणायतनव्यतिरिक्तक्षिप्रतलहृदयादिमर्मोपघातकारी| मर्मघातित्वेनैव मर्मविशेषप्राणायतनसमुत्थत्वे लब्धे पुनस्तद्वचनं प्राणायतनमर्माश्रयिणो विशेषेण कष्टत्वप्रतिपादनार्थम्| कष्टतम इति बहुदुःखकर्तृत्वेनासाध्यत्वेन च| क्षिप्रकारितम इति आशुविकारकारितमः| चकारात् संसृष्टयोनित्वादिहेतूनामल्पत्वेन कष्ट-कष्टतर-क्षिप्रकारि-क्षिप्रकारितरादिविशेषाश्च भवन्तीति दर्शयति; यथोक्तसर्वहेतुमेलके कष्टतमः क्षिप्रकारितमश्च भवतीति ज्ञेयं, कष्टतमत्वादि च यथायोग्यतया ज्ञेयं; विरुद्धोपक्रमो दोषः कष्ट एव भवति न क्षिप्रकारी| व्याध्यक्षमशरीराण्याह- शरीराणि चेत्यादि| अनिविष्टानि श्लथानि मांसादीनि येषां शरीराणां तानि तथा; किंवा, अनिविष्टानीति विषमाणि| उपचितानीति संवर्धितानि; असात्म्यपुष्टं हि शरीरं भूरिदोषभावितमेव भवतीति भावः| विपरीतानीति अनतिस्थूलत्वादियुक्तानि| व्याधिसहानीति व्याध्युत्पादकप्रतिबन्धकानि| एतच्च शरीरमधिकृत्य वैपरीत्यं व्याधिसहत्वे उदाहरणार्थमुपन्यस्तं, तेन यथोक्तापथ्यबलवैपरीत्यं दोषबलवैपरीत्यं च न सद्यो व्याधिकारकं भवतीत्येतदप्युक्तं बोद्धव्यम्| एतदेवापथ्याहारदोषशरीराणामेवाबलवत्त्वबलवत्त्वाभ्यां लक्षणविशेषं यथायोग्यतया मृद्वादिव्याधिकारणत्वेनोपसंहरन्नाह- एभ्यश्चैवेत्यादि| विशेषा यथोक्ता उक्तविपरीताश्च; तत्रोक्तविपरीतविशेषान्मृदवस्तथा चिरकारिणश्च भवन्ति, यथोक्तापथ्यादिविशेषात्तु दारुणाः क्षिप्रकारिणश्च भवन्तीति मन्तव्यम्| अनेन प्रसङ्गेन वातादीनां रसादिस्थानविशेषेषु कुपितानां ये व्याधयो भवन्ति तान् दर्शयितुमाह- त एवेत्यादि||७||

Adhikarana 7 (8) · Śloka 8

तत्र रसादिषु स्थानेषु प्रकुपितानां दोषाणां यस्मिन् स्थाने ये ये व्याधयः सम्भवन्ति तांस्तान् यथावदनुव्याख्यास्यामः||८||

🔊 Audio coming soon

तत्र रसेत्यादौ प्रकुपितानां दोषाणामिति अनियमेन रसे कुपितो वायुर्वा पित्तं वा श्लेष्मा वा संसृष्टा वा अश्रद्धादीनि कुर्वन्ति| सत्यपि दोषभेदेऽत्राश्रयस्याभेदादाश्रयप्रभावेणैवाश्रद्धादयो भवन्ति, परं दोषभेदे अश्रद्धादावेव वातादिलिङ्गं विशिष्टं भवति| किंवा यथायोग्यतया रसाश्रयिणा वातादिना अश्रद्धादिकरणं बोद्धव्यं, यतो न गौरवं वातदुष्टरसे भवितुमर्हति; एतच्च नातिसुन्दरं, तेन पूर्व एव पक्षो ज्यायान्||८||

