Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

6. rōgānīkavimānam

Adhikarana 1 (1-2) · Śloka 2

अथातो रोगानीकं विमानं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

पूर्वाध्याये स्रोतोरूपाधिष्ठानभेदेन रोगानभिधाय प्रभावादिभेदेन रोगानभिधातुं रोगानीकं विमानमुच्यते| रोगानीकमिति रोगसमूहः||१-२||

Adhikarana 2 (3) · Śloka 3

द्वे रोगानीके भवतः प्रभावभेदेन- साध्यम्, असाध्यं च; द्वे रोगानीके बलभेदेन- मृदु, दारुणं च; द्वे रोगानीके अधिष्ठानभेदेन- मनोऽधिष्ठानं, शरीराधिष्ठानं च; द्वे रोगानीके निमित्तभेदेन- स्वधातुवैषम्यनिमित्तम्, आगन्तुनिमित्तं च; द्वे रोगानीके आशयभेदेन- आमाशयसमुत्थं, पक्वाशयसमुत्थं चेति| एवमेतत् प्रभावबलाधिष्ठाननिमित्ताशयभेदाद्द्वैधं सद्भेदप्रकृत्यन्तरेण भिद्यमानमथवाऽपि सन्धीयमानं स्यादेकत्वं बहुत्वं वा| एकत्वं तावदेकमेव रोगानीकं, दुःखसामान्यात् ; बहुत्वं तु दश रोगानीकानि प्रभावभेदादिना भवन्ति; बहुत्वमपि सङ्ख्येयं स्यादसङ्ख्येयं वा| तत्र सङ्ख्येयं तावद्यथोक्तमष्टोदरीये, अपरिसङ्ख्येयं पुनर्यथा- महारोगाध्याये रुग्वर्णसमुत्थानादीनामसङ्ख्येयत्वात्||३||

🔊 Audio coming soon

बलभेदेनेत्यत्र मृदु अल्पबलं, दारुणं तु महाबलं ज्ञेयम्| दारुणं किञ्चित्कालातिपातादेव बलवत्त्वान्मारयति| यदुक्तं- “सन्ति ह्येवंविधा रोगाः साध्या दारुणसम्मताः| ये हन्युरनुपक्रान्ता मिथ्यारम्भेण वा पुनः” (सू.अ.१८) इति| आमाशयसमुत्थत्वेन आमाशयाश्रयाः कफपित्तजाः सर्वे गदा गृह्यन्ते, पक्वाशयसमुत्थग्रहणेन सर्वे वातजाः; एवं सर्वविकारावरोधः| द्वैधं सदिति द्वैविध्यं सत्| भेदप्रकृत्यन्तरेणेति भेदकारणान्तरेण| अथवाऽपि सन्धीयमानमिति एकीक्रियमाणम्, एकबुद्धिकारकानुगतधर्मान्तरेणेति बोद्धव्यम्| दुःखसामान्यादिति दुःखकर्तृत्वेन सर्वरोगानुगतेन साधारणेन रूपेण सर्व एव रोगा एकरूपा भवन्ति| बहुत्वमपीति उक्तप्रभावभेदादिकृतत्वादपि बहुत्वमित्यर्थः| सङ्ख्येयत्वमष्टोदरीये “अष्टचत्वारिंशद्रोगाधिकरणान्यस्मिन् सङ्ग्रहे” (सू.अ.१९) इत्यादिनोक्तम्| असङ्ख्येयत्वं महारोगाध्याये तथा त्रिशोफीये च “त एवापरिसङ्ख्येया भिद्यमाना भवन्ति हि| रुजावर्णसमुत्थानस्थानसंस्थाननामभिः” (सू.अ.१८) इत्यनेनोक्तम्||३||

Adhikarana 3 (4) · Śloka 4

न च सङ्ख्येयाग्रेषु भेदप्रकृत्यन्तरीयेषु विगीतिरित्यतो दोषवती स्यादत्र काचित् प्रतिज्ञा, न चाविगीतिरित्यतः स्याददोषवती| भेत्ता हि भेद्यमन्यथाभिनत्ति, अन्यथा पुरस्ताद्भिन्नं भेदप्रकृत्यन्तरेण भिन्दन् भेदसङ्ख्याविशेषमापादयत्यनेकधा, न च पूर्वं भेदाग्रमुपहन्ति| समानायामपि खलु भेदप्रकृतौ प्रकृतानुप्रयोगान्तरमपेक्ष्यम् | सन्ति ह्यर्थान्तराणि समानशब्दाभिहितानि, सन्ति चानर्थान्तराणि पर्यायशब्दाभिहितानि| समानो हि रोगशब्दो दोषेषु च व्याधिषु च; दोषा ह्यपि रोगशब्दमातङ्कशब्दं यक्ष्मशब्दं दोषप्रकृतिशब्दं विकारशब्दं च लभन्ते, व्याधयश्च रोगशब्दमातङ्कशब्दं यक्ष्मशब्दं दोषप्रकृतिशब्दं विकारशब्दं च लभन्ते| तत्र दोषेषु चैव व्याधिषु च रोगशब्दः समानः, शेषेषु तु विशेषवान्||४||

