Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

69. viṣarōganidānam

Adhikarana viShasya sthAvaraja~ggamabhedena dvaividhyam (1) · Śloka 1

अथ विषरोगनिदानम् | स्थावरं जङ्गमं चैव द्विविधं विषमुच्यते | मूलाद्यात्मकमाद्यं स्यात् परं सर्पादिसम्भवम् ||१||

🔊 Audio coming soon

पारिशेष्याद्विषरोगनिदानमुच्यते– स्थावरमित्यादि| विषादजनकत्वाद्विषं; तच्च द्विविधम्– स्थावरं, जङ्गमं च| मूलाद्यात्मकमिति आद्यं स्थावरं मूलादिरूपं दशविधं; यदुक्तं सुश्रुते “मूलं पत्रं फलं पुष्पं त्वक् क्षीरं सार एव च| निर्यासो धातवश्चैव कन्दश्च दशमः स्मृतः||” (सु. क. अ. २) इति| तत्र क्लीतकाश्वमारकगुञ्जासुगन्धगर्गरकरघाटविद्युच्छिखाऽनन्ता-विजयानीत्यष्टौ मूलविषाणि, विषपत्रिकालम्बासुरदारुकरम्भमहाकरम्भाणि पञ्च पत्रविषाणि, कुमुद्वतीवेणुकाकरम्भमहाकरम्भकर्कोटकरेणुकखद्योतक-चर्मरीभगन्धासर्पघातिनन्दनसारपाकानि द्वादश फलविषाणि, वेत्रकादम्बवल्लीजकरम्भमहाकरम्भाणि पञ्च पुष्पविषाणि, अन्त्रपाचककर्तरीयशैलेयकरम्भनन्दनकरघाटवराटकानि सप्त त्वङ्निर्याससारविषाणि, कुमुदघ्नीस्नुहीजालक्षीरीणि त्रीणि क्षीरविषाणि, फेनाश्मभस्म हरितालं च द्वे धातुविषे, कालकूटवत्सनाभसर्षपकपालकर्दमकवैराटकमुस्तकमहाविष-प्रपौण्डरीकमूलकहलाहलशृङ्गिमर्कटकानि त्रयोदश कन्दविषाणि, एतानि प्राणहराणि; एवं पञ्चपञ्चाशत् स्थावराणि विषाणि भवन्ति| एषां च व्याधपुलिन्दादिभ्यो व्यक्तिज्ञानं कर्तव्यम्| परं सर्पादिसम्भवमिति परं जङ्गमं, तच्च षोडशाभिधानम्– दृष्टिनिःश्वासदंष्ट्रानखमूत्रपुरीषशुक्रलालार्तवमुखसन्दंशपर्दितगुदास्थि-पित्तशूकशवभेदात्| पर्दितं पायुकृतः कुत्सितशब्दः; ‘पर्द’ कुत्सिते शब्दे, इत्यस्य प्रयोगात्| तत्र दृष्टिनिःश्वासविषा दिव्याः सर्पाः, भौमाः सर्पा दंष्ट्राविषाः, मार्जारमकरव्याघ्रादयो दंष्ट्रानखविषाः, पिच्चिटकौण्डिन्यादयो मूत्रपुरीषविषाः, मूषिकाः शुक्रविषाः, वृश्चिकवरट्युच्चिटिङ्गादय आराविषाः, लूता लालार्तवविण्मूत्रशुक्रमुखसन्दंशविषाः, चित्रशीर्षकशतदारुकशारिकादयो मुखसन्दंशदंष्ट्रापर्दितगुदपुरीषविषाः, विषहतास्थिमत्स्यास्थिप्रभृतयोऽस्थिविषाः, शकुलीमत्स्यादयः पित्तविषाः, सूक्ष्मतुण्डभ्रमरादयः शूकविषाः, कीटसर्पदेहा गतासवः शवविषाः| एषां च सुश्रुतस्य कल्पस्थाने विस्तरो द्रष्टव्यः||१||

Adhikarana ja~ggamaviShasya sAmAnyali~ggam (2) · Śloka 3

निद्रां तन्द्रां क्लमं दाहमपाकं लोमहर्षणम् | शोथं चैवातिसारं च जङ्गमं कुरुते विषम् ||२|| (च. चि. अ. २३) |३|

🔊 Audio coming soon

तत्र जङ्गमविषस्य बह्वधिष्ठानत्वेन प्राधान्यात् सर्ववेगानुगतं सामान्यलिङ्गमाह– निद्रामित्यादि| एतत् सुबोध्यम्||२||

Adhikarana sthAvaraviShasya sAmAnyali~ggam (3) · Śloka 4

स्थावरं च ज्वरं हिक्कां दन्तहर्षं गलग्रहम् | फेनच्छर्द्यरुचिश्वासं मूर्छां च कुरुते भृशम् ||३|| (च. चि. अ. २३) |४|

