Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

1. rasavimānam

Adhikarana 1 (1-2) · Śloka 2

अथातो रसविमानं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

निदाने ज्ञातहेत्वादिपञ्चकस्य चिकित्सोपयोगितया दोषभेषजादिविशेषज्ञानमपेक्षितं भवति, अतो वक्ष्यमाणदोषभेषजादिविशेषज्ञापकं विमानस्थानं ब्रूते| तत्रापि च दोषभेषजयोः प्राधान्यात्तद्विशेषज्ञापकं रसविमानं प्रथमं ब्रूते| इमं च स्थानसम्बन्धं स्वयमेव दर्शयिष्यति| विशेषेण मीयते ज्ञायते दोषभेषजाद्यनेनेति विमानं, दोषभेषजादीनां प्रभावादिविशेष इत्यर्थः; एवम्भूतं विमानमभिधेयतया यत्र तिष्ठति तद्विमानस्थानम्| रसविमानमधिकृत्य कृतोऽध्यायो रसविमानम्||१-२||

Adhikarana 2 (3) · Śloka 3

इह खलु व्याधीनां निमित्तपूर्वरूपरूपोपशयसङ्ख्याप्राधान्यविधिविकल्प बलकालविशेषाननुप्रविश्यानन्तरं दोषभेषजदेशकालबलशरीरसाराहारसात्म्यसत्त्वप्रकृतिवयसां मानमवहितमनसा यथावज्ज्ञेयं भवति भिषजा, दोषादिमानज्ञानायत्तत्वात् क्रियायाः| न ह्यमानज्ञो दोषादीनां भिषग् व्याधिनिग्रहसमर्थो भवति| तस्माद्दोषादिमानज्ञानार्थं विमानस्थानमुपदेक्ष्यामोऽग्निवेश!||३||

🔊 Audio coming soon

इह खल्वित्यादिना स्थानसम्बन्धमाह| इह सम्प्राप्तिभेदसङ्ख्याप्राधान्यादिग्रहणेनैव सम्प्राप्तिमुपदिशन् सङ्ख्यादिभेदेन सर्वैव सम्प्राप्तिः कथिता भवतीति दर्शयति| निमित्तादीनां तु न तादृशो भेदोऽल्पग्रन्थवक्तव्योऽस्ति, येन भेदेन तेऽपीह कथ्येरन्, अतस्ते सामान्येनैवोक्ताः| अनुप्रविश्येति बुद्ध्वा | दोषादयः सूत्रस्थान एव प्रपञ्चिताः| मानमिति प्रभावादिविशेषः| एतज्ज्ञाने हेतुमाह- दोषादीत्यादि| क्रियाया इति चिकित्सायाः||३||

Adhikarana 3 (4) · Śloka 4

तत्रादौ रसद्रव्यदोषविकारप्रभावान् वक्ष्यामः| रसास्तावत् षट्- मधुराम्ललवणकटुतिक्तकषायाः| ते सम्यगुपयुज्यमानाः शरीरं यापयन्ति, मिथ्योपयुज्यमानास्तु खलु दोषप्रकोपायोपकल्पन्ते||४||

🔊 Audio coming soon

अध्यायार्थं वक्तुं प्रतिजानीते- तत्रादावित्यादि| यद्यपि च दोषभेषजेत्यादौ दोषापेक्षत्वाद्भेषजस्य दोष आदौ कृतः, तथाऽपीह रसद्रव्यरूपभेषजस्यापेक्षितरोगप्रशमकर्तृत्वेन तथा दोषस्यापि च रसद्रव्ययोरेव कारणत्वेन भेषजशब्दसूचिते रसद्रव्ये एवाग्रे कृते, पश्चात्तु दोषग्रहणगृहीतौ दोषविकारौ| प्रकृष्टो भावः प्रभावः शक्तिरित्यर्थः; स चेहाचिन्त्यश्चिन्त्यश्च ग्राह्यः| येन, ‘तत्र खल्वनेकरसेषु’ इत्यादिना द्रव्यविकारयोः प्रभावं रसद्वारा दोषद्वारा च चिन्त्यमपि वक्ष्यति| यापयन्तीति साम्येनावस्थापयन्ति| मिथ्याशब्द इहायोगातियोगमिथ्यायोगेषु वर्तते||४||

Adhikarana 4 (5) · Śloka 5

दोषाः पुनस्त्रयो वातपित्तश्लेष्माणः| ते प्रकृतिभूताः शरीरोपकारका भवन्ति, विकृतिमापन्नास्तु खलु नानाविधैर्विकारैः शरीरमुपतापयन्ति||५||

🔊 Audio coming soon

दोषा इति शारीरदोषाः| पुनःशब्दो मानसदोषं व्यावर्तयति||५||

Adhikarana 5 (6) · Śloka 6

तत्र दोषमेकैकं त्रयस्त्रयो रसा जनयन्ति, त्रयस्त्रयश्चोपशमयन्ति| तद्यथा- कटुतिक्तकषाया वातं जनयन्ति, मधुराम्ललवणास्त्वेनं शमयन्ति; कट्वम्ललवणाः पित्तं जनयन्ति, मधुरतिक्तकषायास्त्वेनच्छ्मयन्ति; मधुराम्ललवणाः श्लेष्माणं जनयन्ति, कटुतिक्तकषायास्त्वेनं शमयन्ति||६||

🔊 Audio coming soon

रसानामसंसृष्टानां कर्माह- तत्रेत्यादि| अनेन च रसकर्मोपदेशेन दोषाणामपि तत्तद्रसोत्पाद्यत्वं तथा तत्तद्रसोपशमनीयत्वमुक्तं भवति| कटुतिक्तकषाया वातं जनयन्तीति असति परिपन्थिनीति ज्ञेयं, तेनार्कागुरुगुडूच्यादीनां तिक्तानामपि वाताजनकत्वे न दोषः| तत्र ह्युष्णवीर्यता परिपन्थिनी विद्यते, तेन न ते वातं जनयन्तीत्याद्यनुसरणीयम्| एनमिति पदेन यश्च कट्वादिजो वायुस्तमेव मधुरादयः सर्वात्मवैपरीत्याद्विशेषेण शमयन्तीति दर्शयति; जागरणादिजे हि वायौ जागरणादिविपरीताः स्वप्नादय एव विशेषेण पथ्याः| एवं पित्तश्लेष्मणोरपि एनदेनंशब्दयोस्तात्पर्यं दर्शयति||६||

Adhikarana 6 (7) · Śloka 7

रसदोषसन्निपाते तु ये रसा यैर्दोषैः समानगुणाः समानगुणभूयिष्ठा वा भवन्ति ते तानभिवर्धयन्ति, विपरीतगुणा विपरीतगुणभूयिष्ठा वा शमयन्त्यभ्यस्यमाना इति| एतद्व्यवस्थाहेतोः षट्त्वमुपदिश्यते रसानां परस्परेणासंसृष्टानां, त्रित्वं च दोषाणाम्||७||

🔊 Audio coming soon

अथ कया युक्त्या रसा दोषाञ्जनयन्ति शमयन्ति चेत्याह रसदोषेत्यादि| सन्निपाते इति अन्तःशरीरमेलके| तुशब्दो विशेषे, तेन विपरीतगुणा एव विशेषेण विपरीतगुणभूयिष्ठापेक्षया शमयन्तीति दर्शयति| रसानां तु यथा उपचाराद्गुणा भवन्ति तदभिहितं “गुणागुणाश्रया नोक्ताः” (सू.अ.२६) इत्यादिना सूत्रे| अभ्यस्यमाना इति न सकृदुपयुज्यमानाः| अथ कस्माद्रसदोषसंसर्गभूयस्त्वं परित्यज्य रसषट्त्वं दोषत्रित्वं चोच्यते? इत्याह- इत्येतदित्यादि| व्यवस्थेति रसदोषसंसर्गप्रपञ्चसङ्क्षेपः | परस्परेणासंसृष्टानामिति पदं दोषाणामित्यनेनापि योज्यम्||७||