🔊 Audio coming soon

ननु सङ्ख्येयत्वमसङ्ख्येयत्वं च विरुद्धावेतौ धर्मौ, तथैकत्वमनेकत्वं चेति विरुद्धौ, तत् कथं विरुद्धत्वेन ख्यातौ धर्मावेकस्मिन् रोगे घटेतामित्याह- न चेत्यादि| सङ्ख्येयाग्रेष्विति सङ्ख्येयरोगपरिमाणेषु, अग्रशब्दः परिमाणे वर्तते; यथा- एकैकस्य भेदाग्रमपरिसङ्ख्येयं भवति, भेदसङ्ख्यारूपं परिमाणमित्यर्थः| भेदप्रकृत्यन्तरीयेष्विति भेदकारणान्तरभवेषु| विरुद्धा गीतिः विगीतिः कथनं ; यथा- ‘एकं चानेकं च तत्’ इत्यादिका विरुद्धा गीतिः| अत इति यथोक्तविगीतियोगात्, न दोषवती काचित् प्रतिज्ञा; यथा- एकानेकरूपान्तरगमनरूपा अत्रोक्ता स्यादिति योजना| विगीतौ दोषाभावं दर्शयित्वा भेदकारणान्तरकृतायामविगीतावपि दोषो भवतीति दर्शयन्नाह- न चाविगीतिरित्यादि| यदि हि ‘एकं रोगानीकं रुजासामान्यात्’ इत्यभिधाय पुनः ‘एकं रोगानीकं प्रभावभेदात्’ इत्यविरुद्धा एकताख्यायिकाऽविगीतिः क्रियते, सा विरुद्धैव स्यात्; यतो न प्रभावभेदेन रोगाणामेकत्वमुपपन्नं, किन्तु द्वैधमेवेति भावः| विगीतौ दोषाभावे हेतुमाह- भेत्ता हीत्यादि|- भेत्ता पुरुषः, भेद्यं रोगम्, अन्यथा द्वित्वादिना भिनत्ति, अन्यथा एकत्वेन पुरस्ताद्भेदितं चान्यथा भिनत्तीति| अस्यार्थं व्याकरोति- भेदप्रकृत्यन्तरेणेत्यादिना| अनेकधेति द्वे रोगानीके, तथा दश रोगानीकानीत्यादि| न च पूर्वं भेदाग्रं भेदप्रमाणमुपहन्ति| एवं मन्यते- यद्धर्मयोगविवक्षयैकत्वमुक्तं, तद्धर्मयोगविवक्षयैव यदि बहुत्वमप्युच्यते रोगाणां ततो विरोधो भवति, न हि तदेवैकं चानेकं चेत्युपपन्नं; यदा तु धर्मान्तरयोगविवक्षया बहुत्वमुच्यते, न तदा विरोधः; बहुत्वाभिधानकाले बहूनामेव रोगधर्माणां विवक्षितत्वात्; तेन रोगाणामेकत्वमेकधर्मविषयं, बहुत्वं च बहुधर्मविषयमिति नास्ति विरोधः| ननु यत्रासमानं भेदकारणं तत्र कारणान्तरकृतत्वादुक्तन्यायेन विगीतिः साध्वी भवतु, यत्र तु दश रोगानीकानि प्रभावादिद्वैविध्यादुच्यन्ते, तत्र कथं द्वे रोगानीके इति द्वित्वकृतं द्वैविध्यमभिधाय पुनर्द्वित्वादिभेदेनैव दशत्वमुच्यते? समानो ह्ययं द्विशब्दो द्वित्वे दशत्वे च रोगाणां हेतुरित्याह- समानायामपीति; समानशब्दाभिधेयत्वेनापाततः समानत्वेन प्रतिभासमानायामित्यर्थः| प्रकृतानुप्रयोगान्तरमपेक्ष्यमिति प्रकृतस्य समानशब्देनाभिहितस्य यद्भेदख्यापकं पश्चात्प्रयोगान्तरं, तदपेक्षणीयं विगीतिसमाधानार्थमित्यर्थः| एतेनैतद्दर्शयति- यद्यपि द्विशब्दो रोगप्रभावे तथा रोगबलादौ च समानः, तथाऽप्येकत्र ‘प्रभावभेदात्’ इत्यनुप्रयोगान्तरमपेक्ष्य प्रभावद्वैविध्ये वर्तते, तथा ‘बलभेदात्’ इत्यनुप्रयोगान्तरमपेक्ष्य च द्विशब्दो बलद्वैविध्ये वर्तत इत्यादि| तेनार्थान्तराभिधायिभिर्द्विशब्दैर्भिद्यमानस्य दशत्वमप्युपपन्नं तथा द्वित्वं चेति भावः| दृष्टान्तार्थमेकेन शब्देनानेकार्थाभिधानमाह- सन्ति हीत्यादि| अर्थान्तराणि पर्यायशब्दानभिहिता अर्थाः| तत्रोदाहरणमाह- समानो हीत्यादि|- दोषेषु व्याधिषु च समान उभयवाचकत्वेन तुल्यो रोगशब्दः; तेन रोगदोषसमानत्वेनाभिधेयसमानानां रोगातङ्कयक्ष्मादिशब्दानां सर्वेषामेव वक्ष्यमाणानां ग्रहणम्| शेषेष्विति हेत्वादिषु| विशेषवानिति अभिधानरूपविशेषवानित्यर्थः||४||

