Adhikarana 1 (1-2) · Śloka 2
अथातस्त्रिविधकुक्षीयं विमानं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
रसविमाने राशिरुक्तः, तस्य राशेर्मात्रामात्रावतः फलप्रपञ्चं दोषविकारप्रपञ्चं दर्शयितुं त्रिविधकुक्षीयोऽभिधीयते||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातस्त्रिविधकुक्षीयं विमानं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
रसविमाने राशिरुक्तः, तस्य राशेर्मात्रामात्रावतः फलप्रपञ्चं दोषविकारप्रपञ्चं दर्शयितुं त्रिविधकुक्षीयोऽभिधीयते||१-२||
Adhikarana 2 (3) · Śloka 3
त्रिविधं कुक्षौ स्थापयेदवकाशांशमाहारस्याहारमुपयुञ्जानः; तद्यथा- एकमवकाशांशं मूर्तानामाहारविकाराणाम्, एकं द्रवाणाम्, एकं पुनर्वातपित्तश्लेष्मणाम्; एतावतीं ह्याहारमात्रामुपयुञ्जानो नामात्राहारजं किञ्चिदशुभं प्राप्नोति||३||
🔊 Audio coming soon
त्रिविधमिति त्रिप्रकारम्| अवकाशांशमिति कोष्ठावकाशभागम्| आहारस्येति आहारनिमित्तमित्यर्थः| तेन द्वाववकाशावाहारस्य वक्तव्यौ, एकस्तु दोषाणामिति त्रिविधं वक्ष्यमाणमुक्तम्| दोषावकाशस्थापनं ह्याहारोपकारकत्वादाहारस्येत्युच्यते, दोषावकाशानवस्थाने ह्याहारो दोषैर्दूष्यत इति वक्तव्यम्| किंवा, आहारस्यावकाशांशमामाशयरूपं कुक्षौ वक्ष्यमाणविभागेन त्रिविधं स्थापयेदित्यर्थः| कुक्ष्यंशभागं यथाकर्तव्यमाह- तद्यथेत्यादि| मूर्तानामिति आश्यखाद्यानां, द्रवाणामिति लेह्यपेयानाम्| इह चांशशब्दो न समप्रविभागे वर्तते, किन्तु यथोचितविभागे; तेन मूर्तानां बहुभागो भवतीति ज्ञेयम्| वातपित्तश्लेष्मणां यद्यपि भिन्नानि स्थानानि, तथाऽपि मूर्ताहारादिभागापेक्षया मिलितानां किञ्चित्स्थानं भवतीत्येकत्वेनाध्यारोप्यात्र एकमिति कृतम्| ननु कुक्ष्यंशविभागेन कृतेऽप्याहारे प्रकृतिगुर्वादिदुष्टद्रव्यजदोषो दृश्यत इत्याह- नामात्राहारजमिति; प्रकृत्यादिदोषकृतं तु प्राप्नोत्येवेत्यर्थः||३||
Adhikarana 3 (4) · Śloka 4
न च केवलं मात्रावत्त्वादेवाहारस्य कृत्स्नमाहारफलसौष्ठवमवाप्तुं शक्यं, प्रकृत्यादीनामष्टानामाहारविधिविशेषायतनानां प्रविभक्तफलत्वात्||४||
🔊 Audio coming soon
तदेव स्फोरयति- न चेत्यादि| सौष्ठवं सुष्ठुत्वं भाद्रक्यमित्यर्थः| प्रविभक्तफलत्वादिति प्रविभिन्नफलत्वात्||४||
Adhikarana 4 (5-6) · Śloka 6
तत्रायं तावदाहारराशिमधिकृत्य मात्रामात्राफलविनिश्चयार्थः प्रकृतः| एतावानेव ह्याहारराशिविधिविकल्पो यावन्मात्रावत्त्वममात्रावत्त्वं च||५|| तत्र मात्रावत्त्वं पूर्वमुद्दिष्टं कुक्ष्यंशविभागेन, तद्भूयो विस्तरेणानुव्याख्यास्यामः| तद्यथा- कुक्षेरप्रणीडनमाहारेण, हृदयस्यानवरोधः, पार्श्वयोरविपाटनम्, अनतिगौरवमुदरस्य, प्रीणनमिन्द्रियाणां, क्षुत्पिपासोपरमः, स्थानासनशयनगमनोच्छ्वासप्रश्वासहास्यसङ्कथासु सुखानुवृत्तिः, सायं प्रातश्च सुखेन परिणमनं , बलवर्णोपचयकरत्वं च; इति मात्रावतो लक्षणमाहारस्य भवति||६||