Adhikarana 7 (8) · Śloka 8

संसर्गविकल्पविस्तरो ह्येषामपरिसङ्ख्येयो भवति, विकल्पभेदापरिसङ्ख्येयत्वात्||८||

🔊 Audio coming soon

रसदोषसंसर्गप्रपञ्चानभिधाने हेतुमाह- संसर्गेत्यादि| यस्मात् संसर्गभेदविस्तरोऽपरिसङ्ख्येयस्तस्मात् षट्त्वं त्रित्वं चोच्यते| विकल्पभेदापरिसङ्ख्येयत्वादिति संसर्गविकल्पस्य भेदो विजातीयप्रकारः, तस्यापरिसङ्ख्येयत्वात्| एतेन, यथा रसानामवान्तरव्यक्तिभेदेऽपि मधुरत्वादिसामान्ययोगान्मधुरादिव्यपदेशेन षट्त्वमुच्यते; तथा मधुराम्लमधुरलवणादिसंसर्गाणामपि सत्यप्यवान्तरभेदे सामान्येनोपसङ्ग्रहं कृत्वा त्रिषष्टित्वसङ्ख्यानियमो भविष्यतीति निरस्यते, यतो मधुराम्लादिसंसर्गेऽपि विजातीयो मधुरतरमधुरतमादिभेदकृतो भेदोऽपरिसङ्ख्येयो भवति| वचनं हि- “रसास्तरतमाभ्यां तां सङ्ख्यामतिपतन्ति हि” (सू.अ.२६) इति||८||

Adhikarana 8 (9) · Śloka 9

तत्र खल्वनेकरसेषु द्रव्येष्वनेकदोषात्मकेषु च विकारेषु रसदोषप्रभावमेकैकश्येनाभिसमीक्ष्य ततो द्रव्यविकारयोः प्रभावतत्त्वं व्यवस्येत्||९||

🔊 Audio coming soon

अथ कथं तर्हि संसृष्टानां रसानां दोषाणां च प्रभावो ज्ञेय इत्याह- तत्र खल्वित्यादि| तत्र चानेकरसद्रव्यस्यानेकदोषविकारस्य च प्रत्येकरसदोषप्रभावमेलकेन प्रभावं कथयन् रससंसर्गदोषसंसर्गयोरपि तादृशमेव प्रभावं कथयति, यतो रसदोषसंसर्गप्रभावावत्र द्रव्यविकाराश्रयित्वाद्रसदोषयोर्द्रव्यविकारप्रभावत्वेनोच्येते | अनेन न्यायेन साक्षादनुक्तोऽपि एकरसद्रव्यैकदोषविकारयोरपि प्रभावोऽसंसृष्टरसदोषप्रभावकथनादुक्त एव ज्ञेयः| एकैकश्येनाभिसमीक्ष्येति प्रत्येकमुक्तरसादिप्रभावेणानेकरसं द्रव्यमनेकदोषं च विकारं समुदितप्रभावमभिसमीक्ष्य||९||

Adhikarana 9 (10) · Śloka 10

न त्वेवं खलु सर्वत्र| न हि विकृतिविषमसमवेतानां नानात्मकानां परस्परेण चोपहतानामन्यैश्च विकल्पनैर्विकल्पितानामवयवप्रभावानुमानेनैव समुदायप्रभावतत्त्वमध्यवसातुं शक्यम्||१०||

🔊 Audio coming soon

अयं च रसदोषप्रभावद्वारा द्रव्यविकारप्रभावनिश्चयो न सर्वत्र द्रव्ये विकारे चेत्याह- न त्वेवं खलु सर्वत्रेति| अत्रैव हेतुमाह- नहीत्यादिनाऽध्यवसातुं शक्यमित्यन्तेन| विकृतिविषमसमवेतानामिति विकृतिसमवेतानां तथा विषमसमवेतानां चेति विकृतिविषमसमवेतानाम्| समवेतानामिति मिलितानां रसानां दोषाणां च| तत्र रसस्य विकृतिसमवायो यथा- मधुरे तण्डुलीयके; मधुरो हि प्रकृत्या स्नेहवृष्यत्वादिकरः, तण्डुलीयके तु विकृतिसमवेतत्वेन तन्न करोति| विषमसमवेतास्तु तिले कषायकटुतिक्तमधुराः; यदि हीमे रसाः समया मात्रया समवेताः स्युस्ततस्तिलोऽपि पित्तश्लेष्महरस्त्रिदोषहरो वा स्यात्, पित्तकफकरस्त्वयं; तेनात्र रसानां क्वचित् कर्तृत्वमकर्तृत्वं च क्वचिदिति वैषम्यमुन्नीयते| नानात्मकानामित्यादिहेतुत्रयं तु विकृतिसमवायविषमसमवाययोरेवोपलम्भकम् | तेन, नानात्मकत्वादिभिर्विकृतिसमवायविषमसमवायौ भवतः| नानात्मकानामिति नानारूपहेतुजनितानां ; तेन हेतुभेदबलादेव रसदोषयोर्विकृतो विषमो वा मेलको भवतीत्यर्थः| किंवा, नानात्मकानामिति नानाप्रमाणानाम्| एवं च नानाप्रमाणत्वं विषमसमवाये हेतुः| परस्परेण चोपहतानामिति अन्योन्यमुपघातितगुणानाम्| परस्परगुणोपघातस्तु यद्यपि दोषाणां प्रायो नास्त्येव, तथाऽप्यदृष्टवशात् क्वचिद्भवतीति ज्ञेयं; रसानां तु प्रबलेनान्योपघातो भवत्येव| अन्यैश्च विकल्पनैरिति अन्यैश्च भेदकैः, तत्र रसस्य भेदकाः स्वरसकल्कादयः; एकस्यैव हि द्रव्यस्य कल्पनाविशेषेण गुणान्तराणि भवन्ति| दोषस्य तु दूष्यान्तराण्येव गुणान्तरयोगाद्भेदकानि भवन्ति| यदुक्तं- “स एव कुपितो दोषः समुत्थानविशेषतः| स्थानान्तरगतश्चैव विकारान् कुरुते बहून्” (सू.अ.१८) इति| अस्मिन् व्याख्याने रसानां दोषाणां च य उत्कर्षापकर्षकृतो विषमसमवायः पृथगुच्यते, स न युज्यते; यतो विषमसमवायेऽप्युत्कृष्टस्य रसस्य तथा दोषस्य चोत्कृष्टा गुणा अपकृष्टस्य चापकृष्टा गुणा भवन्तीति कृत्वाऽवयवप्रभावाननुमानेनैव समुदायप्रभावानुमानं शक्यम्| अथोच्येत- विषममेलके रसस्य दोषस्य च न त एव गुणा उत्कृष्टा अपकृष्टा वा भवन्ति किन्तु गुणान्तरमेव भवति, हन्त तर्हि विकृत एवायं समवायो विसदृशकार्यकारणत्वात्| तदेवं दूषणदर्शनादन्यथा व्याख्यायते- यत्- द्विविधो मेलको भवति रसानां दोषाणां च प्रकृत्यनुगुणः, प्रकृत्यननुगुणश्च; तत्र यो मिलितानां प्राकृतगुणानुपमर्देन मेलको भवति, स प्रकृतिसमसमवायशब्देनोच्यते; यस्तु प्राकृतगुणोपमर्देन भवति, स विकृतिविषमसमवायोऽभिधीयते; विकृत्या हेतुभूतया विषमः प्रकृत्यननुगुणः समवायो विकृतिविषमसमवाय इत्यर्थः| अत्रैव विकृतिविषमसमवाये नानात्मकत्वादिहेतुत्रयं यथाविवृतमेव योजनीयम्| ये तु विकृतिविषमसमवायौ पृथगेव कुर्वन्ति, विषमसमवायस्य वैषम्यतारतम्येनातिबहुप्रपञ्चितत्वाद् विषमावयवगुणानुमानं दुःशकमिति कृत्वा, तदपि द्रव्यविकारप्रभावेणैव व्यपदिशन्ति||१०||