Adhikarana 4 (5-6) · Śloka 6

तत्र व्याधयोऽपरिसङ्ख्येया भवन्ति, अतिबहुत्वात्| दोषास्तु खलु परिसङ्ख्येया भवन्ति, अनतिबहुत्वात्| तस्माद्यथाचित्रं विकारानुदाहरणार्थम्, अनवशेषेण च दोषान् व्याख्यास्यामः| रजस्तमश्च मानसौ दोषौ| तयोर्विकाराः कामक्रोधलोभमोहेर्ष्यामानमदशोकचित्तो(न्तो)द्वेगभयहर्षादयः| वातपित्तश्लेष्माणस्तु खलु शारीरा दोषाः| तेषामपि च विकारा ज्वरातीसारशोफशोषश्वासमेहकुष्ठादयः| इति दोषाः केवला व्याख्याता विकारैकदेशश्च||५|| तत्र खल्वेषां द्वयानामपि दोषाणां त्रिविधं प्रकोपणं; तद्यथा- असात्म्येन्द्रियार्थसंयोगः, प्रज्ञापराधः, परिणामश्चेति||६||

🔊 Audio coming soon

तत्रापि रोगशब्दाभिधेयतया समानेऽपि दोषे तथा विकारे च परिसङ्ख्येयापरिसङ्ख्येय(त्व)रूपा विगीतिरस्त्यथ चादोष इत्यभिप्रायेणाह- तत्रेत्यादि| एकैकस्मिन् दोषे बहवो विकारा भवन्तीत्यभिप्रायेण विकारापेक्षया दोषाणामनतिबहुत्वं ज्ञेयम्| यथाचित्रमिति यथाविन्यासं, तेन यानेव पूर्वाचार्या विकारानधिकतमत्वेनोक्तवन्तस्तानेव व्याख्यास्यामः; नतु सर्वान्, अशक्यत्वात्| किंवा, ‘यथोचितम् ’ इति पाठः| अनवशेषेण च दोषानित्यनेन दोषा अनतिबहुत्वेनानवशेषेणाप्यभिधातुं शक्यन्त इति प्रकाशयति| तत्र मानसदोषविकारयोरनल्पवक्तव्यत्वेनाग्रेऽभिधानम्||५-६||

Adhikarana 5 (7) · Śloka 7

प्रकुपितास्तु खलु ते प्रकोपणविशेषाद्दूष्यविशेषाच्च विकारविशेषानभिनिर्वर्तयन्त्यपरिसङ्ख्येयान्||७||

🔊 Audio coming soon

ननु परिमिताद्दोषरूपात् कारणात् कथमपरिमिता विकारा भवन्तीत्याह- प्रकुपितास्त्वित्यादि| हेतुविशेषदुष्टो हि स एव दोषो दूष्यान्तरगतश्च विभिन्नशक्तियोगाद्बहून् विकारान् करोतीति युक्तमेव| उक्तं च- “स एव कुपितो दोषः समुत्थानविशेषतः| स्थानान्तरगतश्चैव विकारान् कुरुते बहून्” (सू.अ.१८) इति||७||

