Adhikarana 1 (1-2) · Śloka 2
अथातो व्याधितरूपीयं विमानं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
पूर्वाध्याये व्याधिं प्रतिपाद्य व्याधितस्य पुरुषस्य भेदं चिकित्सोपयोगितया प्रतिपादयितुं तथा तत्प्रसङ्गाच्च क्रिमीन् प्रतिपादयितुं व्याधितरूपीयोऽभिधीयते||१-२||
Adhikarana 2 (3) · Śloka 3
इह खलु द्वौ पुरुषौ व्याधितरूपौ भवतः- गुरुव्याधितः, लघुव्याधितश्च|
तत्र- गुरुव्याधित एकः सत्त्वबलशरीरसम्पदुपेतत्वाल्लघुव्याधित इव दृश्यते, लघुव्याधितोऽपरः सत्त्वादीनामधमत्वाद्गुरुव्याधित इव दृश्यते|
तयोरकुशलाः केवलं चक्षुषैव रूपं दृष्ट्वाऽध्यवस्यन्तो व्याधिगुरुलाघवे विप्रतिपद्यन्ते||३||
द्वावित्यादौ व्याधिः जातो यस्य स व्याधितः, तस्येव रूपं ययोस्तौ व्याधितरूपौ; व्याधितसदृशावित्यर्थः| तेन, व्याधितरूपावित्यनेन गुरुलघुव्याधियुक्तसदृशौ बोद्धव्यौ| यो हि गुरुव्याधिः सम्पन्नसत्त्वादिना लघुव्याधिर्दृश्यते, नासावपि लघुना व्याधिना व्याधितः, किं तु गुरुव्याधित एवासौ| स तु गुरुणैव व्याधिना व्याधितो गुरुव्याधिरदूरदर्शिना लघुव्याधिरिव दृश्यते, एवं विपर्यासाल्लघुव्याधितोऽपर इत्यादावपि व्याख्येयम्| अधमत्वादिति ह्यवरत्वादित्यर्थः| चक्षुषैवेति इतरज्ञानसाधनोपलक्षणं; तेन स्पर्शादिनाऽपि विशेषानवगाहकेनेति बोद्धव्यम्| रूपमिति विरूपम्| अध्यवस्यन्त इति निश्चयं कुर्वन्तः| गुरुलाघवे विप्रतिपद्यन्त इति गुरुलघुत्वे न प्रतिपद्यन्ते||३||
Adhikarana 3 (4) · Śloka 4
नहि ज्ञानावयवेन कृत्स्ने ज्ञेये विज्ञानमुत्पद्यते|
विप्रतिपन्नास्तु खलु रोगज्ञाने उपक्रमयुक्तिज्ञाने चापि विप्रतिपद्यन्ते|
ते यदा गुरुव्याधितं लघुव्याधितरूपमासादयन्ति, तदा तमल्पदोषं मत्वा संशोधनकालेऽस्मै मृदु संशोधनं प्रयच्छन्तो भूय एवास्य दोषानुदीरयन्ति|
यदा तु लघुव्याधितं गुरुव्याधितरूपमासादयन्ति, तदा तं महादोषं मत्वा संशोधनकालेऽस्मै तीक्ष्णं संशोधनं प्रयच्छन्तो दोषानतिनिर्हृत्य शरीरमस्य क्षिण्वन्ति|
एवमवयवेन ज्ञानस्य कृत्स्ने ज्ञेये ज्ञानमभिमन्यमानाः परिस्खलन्ति|
विदितवेदितव्यास्तु भिषजः सर्वं सर्वथा यथासम्भवं परीक्ष्यं परीक्ष्याध्यवस्यन्तो न क्वचिदपि विप्रतिपद्यन्ते, यथेष्टमर्थमभिनिर्वर्तयन्ति चेति||४||