Adhikarana 10 (11) · Śloka 11

तथायुक्ते हि समुदये समुदायप्रभावतत्त्वमेवमेवोपलभ्य ततो द्रव्यविकारप्रभावतत्त्वं व्यवस्येत्||११||

🔊 Audio coming soon

अथ कथं तर्हि विकृतिविषमसमवायप्रभावज्ञानमित्याह- तथायुक्ते हीत्यादि| तथायुक्ते समुदय इति विकृतिविषमसमवाये| समुदयप्रभावतत्त्वमिति मेलकप्रभावतत्त्वम्| समधृते हि मधुसर्पिषि सूर्यावर्ताख्ये वा दोषसमुदये न संयुज्यमानमधुघृतगुणक्रमागतं मारकत्वं, न च वातादिदोषप्रभावगतं सूर्यवृद्ध्या वर्धिष्णुत्वं सूर्यावर्तस्य, किं तु संयोगमहिमकृतमेवेत्यर्थः| यच्च गतिद्वयं दोषरसमेलकस्य, तेन प्रकृतिसमसमवायरूपं सन्निपातं ज्वरनिदाने दोषलिङ्गमेलकेनैवोक्तवान्| यदुक्तं- “पृथगुक्तलक्षणसंसर्गाद्द्वान्द्विकमन्यतमं सान्निपातिकं वा ज्वरं विद्यात्” (नि.अ.१) इति| यस्तु विकृतिविषमसमवेतस्त्रिदोषकृतो ज्वरस्तस्य चिकित्सिते- “क्षणे दाहः क्षणे शीतं” (चि.अ.३) इत्यादिना लक्षणमुक्तम्| न हि श्यावरक्तकोठोत्पत्त्यादि तत्रोक्तं वातादिज्वरे क्वचिदस्ति| एवं रसेऽपि यत्राम्राते मधुरत्वं प्रकृतिसमसमवेतं, तत्राम्रातं मधुरमेतन्मात्रमेवोक्तं; तेन, मधुरसामान्यगुणागतं तस्य वातपित्तहरत्वमपि लभ्यत एव| यत्र वार्ताके कटुतिक्तत्वेन वातकरत्वं प्राप्तमपि च विकृतिविषमसमवायात्तन्न भवति, तत्राचार्येण “वार्ताकं वातघ्नं” (सू.अ.२७) इत्युक्तमेव| एवमित्यादि तत्तदुदाहरणं शास्त्रप्रसृतमनुसरणीयम्| यत्तु प्रकृतिसमसमवायकृतरसदोषगुणद्वारा प्राप्तमपि द्रव्यगुणं विकारलक्षणं च ब्रूते, तत् प्रकर्षार्थं स्पष्टार्थं चेति ज्ञेयम्||११||

Adhikarana 11 (12) · Śloka 12

तस्माद्रसप्रभावतश्च द्रव्यप्रभावतश्च दोषप्रभावतश्च विकारप्रभावतश्च तत्त्वमुपदेक्ष्यामः||१२||

🔊 Audio coming soon

उपसंहरति- तस्मादित्यादि| तत्त्वमिति रसादिप्रभावतत्त्वम्| यत्तु पूर्वं “तत्रादौ रसद्रव्यदोषविकारप्रभावानुपदेक्ष्यामः” इत्यनेन रसादिप्रभावव्याख्यानप्रतिज्ञानं कृतं, तत्तु रसप्रभावानुमानेनैव द्रव्यप्रभावकथनात्, तथा दोषप्रभावेण च विकारप्रभावकथनाच्चरितार्थं स्यात्| इह तु विकृतिविषमसमवायात्मके द्रव्ये विकारे वा रसदोषप्रभावानुमानेन न द्रव्यविकारप्रभावानुमानमस्तीति कृत्वा पृथक् पृथग्रसादिप्रभावतत्त्वाभिधानप्रतिज्ञानमिति न पौनरुक्त्यम्| इह द्रव्याणां वीर्यप्रभाव-विपाकप्रभावौ च द्रव्यप्रभावे रसप्रभावे वाऽन्तर्भावनीयौ| तत्र यौ रसानुगुणौ वीर्यविपाकप्रभावौ, तौ रसे; यौ तु रसक्रमोक्तवीर्यविपाकविपरीतौ वीर्यविपाकौ, तौ द्रव्यप्रभावे बोद्धव्यौ| उपदेक्ष्याम इति निखिलेन तन्त्रेण रसादिप्रभावतत्त्वं पृथगुपदेक्ष्याम इत्यर्थः; रसादिप्रभावः प्रपञ्चेन निखिले तन्त्र एव वक्तव्यः||१२||

Adhikarana 12 (13) · Śloka 13

तत्रैष रसप्रभाव उपदिष्टो भवति| द्रव्यप्रभावं पुनरुपदेक्ष्यामः| तैलसर्पिर्मधूनि वातपित्तश्लेष्मप्रशमनार्थानि द्रव्याणि भवन्ति||१३||

🔊 Audio coming soon

सङ्क्षेपाभिधानमेतदेवेति दर्शयन्नाह- तत्रैष इत्यादि| एष इति ‘रसाः षड्’ इत्यादिना ‘तत्त्वमुपदेक्ष्यामः’ इत्यन्तेन ग्रन्थेनोक्त इत्यर्थः| उपदिष्टो भवतीति सङ्क्षेपेण कथितो भवति| अन्ये तु ‘तत्रैष रसप्रभाव उद्दिष्टो भवति’ इति पठन्ति| अस्मिन् पक्षे द्रव्यदोषविकारप्रभावोऽपि योऽत्र उद्दिष्टः सोऽपि रसद्वारा, तेन रसस्यैव प्रपञ्चाभिहितत्वात्तस्यैवाभिधानमुपसंहरति न द्रव्यादीनामिति ज्ञेयम्| द्रव्यप्रभावमित्यादौ पुनरिति सामान्येन द्रव्यप्रभावकथनात् पुनः शृङ्गग्राहिकया तैलादिद्रव्यप्रभावं कथयिष्याम इत्यर्थः| प्रशमनार्थानीति प्रशमनप्रयोजनानि||१३||