Adhikarana 6 (8) · Śloka 8

ते च विकाराः परस्परमनुवर्तमानाः कदाचिदनुबध्नन्ति कामादयो ज्वरादयश्च||८||

🔊 Audio coming soon

विकाराणां शारीरमानसानां परस्परं संसर्गमाह- ते च विकारा इत्यादि| अनुवर्तमाना इत्यनेन यदैव ज्वरादयः कामादयो वा बलवत्त्वेन चिरकालमनुवर्तन्ते, तदैवानुबध्नन्ति प्रायः; यदा तु स्तोककालावस्थायिनो भवन्ति, न तदा प्रायोऽनुबध्नन्तीत्यर्थः| किंवा, अनुवर्तमानाः परस्परबलमभिवर्धयन्तः| अत्र च परस्परशब्देन शारीराणां शारीरेण, मानसानां मानसेन, शारीराणां मानसेन, मानसानां शारीरेण चानुबन्धो ज्ञेयः||८||

Adhikarana 7 (9) · Śloka 9

नियतस्त्वनुबन्धो रजस्तमसोः परस्परं, न ह्यरजस्कं तमः प्रवर्तते ||९||

🔊 Audio coming soon

विकारानुबन्धं दर्शयित्वा दोषानुबन्धमाह- नियतस्त्वित्यादि||९||

Adhikarana 8 (10) · Śloka 10

(प्रायः) शारीरदोषाणामेकाधिष्ठानीयानां सन्निपातः संसर्गो वा समानगुणत्वात्; दोषा हि दूषणैः समानाः||१०||

🔊 Audio coming soon

शारीरदोषानुबन्धमाह- शारीरेत्यादि| एकाधिष्ठानीयानामित्यनेनैकशरीराधिष्ठानप्रत्यासत्त्या च संसर्गा दोषाणां भवन्तीति दर्शयति| समानगुणत्वादिति हेतुं विवृणोति- दोषा हीत्यादि| दूषणैरिति हेतुभिः; प्रायो हि शारीराणां वातादीनां समान एव हेतुर्भवति; यथा- ह्यम्लं लवणं कटु च पित्तकरं ; तत्राम्लं सकफं पित्तं करोति, लवणं च सपित्तं कफं करोति, कटु तु सवातं पित्तं करोति| तथा वसन्तः श्लेष्मकारकोऽप्यादानत्वेन वातपित्ते च करोति, तथा वर्षास्वपि पित्तं चीयमानं शरदि प्रकुप्य कफानुगतमेव कुप्यति, तथा ग्रीष्मो वातचयं रूक्षत्वेन कुर्वन् उष्णत्वेन मनाक् पित्तचयमपि करोतीत्यनुसरणीयम्||१०||

Adhikarana 9 (11) · Śloka 11

तत्रानुबन्ध्यानुबन्धकृतो विशेषः- स्वतन्त्रो व्यक्तलिङ्गो यथोक्तसमुत्थानप्रशमो भवत्यनुबन्ध्यः, तद्विपरीतलक्षणस्त्वनुबन्धः| अनुबन्ध्यलक्षणसमन्वितास्तत्र यदि दोषा भवन्ति तत्त्रिकं सन्निपातमाचक्षते, द्वयं वा संसर्गम्| अनुबन्ध्यानुबन्धविशेषकृतस्तु बहुविधो दोषभेदः| एवमेष सञ्ज्ञाप्रकृतो भिषजां दोषेषु व्याधिषु च नानाप्रकृतिविशेषव्यूहः ||११||