अत्रैव विरुद्धप्रतिपत्तौ हेतुमाह- नहीत्यादि| ज्ञानावयवेनेति एकदेशज्ञानेन| विप्रतिपत्तिफलमाह- विप्रतिपन्नास्त्वित्यादि| उपक्रमस्य भेषजप्रयोगस्य विकारेण समं योजना उपक्रमयुक्तिः, तस्या ज्ञाने विरुद्धप्रतिपत्तिमन्तो भवन्ति| एतदेव व्याकरोति- ते यदेत्यादि| आसादयन्तीति बुध्यन्ते| उदीरयन्तीति प्रकोपयन्त्येव परं, नत्वल्पबलत्वाद्धरन्तीत्यर्थः| अतिनिर्हृत्येति अतियोगेन हृत्वेत्यर्थः| ज्ञानस्येति ज्ञानसाधनस्य| यथासम्भवमिति यानि यत्र ज्ञानसाधनानि भवन्ति, तैस्तत्र| परीक्ष्यं सत्त्वादि| न क्वचिदपीति गौरवलाघवादौ||४||
Adhikarana 4 (5-7) · Śloka 7
भवन्ति चात्र- सत्त्वादीनां विकल्पेन व्याधिरूपमथातुरे |
दृष्ट्वा विप्रतिपद्यन्ते बाला व्याधिबलाबले||५||
ते भेषजमयोगेन कुर्वन्त्यज्ञानमोहिताः|
व्याधितानां विनाशाय क्लेशाय महतेऽपि वा||६||
प्राज्ञास्तु सर्वमाज्ञाय परीक्ष्यमिह सर्वथा|
न स्खलन्ति प्रयोगेषु भेषजानां कदाचन||७||
एतदेव सुखग्रहणार्थं श्लोकेनाह- सत्त्वेत्यादि| व्याधिरूपमिति व्याधेर्गतिरूपमित्यर्थः| ‘व्याधितरूपम्’ इति तु पाठः सुगमः| बाला इति अल्पज्ञाः| अतियोगेनेति असम्यग्योगेन; तेनातियोगमिथ्यायोगयोर्ग्रहणं भवति||५-७||
Adhikarana 5 (8) · Śloka 8
इति व्याधितरूपाधिकारे व्याधितरूपसङ्ख्याग्रसम्भवं व्याधितरूपहेतुविप्रतिपत्तौ कारणं सापवादं सम्प्रतिपत्तिकारणं चानपवादं निशम्य, भगवन्तमात्रेयमग्निवेशोऽतः परं सर्वक्रिमीणां पुरीषसंश्रयाणां समुत्थानस्थानसंस्थानवर्णनामप्रभावचिकित्सितविशेषान् पप्रच्छोपसङ्गृह्य पादौ||८||
सम्प्रति व्याधिगुरुलाघवस्य दुर्ज्ञेयताप्रसङ्गेन दुर्ज्ञेयक्रिमिख्यापकमपि प्रकरणमारभते- इति व्याधितेत्यादि| सङ्ख्याग्रसम्भवमिति सङ्ख्याप्रमाणसम्भवमित्यर्थः; अग्रशब्दो हि परिमाणवाची| व्याधितरूपस्य हेतुः सत्त्वादिबलवत्त्वाबलवत्त्वे, तत्कृतो विप्रतिपत्तिर्व्याधितरूपहेतुविप्रतिपत्तिः, तत्र| कारणम् एकदेशेन ज्ञानम्| सापवादमिति सदोषम्| सम्यक् प्रतिपत्तिः सम्प्रतिपत्तिः||८||
Adhikarana 6 (9) · Śloka 9
अथास्मै प्रोवाच भगवानात्रेयः- इह खल्वग्निवेश! विंशतिविधाः क्रिमयः पूर्वमुद्दिष्टा नानाविधेन प्रविभागेनान्यत्र सहजेभ्यः; ते पुनः प्रकृतिभिर्विभज्यमानाश्चतुर्विधा भवन्ति; तद्यथा- पुरीषजाः, श्लेष्मजाः, शोणितजा, मलजाश्चेति||९||
पूर्वमुद्दिष्टा इति अष्टोदरीये सञ्ज्ञामात्रकथिताः| अन्यत्र सहजेभ्य इत्यनेन शरीरसहजास्त्ववैकारिकाः क्रिमयो विंशतेरप्यधिका भवन्तीति दर्शयति| प्रकृतिभिरिति कारणैः| मलजा इति बाह्यमलजाः||९||
Adhikarana 7 (10) · Śloka 10
तत्र मलो बाह्यश्चाभ्यन्तरश्च|
तत्र बाह्यमलजातान् मलजान् सञ्चक्ष्महे |