🔊 Audio coming soon

स्थावरस्य सामान्यलिङ्गमाह– स्थावरं चेत्यादि| फेनच्छर्दिरिति फेनस्य छर्दिः||३||

Adhikarana viShadAtRulakShaNam (4-7) · Śloka 7

इङ्गितज्ञो मनुष्याणां वाक्चेष्टामुखवैकृतैः | जानीयाद्विषदातारमेभिर्लिङ्गैश्च बुद्धिमान् ||४|| न ददात्युत्तरं पृष्टो विवक्षुर्मोहमेति च | अपार्थं बहु सङ्कीर्णं भाषते चापि मूढवत् ||५|| हसत्यकस्मात् स्फोटयत्यङ्गुलीर्विलिखेन्महीम् | वेपथुश्चास्य भवति त्रस्तश्चान्योन्यमीक्षते ||६|| विवर्णवक्त्रो ध्यामश्च नखैः किञ्चिच्छिनत्त्यपि | आलभेतासनं दीनं करेण व शिरोरुहम् ||७|| वर्तते विपरीतं च विषदाता विचेतनः | (सु. क. अ. १) |

🔊 Audio coming soon

विषदातृलक्षणमाह– इङ्गितज्ञ इत्यादि| अभिप्रायसूचकम् ईहितमिङ्गितं, तज्ज्ञो वैद्यो वाचा क्रियया मुखवैकृत्यादिना च विषदातारं जानीयात्| एभिर्वक्ष्यमाणलक्षणैः| न ददात्युत्तरं पृष्ट इति स्वीयासत्कर्मजनितव्यामोहात्| अपार्थमित्यनर्थकम्| सङ्कीर्णमित्यस्फुटम्| हसत्यकस्मादिति अहेतोरपि हसति| भयजवायुजनितपर्वव्यथापनोदनायाङ्गुलीः स्फोटयति| क्रियान्तरकरणसूचनाय महीं विलिखति| भीतः सन् प्रत्येकं वीक्षते| ध्याम इति दग्धसमवर्णः| किञ्चित्तृणादिकम्| वर्तते विपरीत इति वारं वारं परिवर्त्य तिष्ठति||४-७||–

Adhikarana mUlaviSha-patraviSha-phalaviSha-puShpaviSha-tvaksAraniryAsaviSha-kShIraviSha-dhAtuviShalakShaNam (8-12) · Śloka 12

उद्वेष्टनं मूलविषैः प्रलापो मोह एव च ||८|| जृम्भणं वेपनं श्वासो मोहः पत्रविषेण तु | मुष्कशोथः फलविषैर्दाहोऽन्नद्वेष एव च ||९|| भवेत् पुष्पविषैश्छर्दिराध्मानं श्वास एव च | त्वक्सारनिर्यासविषैरुपयुक्तैर्भवन्ति हि ||१०|| आस्यदौर्गन्ध्यपारुष्यशिरोरुक्कफसंस्रवाः | फेनागमः क्षीरविषैर्विड्भेदो गुरुगात्रता ||११|| हृत्पीडनं धातुविषैर्मूर्छा दाहश्च तालुनि | प्रायेण कालघातीनि विषाण्येतानि निर्दिशेत् ||१२|| (सु. क. अ. २) |

🔊 Audio coming soon

मूलादिविषाणां प्रमादादुपयुक्तानां प्रत्येकं लक्षणमाह– उद्वेष्टनमित्यादि| उद्वेष्टनं दण्डविमर्दनवद्व्यथा| मूलविषैरित्यष्टविधैरपि, एवं पत्रादीनामुक्तानां यावत्सङ्ख्याकानामेकं सामान्यलक्षणमवगन्तव्यम्| प्रायेण कालघातीनीति एतानि नव मूलादिविषाणि कालान्तरेण मारकाणि भवन्तीत्यर्थः| कन्दविषं तु त्रयोदशविधमतितीक्ष्णत्वाद्व्यवायिविकाश्यादिगुणयोगात्तदात्वेन मारकम्||८-१२||

Adhikarana viShaliptashastrahatali~ggam (13-15) · Śloka 15

सद्यःक्षतं पच्यते यस्य जन्तोः स्रवेद्रक्तं पच्यते चाप्यभीक्ष्णम् | कृष्णीभूतं क्लिन्नमत्यर्थपूति क्षतान्मांसं शीर्यते चापि यस्य ||१३|| तृष्णा मूर्छा ज्वरदाहौ च यस्य दिग्धाहतं तं पुरुषं व्यवस्येत् | लिङ्गान्येतान्येव कुर्यादमित्रैर्व्रणे विषं यस्य दत्तं प्रमादात् ||१४|| सपीतं गृहधूमाभं पुरीषं योऽतिसार्यते | फेनमुद्वमते चापि विषपीतं तमादिशेत् ||१५|| (सु. क. अ. ३) |