🔊 Audio coming soon

एनमेव दोषानुबन्धमनुबन्ध्यानुबन्धभेदेन दर्शयितुमनुबन्ध्यानुबन्धलक्षणमेवाह- तत्रेत्यादि| अनुबन्ध्यस्य अनुबन्धस्य च विशेषोऽनुबन्ध्यानुबन्धविशेषः ‘स्वतन्त्र’ इत्यादिग्रन्थलक्षणीयः| स्वतन्त्र इत्यस्यैव विवरणं- व्यक्तलिङ्ग इत्यादि| यथोक्तसमुत्थानप्रशम इति स्वहेतुसमुत्थितः स्वचिकित्सयैव प्रशमनीयः| किंवा, स्वतन्त्र इत्येनापि स्वविकारकरणे प्राधान्यमुच्यते ; स्वतन्त्रो हि दोषः प्रकोपकाले विकारान् करोति, अस्वतन्त्रस्तु स्वतन्त्रप्रकोपकाल एव विकारं प्रधानदोषेरितः सन् करोति| तद्विपरीतलक्षण इति अनेनाव्यक्तलिङ्गोऽस्वहेतुप्रकुपितः परचिकित्साप्रशमनीयश्चानुबन्ध इति लभ्यते; अनुबन्धो ह्यबलवत्त्वेन न लिङ्गं व्यक्तं करोति, तथा परहेतुना किञ्चिदनुगुणेन कृतः परचिकित्सयैव किञ्चिदनुगुणया शाम्यति| यथा- शरदि श्लेष्मा पित्तहेतुना जलाद्यम्लविपाकेन जन्यते, स च पित्तचिकित्सयैव तिक्तसर्पिरादिकया कफेऽप्यनुगुणया शाम्यति| द्वयं वाऽनुबन्ध्यलक्षणं प्राप्तं संसर्गमाचक्षत इति योजना| अनुबन्ध्यशब्दश्चायं व्यक्तलिङ्गतादिधर्मयुक्ते दोषे वर्तते| तेनाप्रधानानुगमनीये सन्निपाते अनुबन्धाभावेऽप्यनुबन्ध इति व्यपदेशो भवत्येव अनुबन्ध्यानुबन्धरूपसंसर्गविशेषेण कृतः| सञ्ज्ञाप्रकृत इति अनुबन्ध्यानुबन्धसन्निपातसंसर्गज्वरातिसारादिसञ्ज्ञाकृत इत्यर्थः| नानाप्रकृतिविशेषव्यूह इति यथोक्तनानाकारणविशेषकृतो ज्वरातिसारादिरूपो व्यधीनां दोषाणां च समूह इत्यर्थः| भिषजामितिपदेन च वैद्यानामेवेयं समयसिद्धाऽनुबन्ध्यादिसञ्ज्ञेति दर्शयति||११||

Adhikarana 10 (12) · Śloka 12

अग्निषु तु शारीरेषु चतुर्विधो विशेषो बलभेदेन भवति| तद्यथा- तीक्ष्णो, मन्दः, समो, विषमश्चेति| तत्र तीक्ष्णोऽग्निः सर्वापचारसहः, तद्विपरीतलक्षणस्तु मन्दः, समस्तु खल्वपचारतो विकृतिमापद्यतेऽनपचारतस्तु प्रकृताववतिष्ठते, समलक्षणविपरीतलक्षणस्तु विषम इति| एते चतुर्विधा भवन्त्यग्नयश्चतुर्विधानामेव पुरुषाणाम्| तत्र समवातपित्तश्लेष्मणां प्रकृतिस्थानां समा भवन्त्यग्नयः, वातलानां तु वाताभिभूतेऽग्न्यधिष्ठाने विषमा भवन्त्यग्नयः, पित्तलानां तु पित्ताभिभूते ह्यग्न्यधिष्ठाने तीक्ष्णा भवन्त्यग्नयः, श्लेष्मलानां तु श्लेष्माभिभूतेऽग्न्यधिष्ठाने मन्दा भवन्त्यग्नयः||१२||

🔊 Audio coming soon

दोषभेदविकारभेदमभिधाय शरीरस्थितेः प्रधानकारणस्याग्नेर्भेदमाह- अग्निष्वित्यादि| शारीरेष्विति सामान्यवचनेन सर्वशरीरगतानग्नीन् ग्राहयति, विवरणे तु जठराग्नेरेव ‘तीक्ष्णोऽग्निः सर्वापचारसहः’ इत्यादिना यच्चातुर्विध्यमुक्तं, तज्जठराग्नितीक्ष्णतादिमूलकमेव त्वगग्न्यादितीक्ष्णत्वादिकमिति ज्ञापयति| वचनं हि- “तन्मूलास्ते हि तद्वृद्धिक्षयवृद्धिक्षयात्मकाः” (चि.अ.१५) इति| यद्यपि समोऽग्निः शस्तत्वेनाग्रेऽभिधातुं युज्यते, तथाऽपि समतश्च तीक्ष्णस्यैव प्राधान्योपदर्शनार्थमिहाग्रेऽभिधानं; समस्य हि प्राधान्यं निर्विकारत्वेनैव सुस्थितं, तीक्ष्णस्य तु सर्वापचारसहत्वेन प्राधान्यम्| तद्विपरीतलक्षण इति स्वल्पापचारमपि यो न सहते, स मन्द इत्यर्थः| समलक्षणविपरीतलक्षण इति कदाचिद्विषमोऽपचारादपि न विक्रियते, कदाचिद्विक्रियते| समवातपित्तश्लेष्मणामित्युक्तेऽपि प्रकृतिस्थानामिति पदं वृद्धानां समवातपित्तश्लेष्मणां प्रतिषेधार्थम्| प्रकृतिशब्दस्य कारणाद्यनेकार्थताव्युदासार्थं समवातपित्तश्लेष्मणामिति कृतम्| वाताभिभूतेऽग्न्यधिष्ठाने इति वचनेन वातलानामपि यदैवाग्न्यधिष्ठानोपघातो वातेन क्रियते, तदैव वैषम्यं भवति| एवं पित्ताभिभूत इत्यादावपि व्याख्येयम्||१२||