तेषां समुत्थानं- मृजावर्जनं; स्थानं- केशश्मश्रुलोमपक्ष्मवासांसि; संस्थानम्- अणवस्तिलाकृतयो बहुपादाश्च; वर्णः- कृष्णः, शुक्लश्च; नामानि- यूकाः, पिपीलिकाश्च; प्रभावः- कण्डूजननं, कोठपिडकाभिनिर्वर्तनं च; चिकित्सितं तु खल्वेषामपकर्षणं, मलोपघातः, मलकराणां च भावानामनुपसेवनमिति||१०||
पिपीलिकां लिक्षां केचिदाहुः| क्रिमीणां सञ्ज्ञा स्वशास्त्रव्यवहारसिद्धा देशान्तरप्रसिद्धा च बोद्धव्या| प्रभाव इति स्वशक्तिसम्पाद्यमित्यर्थः||१०||
Adhikarana 8 (11) · Śloka 11
शोणितजानां तु खलु कुष्ठैः समानं समुत्थानं; स्थानं- रक्तवाहिन्यो धमन्यः; संस्थानम्- अणवो वृत्ताश्चापादाश्च, सूक्ष्मत्वाच्चैके भवन्त्यदृश्याः; वर्णः- ताम्रः; नामानि- केशादा, लोमादा, लोमद्वीपाः, सौरसा, औडुम्बरा, जन्तुमातरश्चेति; प्रभावः- केशश्मश्रुनखलोमपक्ष्मापध्वंसः, व्रणगतानां च हर्षकण्डूतोदसंसर्पणानि, अतिवृद्धानां च त्वक्सिरास्नायुमांसतरुणास्थिभक्षणमिति; चिकित्सितमप्येषां कुष्ठैः समानं, तदुत्तरकालमुपदेक्ष्यामः||११||
हर्षकण्ड्वादयो व्रणदेश एव ज्ञेयाः||११||
Adhikarana 9 (12) · Śloka 12
श्लेष्मजाः क्षीरगुडतिलमत्स्यानूपमांसपिष्टान्नपरमान्नकुसुम्भस्नेहाजीर्णपूतिक्लिन्नसङ्कीर्णविरुद्धासात्म्यभोजनसमुत्थानाः; तेषामामाशयः स्थानं, ते प्रवर्धमानास्तूर्ध्वमधो वा विसर्पन्त्युभयतो वा; संस्थानवर्णविशेषास्तु- श्वेताः पृथुब्रध्नसंस्थानाः केचित्, केचिद्वृत्तपरिणाहा गण्डूपदाकृतयः श्वेतास्ताम्रावभासाश्च, केचिदणवो दीर्घास्तन्त्वाकृतयः श्वेताः; तेषां त्रिविधानां श्लेष्मनिमित्तानां क्रिमीणां नामानि- अन्त्रादाः, उदरादाः, हृदयचराः , चुरवः, दर्भपुष्पाः, सौगन्धिकाः, महागुदाश्चेति; प्रभावो- हृल्लासः, आस्यसंस्रवणम्, अरोचकाविपाकौ, ज्वरः, मूर्च्छा, जृम्भा, क्षवथुः, आनाहः, अङ्गमर्दः, छर्दिः कार्श्यं, पारुष्यं, चेति||१२||
परमान्नं पायसम्| सङ्कीर्णभोजनं घृणाविषयमलादिमिश्रितव्यञ्जनादिभोजनम्| ब्रध्नः चर्मलता||१२||
Adhikarana 10 (13) · Śloka 13
पुरीषजास्तुल्यसमुत्थानाः श्लेष्मजैः; तेषां स्थानं पक्वाशयः, ते प्रवर्धमानास्त्वधो विसर्पन्ति, यस्य पुनरामाशयाभिमुखाः स्युर्यदन्तरं तदन्तरं तस्योद्गारनिःश्वासाः पुरीषगन्धिनः स्युः; संस्थानवर्णविशेषास्तु- सूक्ष्मवृत्तपरीणाहाः श्वेता दीर्घा ऊर्णांशुसङ्काशाः केचित्, केचित् पुनः स्थूलवृत्तपरीणाहाः श्यावनीलहरितपीताः; तेषां नामानि ककेरुकाः, मकेरुकाः, लेलिहाः; सशूलकाः, सौसुरादाश्चेति; प्रभावः- पुरीषभेदः, कार्श्यं, पारुष्यं, लोमहर्षाभिनिर्वर्तनं च, त एव चास्य गुदमुखं परितुदन्तः कण्डूं चोपजनयन्तो गुदमुखं पर्यासते, त एव जातहर्षा गुदनिष्क्रमणमतिवेलं कुर्वन्ति; इत्येष श्लेष्मजानां पुरीषजानां च क्रिमीणां समुत्थानादिविशेषः||१३||