🔊 Audio coming soon

विषलिप्तशस्त्रहतस्य लिङ्गमाह– सद्य इत्यादि| पच्यते चाप्यभीक्ष्णमिति सद्यस्तावत् पच्यते, पश्चादपि पुनः पुनः पाकमेति||१३-१५||

Adhikarana bhogimaNDalirAjilAnAM vAtapittakaphAtmakatvam (16) · Śloka 16

वातपित्तकफात्मानो भोगिमण्डलिराजिलाः | यथाक्रमं समाख्याता द्व्यन्तरा द्वन्द्वरूपिणः ||१६||

🔊 Audio coming soon

स्थावरमभिधाय जङ्गमेष्वतितीक्ष्णत्वेन सर्पविषे वाच्ये तदाश्रयान् सर्पानाह– वातपित्तकफात्मान इत्यादि| भोगी फणी, मण्डली मण्डलवद्रथाङ्गलाङ्गलादिरूपमण्डलयुक्तः| राजिलश्चित्रदीर्घरेखावान्; एते यथाक्रमं वाताद्यात्मानो वातादिप्रकृतयः| व्यतिकरजान् सर्पान् दर्शयति– द्व्यन्तरा द्वन्द्वरूपिण इति| द्वयोरन्तरं विशेषो येषु ते तथा| यथा– फणिना मण्डलिन्यां गोनसा जाताः, मण्डलिना गोनसेन च फणिन्यां कृष्णसर्पाः, एवमन्येऽपि जातिसङ्करा ऊह्याः| ‘व्यन्तरा’ इति पाठे स एवार्थः, विशब्दस्य द्व्यर्थत्वात्; तथा ‘विभवान्महानाकाशः’ इत्यत्र व्याख्यातं, विभवादिति द्विभावात्; द्विभावश्च सर्वमूर्तद्रव्यैः संयोगः सर्वत्र उपलम्भश्चेति| द्वन्द्वरूपिण इति द्वयोः फणिमण्डलिनोर्वातपित्तप्रकृतयोर्यत् प्रकृतित्वं तन्मिलितप्रकृतित्वमेषामित्यर्थः, वातपित्तप्रकृतयोरथवा द्वयोर्यद्दोषयो रूपं तद्रूपमित्यर्थः||१६||

Adhikarana bhogiprabhRutibhiH kRutadaMsheShu vAtAdInAM li~ggam (17-18) · Śloka 18

दंशो भोगिकृतः कृष्णः सर्ववातविकारकृत् | पीतो मण्डलिजः शोथो मृदुः पित्तविकारवान् ||१७|| राजिलोत्थो भवेद्दंशः स्थिरशोथश्च पिच्छिलः | पाण्डुः स्निग्धोऽतिसान्द्रसृक् सर्वश्लेष्मविकारकृत् ||१८||

🔊 Audio coming soon

भोगिप्रभृतिकृतदंशेषु वातादीनां लिङ्गमाह– दंशो भोगिकृत इत्यादि| सर्ववातविकारकृदित्यनेनैव कृष्णत्वे सिद्धे तदुक्तिरवश्यम्भावित्वख्यापनार्थम्, एवमुत्तरत्रापि पीताद्यभिधानम्||१७-१८||

Adhikarana vishiShTadeshAdidaShTasyAsAdhyatvam (19) · Śloka 19

अश्वत्थदेवायतनश्मशानवल्मीकसन्ध्यासु चतुष्पथेषु | याम्ये च दष्टाः परिवर्जनीया ऋक्षे सिरामर्मसु ये च दष्टाः ||१९|| (सु. क. अ. ३) |

🔊 Audio coming soon

विशिष्टदेशादिदष्टस्यासाध्यत्वमाह– अश्वत्थेत्यादि| याम्ये चेति भरण्याम्| ऋक्षे नक्षत्रे| मर्मस्विति आशुघातिषु| याम्ये चेति चकारेणार्द्राश्लेषामघामूलकृत्तिकानां ग्रहणम्| यदुक्तमन्यत्र– “चैत्यायतनवल्मीकश्मशानेषु चतुष्पथे| आर्द्राश्लेषामघामूलकृत्तिकाभरणीषु च|| पञ्चम्यां सन्ध्ययोर्दंशे मर्मस्वाशुहरेषु च| दष्टाः कष्टेन जीवन्ति यदि दूतादिसम्पदः||” इति||१९||