Adhikarana 11 (13) · Śloka 13

तत्र केचिदाहुः- न समवातपित्तश्लेष्माणो जन्तवः सन्ति, विषमाहारोपयोगित्वान्मनुष्याणां; तस्माच्च वातप्रकृतयः केचित्, केचित् पित्तप्रकृतयः, केचित् पुनः श्लेष्मप्रकृतयो भवन्तीति| तच्चानुपपन्नं, कस्मात् कारणात्? समवातपित्तश्लेष्माणं ह्यरोगमिच्छन्ति भिषजः, यतः प्रकृतिश्चारोग्यम्, आरोग्यार्था च भेषजप्रवृत्तिः, सा चेष्टरूपा, तस्मात् सन्ति समवातपित्तश्लेष्माणः; न खलु सन्ति वातप्रकृतयः पित्तप्रकृतयः श्लेष्मप्रकृतयो वा| तस्य तस्य किल दोषस्याधिक्यात् सा सा दोषप्रकृतिरुच्यते मनुष्याणां, न च विकृतेषु दोषेषु प्रकृतिस्थत्वमुपपद्यते, तस्मान्नैताः प्रकृतयः सन्ति; सन्ति तु खलु वातलाः पित्तलाः श्लेष्मलाश्च, अप्रकृतिस्थास्तु ते ज्ञेयाः||१३||

🔊 Audio coming soon

विषमाहारोपयोगित्वादिति नायं पुरुषस्तुलाधारधृतमिवाहारमुपयुङ्क्ते, तेनावश्यमत्र वातादिष्वन्यतमोऽपि दोषो विकृतो भवतीति भावः| समवातपित्तश्लेष्माणमित्यादिना अस्ति तावदारोग्यं पुरुषेषु वैद्यव्यवहारसिद्धमिति दर्शयति| तेन, यादृगिदं दोषाणां कलाकाष्ठादिवैषम्यं परित्यज्याविर्भूतविकाराकारित्वेनादूरान्तरं साम्यमिष्यते, तादृगेव प्रकृतावपि साम्यमस्त्येवेति भावः| अन्ये तु वैषम्यं नाद्रियन्त एव, व्यपदेश्यरोगाजनकत्वात्| दोषप्रकृतिरिति दुष्टदोषभाविता प्रकृतिरित्यर्थः||१३||

Adhikarana 12 (14) · Śloka 14

तेषां तु खलु चतुर्विधानां पुरुषाणां चत्वार्यनुप्रणिधानानि श्रेयस्कराणि भवन्ति| तत्र समसर्वधातूनां सर्वाकारसमम्, अधिकदोषाणां तु त्रयाणां यथास्वं दोषाधिक्यमभिसमीक्ष्य दोषप्रतिकूलयोगीनि त्रीण्यनु(न्न)प्रणिधानानि श्रेयस्कराणि भवन्ति यावदग्नेः समीभावात्, समे तु सममेव कार्यम्; एवं चेष्टा भेषजप्रयोगाश्चापरे| तान् विस्तरेणानुव्याख्यास्यामः||१४||

🔊 Audio coming soon

दोषे प्रवृद्धे प्रतिकूलतया योगीनि दोषप्रतिकूलयोगीनि| त्रीणि वातपित्तश्लेष्मप्रतिकूलानि| समे त्विति समतां गते वह्नौ, यथोचितविधानेन (वातप्रकृत्यादीनां ) सममेवानुप्रणिधानं कर्तव्यम्| एवमित्यनेन प्रकारेण चेष्टाभेषजयोरपि प्रयोगा वातादीनां भवन्ति; ये तु, एवमित्यनेन चतुर्विधेनोक्तेन प्रकारेणेति वदन्ति, ते समप्रकृतीनां च समव्यायामादिचेष्टा भेषजं च ऋतुचर्याविधेयं वमनादिकारकं सूच्यतेऽनेनेति व्याख्यानयन्ति||१४||

