Adhikarana vAtadUShita-pittadUShita-kaphadUShita-dvandvaduShTa-tridoShaduShTastanyapAnajanyabAlarogalakShaNam (1-3) · Śloka 4
अथ बालरोगनिदानम् |
वातदुष्टं शिशुः स्तन्यं पिबन् वातगदातुरः |
क्षामस्वरः कृशाङ्गः स्याद्बद्धविण्मूत्रमारुतः ||१||
स्विन्नो भिन्नमलो बालः कामलापित्तरोगवान् |
तृष्णालुरुष्णसर्वाङ्गः पित्तदुष्टं पयः पिबन् ||२||
कफदुष्टं पिबन् क्षीरं लालालुः श्लेष्मरोगवान् |
निद्रान्वितो जडः शूनवक्त्राक्षश्छर्दनः शिशुः ||३||
द्वन्द्वजे द्वन्द्वजं रूपं सर्वजे सर्वलक्षणम् |४|
बालरोगाणां दुष्टस्तन्येन सम्भवात्तदनन्तरं तानाह– वातदुष्टमित्यादि| वातगदातुर इति वक्ष्यमाणक्षामस्वरादियुक्तः| तृष्णालुरिति तृष्णावान्| लालालुरिति लालास्रावयुक्तः| छर्दन इति स्तन्यवान्तिकरः||१-३||–
Adhikarana shishorvaktumakShamasyAntargatavedanAj~jAnopAyAH (4-7) · Śloka 7
शिशोस्तीव्रामतीव्रां च रोदनाल्लक्षयेद्रुजम् ||४||
स यं स्पृशेद्भृशं देशं यत्र च स्पर्शनाक्षमः |
तत्र विद्याद्रुजं मूर्ध्नि रुजं चाक्षिनिमीलनात् ||५||
हृदि जिह्वौष्ठदशनश्वासमुष्टिनिपीडनैः |
कोष्ठे विबन्धवमथुस्तनदंशान्त्रकूजनैः |
आध्मानपृष्ठनमनजठरोन्नमनैरपि ||६||
बस्तौ गुह्ये च विण्मूत्रसङ्गत्रासदिगीक्षणैः |
स्रोतांस्यङ्गानि सन्धींश्च पश्येद्यत्नान्मुहुर्मुहुः ||७||
शिशोर्वक्तुमक्षमस्यान्तर्गतवेदनाज्ञानोपायमाह– शिशोरित्यादि| तीव्रां रुजं बहुरोदनात्, अतीव्रामल्परोदनात् लक्षयेत्||४-७||
Adhikarana kukUNakalakShaNam (8-9) · Śloka 9
कुकूणकः क्षीरदोषाच्छिशूनामेव वर्त्मनि |
जायते तेन तन्नेत्रं कण्डूरं च स्रवेन्मुहुः ||८||
शिशुः कुर्याल्ललाटाक्षिकूटनासावघर्षणम् |
शक्तो नार्कप्रभां द्रष्टुं न वर्त्मोन्मीलनक्षमः ||९||
बालानामेव दुष्टस्तन्यपानाद्वर्त्मरोगमाह– कुकूणक इत्यादि| कुकूणकः ‘कोथ’ इति ख्यातः| स्रवेन्मुहुरिति पिच्चिटस्रुतियुक्तं भवतीत्यर्थः| न वर्त्मोन्मीलनक्षम इति न वर्त्मचालनपटुः||८-९||
Adhikarana pArigarbhikalakShaNam (10-11) · Śloka 11
मातुः कुमारो गर्भिण्याः स्तन्यं प्रायः पिबन्नपि |
कासाग्निसादवमथुतन्द्राकार्श्यारुचिभ्रमैः ||१०||
युज्यते कोष्ठवृद्ध्या च तमाहुः पारिगर्भिकम् |
रोगं परिभवाख्यं च युञ्ज्यात्तत्राग्निदीपनम् ||११||