Adhikarana 8 (9-10) · Śloka 11

अश्रद्धा चारुचिश्चास्यवैरस्यमरसज्ञता| हृल्लासो गौरवं तन्द्रा साङ्गमर्दो ज्वरस्तमः ||९|| पाण्डुत्वं स्रोतसां रोधः क्लैब्यं सादः कृशाङ्गता| नाशोऽग्नेरयथाकालं वलयः पलितानि च||१०|| रसप्रदोषजा रोगा,...|११|

🔊 Audio coming soon

अश्रद्धायां मुखप्रविष्टस्याहारस्याभ्यवहरणं भवत्येव परं त्वनिच्छा , अरुचौ तु मुखप्रविष्टं नाभ्यवहरतीति भेदः| आस्यवैरस्यम् उचितादास्यरसादन्यथात्वम् | अरसज्ञता रसाप्रतिपत्तिः| सादः अङ्गावसादः||९-१०||-

Adhikarana 9 (11-12) · Śloka 14

...वक्ष्यन्ते रक्तदोषजाः| कुष्ठवीसर्पपिडका रक्तपित्तमसृग्दरः||११|| गुदमेढ्रास्यपाकश्च प्लीहा गुल्मोऽथ विद्रधिः| नीलिका कामला व्यङ्गः पिप्प्लवस्तिलकालकाः||१२|| दद्रुश्चर्मदलं श्वित्रं पामा कोठास्रमण्डलम्| रक्तप्रदोषाज्जायन्ते,...|१४|

🔊 Audio coming soon

रक्तप्रदोषजेषु कुष्ठग्रहणादेव दद्र्वादिलाभे सिद्धे पुनस्तद्वचनं विशेषप्रादुर्भावप्रदर्शनार्थम्| तिलकालकाः तिलाकृतयः| अस्रमण्डलं लोहितमण्डलम्||११-१२||-

Adhikarana 10 (13-14) · Śloka 15

...शृणु मांसप्रदोषजान्||१३|| अधिमांसार्बुदं कीलं गलशालूकशुण्डिके| पूतिमांसालजीगण्डगण्डमालोपजिह्विकाः||१४|| विद्यान्मांसाश्रयान्,...|१५|

🔊 Audio coming soon

कीलशब्देनात्रार्श उच्यते||१३-१४||-

Adhikarana 11 (15) · Śloka 15

... मेदःसंश्रयांस्तु प्रचक्ष्महे| निन्दितानि प्रमेहाणां पूर्वरूपाणि यानि च||१५||

🔊 Audio coming soon

निन्दितानि प्रमेहपूर्वरूपाणीति केशजटिलत्वादीनि, तेषामेव निन्दितत्वात्; नत्वास्यवैरस्यमधुरत्वादीनि| किंवा, निन्दितानीति अतिस्थूलगतान्यायुर्ह्रासादीन्यष्टौनिन्दितीयोक्तानि, तेषां च निन्दितत्वं निन्दितातिस्थूलसम्बद्धत्वेन| एवं पूर्वस्मिन् व्याख्याने ‘यानि च’ इति चकारो नियमे, उत्तरव्याख्याने तु समुच्चये||१५||

Adhikarana 12 (16) · Śloka 16

अध्यस्थिदन्तौ दन्तास्थिभेदशूलं विवर्णता| केशलोमनखश्मश्रुदोषाश्चास्थिप्रदोषजाः||१६||

🔊 Audio coming soon

अध्यस्थिदन्तशब्देन अध्यस्थ्यधिदन्तयोर्ग्रहणम्| शूलमिति अस्थिशूलमेव बोद्धव्यम्||१६||

Adhikarana 13 (17) · Śloka 18

रुक् पर्वणां भ्रमो मूर्च्छा दर्शनं तमसस्तथा| अरुषां स्थूलमूलानां पर्वजानां च दर्शनम्||१७|| मज्जप्रदोषात्, ...|१८|