Adhikarana 13 (15-16) · Śloka 16

त्रयस्तु पुरुषा भवन्त्यातुराः, ते त्वनातुरास्तन्त्रान्तरीयाणां भिषजाम्| तद्यथा- वातलः, पित्तलः, श्लेष्मलश्चेति| तेषामिदं विशेषविज्ञानं- वातलस्य वातनिमित्ताः, पित्तलस्य पित्तनिमित्ताः, श्लेष्मलस्य श्लेष्मनिमित्ता व्याधयः प्रायेण बलवन्तश्च भवन्ति||१५|| तत्र वातलस्य वातप्रकोपणान्यासेवमानस्य क्षिप्रं वातः प्रकोपमापद्यते, न तथेतरौ दोषौ; स तस्य प्रकोपमापन्नो यथोक्तैर्विकारैः शरीरमुपतपति बलवर्णसुखायुषामुपघाताय| तस्यावजयनं- स्नेहस्वेदौ विधियुक्तौ, मृदूनि च संशोधनानि स्नेहोष्णमधुराम्ललवणयुक्तानि, तद्वदभ्यवहार्याणि, अभ्यङ्गोपनाहनोद्वेष्टनोन्मर्दनपरिषेकावगाहनसंवाहनावपीडनवित्रासनविस्मापनविस्मारणानि, सुरासवविधानं, स्नेहाश्चानेकयोनयो दीपनीयपाचनीयवातहरविरेचनीयोपहितास्तथा शतपाकाः सहस्रपाकाः सर्वशश्च प्रयोगार्थाः, बस्तयः, बस्तिनियमः सुखशीलता चेति||१६||

🔊 Audio coming soon

न तथेतरौ दोषाविति सत्याऽपि हेतुसेवयेत्यर्थः; अन्यथा वातप्रकोपणसेवया पित्तश्लेष्मणोर्वृद्धिरेव नास्ति| वित्रासनादयो यद्यपि वातकारकास्तथाऽपि वातजनितोन्मादविनाशकत्वेन चोक्ता इति ज्ञेयम्| उन्मादे हि वित्रासनादि भेषजमभिधायोक्तं- “तेन याति शमं तस्य सर्वतो विप्लुतं मनः” (चि.अ.९) इति| सर्वशः प्रयोगार्था इति पानाभ्यङ्गबस्त्यादिभिः प्रयोजनीया इत्यर्थः| बस्तिनियम इति बस्तौ यथोक्तनियमसेवेत्यर्थः; किंवा बस्तिनियमशब्देन सिद्धौ वक्ष्यमाणकर्म-काल-योगरूपं बस्तिसङ्ख्यानियमं कर्तव्यतया दर्शयति| वक्ष्यति हि- “त्रिंशन्मताः कर्मसु बस्तियोगाः कालस्ततोऽर्धेन ततश्च योगः” (सि.अ.१) इति| सुखशीलता सततसुखसेवित्वम्||१५-१६||

Adhikarana 14 (17) · Śloka 17

पित्तलस्यापि पित्तप्रकोपणान्यासेवमानस्य क्षिप्रं पित्तं प्रकोपमापद्यते, न तथेतरौ दोषौ; तदस्य प्रकोपमापन्नं यथोक्तैर्विकारैः शरीरमुपतपति बलवर्णसुखायुषामुपघाताय| तस्यावजयनं- सर्पिष्पानं, सर्पिषा च स्नेहनम्, अधश्च दोषहरणं, मधुरतिक्तकषायशीतानां चौषधाभ्यवहार्याणामुपयोगः, मृदुमधुरसुरभिशीतहृद्यानां गन्धानां चोपसेवा, मुक्तामणिहारावलीनां च परमशिशिरवारिसंस्थितानां धारणमुरसा, क्षणे क्षणेऽग्र्यचन्दनप्रियङ्गुकालीयमृणालशीतवातवारिभिरुत्पलकुमुदकोकनदसौगन्धिकपद्मानुगतैश्च वारिभिरभिप्रोक्षणं, श्रुतिसुखमृदुमधुरमनोऽनुगानां च गीतवादित्राणां श्रवणं, श्रवणं चाभ्युदयानां, सुहृद्भिः संयोगः, संयोगश्चेष्टाभिः स्त्रीभिः शीतोपहितांशुकस्रग्धारिणीभिः, निशाकरांशुशीतलप्रवातहर्म्यवासः, शैलान्तरपुलिनशिशिरसदनवसनव्यजनपवनसेवनं, रम्याणां चोपवनानां सुखशिशिरसुरभिमारुतोपहितानामुपसेवनं, सेवनं च पद्मोत्पलनलिनकुमुदसौगन्धिकपुण्डरीकशतपत्रहस्तानां , सौम्यानां च सर्वभावानामिति||१७||