पारिगर्भिकमाह– मातुरित्यादि| पिबन्नपीति अपिशब्दादपिबन्नपि| तमाहुः पारिगर्भिकमिति पारिगर्भिकोऽहिण्डीति ख्यातः; तस्यैव परिभवाख्य इति नामान्तरं, बालं परिभवतीति परिभवः, स एव आख्या यस्य तम्| उपशयेनापि तज्ज्ञानमाह– युञ्ज्यादित्यादि||१०-११||
Adhikarana tAlukaNTakalakShaNam (12-13) · Śloka 13
तालुमांसे कफः क्रुद्धः कुरुते तालुकण्टकम् |
तेन तालुप्रदेशस्य निम्नता मूर्ध्नि जायते ||१२||
तालुपातः स्तनद्वेषः कृच्छ्रात् पानं शकृद्द्रवम् |
तृडक्षिकण्ठास्यरुजा ग्रीवादुर्धरता वमिः ||१३||
तालुकण्टकमाह– तालुमांस इत्यादि| अस्यैव लक्षणं तालुपात इत्यादि| तालुपात इत्यभ्यन्तरे तालुनोऽधःपातः| कृच्छ्रात् पानमित्यत्र ‘स्तन्यस्य’ इति शेषः| शकृद्द्रवं भिन्नपुरीषता| ग्रीवादुर्धरता ग्रीवाया दुःखेन धारणम्| वमिः स्तन्यस्य वान्तिः||१२-१३||
Adhikarana mahApadmanAmno visarpasya lakShaNam (14) · Śloka 15
विसर्पस्तु शिशोः प्राणनाशनो बस्तिशीर्षजः |
पद्मवर्णो महापद्मनामा दोषत्रयोद्भवः ||१४||
शङ्खाभ्यां हृदयं याति हृदयाद्वा गुदं व्रजेत् |१५|
महापद्मनामानं विसर्पमाह– विसर्पस्त्वित्यादि| बस्तिशीर्षज इति बस्तिजः शीर्षजश्च, शीर्षं शिरः| पद्मवर्ण इति लोहितपद्मवर्णः| शङ्खाभ्यां हृदयं यातीति शीर्षजः| पद्मपत्रतुल्यवर्णतां मुखतालुनि बहिर्देशे वेति वदन्ति| हृदयाद्गुदं यातीति बस्तिजः; ऊर्ध्वं हृदयं गत्वा गुदं यातीत्यर्थः| अत्र पद्मसवर्णता बस्तिदेशे गुदे च| वाशब्दश्चात्र व्यवस्थितविकल्पवचनः||१४||–
Adhikarana bAlaroge katicit kShudrarogANAM kathanam (15) · Śloka 15
क्षुद्ररोगे च कथिते त्वजगल्ल्यहिपूतने ||१५||
अन्यौ द्वौ विकारौ बालानां भवतस्तावाह– क्षुद्रेत्यादि| ‘स्निग्धाः सवर्णाः’ इत्यादिनाऽजगल्लिका, ‘कण्डूयनात्’ इत्यादिनाऽहिपूतना||१५||
Adhikarana bAlaroge kAyacikitsoktajvarAdirogANAM nirdeshaH (16) · Śloka 16
ज्वराद्या व्याधयः सर्वे महतां ये पुरेरिताः |
बालदेहेऽपि ते तद्वद्विज्ञेयाः कुशलैः सदा ||१६||
अन्येऽपि विकारा बालानां सम्भवन्तीत्यतिदेशेन तानाह– ज्वराद्या इत्यादि| पुरेरिता इति पूर्वोक्ताः| ते तद्वदिति ते ज्वरादयस्तादृशा ज्ञेयाः| कुशलैरिति विज्ञैः||१६||
Adhikarana grahajuShTAnAM sAmAnyalakShaNam (17-19) · Śloka 20
क्षणादुद्विजते बालः क्षणात्त्रस्यति रोदिति |
नखैर्दन्तैर्दारयति धात्रीमात्मानमेव वा ||१७||