🔊 Audio coming soon

रुगित्यादि मज्जदोषाज्ज्ञेयम्| अरुंषीति व्रणानि||१७||-

Adhikarana 14 (18-19) · Śloka 19

...शुक्रस्य दोषात् क्लैब्यमहर्षणम्| रोगि वा क्लीबमल्पायुर्विरूपं वा प्रजायते||१८|| न चास्य जायते गर्भः पतति प्रस्रवत्यपि| शुक्रं हि दुष्टं सापत्यं सदारं बाधते नरम्||१९||

🔊 Audio coming soon

क्लैब्यमिति ध्वजानुच्छ्रायः| अहर्षणं च सत्यपि ध्वजोत्थाने मैथुनाशक्तिः | शुक्रं हि दुष्टं सापत्यं सदारं बाधते नरमिति अत्रापत्यबाधा रोगिक्लीबाद्यपत्यजनकत्वेन, दारबाधा तु स्राविगर्भादिजनकत्वेन||१८-१९||

Adhikarana 15 (20) · Śloka 20

इन्द्रियाणि समाश्रित्य प्रकुप्यन्ति यदा मलाः| उपघातोपतापाभ्यां योजयन्तीन्द्रियाणि ते||२०||

🔊 Audio coming soon

उपघातेत्यादौ उपघातो विनाशः, उपतापस्तु किञ्चिद्वैकल्यम्||२०||

Adhikarana 16 (21) · Śloka 21

स्नायौ सिराकण्डराभ्यो दुष्टाः क्लिश्नन्ति मानवम्| स्तम्भसङ्कोचखल्लीभिर्ग्रन्थिस्फुरणसुप्तिभिः||२१||

🔊 Audio coming soon

कण्डाराभ्य इति सप्तम्यर्थे पञ्चमी| खल्ली करपदावमोटनम्| ग्रन्थिः स्नाय्वादिग्रन्थिरेव||२१||

Adhikarana 17 (22) · Śloka 22

मलानाश्रित्य कुपिता भेदशोषप्रदूषणम्| दोषा मलानां कुर्वन्ति सङ्गोत्सर्गावतीव च||२२||

🔊 Audio coming soon

मलानित्यादौ भेदशोषप्रदूषणमिति यथासम्भवं ज्ञेयं; तत्र भेदः पुरीषस्य, शोषस्तु विशेषेण सर्वमलेषु सम्भवति, प्रदूषणं तु प्रदुष्टवर्णादियुक्तत्वेन प्राकृतवर्णाद्युपघातः| सङ्गोत्सर्गावतीव चेति अतीव सङ्गः अप्रवृत्तिः, अत्युत्सर्गस्तु अतिप्रवृत्तिः||२२||

Adhikarana 18 (23-30) · Śloka 30

विविधादशितात् पीतादहिताल्लीढखादितात्| भवन्त्येते मनुष्याणां विकारा य उदाहृताः||२३|| तेषामिच्छन्ननुत्पत्तिं सेवेत मतिमान् सदा| हितान्येवाशितादीनि न स्युस्तज्जास्तथाऽऽमयाः||२४|| रसजानां विकाराणां सर्वं लङ्घनमौषधम्| विधिशोणितिकेऽध्याये रक्तजानां भिषग्जितम्||२५|| मांसजानां तु संशुद्धिः शस्त्रक्षाराग्निकर्म च| अष्टौनिन्दितिकेऽध्याये मेदोजानां चिकित्सितम्||२६|| अस्थ्याश्रयाणां व्याधीनां पञ्चकर्माणि भेषजम्| बस्त्यः क्षीरसर्पींषि तिक्तकोपहितानि च||२७|| मज्जशुक्रसमुत्थानामौषधं स्वादुतिक्तकम्| अन्नं व्यवायव्यायामौ शुद्धिः काले च मात्रया||२८|| शान्तिरिन्द्रियजानां तु त्रिमर्मीये प्रवक्ष्यते| स्नाय्वादिजानां प्रशमो वक्ष्यते वातरोगिके||२९|| नवेगान्धारणेऽध्याये चिकित्सासङ्ग्रहः कृतः| मलजानां विकाराणां सिद्धिश्चोक्ता क्वचित्क्वचित्||३०||