🔊 Audio coming soon
कुक्ष्यंशविभागेनेति एकमवकाशांशं मूर्तानामित्यादिना| उद्दिष्टमिति सङ्क्षेपेण कथितम्| सायं प्रातश्चेतिवचनात् सायं भोजने कृते यदि प्रातः, प्रातश्च कृते यदि सायं, सुखेन परिणमनं तथा स्थानासनादिषु सुखानुवृत्तिर्भवति, तदा मात्रावद्भोजनमनेन कृतमिति ज्ञेयम्||५-६||
Adhikarana 5 (7) · Śloka 7
अमात्रावत्त्वं पुनर्द्विविधमाचक्षते- हीनम्, अधिकं च| तत्र हीनमात्रमाहारराशिं बलवर्णोपचयक्षयकरमतृप्तिकरमुदावर्तकरमनायुष्यवृष्यमनौजस्यं शरीरमनोबुद्धीन्द्रियोपघातकरं सारविधमनमलक्ष्म्यावहमशीतेश्च वातविकाराणामायतनमाचक्षते, अतिमात्रं पुनः सर्वदोषप्रकोपणमिच्छन्ति कुशलाः| यो हि मूर्तानामाहारजातानां सौहित्यं गत्वा द्रवैस्तृप्तिमापद्यते भूयस्तस्यामाशयगता वातपित्तश्लेष्माणोऽभ्यवहारेणातिमात्रेणातिप्रपीड्यमानाः सर्वे युगपत् प्रकोपमापद्यन्ते, ते प्रकुपितास्तमेवाहारराशिमपरिणतमाविश्य कुक्ष्येकदेशमन्नाश्रिता विष्टम्भयन्तः सहसा वाऽप्युत्तराधराभ्यां मार्गाभ्यां प्रच्यावयन्तः पृथक् पृथगिमान् विकारानभिनिर्वर्तयन्त्यतिमात्रभोक्तुः| तत्र वातः शूलानाहाङ्गमर्दमुखशोषमूर्च्छाभ्रमाग्निवैषम्य- पार्श्वपृष्ठकटिग्रहसिराकुञ्चनस्तम्भनानि करोति, पित्तं पुनर्ज्वरातीसारान्तर्दाहतृष्णामदभ्रमप्रलपनानि, श्लेष्मा तु छर्द्यरोचकाविपाकशीतज्वरालस्यगात्रगौरवाणि||७||
🔊 Audio coming soon
सारविधमनमिति रोगभिषग्जितीये (वि.अ.८) वक्ष्यमाणत्वक्सारादिविधमनम्| आहारविकाराणामिति करणे सौहित्ययोगात् षष्ठी| द्रवैस्तृप्तिमिति भूयःपदविशेषणादतितृप्तिमित्यर्थः| आमाशयगता इति वचनेनाग्निसहाय(समान)स्यैव वायोः कोपो भवति, न पक्वाशयगतस्येति दर्शयति| कुक्ष्येकदेशमन्नाश्रिताः सह दूषितेनाहारेणेत्यर्थः||७||
Adhikarana 6 (8-9) · Śloka 9
न च खलु केवलमतिमात्रमेवाहारराशिमामप्रदोषकरमिच्छन्ति , अपि तु खलु गुरुरूक्षशीतशुष्कद्विष्टविष्टम्भिविदाह्यशुचिविरुद्धानामकाले चान्नपानानामुपसेवनं, कामक्रोधलोभमोहेर्ष्याह्रीशोकमानोद्वेगभयोपतप्तमनसा वा यदन्नपानमुपयुज्यते, तदप्याममेव प्रदूषयति||८|| भवति चात्र- मात्रयाऽप्यभ्यवहृतं पथ्यं चान्नं न जीर्यति| चिन्ताशोकभयक्रोधदुःखशय्याप्रजागरैः||९||
🔊 Audio coming soon
अतिमात्राशनजन्यत्वेनामप्रदोषे वक्तव्येऽन्यतश्च यत आमप्रदोषो भवति तमाह- न च खल्वित्यादि| कामादिभिर्मानस उपघातः प्रभावादेवान्नं दूषयति| एवमशुच्यप्यन्नमशुचित्वेन ज्ञातं मनस उपघातकत्वादामदूषकं भवति| आमस्यापक्वस्याहारस्य प्रदोष आमप्रदोषः| आममेव प्रदूषयतीति अत्र कर्मकर्तृत्वे ‘अच्’, दुष्टं भवतीत्यर्थः; किंवा, आममपक्वं सद्दुष्टदोषसम्पर्काच्छरीरं दूषयतीति ज्ञेयम्||८-९||
Adhikarana 7 (10-11) · Śloka 11