Adhikarana 13 (14) · Śloka 14

तत्र तैलं स्नेहौष्ण्यगौरवोपपन्नत्वाद्वातं जयति सततमभ्यस्यमानं; वातो हि रौक्ष्यशैत्यलाघवोपपन्नो विरुद्धगुणो भवति, विरुद्धगुणसन्निपाते हि भूयसाऽल्पमवजीयते, तस्मात्तैलं वातं जयति सततमभ्यस्यमानम्| सर्पिः खल्वेवमेव पित्तं जयति, माधुर्याच्छैत्यान्मन्दत्वाच्च ; पित्तं ह्यमधुरमुष्णं तीक्ष्णं च| मधु च श्लेष्माणं जयति, रौक्ष्यात्तैक्ष्ण्यात् कषायत्वाच्च; श्लेष्मा हि स्निग्धो मन्दो मधुरश्च | यच्चान्यदपि किञ्चिद्द्रव्यमेवं वातपित्तकफेभ्यो गुणतो विपरीतं स्यात्तच्चैताञ्जयत्यभ्यस्यमानम्||१४||

🔊 Audio coming soon

सततमभ्यस्यमानमिति अविच्छेदेनोपयुज्यमानम्| विरुद्धगुण इति तैलगुणेभ्यो विपरीतगुणः| विरुद्धगुणसन्निपाते इति विरुद्धगुणयोर्मेलके| ननु विरुद्धगुणयोर्मध्ये भूयसाऽल्पं जीयते, तत् कथं तैलं वातं जयति? न ह्यस्य वातं प्रति भूयस्त्वं युक्तमित्याह- सततमभ्यस्यमानमिति| सततोपयोगेन हि तैलं वातादधिकं भवति, तेन वातं जयतीत्यर्थः| सर्पिः खल्वेवमेवेति सर्पिरपि सततमभ्यस्यमानमित्यर्थः| अमधुरमिति रौक्ष्यलाघवावृष्यत्वादिना मधुरविपरीतं कटुरसमित्यर्थः| इह च प्रभावशब्देन सामान्येन द्रव्यशक्तिरुच्यते, नाचिन्त्यशक्तिः; तेन तैलादीनां स्नेहौष्ण्यादिगुणादपि वातादिशमनं द्रव्यप्रभावादेव भवति| सर्पिषि च यद्यपि मधुरो रसः पित्तप्रशमे व्याप्रियते, तथाऽपि माधुर्यशैत्यमन्दत्वैः पित्तशमनं सर्पिःकार्यमेव, तेन द्रव्यप्रभाव एव वाच्यः | यदा तु रसद्वारा कार्यं द्रव्यस्य चिन्त्यते, तदा रसप्रभाव इति व्यपदेशो भवति| एवं कषायानुरसे मधुनि च समाधानं वाच्यम्| अन्ये तु ब्रुवते- यत्- तैलादीनां वातादिशमनत्वं प्रत्यचिन्त्य एव प्रभावोऽयमुच्यते; तत्र च तैलवातशमनत्वं प्रत्यचिन्त्य एव प्रभावोऽयमुच्यते; तत्र च तैलवातयोर्विरुद्धगुणयोर्मेलके तैलमेव वातं जयति, न तु वातस्तैलमिति तैलस्याचिन्त्यप्रभावः; एवं सर्पिर्मधुनोरपि पित्तश्लेष्महरणे प्रभावाज्ज्ञेये| एतच्चान्ये नेच्छन्ति, यतस्तैलादीनां सततमभ्यस्यमानमिति पदेनाधिक्यमेव वातादिजयकारणमुक्तं; तथा यच्चान्यदपि किञ्चिद्द्रव्यमित्यादिग्रन्थेन द्रव्याचिन्त्यप्रभावं परित्यज्य सामान्येन गुणवैपरीत्यमेवाभ्यासाद्वातादिजयहेतुरुच्यते||१४||

Adhikarana 14 (15) · Śloka 15

अथ खलु त्रीणि द्रव्याणि नात्युपयुञ्जीताधिकमन्येभ्यो द्रव्येभ्यः; तद्यथा- पिप्पली, क्षारः, लवणमिति||१५||

🔊 Audio coming soon

अभ्यस्यद्रव्यं प्रभावोदाहरणार्थमभिधायानभ्यस्यानाह- अथेत्यादि| अधिकमन्येभ्य इति वचनादन्यदपि चित्रकभल्लातकाद्येवञ्जातीयं नात्युपयोक्तव्यं, पिप्पल्यादिद्रव्यं त्वन्येभ्योऽप्यधिकमत्युपयोगे वर्जनीयमिति दर्शयति||१५||

Adhikarana 15 (16) · Śloka 16

पिप्पल्यो हि कटुकाः सत्यो मधुरविपाका गुर्व्योनात्यर्थं स्निग्धोष्णाः प्रक्लेदिन्यो भेषजाभिमताश्चताः सद्यः; शुभाशुभकारिण्यो भवन्ति; आपातभद्राः, प्रयोगसमसाद्गुण्यात्; दोषसञ्चयानुबन्धाः;- सततमुपयुज्यमाना हि गुरुप्रक्लेदित्वाच्छ्लेष्माणमुत्क्लेशयन्ति, औष्ण्यात् पित्तं, न च वातप्रशमनायोपकल्पन्तेऽल्पस्नेहोष्णभावात्; योगवाहिन्यस्तु खलु भवन्ति; तस्मात् पिप्पलीर्नात्युपयुञ्जीत||१६||

🔊 Audio coming soon

‘कटुकाः सत्यो मधुरविपाकाः’ इत्यादि पिप्पलीगुणकथनमनभ्यासप्रयोगे दोषवैपरीत्येन दोषप्रशमनोपदर्शनार्थं; तथा, अत्यभ्यासे ‘गुरुप्रक्लेदित्वाच्छ्लेष्माणमुत्क्लेशयन्ति’ इत्यादिग्रन्थवक्तव्यदोषकरणयोग्यतोपदर्शनार्थं च| भेषजाभिमताश्च सद्य इति च्छेदः| सद्य इति अनभ्यासे| शुभाशुभकारिण्यो भवन्तीति सद्यः शुभकारिण्यः, अत्यभ्यासप्रयोगे त्वशुभकारिण्यः| एतदेव शुभाशुभकारित्वं दर्शयति- आपातभद्रा इत्यादिना| प्रयोगसमसाद्गुण्यादिति समस्य प्रयोगस्य सद्गुणत्वात्, समेऽल्पकाले अल्पमात्रे च पिप्पल्यादिप्रयोगे सद्गुणा भवन्तीत्यर्थः| दोषसञ्चयानुबन्धोऽत्युपयोगो यासां ता दोषसञ्चयानुबन्धाः| एतदेव दोषसञ्चयानुबन्धत्वं विवृणोति- सततमित्यादि| पिप्पलीधर्मकथनप्रस्तावाद्गुणान्तरमाह- योगवाहिन्यस्त्वित्यादि| योगवाहित्वेन कटुकानामपि पिप्पलीनां वृष्यप्रयोगेषु योगः, तथा ज्वरगुल्मकुष्ठहरादिप्रयोगेषु ज्वरादीन् हन्ति पिप्पली| अयं च पिप्पल्यतियोगनिषेधोऽपवादं परित्यज्य ज्ञेयः| तेन, पिप्पलीरसायनप्रयोगस्तथा गुल्मादिषु च पिप्पलीवर्धमानकप्रयोगो न विरोधमावहति| उक्ते हि विषये यथोक्तविधानेन निर्दोषा एव पिप्पल्य इति ऋषिवचनादुन्नीयते| अन्ये तु, अन्नसंस्करणे पिप्पल्यादीनामतिप्रयोगो निषिध्यते, न तु स्वातन्त्रयेणेति ब्रुवते| सततमुपयुज्यमाना इति अतिमात्रत्वेन तथा सततप्रयोगेण चेति ज्ञेयम्||१६||