🔊 Audio coming soon

सम्प्रत्यहिताहारजनितान् दोषान् दर्शयन् यथाकर्तव्यमुपदिशति- विविधादित्यादि| भिषग्जितम् ‘उक्तम्’ इति शेषः| पञ्चकर्माणीत्यभिधायापि बस्तय इति वचनं तिक्तोपहितबस्तेर्विशेषेण हितत्वोपदर्शनार्थम्| शुद्धिरिति वमनादिना| सिद्धिः प्रोक्ता क्वचिदिति अतीसारग्रहण्यादौ||२३-३०||

Adhikarana 19 (31-32) · Śloka 32

व्यायामादूष्मणस्तैक्ष्ण्याद्धितस्यानवचारणात्| कोष्ठाच्छाखा मला यान्ति द्रुतत्वान्मारुतस्य च||३१|| तत्रस्थाश्च विलम्बन्ते कदाचिन्न समीरिताः| नादेशकाले कुप्यन्ति भूयो हेतुप्रतीक्षिणः||३२||

🔊 Audio coming soon

सम्प्रति रसादीनां शाखारूपत्वात् कोष्ठाश्रयिणो दोषा यथा शाखां यान्ति तदाह- व्यायामेत्यादि| तत्र व्यायामक्षोभात् कोष्ठं परित्यज्य शाखां मला यान्ति, ऊष्मणो वह्नेस्तीक्ष्णत्वाद्विलायिता दोषाः शाखां यान्ति, हितस्यानवचारणयाऽहितसेवयाऽतिसेवयाऽतिमात्रवृद्धो दोषो जलापूरवद्वृद्धः स्वस्थानमाप्लाव्य स्थानान्तरं यातीति युक्तम्| द्रुतत्वान्मारुतस्येति चलत्वाद्वायोर्वायुना क्षिप्तो यातीत्यर्थः; वाय्वन्तरेण च वायोराक्षेपणमुपपन्नमेवेति, अन्यथा मला इति बहुवचनमसाधु| अथ शाखागताः किं कुर्वन्तीत्याह- तत्रस्थाश्चेत्यादि| विलम्बन्ते कदाचिदिति कदाचिद्व्याधिकरणे विलम्बं कुर्वन्ति| कुतो विलम्बन्त इत्याह- न समीरिताः| ये दोषा अल्पत्वेनाबलवन्तस्ते हेत्वन्तरेण समीरिताः सन्तः कुप्यन्ति; तथा त एव नादेश इत्यननुगुणदेशे, तथा नाकाल इत्यननुगुणकाले कुप्यन्तीति योजना| अत्रैव हेतुमाह- भूय इत्यादि| यस्माद्भूयो हेतुप्रतीक्षिणस्तेऽल्पबला दोषास्तस्मादीरणाद्यपेक्षन्ते; एतेन भूयो येऽहेतुप्रतीक्षिणो भवन्ति बलवत्त्वान्न ते ईरणाद्यपेक्षन्ते, अत एवोक्तं कदाचिदिति||३१-३२||

Adhikarana 20 (33) · Śloka 33

वृद्ध्या विष्यन्दनात् पाकात् स्रोतोमुखविशोधनात्| शाखा मुक्त्वा मलाः कोष्ठं यान्ति वायोश्च निग्रहात्||३३||

🔊 Audio coming soon

सम्प्रति शाखाभ्यः कोष्ठागमनहेतुं दोषाणामाह- वृद्ध्येत्यादि| विष्यन्दनादिति विलयनात्, विलीनश्च द्रवत्वादेव कोष्ठे निम्नं याति| पाकादिति पक्वो दोषोऽबद्धत्वेनैव निम्नं कोष्ठं याति | स्रोतोमुखविशोधनादिति अवरोधकापगमात्| वायोर्निग्रहादिति क्षेप्तुर्वायोर्निग्रहात् प्राकृतं स्थानं कोष्ठं याति||३३||