ऊर्ध्वं निरीक्षते दन्तान् खादेत् कूजति जृम्भते |
भ्रुवौ क्षिपति दन्तौष्ठं फेनं वमति चासकृत् ||१८||
क्षामोऽति निशि जागर्ति शूनाक्षो भिन्नविट्स्वरः |
मांसशोणितगन्धिश्च न चाश्नाति यथा पुरा ||१९||
सामान्यं ग्रहजुष्टानां लक्षणं समुदाहृतम् |२०|
प्रायेण शौचभ्रंशादिना स्कन्दग्रहादयो नव बालेष्वावेशं कुर्वन्त्यतस्तत्परिज्ञानाय सामान्यलक्षणमाह– क्षणादुद्विजते बाल इत्यादि| एते ग्रहाः पूजार्थं बालान् हिंसन्ति| यदुक्तं सुश्रुते– “धात्रीमात्रोः प्राक् प्रदिष्टापचाराच्छौचभ्रष्टान् मङ्गलाचारहीनान्| त्रस्तान् हृष्टांस्तर्जितान् क्रन्दितान् वा पूजाहेतोर्हिंस्युरेते कुमारान्||” (सु. उ. तं. अ. २७) इति| उद्विजत इत्युद्विग्नो भवति; उद्विग्नो विह्वलः, न तु बिभेतीत्यर्थः, त्रस्यतीत्यनेन पौनरुक्त्यप्रसङ्गात्| कूजत्यार्तनादं करोति| भ्रुवौ क्षिपतीति भ्रूभङ्गं रचयति| दन्तौष्ठमित्यत्र क्षिपतीति सम्बध्यते| क्षिपति खादति, धातूनामनेकार्थत्वात्| भिन्नविट्स्वर इति भिन्नविट् भिन्नशकृत्, भिन्नस्वरः स्वरभेदवान्| मांसशोणितगन्धिरिति विस्रगन्धिः| न चाश्नाति यथा पुरेति पूर्ववन्न भक्षयतीत्यर्थः||१७-१९||–
Adhikarana skandagrahagRuhItalakShaNam (20-21) · Śloka 22
एकनेत्रस्य गात्रस्य स्रावः स्पन्दनकम्पनम् ||२०||
ऊर्ध्वं दृष्ट्या निरीक्षेत वक्रास्यो रक्तगन्धिकः |
दन्तान् खादति वित्रस्तः स्तन्यं नैवाभिनन्दति ||२१||
स्कन्दग्रहगृहीतानां रोदनं चाल्पमेव च |२२|
सामान्यलिङ्गमभिधाय विशेषग्रहलिङ्गमाह– एकनेत्रस्येत्यादि| एकनेत्रस्य वामस्य दक्षिणस्य वा स्रावोऽश्रुस्रुतिः प्रभावात्; गात्रस्य स्रावो घर्मयुक्तगात्रतेत्यर्थः| स्पन्दनकम्पनमिति स्पन्दनं मनाक् चलनं, कम्पनं महता वेगेन वेपनं; स्पन्दनं कम्पनं वा भवतीत्यर्थः| वक्रास्यो वक्रमुखः| रक्तगन्धिक इत्येतत् सामान्यलक्षणलब्धमप्यतिशयार्थमुक्तम्; एवमन्यत्रापि सामान्यलक्षणे पुनरुक्ते व्याख्येयम्||२०-२१||–
Adhikarana skandApasmAralakShaNam (22) · Śloka 22
नष्टसञ्ज्ञो वमेत् फेनं सञ्ज्ञावानतिरोदिति |
पूयशोणितगन्धित्वं स्कन्दापस्मारलक्षणम् ||२२||
स्कन्दापस्मारलक्षणमाह– नष्टेत्यादि| नष्टसञ्ज्ञो मूर्छितः सन् फेनं वमति, तथा सञ्ज्ञावान् सन्नतिरोदिति||२२||
Adhikarana shakunigrahagRuhItalakShaNam (23) · Śloka 23