यदन्तरमिति यस्मिन् काले, तदन्तरं तत्कालमेव| ऊर्णांशुसङ्काशा इति मेषलोमतुल्याः| पर्यासत इति क्षिपन्ति, किंवा गुदं परिवार्यासते| अतिवेलमिति पुनः पुनः||१३||
Adhikarana 11 (14-15) · Śloka 15
चिकित्सितं तु खल्वेषां समासेनोपदिश्य पश्चाद्विस्तरेणोपदेक्ष्यामः|
तत्र सर्वक्रिमीणामपकर्षणमेवादितः कार्यं, ततः प्रकृतिविघातः, अनन्तरं निदानोक्तानां भावानामनुपसेवनमिति||१४||
तत्रापकर्षणं- हस्तेनाभिगृह्य विमृश्योपकरणवताऽपनयनमनुपकरणेन वा; स्थानगतानां तु क्रिमीणां भेषजेनापकर्षणं न्यायतः, तच्चतुर्विधं; तद्यथा- शिरोविरेचनं, वमनं, विरेचनम्, आस्थापनं च; इत्यपकर्षणविधिः|
प्रकृतिविघातस्त्वेषां कटुतिक्तकषायक्षारोष्णानां द्रव्याणामुपयोगः, यच्चान्यदपि किञ्चिच्छ्लेष्मपुरीषप्रत्यनीकभूतं तत् स्यात्; हति प्रकृतिविघातः|
अनन्तरं निदानोक्तानां भावानामनुपसेवनं- यदुक्तं निदानविधौ तस्य विवर्जनं तथाप्रायाणां चापरेषां द्रव्याणाम्|
इति लक्षणतश्चिकित्सितमनुव्याख्यातम्|
एतदेव पुनर्विस्तरेणोपदेक्ष्यते||१५||
अपकर्षणं हस्तादि संशोधनानि च| प्रकृतेः कारणस्य श्लेष्मादिरूपस्य विघातः प्रकृतिविघात इत्यर्थः| उपकरणवतेति सन्दंशाद्युपकरणयुक्तेन| तत् स्यादिति विघातः स्यादिति योजना| निदानोक्तानां भावानामनुपसेवनमिति विवरणानुवादः| अस्य विवरणं- यदुक्तमित्यादि| तथाप्रायाणामिति श्लेष्मजपुरीषजक्रिमिनिदानसदृशानामित्यर्थः| लक्षणत इति सङ्क्षेपतः; सङ्क्षेपो हि विस्तरस्य ग्राहकं लक्षणं भवति||१४-१५||
Adhikarana 12 (16) · Śloka 16
अथैनं क्रिमिकोष्ठमातुरमग्रे षड्रात्रं सप्तरात्रं वा स्नेहस्वेदाभ्यामुपपाद्य श्वोभूते एनं संशोधनं पाययिताऽस्मीति क्षीरगुडदधितिलमत्स्यानूपमांसपिष्टान्नपरमान्नकुसुम्भस्नेहसम्प्रयुक्तैर्भोज्यैः सायं प्रातश्चोपपादयेत् समुदीरणार्थं क्रिमीणां कोष्ठाभिसरणार्थं च भिषक्|
अथ व्युष्टायां रात्र्यां सुखोषितं सुप्रजीर्णभक्तं च विज्ञायास्थापनवमनविरेचनैस्तदहरेवोपपादयेदुपपादनीयश्चेत् स्यात् सर्वान् परीक्ष्यविशेषान् परीक्ष्य सम्यक्||१६||