Adhikarana 16 (17) · Śloka 17

क्षारः पुनरौष्ण्यतैक्ष्णयलाघवोपपन्नः क्लेदयत्यादौ पश्चाद्विशोषयति , स पचनदहनभेदनार्थमुपयुज्यते; सोऽतिप्रयुज्यमानः केशाक्षिहृदयपुंस्त्वोपघातकरः सम्पद्यते| ये ह्येनं ग्रामनगरनिगमजनपदाः सततमुपयुञ्जते त आन्ध्यषाण्ढ्यखालित्यपालित्यभाजो हृदयापकर्तिनश्च भवन्ति, तद्यथा- प्राच्याश्चीनाश्च; तस्मात् क्षारं नात्युपयुञ्जीत||१७||

🔊 Audio coming soon

हृदयापकर्तिन इति हृदयपरिकर्तनरूपवेदनायुक्ताः||१७||

Adhikarana 17 (18) · Śloka 18

लवणं पुनरौष्ण्यतैक्ष्ण्योपपन्नम्, अनतिगुरु, अनतिस्निग्धम्, उपक्लेदि, विस्रंसनसमर्थम्, अन्नद्रव्यरुचिकरम्, आपातभद्रं प्रयोगसमसाद्गुण्यात्, दोषसञ्चयानुबन्धं, तद्रोचनपाचनोपक्लेदनविस्रंसनार्थमुपयुज्यते| तदत्यर्थमुपयुज्यमानं ग्लानिशैथिल्यदौर्बल्याभिनिर्वृत्तिकरं शरीरस्य भवति| ये ह्येनद्ग्रामनगरनिगमजनपदाः सततमुपयुञ्जते, ते भूयिष्ठं ग्लास्नवः शिथिलमांसशोणिता अपरिक्लेशसहाश्च भवन्ति| तद्यथा- बाह्लीकसौराष्ट्रिकसैन्धवसौवीरकाः; ते हि पयसाऽपि सह लवणमश्नन्ति| येऽपीह भूमेरत्यूषरा देशास्तेष्वोषधिवीरुद्वनस्पतिवानस्पत्या न जायन्तेऽल्पतेजसो वा भवन्ति, लवणोपहतत्वात्| तस्माल्लवणं नात्युपयुञ्जीत| ये ह्यतिलवणसात्म्याः पुरुषास्तेषामपि खालित्यपालित्यानि वलयश्चाकाले भवन्ति||१८||

🔊 Audio coming soon

ग्लानिः मांसापचयो हर्षक्षयो वा| न केवलं लवणातियोगशरीरोपघातकरः; किन्तु भूमेरप्युपघातकर इत्याह- येऽपीहेत्यादि| ऊषरा इति लवणप्रधानाः| लवणं नात्युपयुञ्जीतेति नातिमात्रं लवणं सततमुपयुञ्जीत, अन्नद्रव्यसंस्कारकं तु स्तोकमात्रमभ्यासेनाप्युपयोजनीयमेव| बाह्लीकादिव्यतिरिक्तेऽपि देशे येऽतिलवणमश्नन्ति तेषामपि दोषानाह- ये हीत्यादि| एतेन चान्यत्रापि देशेऽतिमात्रलवणसात्म्यानां लवणात्युपयोगकृत एव शैथिल्यादिदोष उन्नीयते, न देशस्वभावकृतः||१८||

Adhikarana 18 (19) · Śloka 19

तस्मात्तेषां तत्सात्म्यतः क्रमेणापगमनं श्रेयः| सात्म्यमपि हि क्रमेणोपनिवर्त्यमानमदोषमल्पदोषं वा भवति||१९||

🔊 Audio coming soon

तेषामिति अतिक्षारलवणसात्म्यानाम्| तत्सात्म्यत इति अतिमात्रक्षारादतिमात्रलवणाच्च सात्म्यात्| क्रमेणेति नवेगान्धारणीयोक्तसात्म्यपरित्यागक्रमेण| इह च सात्म्यशब्देनौकसात्म्यमभिप्रेतम्| अल्पदोषमदोषं वेति पक्षद्वयेऽत्यर्थसात्म्यमल्पदोषं भवति, अन्यत्त्वदोषमिति व्यवस्था||१९||

Adhikarana 19 (20) · Śloka 20

सात्म्यं नाम तद् यदात्मन्युपशेते; सात्म्यार्थो ह्युपशयार्थः| तत्त्रिविधं प्रवरावरमध्यविभागेन; सप्तविधं तु रसैकैकत्वेन सर्वरसोपयोगाच्च| तत्र सर्वरसं प्रवरम्, अवरमेकरसं, मध्यं तु प्रवरावरमध्यस्थम्| तत्रावरमध्याभ्यां सात्म्याभ्यां क्रमेणैव प्रवरमुपपादयेत् सात्म्यम्| सर्वरसमपि च सात्म्यमुपपन्नः प्रकृत्याद्युपयोक्त्रष्टमानि सर्वाण्याहारविधिविशेषायतनान्यभिसमीक्ष्य हितमेवानुरुध्येत||२०||

🔊 Audio coming soon

सात्म्यं नामेति ओकसात्म्यं नामेत्यर्थः| (ओकादिति अभ्यासात् |) उपशयार्थ इति उपशयशब्दाभिधेय इत्यर्थः| तदिति ओकसात्म्यम्| त्रिविधमिति प्रवरावरमध्यभेदेन| सप्तविधन्तु एकैकरसेन षट्, संसृष्टरसोपयोगाच्चैकम्, एवं सप्तविधम्| संसृष्टशब्देन द्विरसादयः षड्रसपर्यन्ता गृह्यन्ते| प्रवरावरमध्यस्थमिति द्विरसादिपञ्चरसपर्यन्तम्| अवरमध्यमाभ्यां लक्षितः पुरुषः| प्रवरमिति सर्वरसम्| सात्म्यमुपपादयेत् अभ्यसेदित्यर्थः| क्रमेणेति यथोक्ताभ्यासक्रमेण| उपपादितसर्वरससात्म्येनापि चाहारः प्रशस्तप्रकृत्यादिसम्पन्न एव कर्तव्य इत्याह- सर्वरसमित्यादि| अभिसमीक्ष्येति हिताहितत्वेन विचार्य| हितमेवेति पदेन यदेव प्रकृत्यादिना हितं तदेवानुरुध्येत सेवेतेत्यर्थः||२०||

Adhikarana 20 (21) · Śloka 21

तत्र खल्विमान्यष्टावाहारविधिविशेषायतनानि भवन्ति; तद्यथा- प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपयोक्त्रष्टमानि (भवन्ति)||२१||

🔊 Audio coming soon

आहारस्य विधिः प्रकारो विधानं वा इत्याहारविधिः, तस्य विशेषो हितत्वमहितत्वं च, तस्यायतनानि हेतूनीत्याहारविधिविशेषायतनानि| आहारप्रकारस्य हितत्वमहितत्वं च प्रकृत्यादिहेतुकमित्यर्थः| उपयोक्ता अष्टमो येषां तान्युपयोक्त्रष्टमानि||२१||

Adhikarana 21 (22(1)) · Śloka 22

तत्र प्रकृतिरुच्यते स्वभावो यः, स पुनराहारौषधद्रव्याणां स्वाभाविको गुर्वादिगुणयोगः; तद्यथा माषमुद्गयोः, शूकरैणयोश्च (१)|२२|