Adhikarana darvIkaraviShasyAshughAtitvam, uShNe viShasya dviguNaprabhAvaM ca (20) · Śloka 20

दर्वीकराणां विषमाशुघाति सर्वाणि चोष्णे द्विगुणीभवन्ति |२०| (सु. क. अ. ३) |

🔊 Audio coming soon

दर्वीत्यादि| दर्वीकराणां विषमाशु हन्ति अश्वत्थादौ विशेषेण दर्वीकराणामाशुमारकं; दर्वीकराः फणिनः| सर्वाणि चोष्णे द्विगुणीभवन्तीति उष्णसंयोगे सति सर्वाणि विषाणि स्वरूपतो द्वैगुण्यं भजन्ते; “सर्वाणि चोक्तानि यथाक्रमेण” इति पाठान्तरे अयमर्थः– सर्वाणि भोगिमण्डलिराजिलविषाणि यथाक्रमेण यथोद्दिष्टक्रमेण उक्तान्यश्वत्थादिष्वाशुघातीनि| दर्वीकरविषस्य पृथगुपादानं विशेषार्थम्|२०|–

Adhikarana anyAvasthAsvapi viShasyAshughAtitvam (20) · Śloka 20

अजीर्णपित्तातपपीडितेषु बालेषु वृद्धेषु बुभुक्षितेषु ||२०|| क्षीणक्षते मेहिनि कुष्ठयुक्ते रूक्षेऽबले गर्भवतीषु चापि | (सु. क. अ. ३) |

🔊 Audio coming soon

एवमपरेष्वपि आशुघातित्वं सम्भवति, तानाह– अजीर्णेत्यादि| अजीर्णपित्तातपपीडितेष्विति अजीर्णिनि दोषत्रयप्रकोपात्, पित्तातपपीडितयो रौक्ष्यात्, बालवृद्धयोरसम्पूर्णक्षीणधातुत्वेन विषवेगासहत्वात्, बुभुक्षितेष्विति पित्तवृद्ध्या उष्णदेहत्वात्, क्षीणक्षत इति क्षतक्षीणे बहुलवातदुष्टेः, मेहिनि दोषत्रयप्रकोपात्, कुष्ठयुक्ते रक्तादिदोषात्, रूक्षे वातकोपात्, अबले क्लेशासहत्वात्, गर्भवतीषु गर्भेणोत्क्षिप्तदोषत्वात्; एषु विषमाशुघातीति||२०||–

Adhikarana anyAvasthAsu viShasyAsAdhyatvam (21-24) · Śloka 24

शस्त्रक्षते यस्य न रक्तमेति राज्यो लताभिश्च न सम्भवन्ति ||२१|| शीताभिरद्भिश्च न रोमहर्षो विषाभिभूतं परिवर्जयेत्तम् | जिह्मं मुखं यस्य च केशशातो नासावसादश्च सकण्ठभङ्गः ||२२|| कृष्णः सरक्तः श्वयथुश्च दंशे हन्वोः स्थिरत्वं च विवर्जनीयः | वर्तिर्घना यस्य निरेति वक्त्राद्रक्तं स्रवेदूर्ध्वमधश्च यस्य ||२३|| दंष्ट्रानिपाताश्चतुरश्च यस्य तं चापि वैद्यः परिवर्जयेच्च | उन्मत्तमत्यर्थमुपद्रुतं वा हीनस्वरं वाऽप्यथ वा विवर्णम् ||२४|| सारिष्टमत्यर्थमवेगिनं च ज्ञात्वा नरं कर्म न तत्र कुर्यात् | (सु. क. अ. ३) |

🔊 Audio coming soon

इदानीं सर्वथा वर्जनीयमाह– शस्त्रक्षत इत्यादि| राज्यो लताभिश्चेति राज्यो लेखाः लताभिस्ताडनान्न भवन्ति| तदुक्तमालम्बायने– “नैति रक्तं क्षताद्यस्य लताघातैर्न राजिकाः| न लोमहर्षः शीताद्भिर्वर्जयेत्तं विषार्दितम्||” इति| जिह्मं वक्रं, स्तब्धमिति कार्तिकः| केशशात इति कर्षणात् केशोत्पाटः| कण्ठभङ्गो ग्रीवाया अविधारणम्| हन्वोः स्थिरत्वं हनुद्वयस्य लग्नत्वम्| वर्तिर्घनेति लालारूपा वर्तिः| रक्तं स्रवेदूर्ध्वमधश्च यस्येति मुखनासागुदादिभ्यः शोणितस्रावः| दंष्ट्रानिपाताश्चतुरश्चेति चत्वार इति प्राप्ते चतुर इति निर्देशः आगमविधेरनित्यत्वात्, यथा– “अग्रतश्चतुरो वेदा” इत्यादि| उन्मत्तमत्यर्थमुपद्रुतमिति उन्मत्तमत्यर्थमुन्मादवन्तम्, उपद्रुतं ज्वरातिसारादिभिरत्यर्थमुपद्रुतम्| हीनस्वरं वक्तुमसमर्थम्| विवर्णं कृष्णवर्णम्| सारिष्टं नासाभङ्गादियुक्तम्| अवेगिनं गमनादिवेगरहितं, विण्मूत्रादिवेगरहितमिति कार्तिकः||२१-२४||–