कोष्ठाभिसरणार्थमिति क्षीरगुडादिलोभेन देशान्तरं परित्यज्य कोष्ठगमनार्थम्| तदहरेवेति एकस्मिन् दिने; एतच्चैकदिन एव भूरिकर्मकरणं व्याधिप्रभावाद्बोद्धव्यम्| एतच्चैकाहेन सर्वकरणं यदि शरीरबलादिसम्पद्युक्तः पुरुषो भवति तदैव परं कर्तव्यं, नान्यथेत्याह- उपपादनीयश्चेत् स्यादित्यादिना||१६||
Adhikarana 13 (17) · Śloka 17
अथाहरेति ब्रूयात्- मूलकसर्षपलशुनकरञ्जशिग्रुमधुशिग्रुखरपुष्पाभूस्तृणसुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षवकफणिज्झकानि सर्वाण्यथवा यथालाभं; तान्याहृतान्यभिसमीक्ष्य खण्डशश्छेदयित्वा प्रक्षाल्य पानीयेन सुप्रक्षालितायां स्थाल्यां समावाप्य गोमूत्रेणार्धोदकेनाभिषिच्य साधयेत् सततमवघट्टयन् दर्व्या, तमुपयुक्तभूयिष्ठेऽम्भसि गतरसेष्वौषधेषु स्थालीमवतार्य सुपरिपूतं कषायं सुखोष्णं मदनफलपिप्पलीविडङ्गकल्कतैलोपहितं स्वर्जिकालवणितमभ्यासिच्य बस्तौ विधिवदास्थापयेदेनं; तथाऽर्कालर्ककुटजाढकीकुष्ठकैडर्यकषायेण वा, तथा शिग्रुपीलुकुस्तुम्बुरुकटुकासर्षपकषायेण, तथाऽऽमलकशृङ्गवेरदारुहरिद्रापिचुमर्दकषायेण मदनफलादिसंयोगसम्पादितेन, त्रिवारं सप्तरात्रं वाऽऽस्थापयेत्||१७||
मधुशिग्रुः शोभाञ्जनः| अत्र क्वाथ्यद्रव्यजलादिमानं क्वाथपरिभाषया कर्तव्यम्| उपयुक्तभूयिष्ठे प्रक्षीणभूयिष्ठ इत्यर्थः| गतरसेष्वौषधेष्विति जले सङ्क्रान्तरसेषु| अनेन कषायसिद्धिलक्षणेन यावता जलेन पाकेन चौषधानि गतरसानि भवन्ति, तावदेव जलं देयं, तावांश्च पाकः कर्तव्यः, नावश्यं परिभाषया सर्वत्रेति क्रमं दर्शयति| सुपरिपूतमिति वस्त्रगालितम्| बस्तौ कषायादिमानं सिद्धौ वक्ष्यमाणेन ज्ञेयम्| अलर्कः मन्दारः||१७||
Adhikarana 14 (18-19) · Śloka 19
प्रत्यागते च पश्चिमे बस्तौ प्रत्याश्वस्तं तदहरेवोभयतोभागहरं संशोधनं पाययेद्युक्त्या; तस्य विधिरुपदेक्ष्यते- मदनफलपिप्पलीकषायस्यार्धाञ्जलिमात्रेण त्रिवृत्कल्काक्षमात्रमालोड्य पातुमस्मै प्रयच्छेत्, तदस्य दोषमुभयतो निर्हरति साधु; एवमेव कल्पोक्तानि वमनविरेचनानि प्रतिसंसृज्य पाययेदेनं बुद्ध्या सर्वविशेषानवेक्षमाणो भिषक्||१८||
अथैनं सम्यग्विरिक्तं विज्ञायापराह्णे शैखरिककषायेण सुखोष्णेन परिषेचयेत्|
तेनैव च कषायेण बाह्याभ्यन्तरान् सर्वोदकार्थान् कारयेच्छश्वत्; तदभावे कटुतिक्तकषायाणामौषधानां क्वाथैर्मूत्रक्षारैर्वा परिषेचयेत्|
परिषिक्तं चैनं निवातमागारमनुप्रवेश्य पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरसिद्धेन यवाग्वादिना क्रमेणोपाचरेत्, विलेपीक्रमागतं चैनमनुवासयेद्विडङ्गतैलेनैकान्तरं द्विस्त्रिर्वा||१९||