🔊 Audio coming soon

उक्तानि प्रकृत्यादीना विभजते- तत्रेत्यादिना| स्वाभाविक इति संस्काराद्यकृतः| माषमुद्गयोरिति प्रकृत्या माषे गुरुत्वं, मुद्गे च लघुत्वं; शूकरे गुरुत्वं, एणे च लघुत्वम्||२२(१)||

Adhikarana 22 (22(2)) · Śloka 22

करणं पुनः स्वाभाविकानां द्रव्याणामभिसंस्कारः| संस्कारो हि गुणान्तराधानमुच्यते| ते गुणास्तोयाग्निसन्निकर्षशौचमन्थनदेशकालवासनभावनादिभिः कालप्रकर्षभाजनादिभिश्चाधीयन्ते (२)|२२|

🔊 Audio coming soon

द्रव्याणामिति वक्तव्ये स्वाभाविकानामिति यत् करोति, तेनोत्पत्तिकाले जनकभूतैः स्वगुणारोपणं, संस्कारस्तूत्पन्नस्यैव तोयादिना गुणान्तराधानमिति दर्शयति| तच्च प्राकृतगुणोपमर्देनैव क्रियते, यथा- तोयाग्निसन्निकर्षशौचैस्तण्डुलस्थं गौरवमुपहत्य लाघवमन्ने क्रियते| यदुक्तं- “सुधौतः प्रस्रुतः स्विन्नः सन्तप्तश्चौदनो लघुः” (सू.अ.२७)| तथा रक्तशाल्यादेर्लघोरप्यग्निसंयोगादिना लाघवं वर्धते| मन्थनाद्गुणाधानं यथा “शोथकृद्दधि शोथघ्नं सस्नेहमपि मन्थनात्” इति| देशेन यथा “भस्मराशेरधः स्थापयेत्” (चि.अ.१पा.१) इत्यादौ| वासनेन गुणाधानं यथा- अपामुत्पलादिवासनेन सुगन्धानुकरणम्| भावनया च स्वरसादिकृतया स्थितस्यैवामलकादेर्गुणस्योत्कर्षो भवति| कालप्रकर्षद्यथा- “पक्षाज्जातरसं पिबेत्” (चि.अ.१५) इत्यादि| भाजनेन यथा- “त्रैफलेनायसीं पात्रीं कल्केनालेपयेत्” (चि.अ.१,पा.३) इत्यादौ| आदिग्रहणात् पेषणाभिमन्त्रणादि गृह्यते| ननु, संस्काराधेयेन गुणेन कथं स्वाभाविकगुणनाशः क्रियते, यतः “स्वभावो निष्प्रतिक्रियः” इत्युक्तं; यदि हि संस्कारेण स्वाभाविकगुरुत्वं प्रतिक्रियते, तदा “स्वभावो निष्प्रतिक्रियः” इति कथं? ब्रूमः- “स्वभावो निष्प्रतिक्रियः” इति स्वभावो भावानामुत्पत्तौ नान्यथा क्रियते| तेन, जातिप्रतिबद्धं माषादीनां गुरुत्वं न तज्जातौ स्फोटयितुं पार्यते, संस्कारेण तु तदन्यथाकरणमनुमतमेव दृष्टत्वात्| कश्चित्तु गुणो द्रव्याणां संस्कारादिनाऽपि नान्यथा क्रियते, यथा- वह्नेरौष्ण्यं, वायोश्चलत्वं, तैलस्य स्नेह इत्यादि| एते हि यावद्द्रव्यभाविन एव गुणाः| गौरवादयस्तु पुराणधान्यादिष्वप्यपगमदर्शनान्न यावद्द्रव्यभाविनः| उक्तं हि- “गुणो द्रव्यविनाशाद्वा विनाशमुपगच्छति| गुणान्तरोपधानाद्वा” इति| यत्र तु संस्कारेण व्रीहेर्लाजलक्षणं द्रव्यान्तरमेव जन्यते, तत्र गुणान्तरोत्पादः सुष्ठ्वेव ||२२(२)||

Adhikarana 23 (22(3)) · Śloka 22

संयोगः पुनर्द्वयोर्बहूनां वा द्रव्याणां संहतीभावः, स विशेषमारभते, यं पुनर्नैकैकशो द्रव्याण्यारभन्ते; तद्यथा- मधुसर्पिषोः, मधुमत्स्यपयसां च संयोगः (३)|२२|

🔊 Audio coming soon

संयोगमाह- संयोगस्त्वित्यादि| स विशेषमारभत इति संयुज्यमानद्रव्यैकदेशेऽदृष्टं कार्यमारभत इत्यर्थः| यं नैकैकश इति यं विशेषं प्रत्येकमसंयुज्यमानानि द्रव्याणि नारभन्त इत्यर्थः| मधुसर्पिषी हि प्रत्येकममारके मिलिते तु मारके भवतः, क्षीरमत्स्यादिसंयोगश्च कुष्ठादिकरो भवति| संयोगस्त्विह प्रधान्येनैवोपलभ्यमानद्रव्यमेलको विवक्षितः , तेन भावनादिष्वपि यद्यपि संयोगोऽस्ति, तथाऽपि तत्र भावनाद्रव्याणां प्राधान्येनानुपलब्धेर्न संयोगेन ग्रहणम्||२२(३)||

Adhikarana 24 (22(4)) · Śloka 22

राशिस्तु सर्वग्रहपरिग्रहौ मात्रामात्रफलविनिश्चयार्थः| तत्र सर्वस्याहारस्य प्रमाणग्रहणमेकपिण्डेन सर्वग्रहः, परिग्रहः पुनः प्रमाणग्रहणमेकैकश्येनाहारद्रव्याणाम्| सर्वस्य हि ग्रहः सर्वग्रहः, सर्वतश्च ग्रहः परिग्रह उच्यते (४)|२२|

🔊 Audio coming soon

राशिः प्रमाणम्| मात्रामात्रफलविनिश्चयार्थं इति मात्रावदाहारस्यौषधस्य च यत् फलं शुभम्, अमात्रस्य हीनस्यातिरिक्तस्य वा यत् फलमशुभम्| यदुक्तं- “तस्य ज्ञानार्थमुचितप्रमाणमनुचितप्रमाणं च राशिसञ्ज्ञं भवति”| सर्वग्रहं विवृणोति- तत्रेत्यादि| सर्वस्येति मिश्रीकृतस्यान्नमांससूपादेरेकपिण्डेन मानम्| परिग्रहं विवृणोति- परिग्रहः पुनरित्यादि| एकैकश्येनेति अन्नस्य कुडवः, सूपस्य पलं, मांसस्य द्विपलमित्याद्यवयवमानपूर्वकं समुदायमानम्| सर्वग्रहे प्रत्यवयवमाननियमो नास्ति; तेन येन केनचिदाहारेण प्रत्येकमनियतमानेन सम्पूर्णाहारमात्रानियमनं सर्वग्रहः| एतदेव शब्दव्युत्पत्त्या दर्शयति- सर्वस्य हीत्यादि| सर्वत इति प्रत्येकावयवत इत्यर्थः||२२(४)||