Adhikarana sthAvaraja~ggamaviShANAM jIrNatvAdibhirvisheShairdUShIviShatvam (25) · Śloka 25

जीर्णं विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा ||२५|| स्वभावतो वा गुणविप्रहीनं विषं हि दूषीविषतामुपैति | (सु. क. अ. २) |

🔊 Audio coming soon

स्थावरजङ्गमविषमेव जीर्णत्वादिभिर्विशेषैर्दूषीविषसञ्ज्ञां लभते; तदाह– जीर्णमित्यादि| विषघ्नौषधिभिरिति अगदादिभिः| दावाग्निवातातपशोषितं वेति दावाग्निर्वनाग्निः| स्वभावतो वा गुणविप्रहीनमिति स्वभावादेव किमपि विषं व्यवायिविकाशिप्रभृतिषु दशसु गुणेषु मध्ये एकद्वित्र्यादिगुणहीनं यदि भवति तदा दूषीविषतामुपैति||२५||–

Adhikarana guNahInatAyAH kAryeNa darshanam (26-27) · Śloka 27

वीर्याल्पभावान्न निपातयेत्तत् कफान्वितं वर्षगणानुबन्धि ||२६|| तेनार्दितो भिन्नपुरीषवर्णो वैगन्ध्यवैरस्ययुतः पिपासी | मूर्छां भ्रमं गद्गदवाग्वमिं च विचेष्टमानोऽरतिमाप्नुयाद्वा ||२७|| (सु. क. अ. २) |

🔊 Audio coming soon

गुणहीनतामेव कार्येण दर्शयति– वीर्याल्पभावादित्यादि| न निपातयेदिति न मारयति सद्यश्चिरेण वा| कफान्वितमिति कफान्वितं सत् मन्दीभूतौष्ण्यादिगुणं न मारयति| वर्षगणानुबन्धीति अपाकाच्चिरस्थायि| तेनार्दितो भिन्नपुरीषवर्ण इति तेन दूषीविषेणार्दितः; भिन्नशब्दोऽत्र पुरीषवर्णाभ्यां प्रत्येकमभिसम्बध्यते, भिन्नवर्णो विवर्णः| वैगन्ध्यवैरस्ययुत इति विरुद्धगन्धमुखवैरस्ययुक्तः| विचेष्टमानो विरुद्धां चेष्टां कुर्वन्, अरतिमसुखं लभते||२६-२७||

Adhikarana dUShIviShasya sthAnavisheSheNa vishiShTali~ggam (28) · Śloka 28

आमाशयस्थे कफवातरोगी पक्वाशयस्थेऽनिलपित्तरोगी | भवेत् समुद्ध्वस्तशिरोरुहाङ्गो विलूनपक्षस्तु यथा विहङ्गः ||२८|| (सु. क. अ. २) |

🔊 Audio coming soon

स्थानविशेषेण विशिष्टलिङ्गमाह– आमाशयस्थ इत्यादि| कफावृतत्वेन वातकोप आमाशये, तेन कफवातरोगीत्युक्तम्| अनिलपित्तरोगीति पक्वाशये दुष्टवातसम्बन्धेन प्रत्यासन्नस्याशयस्थस्य पित्तस्य कोपः| भवेत् समुद्धस्तशिरोरुहाङ्ग इति अत्राङ्गशब्दात् परं रुहशब्दो द्रष्टव्यः; तेनायमर्थः– समुद्धस्तशिरोरुहाङ्गरुहः, शिरोरुहाः केशाः, अङ्गरुहं लोम; तदुक्तमालम्बायने– “सीदन्ति केशलोमानि तस्मिन् पक्वाशयं गते|” इत्यादि| विलूनपक्षस्तु यथा विहङ्ग इति मुण्डितपक्षशकुनिसदृशः, एतत् पक्वाशयगतस्यैव लिङ्गम्||२८||

Adhikarana rasAdidhAtugatadUShIviShalakShaNam (29) · Śloka 29

स्थितं रसादिष्वथवा यथोक्तान् करोति धातुप्रभवान् विकारान् | कोपं च शीतानिलदुर्दिनेषु यात्याशु पूर्वं शृणु तस्य रूपम् ||२९|| (सु. क. अ. २) |