पश्चिमे तृतीयपुटके| संसृज्येति मिश्रीकृत्य| शैखरिककषायेणेति विडङ्गकषायेण, विडङ्गकषायो हि वैद्यकव्यवहारात् शैखरिककषाय उच्यते| विलेप्याः क्रमागतमिति कृतयवाग्वादिक्रममित्यर्थः||१८-१९||
Adhikarana 15 (20) · Śloka 20
यदि पुनरस्यातिप्रवृद्धाञ्छीर्षादान् क्रिमीन् मन्येत शिरस्यैवाभिसर्पतः कदाचित्, ततः स्नेहस्वेदाभ्यामस्य शिर उपपाद्य विरेचयेदपामार्गतण्डुलादिना शिरोविरेचनेन||२०||
अपामार्गतण्डुलादिनेति अपामार्गतण्डुलीयोक्तेन||२०||
Adhikarana 16 (21) · Śloka 21
यस्त्वभ्यवहार्यविधिः प्रकृतिविघातायोक्तः क्रिमीणामथ तमनुव्याख्यास्यामः- मूलकपर्णीं समूलाग्रप्रतानामाहृत्य खण्डशश्छेदयित्वोलू(दू)खले क्षोदयित्वा पाणिभ्यां पीडयित्वा रसं गृह्णीयात्, तेन रसेन लोहितशालितण्डुलपिष्टं समालोड्य पूपलिकां कृत्वा विधूमेष्वङ्गारेषूपकुड्य विडङ्गतैललवणोपहितां क्रिमिकोष्ठाय भक्षयितुं प्रयच्छेत्, अनन्तरं चाम्लकाञ्जिकमुदश्विद्वा पिप्पल्यादिपञ्चवर्गसंसृष्टं सलवणमनुपाययेत्|
अनेन कल्पेन मार्कवार्कसहचरनीपनिर्गुण्डीसुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षवकफणिज्झक- बकुलकुटजसुवर्णक्षीरीस्वरसानामन्यतमस्मिन् कारयेत् पूपलिकाः; तथा किणिहीकिराततिक्तकसुवहामलकहरीतकीबिभीतकस्वरसेषु कारयेत् पूपलिकाः; स्वरसांश्चैतेषामेकैकशो द्वन्द्वशः सर्वशो वा मधुविलुलितान् प्रातरनन्नाय पातुं प्रयच्छेत्||२१||
मूलकपर्णी शोभाञ्जनः| उपकुड्येति पाचयित्वा, ‘कुड दाहे’, इति धातुः पठ्यते| पिप्पल्यादिपञ्चवर्गोऽत्रैव पेयादिक्रमोक्तपञ्चकोलम्| सहचरः झिण्टिका| मधुविलुलितानिति मधुनाऽऽलोडितान्||२१||
Adhikarana 17 (22) · Śloka 22
अथाश्वशकृदाहृत्य महति किलिञ्जके प्रस्तीर्यातपे शोषयित्वोदूखले क्षोदयित्वा दृषदि पुनः सूक्ष्मचूर्णानि कारयित्वा विडङ्गकषायेण त्रिफलाकषायेण वाऽष्टकृत्वो दशकृत्वो वाऽऽतपे सुपरिभावितानि भावयित्वा दृषदि पुनः सूक्ष्माणि चूर्णानि कारयित्वा नवे कलशे समावाप्यानुगुप्तं निधापयेत्|
तेषां तु खलु चूर्णानां पाणितलं यावद्वा साधु मन्येत तत् क्षौद्रेण संसृज्य क्रिमिकोष्ठिने लेढुं प्रयच्छेत्||२२||
सुपरीत्यादि यथा सुपरिभावितानि भवन्ति तथा भावयित्वेत्यर्थः| अनुगुप्तमिति वाताद्यननुगमनीयं कृतरक्षं च यथा भवति||२२||
Adhikarana 18 (23-24) · Śloka 24