Adhikarana 25 (22(5)) · Śloka 22

देशः पुनः स्थानं; स द्रव्याणामुत्पत्तिप्रचारौ देशसात्म्यं चाचष्टे (५)|२२|

🔊 Audio coming soon

देशं विभजते- देश इत्यादि| स्थानग्रहणेनाहारद्रव्यस्य तथा भोक्तुश्च स्थानं दर्शयति| आचष्ट इति द्रव्यस्योत्पत्तिप्रचारादिकृतगुणज्ञानहेतुर्भवति| तत्रोत्पत्त्या- हिमवति जातं गुणवद्भवति , मरौ जातं लघु भवति, इत्यादि| प्रचारेण लघुभक्ष्याणां प्राणिनां तथा धन्वप्रचारिणां बहुक्रियाणां च लाघवं, विपर्यये च गौरवं गृह्यते| देशसात्म्येन च देशविपरीतगुणं सात्म्यं गृह्यते; यथा- आनूपे उष्णरूक्षादि, धन्वनि च शीतस्निग्धादि, ओकसात्म्यं तु उपयोक्तृग्रहणेन गृहीतम्||२२(५)||

Adhikarana 26 (22(6)) · Śloka 22

कालो हि नित्यगश्चावस्थिकश्च; तत्रावस्थिको विकारमपेक्षते, नित्यगस्तु ऋतुसात्म्यापेक्षः (६)|२२|

🔊 Audio coming soon

नित्यग इति अहोरात्रादिरूपः| आवस्थिक इति रोगित्वबाल्याद्यवस्थाविशेषित इत्यर्थः| विकारमपेक्षत इति बाल्यादिकृतं तु श्लेष्मविकारं ज्वरादिकं चाहारनियमार्थमपेक्षत इत्यर्थः| ऋतुसात्म्यं हि ऋतुमपेक्षत इति ऋतुसात्म्यापेक्षः||२२(६)||

Adhikarana 27 (22(7)) · Śloka 22

उपयोगसंस्था तूपयोगनियमः; स जीर्णलक्षणापेक्षः (७)|२२|

🔊 Audio coming soon

एवमाहारोपयोगः कर्तव्य एवं न कर्तव्य इत्युपयोगनियमः, स जीर्णलक्षणापेक्ष इति प्राधान्येनोक्तः| तेनेह ‘अजल्पन्नहसन्नातिद्रुतं नातिविलम्बितम्’ इत्याद्युपयोगनियममप्यपेक्षत एव; अजीर्णभोजने तु महांस्त्रिदोषकोपलक्षणो दोषो भवतीत्ययमेवोदाहृतः||२२(७)||

Adhikarana 28 (22) · Śloka 22

उपयोक्ता पुनर्यस्तमाहारमुपयुङ्क्ते, यदायत्तमोकसात्म्यम्| इत्यष्टावाहारविधिविशेषायतनानि व्याख्यातानि भवन्ति||२२||

🔊 Audio coming soon

यदायत्तमोकसात्म्यमिति भोक्तृपुरुषापेक्षं ह्यभ्याससात्म्यं भवति; कस्यचिद्धि किञ्चिदेवाभ्यासात् पथ्यमपथ्यं वा सात्म्यं भवति||२२||

Adhikarana 29 (23) · Śloka 23

एषां विशेषाः शुभाशुभफलाः परस्परोपकारका भवन्ति; तान् बुभुत्सेत, बुद्ध्वा च हितेप्सुरेव स्यात्; नच मोहात् प्रमादाद्वा प्रियमहितमसुखोदर्कमुपसेव्यमाहारजातमन्यद्वा किञ्चित्||२३||

🔊 Audio coming soon

एषामित्यादौ शुभफला विशेषा अशुभफलाश्च परस्परोपकारका भवन्तीति ज्ञेयम्| तत्र प्रकृत्या लाघवादिः शुभफलः, गुर्वादिश्चाशुभफलः| करणाद्याधेयोऽपि विशेषः शास्त्रोक्तः शुभः, निषिद्धस्त्वशुभः| देशासात्म्यं निन्दितदेशभवत्वादि च द्रव्यस्याशुभफलम्| एवं कालासात्म्यमशुभफलं चाजीर्णभोजनादि, तथा ओकासात्म्यं चाशुभमशुभफलमिति ज्ञेयं; विपरीतं तु शुभफलम्| मोहादिति अज्ञानात्, प्रमादादिति ज्ञात्वाऽपि रागादित्यर्थः| प्रियमिति तदात्वमात्रप्रियम्| अहितमित्यस्य विवरणम्- असुखोदर्कमिति|- असुखं दुःखरूपम्, उदर्क उत्तरकालीनं फलं, यस्य स तथा| अन्यद्वेति भेषजविहारादि||२३||

Adhikarana 30 (24) · Śloka 24

तत्रेदमाहारविधिविधानमरोगाणामातुराणां चापि केषाञ्चित् काले प्रकृत्यैव हिततमं भुञ्जानानां भवति- उष्णं, स्निग्धं, मात्रावत्, जीर्णे वीर्याविरुद्धम्, इष्टे देशे, इष्टसर्वोपकरणं, नातिद्रुतं, नातिविलम्बितम्, अजल्पन्, अहसन्, तन्मना भुञ्जीत, आत्मानमभिसमीक्ष्य सम्यक्||२४||

🔊 Audio coming soon

तत्रेत्यादौ इदमिति वक्ष्यमाणम्| आहारविधिर्विधीयते येनोष्णस्निग्धादिना वक्ष्यमाणेन तदाहारविधिविधानम्| आतुराणां च केषाञ्चिदिति पदेन रक्तपित्तिनां शीतमेव, कफरोगिणां रूक्षमेव हितमित्यादिविपर्ययं दर्शयति| केषाञ्चिद्भुञ्जानानामिदमाहारविधिविधानं हिततमं भवतीति योजना| प्रकृत्यैवेति स्वभावेनैव हिततमं हिततममित्युक्तं; तेन यत् प्रकृत्या हितं तत् कदाचिदेव कञ्चिदेव पुरुषमासाद्याहितं भवति, तच्च कादाचित्कत्वादनादृतं; तेन प्रायिकत्वादेनं हिततमं वक्ष्याम इति भावः| उष्णमित्यादौ सम्यगिति छेदः|| २४||

Adhikarana 31 (25(1-2)) · Śloka 25

तस्य साद्गुण्यमुपदेक्ष्यामः- उष्णमश्नीयात्; उष्णं हि भुज्यमानं स्वदते, भुक्तं चाग्निमौदर्यमुदीरयति, क्षिप्रं जरां गच्छति, वातमनुलोमयति, श्लेष्माणं च परिह्राससयति ; तस्मादुष्णमश्नीयात् (१)|२५| स्निग्धमश्नीयात्; स्निग्धं हि भुज्यमानं स्वदते, भुक्तं चानुदीर्णमग्निमुदीरयति , क्षिप्रं जरां गच्छति, वातमनुलोमयति, शरीरमुपचिनोति, दृढीकरोतीन्द्रियाणि, बलाभिवृद्धिमुपजनयति, वर्णप्रसादं चाभिनिर्वर्तयति; तस्मात् स्निग्धमश्नीयात् (२)|२५|

🔊 Audio coming soon

तस्येति उष्णादिगुणयुक्तस्यान्नस्य| साद्गुण्यमिति प्रशस्तगुणयोगिताम्| परिह्रासयतीति भिन्नसङ्घातं करोति||२५(१-२)||

Adhikarana 32 (25(3)) · Śloka 25

मात्रावदश्नीयात्; मात्रावद्धि भुक्तं वातपित्तकफानपीडयदायुरेव विवर्धयति केवलं, सुखं गुदमनुपर्येति, न चोष्माणमुपहन्ति, अव्यथं च परिपाकमेति; तस्मान्मात्रावदश्नीयात् (३)|२५|