Adhikarana 21 (34-35) · Śloka 35

अजातानामनुत्पत्तौ जातानां विनिवृत्तये| रोगाणां यो विधिर्दृष्टः सुखार्थी तं समाचरेत्||३४|| सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः| ज्ञानाज्ञानविशेषात्तु मार्गामार्गप्रवृत्तयः||३५||

🔊 Audio coming soon

इदानीं सङ्क्षेपेणाखिलव्याधिप्रतीकारं सूत्रयति- अजातानामित्यादि | यो विधिर्दृष्ट इति कृत्स्ने तन्त्रे| ननु, यदि सुखार्था सर्वप्राणिनां प्रवृत्तिस्तत्कथं कोऽपि अमार्गे प्रवर्तत इत्याह- ज्ञानेत्यादि| अज्ञानादेव सुखसाधनमिदमिति कृत्वा अपरीक्षकाः प्रवर्तन्ते, न तु दुःखकर्तृतासन्धानादिति भावः||३४-३५||

Adhikarana 22 (36-38) · Śloka 38

हितमेवानुरुध्यन्ते प्रपरीक्ष्य परीक्षकाः| रजोमोहावृतात्मानः प्रियमेव तु लौकिकाः||३६|| श्रुतं बुद्धिः स्मृतिर्दाक्ष्यं धृतिर्हितनिषेवणम्| वाग्विशुद्धिः शमो धैर्यमाश्रयन्ति परीक्षकम्||३७|| लौकिकं नाश्रयन्त्येते गुणा मोहरजःश्रितम् | तन्मूला बहवो यन्ति रोगाः शारीरमानसाः||३८||

🔊 Audio coming soon

हितमेवेति आयतिविशुद्धमेव तदात्वे दुःखकरमपि| प्रियमेवेति तदात्वे सुखकरमायतिविरुद्धम्| लौकिका अपरीक्षकाः| परीक्षकं स्तौति- श्रुतमित्यादि| परीक्षकमाश्रयन्तीति परीक्षके भवन्ति; किंवा, बुद्ध्यादिदेवताः परीक्षकमाश्रयन्ते, यदुक्तं- “विविशुर्ज्ञानदेवताः” (सू. १) इति| तन्मूला इति रजस्तमोमूलाः||३६-३८||

Adhikarana 23 (39-40) · Śloka 40

प्रज्ञापराधाद्ध्यहितानर्थान् पञ्च निषेवते| सन्धारयति वेगांश्च सेवते साहसानि च||३९|| तदात्वसुखसञ्ज्ञेषु भावेष्वज्ञोऽनुरज्यते| रज्यते न तु विज्ञाता विज्ञाने ह्यमलीकृते||४०||

🔊 Audio coming soon

यथा अपरीक्षके रजस्तमोमूला रोगा भवन्ति तदाह- प्रज्ञापराधादित्यादि| अहितार्थसेवादि च रोगं करोतीति भावः| तदात्वसुखेष्विति वक्तव्ये, यत् ‘सुखसञ्ज्ञेषु’ इति करोति, तत्तदात्वसुखस्यापथ्यस्य दुःखानुबन्धसुखकर्तृतया परमार्थतस्तदात्वेऽप्यसुखत्वं दर्शयति; यथा ‘सुखसञ्ज्ञकमारोग्यं’ (सू.अ.९) इत्यत्रोक्तम्| विज्ञातेति परीक्षकः||३९-४०||

Adhikarana 24 (41) · Śloka 41

न रागान्नाप्यविज्ञानादाहारानुपयोजयेत्| परीक्ष्य हितमश्नीयाद्देहो ह्याहारसम्भवः||४१||