तथा भल्लातकास्थीन्याहृत्य कलशप्रमाणेन चापोथ्य स्नेहभाविते दृढे कलशे सूक्ष्मानेकच्छिद्रब्रध्ने शरीरमुपवेष्ट्य मृदावलिप्ते समावाप्योडुपेन पिधाय भूमावाकण्ठं निखातस्य स्नेहभावितस्यैवान्यस्य दृढस्य कुम्भस्योपरि समारोप्य समन्ताद्गोमयैरुपचित्य दाहयेत्, स यदा जानीयात् साधु दग्धानि गोमयानि विगतस्नेहानि च भल्लातकास्थीनीति ततस्तं कुम्भमुद्धरेत्|
अथ तस्माद्द्वितीयात् कुम्भात् स्नेहमादाय विडङ्गतण्डुलचूर्णैः स्नेहार्धमात्रैः प्रतिसंसृज्यातपे सर्वमहः स्थापयित्वा ततोऽस्मै मात्रां प्रयच्छेत् पानाय; तेन साधु विरिच्यते, विरिक्तस्य चानुपूर्वी यथोक्ता|
एवमेव भद्रदारुसरलकाष्ठस्नेहानुपकल्प्य पातुं प्रयच्छेत्||२३||
अनुवासयेच्चैनमनुवासनकाले ||२४||
ब्रध्नः गुदः, इह तु कलशाधोभागः| शरीरमुपवेष्ट्येति वेष्टयित्वा| उडुपः पिधानम्| स इति भल्लातकस्नेहसाधकः| द्वितीयादिति अधःस्थाद्घटात्||२३-२४||
Adhikarana 19 (25) · Śloka 25
अथाहरेति ब्रूयात्- शारदान्नवांस्तिलान् सम्पदुपेतान्; तानाहृत्य सुनिष्पूतान्निष्पूय, सुशुद्धान् शोधयित्वा , विडङ्गकषाये सुखोष्णे प्रक्षिप्य निर्वापयेदादोषगमनात्, गतदोषानभिसमीक्ष्य, सुप्रलूनान् प्रलुञ्च्य, पुनरेव सुनिष्पूतान् निष्पूय, सुशुद्धान् शोधयित्वा, विडङ्गकषायेण त्रिःसप्तकृत्वः सुपरिभावितान् भावयित्वा, आतपे शोषयित्वा, उलू(दू)खले सङ्क्षुद्य, दृषदि पुनः श्लक्ष्णपिष्टान् कारयित्वा, द्रोण्यामभ्यवधाय, विडङ्गकषायेण मुहुर्मुहुरवसिञ्चन् पाणिमर्दमेव मर्दयेत्; तस्मिंस्तु खलु प्रपीड्यमाने यत्तैलमुदियात्तत् पाणिभ्यां पर्यादाय, शुचौ दृढे कलशे न्यस्यानुगुप्तं निधापयेत्||२५||
निष्पूयेति मृत्तिकाद्यवकरान्निचित्य| शोधयित्वेति प्रक्षाल्य| आदोषगमनादित्यत्र तिलदोषगमनं तिलत्वग्लग्नमलादिगमनं ज्ञेयम्| प्रलुञ्च्य निस्तुषीकृत्य| अभ्यवधायेति आरोप्य| पाणिभ्यां पर्यादायेति पाणिलग्नं पुनः पुनः पुनर्गृहीत्वा||२५||
Adhikarana 20 (26-27) · Śloka 27
अथाहरेति ब्रूयात्- तिल्वकोद्दालकयोर्द्वौ बिल्वमात्रौ पिण्डौ श्लक्ष्णपिष्टौ विडङ्गकषायेण, तदर्धमात्रौ श्यामात्रिवृतयोः, अतोऽर्धमात्रौ दन्तीद्रवन्त्योः, अतोऽर्धमात्रौ च चव्यचित्रकयोरिति|
एतं सम्भारं विडङ्गकषायस्यार्धाढकमात्रेण प्रतिसंसृज्य, तत्तैलप्रस्थं समावाप्य, सर्वमालोड्य, महति पर्योगे समासिच्याग्नावधिश्रित्यासने सुखोपविष्टः सर्वतः स्नेहमवलोकयन्नजस्रं मृद्वग्निना साधयेद्दर्व्या सततमवघट्टयन्|
स यदा जानीयाद्विरमति शब्दः, प्रशाम्यति च फेनः, प्रसादमापद्यते स्नेहः, यथास्वं च गन्धवर्णरसोत्पत्तिः, संवर्तते च भैषज्यमङ्गुलिभ्यां मृद्यमानमनतिमृद्वनतिदारुणमनङ्गुलिग्राहि चेति, स कालस्तस्यावतारणाय|