🔊 Audio coming soon

तस्य रसादिधातुगतस्य लिङ्गमाह– स्थितं रसादिष्वित्यादि| यथोक्तान् करोति धातुप्रभवान् विकारानिति सुश्रुते व्याधिसमुद्देशीयाध्यायोक्तानन्नाऽश्रद्धादीन् करोति; कोपं च शीतानिलदुर्दिनेषु यातीति कफसम्बन्धात् शीतादौ काले कोपं याति| पूर्वं शृणु तस्य रूपमिति पूर्वरूपं शृण्वित्यर्थः||२९||

Adhikarana dUShIviShakopapUrvarUpaM, rUpaM ca (30-31) · Śloka 31

निद्रागुरुत्वं च विजृम्भणं च विश्लेषहर्षावथवाऽङ्गमर्दम् | ततः करोत्यन्नमदाविपाकावरोचकं मण्डलकोठजन्म ||३०|| मांसक्षयं पादकरप्रशोथं मूर्छां तथा छर्दिमथातिसारम् | दूषीविषं श्वासतृषाज्वरांश्च कुर्यात् प्रवृद्धिं जठरस्य चापि ||३१|| (सु. क. अ. २) |

🔊 Audio coming soon

तदेवाह– निद्रेत्यादि| विश्लेषहर्षाविति विश्लेषो गात्रस्य शैथिल्यं, हर्षो रोमहर्षः| एतानि वातकफजानि लिङ्गानि| तत इति पूर्वरूपादनन्तरम्| अन्नमदाविपाकाविति अन्नमदः अन्ने भुक्ते मदो हर्षः अन्नमदः; कार्तिकस्तु अन्नविक्षेपणमन्नमदमाह– अन्नमदो रसाजीर्णमिति गदाधरः; अविपाकोऽन्नस्यापाकः| पादकरप्रशोथमिति पादे करे च प्रकृष्टं शोथं करोति| “मूर्छां तथा छर्दिमथातिसारम्” इत्यस्य स्थाने “प्रलेपकं छर्दिम्” इत्यादि पाठान्तरे प्रलेपकं स्वेदप्रवृत्त्या पिच्छिलं गात्रं, ज्वरविशेषं वा||३०-३१||

Adhikarana dUShIviShasya nAnAvikArakAritvam (32) · Śloka 32

उन्मादमन्यज्जनयेत्तथाऽन्यदानाहमन्यत् क्षपयेच्च शुक्रम् | गाद्गद्यमन्यज्जनयेच्च कुष्ठं तांस्तान् विकारांश्च बहुप्रकारान् ||३२|| (सु. क. अ. २) |

🔊 Audio coming soon

तदेव नानाप्रकारं यद्यत् करोति तत्तदाह– उन्मादमन्यदित्यादि| क्षपयेच्च शुक्रमिति षाण्ढ्यं करोतीत्यर्थः| तांस्तानिति विसर्पविस्फोटकादीन्||३२||

Adhikarana pUrvarUpalakShaNe dUShIviShaniruktiH, dUShIviShasya sAdhyAsAdhyavicArashca (33-34) · Śloka 34

दूषितं देशकालान्नदिवास्वप्नैरभीक्ष्णशः | यस्मात् सन्दूषयेद्धातून् तस्माद्दूषीविषं स्मृतम् ||३३|| साध्यमात्मवतः सद्यो याप्यं संवत्सरोत्थितम् | दूषीविषमसाध्यं स्यात् क्षीणस्याहितसेविनः ||३४|| (सु. क. अ. २) |

🔊 Audio coming soon

दूषीविषस्य निरुक्तिमाह– दूषितमित्यादि| देशकालान्नदिवास्वप्नैरिति देशः प्रचुरानिलशीतवृष्टिरनूपादिः, कालः शीतानिलदुर्दिनादिः, अन्नं यवतिलकुलत्थादि, तैर्दूषितं कोपितम्| अभीक्ष्णशः पुनः पुनः| धातुदूषकत्वेन दूषीविषम्| संयोगजं विषं द्विविधम्– एकं सविषाविषसंयोगकृतं कृत्रिमसञ्ज्ञम्, अपरं निर्विषद्रव्यकृतं गरसञ्ज्ञम्| यदाह वृद्धकाश्यपः– “ संयोगजं च द्विविधं तृतीयं विषमुच्यते| गरः स्यादविषं तत्र, सविषं कृत्रिमं मतम्||” इति| अत एव रसायने चरकः– “दंष्ट्राविषे मूलविषे सगरे कृत्रिमे विषे|” इति||३३-३४||