तं द्विविधमामप्रदोषमाचक्षते भिषजः- विसूचिकाम्, अलसकं च||१०|| तत्र विसूचिकामूर्ध्वं चाधश्च प्रवृत्तामदोषां यथोक्तरूपां विद्यात्||११||
🔊 Audio coming soon
द्विविधमित्यादौ अलसक एव दण्डालसकामविषयोरवरोधो ज्ञेयः; तयोरपि हि दोषोऽप्रवर्तमानत्वादलसीभूत एव भवति||१०-११||
Adhikarana 8 (12) · Śloka 12
अलसकमुपदेक्ष्यामः- दुर्बलस्याल्पाग्नेर्बहुश्लेष्मणो वातमूत्रपुरीषवेगविधारिणः स्थिरगुरुबहुरूक्षशीतशुष्कान्नसेविनस्तदन्नपानमनिलप्रपीडितं श्लेष्मणा च विबद्धमार्गमतिमात्रप्रलीनमलसत्वान्न बहिर्मुखीभवति, ततश्छर्द्यतीसारवर्ज्यान्यामप्रदोषलिङ्गान्यभिदर्शयत्यतिमात्राणि| अतिमात्रप्रदुष्टाश्च दोषाः प्रदुष्टामबद्धमार्गास्तिर्यग्गच्छन्तः कदाचिदेव केवलमस्य शरीरं दण्डवत् स्तम्भयन्ति, ततस्तं दण्डालसकमसाध्यं ब्रुवते| विरुद्धाध्यशनाजीर्णाशनशीलिनः पुनरामदोषमामविषमित्याचक्षते भिषजः, विषसदृशलिङ्गत्वात्; तत् परमसाध्यम्, आशुकारित्वाद्विरुद्धोपक्रमत्वाच्चेति||१२||
🔊 Audio coming soon
अलसकमुपदेक्ष्याम इत्यादिना पुनर्विशेषहेतुः प्रायोऽभिनिर्वर्तक उच्यते, सामान्येन त्वतिमात्राहाररूप उक्त एवेति ज्ञेयम्| अनिलप्रपीडितं श्लेष्मणा च विबद्धमार्गमिति दोषद्वयव्यापारवचनाद्वातश्लेष्मणोरलसके प्राधान्यमुच्यते, पित्तं तु सामान्यवचनसिद्धमप्रधानमस्त्येव तृष्णामदभ्रमादिलिङ्गमिति ज्ञेयम्| प्रदुष्टामबद्धमार्गा इति अत्रापक्व आहारोऽन्नरसो वा अपक्व आम उच्यते| केवलं कृत्स्नम्| विरुद्धाध्यशनाजीर्णाशनशीलिन इति विरुद्धाशनम्, अध्यशनम्, अजीर्णाशनं च; अजीर्णस्यापक्वस्याशनमजीर्णाशनम्, अजीर्णे भोजनस्याध्यशनशब्देन लब्धत्वात्| आमदोषमामविषमाचक्षत इत्यत्र विषसदृशलिङ्ग एवामप्रदोषोऽभिप्रेतः, अत एव विषसदृशलिङ्गत्वादित्युक्तम्| विरुद्धोपक्रमत्वादिति आमापेक्षया यदुष्णं क्रियते तद्विषविरुद्धं, यच्च विषापेक्षया शीतं क्रियते तदामविरुद्धम्| विषसदृशता चामस्यामजनकहेतुविशेषप्रभावाद्भवति मधुघृतसमसंयोग इव विषत्वम्||१२||
Adhikarana 9 (13) · Śloka 13
तत्र साध्यमामं प्रदुष्टमलसीभूतमुल्लेखयेदादौ पाययित्वा सलवणमुष्णं वारि, ततः स्वेदनवर्तिप्रणिधानाभ्यामुपाचरेदुपवासयेच्चैनम्| विसूचिकायां तु लङ्घनमेवाग्रे विरिक्तवच्चानुपूर्वी| आमप्रदोषेषु त्वन्नकाले जीर्णाहारं पुनर्दोषावलिप्तामाशयं स्तिमितगुरुकोष्ठमनन्नाभिलाषिणमभिसमीक्ष्य पाययेद्दोषशेषपाचनार्थमौषधमग्निसन्धुक्षणार्थं च, नत्वेवाजीर्णाशनम्; आमप्रदोषदुर्बलो ह्यग्निर्न युगपद्दोषमौषधमाहारजातं च शक्तः पक्तुम्| अपि चामप्रदोषाहारौषधविभ्रमोऽतिबलत्वादुपरतकायाग्निं सहसैवातुरमबलमतिपातयेत्| आमप्रदोषजानां पुनर्विकाराणामपतर्पणेनैवोपरमो भवति, सति त्वनुबन्धे कृतापतर्पणानां व्याधीनां निग्रहे निमित्तविपरीतमपास्यौषधमातङ्कविपरीतमेवावचारयेद्यथास्वम्| सर्वविकाराणामपि च निग्रहे हेतुव्याधिविपरीतमौषधमिच्छन्ति कुशलाः, तदर्थकारि वा| विमुक्तामप्रदोषस्य पुनः परिपक्वदोषस्य दीप्ते चाग्नावभ्यङ्गास्थापनानुवासनं विधिवत् स्नेहपानं च युक्त्या प्रयोज्यं प्रसमीक्ष्य दोषभेषजदेशकालबलशरीराहारसात्म्यसत्त्वप्रकृतिवयसामवस्थान्तराणि विकारांश्च सम्यगिति||१३||