ततस्तमवतार्य शीतीभूतमहतेन वाससा परिपूय, शुचौ दृढे कलशे समासिच्य, पिधानेन पिधाय, शुक्लेन वस्त्रपट्टेनावच्छाद्य, सूत्रेण सुबद्धं सुनिगुप्तं निधापयेत्|
ततोऽस्मै मात्रां प्रयच्छेत् पानाय, तेन साधु विरिच्यते; सम्यगपहृतदोषस्य चानुपूर्वी यथोक्ता|
ततश्चैनमनुवासयेदनुवासनकाले|
एतेनैव च पाकविधिना सर्षपातसीकरञ्जकोषातकीस्नेहानुपकल्प्य पाययेत् सर्वविशेषानवेक्षमाणः|
तेनागदो भवति||२६||
एवं द्वयानां श्लेष्मपुरीषसम्भवानां क्रिमीणां समुत्थानसंस्थानवर्णनामप्रभावचिकित्सितविशेषा व्याख्याताः सामान्यतः|
विशेषतस्तु स्वल्पमात्रमास्थापनानुवासनानुलोमहरणभूयिष्ठं तेष्वेवौषधेषु पुरीषजानां क्रिमीणां चिकित्सितं कर्तव्यं, मात्राधिकं पुनः शिरोविरेचनवमनोपशमनभूयिष्ठं तेष्वेवौषधेषु श्लेष्मजानां क्रिमीणां चिकित्सितं कार्यम्; इत्येष क्रिमिघ्नो भेषजविधिरनुव्याख्यातो भवति|
तमनुतिष्ठता यथास्वं हेतुवर्जने प्रयतितव्यम्|
यथोद्देशमेवमिदं क्रिमिकोष्ठचिकित्सितं यथावदनुव्याख्यातं भवति||२७||
उद्दालकः बहुवारः| बिल्वमात्रौ पलप्रमाणौ| पर्योगः कटाहः| यथास्वमिति यावन्मात्रं यद्द्रव्यं तैलसंस्कारकं, तदानुरूप्येण वर्णादिसम्पत्तिरित्यर्थः| संवर्तते इति वर्तिवद्भवति| अल्पमात्रमिति आस्थापनानुलोमहरणद्रव्यातिरिक्तं भेषजमल्पमात्रं कर्तव्यमित्यर्थः||२६-२७||
Adhikarana 21 (28-32) · Śloka 32
भवन्ति चात्र- अपकर्षणमेवादौ क्रिमीणां भेषजं स्मृतम्|
ततो विघातः प्रकृतेर्निदानस्य च वर्जनम्||२८||
अयमेव विकाराणां सर्वेषामपि निग्रहे|
विधिर्दृष्टस्त्रिधा योऽयं क्रिमीनुद्दिश्य कीर्तितः||२९||
संशोधनं संशमनं निदानस्य च वर्जनम्|
एतावद्भिषजा कार्यं रोगे रोगे यथाविधि||३०||
तत्र श्लोकौ- व्याधितौ पुरुषौ ज्ञाज्ञौ भिषजौ सप्रयोजनौ|
विंशतिः क्रिमयस्तेषां हेत्वादिः सप्तको गणः||३१||
उक्तो व्याधितरूपीये विमाने परमर्षिणा|
शिष्यसम्बोधनार्थाय व्याधिप्रशमनाय च||३२||
एतदेवापकर्षणादित्रयं रोगान्तरे शब्दान्तरेणोच्यत इत्याह- अयमेवेत्यादि| अत्र संशोधनमपहरणं, संशमनं विघातः, निदानवर्जनं तु शब्देनापि समानम्||२८-३२||
Adhikarana puShpikA · Śloka 7
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने व्याधितरूपीयविमानं नाम सप्तमोऽध्यायः||७||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां विमानस्थाने व्याधितरूपीयं विमानं नाम सप्तमोऽध्यायः||७||