🔊 Audio coming soon

यथोक्तैरिति महारोगाध्यायोक्तैः| अधश्च दोषहरणमिति विरेचनादित्यर्थः| अग्र्यचन्दनं धवलचन्दम्| हस्तानामिति कलापानाम्||१७||

Adhikarana 15 (18) · Śloka 18

श्लेष्मलस्यापि श्लेष्मप्रकोपणान्यासेवमानस्य क्षिप्रं श्लेष्मा प्रकोपमापद्यते, न तथेतरौ दोषौ; स तस्य प्रकोपमापन्नो यथोक्तैर्विकारैः शरीरमुपतपति बलवर्णसुखायुषामुपघाताय| तस्यावजयनं- विधियुक्तानि तीक्ष्णोष्णानि संशोधनानि, रूक्षप्रायाणि चाभ्यवहार्याणि कटुकतिक्तकषायोपहितानि, तथैव धावनलङ्घनप्लवनपरिसरणजागरणनियुद्धव्यवायव्यायामोन्मर्दनस्नानोत्सादनानि, विशेषतस्तीक्ष्णानां दीर्घकालस्थितानां च मद्यानामुपयोगः, सधूमपानः सर्वशश्चोपवासः, तथोष्णं वासः, सुखप्रतिषेधश्च सुखार्थमेवेति||१८||

🔊 Audio coming soon

श्लेष्मविजयार्थं रूक्षस्यैव हितत्वेन रूक्षाणीति वक्तव्ये यद्रूक्षप्रायाणीति करोति, तेनात्यर्थरूक्षान्नस्य वातानुगुणत्वेन तथा धात्वपोषकत्वेन चासेव्यत्वं दर्शयति; उक्तं हि रसविमाने- “स्निग्धमश्नीयात्; स्निग्धं हि भुक्तं स्वदते, भुक्तमौदर्यमग्निमुदीरयति” (वि.अ.१) इत्यादि| लङ्घनम् उत्प्लुत्य गमनं, परिसरणं कुण्डलरूपभ्रमणम्| सर्वशश्चोपवास इति सर्वलङ्घनानि| यदुक्तं- “चतुष्प्रकारा संशुद्धिः पिपासा मारुतातपौ| पाचनान्युपवासश्च व्यायामश्चेति लङ्घनम्” (सू.अ.२२) इति| उपवासशब्दो ह्यत्र लङ्घने वर्तते| सुखार्थमिति आयतिसुखार्थं; सुखप्रतिषेधाद्धि श्लेष्मक्षये भूते श्लेष्मविकाराभावलक्षणं सुखं भवति||१८||

Adhikarana 16 (19) · Śloka 19

भवति चात्र- सर्वरोगविशेषज्ञः सर्वकार्यविशेषवित्| सर्वभेषजतत्त्वज्ञो राज्ञः प्राणपतिर्भवेदिति||१९||

🔊 Audio coming soon

यथोक्ताध्यायज्ञानादेव सर्वरोगाभिज्ञं स्तौति- सर्वेत्यादिना| प्राणान् पाति रक्षतीति प्राणपतिः||१९||

Adhikarana 17 (20-22) · Śloka 22

तत्र श्लोकाः- प्रकृत्यन्तरभेदेन रोगानीकविकल्पनम्| परस्पराविरोधश्च सामान्यं रोगदोषयोः||२०|| दोषसङ्ख्या विकाराणामेकदेशः प्रकोपणम्| जरणं प्रति चिन्ता च कायाग्नेर्धुक्षणानि च||२१|| नराणां वातलादीनां प्रकृतिस्थापनानि च| रोगानीके विमानेऽस्मिन् व्याहृतानि महर्षिणा||२२||

🔊 Audio coming soon

सङ्ग्रहे जरयतीति जरणो वह्निः, तं प्रति चिन्ता ‘अग्निषु’ इत्यादिना कृता| प्रकृतिस्थापनानीति भेषजानि||२०-२२||

Adhikarana puShpikA · Śloka 6

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने रोगानीकविमानं नाम षष्ठोऽध्यायः||६||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां विमानस्थाने रोगानीकविमानं नाम षष्ठोऽध्यायः||६||