स्रस्ताङ्गो भयचकितो विहङ्गगन्धिः सास्रावव्रणपरिपीडितः समन्तात् |
स्फोटैश्च प्रचिततनुः सदाहपाकैर्विज्ञेयो भवति शिशुः क्षतः शकुन्या ||२३||
(सु. उ. तं. अ. २७) |
शकुनीलक्षणमाह– स्रस्ताङ्ग इत्यादि| स्रस्ताङ्ग इति अङ्गस्रंसवद्व्यथावान्| भयचकित इति भयहेतुर्भयं भयानकमुच्यते, ततश्चकितः; असति भयहेतौ त्रस्यतीत्यर्थः| विहङ्गगन्धिरिति विहङ्गस्येव गन्धो यस्य स तथा, ‘उपमानाच्च’ इति समासान्त ‘इ’ प्रत्ययः| विहङ्गशब्देन जलचरा मांसादाश्च पक्षिणो गृह्यन्ते, विस्रगन्धित्वात्| हिरण्याक्षेऽप्युक्तम्– “संस्रावदाहपाकाद्यैश्चितः स्फोटैर्भयान्वितः| स्रस्ताङ्गो विस्रगन्धिः स्याच्छकुन्या पीडितः शिशुः||” इति| सास्रावव्रणपरिपीडित इति स्फोटैरेव विदीर्णैर्व्रणरूपमापन्नैः परिपीडितः| स्फोटैश्च प्रचिततनुरिति नवनवैः स्फोटैर्व्याप्ततनुः| क्षत इत्यभिभूतः||२३||
Adhikarana revatI-pUtanA-andhapUtanA-shItapUtanA-mukhamaNDikA-naigameyagrahagRuhItalakShaNam (24-30) · Śloka 30
व्रणैः स्फोटैश्चितं गात्रं पङ्कगन्धं स्रवेदसृक् |
भिन्नवर्चा ज्वरी दाही रेवतीग्रहलक्षणम् ||२४||
अतीसारो ज्वरस्तृष्णा तिर्यक्प्रेक्षणरोदनम् |
नष्टनिद्रस्तथोद्विग्नो ग्रस्तः पूतनया शिशुः ||२५||
छर्दिः कासो ज्वरस्तृष्णा वसागन्धोऽतिरोदनम् |
स्तन्यद्वेषोऽतिसारश्च अन्धपूतनया भवेत् ||२६||
वेपते कासते क्षीणो नेत्ररोगो विगन्धिता |
छर्द्यतीसारयुक्तश्च शीतपूतनया शिशुः ||२७||
प्रसन्नवर्णवदनः सिराभिरभिसंवृतः |
मूत्रगन्धी च बह्वाशी मुखमण्डिकया भवेत् ||२८||
छर्दिस्प(स्य)न्दनकण्ठास्यशोषमूर्छाविगन्धिताः |
ऊर्ध्वं पश्येद्दशेद्दन्तान् नैगमेयग्रहं वदेत् ||२९||
प्रस्तब्धाक्षः स्तनद्वेषी मुह्यते चानिशं मुहुः |
तं बालमचिराद्धन्ति ग्रहः सम्पूर्णलक्षणः |
विपरीततमं साध्यं चिकित्सेदचिरार्दितम् ||३०||
रेवतीग्रहलक्षणमाह– व्रणैरित्यादि| व्रणैः पुराणैः, स्फोटैरविदीर्णैर्नूतनैः, चितं व्याप्तम्| गात्रमिति कर्तृपदं, पङ्कगन्धं शटितकर्दमगन्धं, समासविधेरनित्यत्वादिप्रत्ययो न भवति| पूतनालक्षणमाह– अतीसार इत्यादि| ग्रस्त इति गृहीत इत्यर्थः||२४-३०||
Adhikarana puShpikA · Śloka 68
इति श्रीमाधवकरविरचिते माधवनिदाने बालरोगनिदानं समाप्तम् ||६८||
इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां बालरोगनिदानं समाप्तम्||६८||