🔊 Audio coming soon

मात्रावदिति प्रशंसायां मतुप्; तेन प्रशस्तमात्रमित्यर्थः| अपीडयदिति अनतिमात्रत्वेन स्वस्थानस्थितं सद्वातादीन् स्थानापीडनादप्रकोपयत्| गुदमनुपर्येतीति परिणतं सदनुरूपतया निःसरतीत्यर्थः| ऊष्माणं वह्निम्||२५(३)||

Adhikarana 33 (25(4)) · Śloka 25

जीर्णेऽश्नीयात्; अजीर्णे हि भुञ्जानस्याभ्यवहृतमाहारजातं पूर्वस्याहारस्य रसमपरिणतमुत्तरेणाहाररसेनोपसृजत् सर्वान् दोषान् प्रकोपयत्याशु, जीर्णे तु भुञ्जानस्य स्वस्थानस्थेषु दोषेष्वग्नौ चोदीर्णे जातायां च बुभुक्षायां विवृतेषु च स्रोतसां मुखेषु विशुद्धे चोद्गारे हृदये विशुद्धे वातानुलोम्ये विसृष्टेषु च वातमूत्रपुरीषवेगेष्वभ्यवहृतमाहारजातं सर्वशरीरधातूनप्रदूषयदायुरेवाभिवर्धयति केवलं; तस्माज्जीर्णेऽश्नीयात् (४)|२५|

🔊 Audio coming soon

पूर्वस्येति दिनान्तरकृतस्य| अपरिणतमिति असम्यग्जातम्| आहाररसेनेति आहारपरिणामगतेन मधुरादिना; किंवा आहारजेन रसेन| स्वस्थानस्थेषु दोषेष्वित्यादि जीर्णाहारस्य लक्षणम्||२५(४)||

Adhikarana 34 (25(5)) · Śloka 25

वीर्याविरुद्धमश्नीयात्; अविरुद्धवीर्यमश्नन् हि विरुद्धवीर्याहारजैर्विकारैर्नोपसृज्यते; तस्माद्वीर्याविरुद्धमश्नीयात् (५)|२५|

🔊 Audio coming soon

विरुद्धवीर्याहारजैरिति कुष्ठान्ध्यविसर्पाद्यैरात्रेयभद्रकाप्यीयोक्तैः||२५(५)||

Adhikarana 35 (25(6)) · Śloka 25

इष्टे देशे इष्टसर्वोपकरणं चाश्नीयात्; इष्टे हि देशे भुञ्जानो नानिष्टदेशजैर्मनोविघातकरैर्भावैर्मनोविघातं प्राप्नोति, तथैवेष्टैः सर्वोपकरणैः; तस्मादिष्टे देशे तथेष्टसर्वोपकरणं चाश्नीयात् (६)|२५|

🔊 Audio coming soon

मनोविघातकरैर्भावैरिति त्रिविधकुक्षीये (वि.अ.२) वक्ष्यमाणैः कामादिभिश्चित्तोपतापकरैश्चित्तविकारैरित्यर्थः| तथेष्टैश्च सर्वोपकरणैर्भुञ्जानो मनोविघातं न प्राप्नोतीति योजना; अनिष्टभोजनादेर्मनोविघातो भवति||२५(६)||

Adhikarana 36 (25(7)) · Śloka 25

नातिद्रुतमश्नीयात्; अतिद्रुतं हि भुञ्जानस्योत्स्नेहनमवसादनं भोजनस्याप्रतिष्ठानं च, भोज्यदोषसाद्गण्योपलब्धिश्च न नियता; तस्मान्नातिद्रुतमश्नीयात् (७)|२५|

🔊 Audio coming soon

उत्स्नेहनम् उन्मार्गगमनम्| अवसदनम् अवसादः| अप्रतिष्ठानं हृदयस्थत्वेन कोष्ठाप्रवेशः| भोज्यगतानां दोषाणां केशादीनां, साद्गुण्यस्य च स्वादुत्वादेः, उपलब्धिर्न नियता भवति कदाचिदुपलभ्यते कदाचिन्नेति| तत्र दोषानुपलब्ध्या सदोषस्यैव भक्षणं, साद्गुण्यानुपलब्ध्या च प्रीत्यभावः||२५(७)||

Adhikarana 37 (25(8)) · Śloka 25

नातिविलम्बितमश्नीयात्; अतिविलम्बितं हि भुञ्जानो न तृप्तिमधिगच्छति, बहु भुङ्क्ते, शीतीभवत्याहारजातं, विषमं च पच्यते; तस्मान्नातिविलम्बितमश्नीयात् (८)|२५|

🔊 Audio coming soon

विषमं च पच्यत इति चिरकालभोजनेनाग्निसम्बन्धस्य वैषम्यादिति भावः||२५(८)||

Adhikarana 38 (25(9)) · Śloka 25

अजल्पन्नहसन् तन्मना भुञ्जीत; जल्पतो हसतोऽन्यमनसो वा भुञ्जानस्य त एव हि दोषा भवन्ति, य एवातिद्रुतमश्नतः; तस्मादजल्पन्नहसंस्तन्मना भुञ्जीत (९)|२५|

🔊 Audio coming soon

य एवातिद्रुतमश्नतो दोषा इति उत्स्नेहनादयः||२५(९)||

Adhikarana 39 (25) · Śloka 25

आत्मानमभिसमीक्ष्य भुञ्जीत सम्यक्; इदं ममोपशेते इदं नोपशेत इत्येवं विदितं ह्यस्यात्मन आत्मसात्म्यं भवति; तस्मादात्मानमभिसमीक्ष्य भुञ्जीत सम्यगिति||२५||

🔊 Audio coming soon

नोपशेत इतीत्यत्र इतिशब्देन सात्म्यासात्म्यविधानोपदर्शकेन विचारफलमोकसात्म्यसेवनं दर्शयति| आत्मन इति पदेनात्मनैवात्मसात्म्यं प्रतिपुरुषं ज्ञायते, न शास्त्रोपदेशेनेति दर्शयति||२५||

Adhikarana 40 (26) · Śloka 26

भवति चात्र- रसान् द्रव्याणि दोषांश्च विकारांश्च प्रभावतः| वेद यो देशकालौ च शरीरं च स नो भिषक्||२६||

🔊 Audio coming soon

अध्यायोक्तरसप्रभावादिज्ञानं स्तौति- रसानित्यादि| स नो भिषगिति नोऽस्माकं सम्मत इत्यर्थः||२६||

Adhikarana 41 (27-28) · Śloka 28

तत्र श्लोकौ- विमानार्थो रसद्रव्यदोषरोगाः प्रभावतः| द्रव्याणि नातिसेव्यानि त्रिविधं सात्म्यमेव च||२७|| आहारायतनान्यष्टौ भोज्यसाद्गुण्यमेव च| विमाने रससङ्ख्याते सर्वमेतत् प्रकाशितम्||२८||

🔊 Audio coming soon

दोषविकारौ च यद्यपि त्रिविधकुक्षीये (वि.अ.२) प्रभावविस्तारेण वक्तव्यौ, तथाऽपीह सङ्क्षेपेणोक्तावेव; तेन दोषविकारप्रभावावप्युक्ताविति यदुच्यते सङ्ग्रहे तत् साधु| तैलादिद्रव्यत्रयकथनं च द्रव्यप्रभावगृहीतमिति कृत्वा न पृथक् सङ्ग्रहे पठितम्||२७-२८||

Adhikarana puShpikA · Śloka 1

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने रसविमानं नाम प्रथमोऽध्यायः||१||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां विमानस्थाने रसविमानं नाम प्रथमोऽध्यायः||१||