Adhikarana garalakShaNam (35-37) · Śloka 37

सौभाग्यार्थं स्त्रियः स्वेदं रजो नानाङ्गजान् मलान् | शत्रुप्रयुक्तांश्च गरान् प्रयच्छन्त्यन्नमिश्रितान् ||३५|| तैः स्यात् पाण्डुः कृशोऽल्पाग्निर्गरश्चास्योपजायते | मर्मप्रधमनाध्मानं हस्तयोः शोथलक्षणम् ||३६|| जठरं ग्रहणीदोषो यक्ष्मा गुल्मः क्षयो ज्वरः | एवंविधस्य चान्यस्य व्याधेर्लिङ्गानि दर्शयेत् ||३७||

🔊 Audio coming soon

एतद्द्वयमपि दर्शयितुमाह– सौभाग्यार्थमित्यादि| स्त्रियः सौभाग्यार्थं शत्रुप्रयुक्ता वा सविषजन्तूनां स्वेदं, रजश्चूर्णं, नानाङ्गजान् नानागरकरान् मलान् अन्नादौ ददति| तैरिति स्वेदरजःप्रभृतिभिः| गरश्चास्येति अपाकाज्जठरावस्थितस्वेदादिरेव गरः, अत एव तस्योदरामयः; किंवा वक्ष्यमाणमर्मप्रधमनादिलक्षणो व्याधिर्गरः| मर्मप्रधमनं मर्मव्यथा| शोथलक्षणमिति शोथ एव लक्षणम्| जठरमुदरम्| अन्यस्य व्याधेर्लिङ्गानि दर्शयेदिति अन्यस्य विस्फोटादेर्लिङ्गं दर्शयति||३५-३७||

Adhikarana lUtAyA utpattirniruktishca (38) · Śloka 38

यस्माल्लूनं तृणं प्राप्ता मुनेः प्रस्वेदबिन्दवः | तस्माल्लूतास्तु भाष्यन्ते सङ्ख्यया ताश्च षोडश ||३८|| (सु. क. अ. ८) |

🔊 Audio coming soon

सम्प्रति लूतानां घोरविषत्वप्रतिपादनार्थमैतिह्यमाह– यस्माल्लूनं तृणमित्यादि| इति किल श्रुतिः– “विश्वामित्रो नरपतिः कामधेनोर्बलात्कारपरिग्रहेण मुनिसत्तमं वशिष्ठं कोपयाञ्चकार, कुपितेन तेनान्तर्ज्वलदविरलकोपानलज्वलितं कुकुलयुगलमिव बहलपाटलं लोचनद्वयं वहता भगवान् रविरवलोकितः| ततस्तस्य भ्रूकुटिभयङ्करललाटतटप्रस्यन्दी स्वेदबिन्दूत्करः प्रचण्डतरः प्रत्यासन्नलूनतृणे धेन्वर्थं सम्भृते निपतितो लूताऽभूत्|” इति| तास्तु षोडश| यदाह सुश्रुतः– “त्रिमण्डला तथा श्वेता कपिला पीतका तथा| लालामूत्रविषा रक्ता कठिना चाष्टमी स्मृता| सौवर्णिका लाजवर्णा जालिन्येकपदी तथा| कृष्णाऽग्निवक्त्रा काण्डा च मालागुण्यष्टमी मता||” (सु. क. अ. ८) इति||३८||

Adhikarana lUtAnAM sAmAnyalakShaNam (39-40) · Śloka 42

ताभिर्दष्टे दंशकोथः प्रवृत्तिः क्षतजस्य च | ज्वरो दाहोऽतिसारश्च गदाः स्युश्च त्रिदोषजाः ||३९|| पिडका विविधाकारा मण्डलानि महान्ति च | शोथा महान्तो मृदवो रक्ताः श्यावाश्चलास्तथा ||४०|| सामान्यं सर्वलूतानामेतद्दंशस्य लक्षणम् | (सु. क. अ. ८) |४२|

🔊 Audio coming soon

तासां सामान्यदंशलक्षणमाह– ताभिर्दष्ट इत्यादि| दंशकोथ इति दंशदेशे पूतिभाव इत्यर्थः| प्रवृत्तिः क्षतजस्येति रक्तस्य प्रवर्तनम्| सर्वलूतानामिति असाध्याष्टविधसौवर्णिकादिलूतानामेव सामान्यलक्षणं ज्ञेयम्| यतस्त्रिमण्डलादीनामष्टानां कृच्छ्रसाध्यत्वं, ताभिर्दष्टे शिरोदुःखमित्यादिना सामान्यलक्षणमभिधाय सौवर्णिकाद्यनन्तरमेतत् पठितवान् सुश्रुतः| माधवकरेण तु षोडशानां लूतानां सामान्यलक्षणमेतदित्यभिप्रायेण पठितमिति||३९-४०||–