🔊 Audio coming soon
वर्तिरिति फलवर्तिः| आनुपूर्वीति पेयादिक्रम इत्यर्थः| जीर्णाहारमिति विसूचिकालसकयोरेवाहारस्य जीर्णतां दर्शयति| दोषावलिप्तामाशयस्तिमितगुरुकोष्ठत्वादि पुरुषविशेषणमपि लक्षणं ज्ञेयम्| न त्वजीर्णाशनमिति पुनर्निषेधकरणेनाजीर्णाशने प्रमादादजीर्णप्रशमनाभिप्रायेण क्रियमाणभेषजस्य महात्ययतां ‘दोषदुर्बलो ह्यग्निः’ इत्यादिना वक्ष्यमाणां दर्शयति| कृतापतर्पणानामित्यनेन दोषाणामामताक्षयं सूचयति; सम्यक्कृते ह्यपतर्पणे नामानुबन्धोऽस्ति | ततश्च निरामदोषारब्धे विसूचिकालसकव्यवस्थिते शूलज्वरादौ आतङ्कविपरीतं निरामशूलज्वरादिहरमेव युज्यते| यथास्वमिति यद्यस्य शूलादेरातङ्कस्य विपरीतं तत्तत्र कार्यमित्यर्थः| आतङ्कविपरीतशब्देन च तदर्थकारि गृहीतं मन्तव्यम्| अत एवोत्तरत्र ‘तदर्थकारि वा’ इति सर्वविकारभेषजकथने उपपन्नं भवति; अन्यथा कथमिहानभिहितं तदर्थकारि तत्राप्रस्तुतमुच्यते| विमुक्तामप्रदोषस्येत्यादिनाऽभ्यङ्गादिविधानं व्याधिजनितातिदौर्बल्यादिदोषप्रशमनार्थम्||१३||
Adhikarana 10 (14) · Śloka 14
भवति चात्र- आहारविध्यायतनानि चाष्टौ सम्यक् परीक्ष्यात्महितं विदध्यात्| अन्यश्च यः कश्चिदिहास्ति मार्गो हितोपयोगेषु भजेत तं च||१४||
🔊 Audio coming soon
अनुक्तविध्युपग्रहार्थमाह- अन्यश्चेत्यादि| अन्यश्चेति ग्रहण्यतिसारादिवक्ष्यमाणामदोषक्षयकरो भेषजरूपो मार्ग इहामप्रदोषे हित इति सम्बन्धः||१४||
Adhikarana 11 (15-19) · Śloka 19
अशितं खादितं पीतं लीढं च क्व विपच्यते| एतत्त्वां धीर! पृच्छामस्तन्न आचक्ष्व बुद्धिमन्||१५|| इत्यग्निवेशप्रमुखैः शिष्यैः पृष्टः पुनर्वसुः| आचचक्षे ततस्तेभ्यो यत्राहारो विपच्यते||१६|| नाभिस्तनान्तरं जन्तोरामाशय इति स्मृतः| अशितं खादितं पीतं लीढं चात्र विपच्यते||१७|| आमाशयगतः पाकमाहारः प्राप्य केवलम्| पक्वः सर्वाशयं पश्चाद्धमनीभिः प्रपद्यते||१८|| तत्र श्लोकः- तस्य मात्रावतो लिङ्गं फलं चोक्तं यथायथम्| अमात्रस्य तथा लिङ्गं फलं चोक्तं विभागशः||१९||
🔊 Audio coming soon
आमाशयप्रमाणोपदर्शनार्थं च गुरुपृच्छोत्तरग्रन्थमाह- अशितमित्यादि| सर्वाश्रयमिति सर्वशरीरम्||१५-१९||
Adhikarana puShpikA · Śloka 2
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने त्रिविधकुक्षीयविमानं नाम द्वितीयोऽध्यायः||२||
🔊 Audio coming soon
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां विमानस्थाने त्रिविधकुक्षीयविमानं नाम द्वितीयोऽध्यायः||२||