🔊 Audio coming soon

न रागादित्यादि| अहितत्वेन जानन्नपि रागादेव कश्चिद्दुष्टः प्रवर्तते, अज्ञानाच्चाहितत्वाज्ञानादेव कश्चिद्धिताध्यवसायेन प्रवर्तते; एतद्द्वयमपि निषिध्यते||४१||

Adhikarana 25 (42) · Śloka 42

आहारस्य विधावष्टौ विशेषा हेतुसञ्ज्ञकाः| शुभाशुभसमुत्पत्तौ तान् परीक्ष्य प्रयोजयेत्||४२||

🔊 Audio coming soon

कथमाहारः परीक्ष्य इत्याह- आहारस्येत्यादि| आहारस्य विधौ विधानेऽष्टौ विशेषाः प्रकृतिकरणसंयोगादयो रसविमाने (वि.अ.१) वक्तव्या हेतुसञ्ज्ञकाः; क्व हेतुसञ्ज्ञका इत्याह- शुभेत्यादि| शुभाशुभसमुत्पत्तौ इति ते च प्रकृत्यादयः शुभाः शुभकराः, अशुभा अशुभकराः, इति ज्ञेयम्||४२||

Adhikarana 26 (43-44) · Śloka 44

परिहार्याण्यपथ्यानि सदा परिहरन्नरः| भवत्यनृणतां प्राप्तः साधूनामिह पण्डितः||४३|| यत्तु रोगसमुत्थानमशक्यमिह केनचित्| परिहर्तुं न तत् प्राप्य शोचितव्यं मनीषिभिः||४४||

🔊 Audio coming soon

ननु पथ्यसेवायां क्रियमाणायामपि बलवत्प्राक्तनाधर्मवशादपि व्याधयो भवन्ति, तत् किमनेन पथ्यसेवनेनेत्याह- परिहार्याणीत्यादि| अनृणतामिव प्राप्तोऽनृणतां प्राप्तः; एतेन परिहार्यपरिहारेण पुरुषकारेऽनपराधः पुरुषो भवतीति दर्शयति| यस्तु दैवागतस्तस्य व्याधिस्तत्र साधवो नैवं पथ्यसेविनं गर्हयन्ति, एतदेवाह- यत्त्वित्यादि| अशक्यं परिहर्तुमिति बलवत्कर्मजन्यत्वादित्यर्थः| न शोचितव्यमिति पुरुषकारस्य दैवजन्येऽवश्यम्भाविनि व्याधावकिञ्चित्करत्वादित्यर्थः||४३-४४||

Adhikarana 27 (45-48) · Śloka 48

तत्र श्लोकाः- आहारसम्भवं वस्तु रोगाश्चाहारसम्भवाः| हिताहितविशेषाच्च विशेषः सुखदुःखयोः||४५|| सहत्वे चासहत्वे च दुःखानां देहसत्त्वयोः | विशेषो रोगसङ्घाश्च धातुजा ये पृथक्पृथक्||४६|| तेषां चैव प्रशमनं कोष्ठाच्छाखा उपेत्य च| दोषा यथा प्रकुप्यन्ति शाखाभ्यः कोष्ठमेत्य च||४७|| प्राज्ञाज्ञयोर्विशेषश्च स्वस्थातुरहितं च यत्| विविधाशितपीतीये तत् सर्वं सम्प्रकाशितम्||४८||

🔊 Audio coming soon

सङ्ग्रहे वस्त्विति शरीरम्| सहत्वे चासहत्वे चेत्यादिना शरीराणि चातिस्थूलानि इत्यादि ‘विपरीतानि पुनर्व्याधिसहानि’ इत्यन्तं ग्रन्थं ज्ञापयति||४५-४८||

Adhikarana puShpikA · Śloka 7

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सूत्रस्थाने विविधाशितपीतीयो नामाष्टाविंशोऽध्यायः||२८|| इत्यन्नपानचतुष्कः||७||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यव्याख्यायां सूत्रस्थाने अन्नपानचतुष्के विविधाशितपीतीयो नामाष्टाविंशोऽध्यायः||२८||