Adhikarana dUShIviShANAM lUtAnAM lakShaNam (41-42) · Śloka 42

दंशमध्ये तु यत् कृष्णं श्यावं वा जालकाचितम् ||४१|| ऊर्ध्वाकृति भृशं पाकं क्लेदशोथज्वरान्वितम् | दूषीविषाभिर्लूताभिस्तद्दष्टमिति निर्दिशेत् ||४२|| (च. चि. अ. २३) |

🔊 Audio coming soon

त्रिमण्डलादयोऽष्टौ दूषीविषास्तासां लक्षणमाह– दंशमध्ये त्वित्यादि| ऊर्ध्वाकृतीति ऊर्ध्वगस्वरूपम्; अन्ये ‘दग्धाकृति’ इति पठन्ति, तद्व्यक्तार्थम्| दूषीविषाभिरिति कालान्तरप्रकोपिविषाभिः| दष्टमिति दंशम्||४१-४२||

Adhikarana asAdhyalUtAnAM lakShaNam (43) · Śloka 43

, शोथाः श्वेताः सिता रक्ताः पीता वा पिडका ज्वरः | प्राणान्तिकाश्च जायन्ते श्वासहिक्काशिरोग्रहाः ||४३|| (च. चि. अ. २३) |

🔊 Audio coming soon

सौवर्णिकादीनामष्टानामसाध्यानां प्राणहराणां सामान्यलक्षणमाह– शोथ इत्यादि| प्राणान्तिका इति प्राणहराः||४३||

Adhikarana AkhudUShIviShalakShaNam (44) · Śloka 44

आदंशाच्छोणितं पाण्डुमण्डलानि ज्वरोऽरुचिः | लोमहर्षश्च दाहश्चाप्याखुदूषीविषार्दिते ||४४|| (च. चि. अ. २३) |

🔊 Audio coming soon

आखुदूषीविषलक्षणमाह– आदंशादित्यादि| आदंशात् शोणितमित्यत्र ‘गलति’ इति शेषः| आखवः शुक्रविषाः| यदुक्तम्– “शुक्रं पतति यत्रैषां शुक्रस्पृष्टैः स्पृशन्ति यत्|” (सु. क. अ. ७) इति||४४||

Adhikarana prANaharamUShikalakShaNam (45) · Śloka 45

मूर्छाङ्गशोथवैवर्ण्यक्लेदशब्दाश्रुतिज्वराः | शिरोगुरुत्वं लालासृक्छर्दिश्चासाध्यमूषिकैः ||४५|| (च. चि. अ. २३) |

🔊 Audio coming soon

प्राणहरमूषिकलक्षणमाह– मूर्छेत्यादि| अङ्गशोथेति मूषिकाकार एवाङ्गशोथो ज्ञेयः| यदुक्तमन्यत्र– “चीयते ग्रन्थिभिश्चाङ्गमाखुशावकसन्निभैः|” (सु. क. अ. ७) इति| शब्दाश्रुतिः बाधिर्यम्; अन्ये ‘मन्दा रुचिः’ इति पठन्ति असाध्यमूषिकैः मारणात्मकैः||४५||

Adhikarana kRukalAsadaShTali~ggam (46) · Śloka 46

कार्ष्ण्यं श्यावत्वमथवा नानावर्णत्वमेव वा | मोहोऽथ वर्चसो भेदो दष्टे स्यात् कृकलासकैः ||४६|| (च. चि. अ. २३) |

🔊 Audio coming soon

कृकलासदष्टलिङ्गमाह– कार्ष्ण्यमित्यादि| वर्चसो भेदोऽतिसारः||४६||

Adhikarana vRushcikadaShTali~ggamasAdhyalakShaNaM ca (47-48) · Śloka 48

दहत्यग्निरिवादौ च भिनत्तीवोर्ध्वमाशु च | वृश्चिकस्य विषं याति दंशे पश्चात्तु तिष्ठति ||४७|| दष्टोऽसाध्यश्च हृद्घ्राणरसनोपहतो नरः | मांसैः पतद्भिरत्यर्थं वेदनार्तो जहात्यसून् ||४८|| (च. चि. अ. २३) |

🔊 Audio coming soon

वृश्चिकविषलिङ्गमाह– दहत्यग्निरिवेत्यादि| वृश्चिकः स्वनामख्यातः, स च आराविषः| दष्टोऽसाध्यश्च हृद्घ्राणरसनोपहतो नर इति यदा हृदयनासाजिह्वोपघातो भवति तदा तद्दष्टो न साध्यः| मांसैः पतद्भिरत्यर्थं वेदनार्तो जहात्यसूनित्यादिनाऽयमपरोऽसाध्यप्रकारः| ‘दष्टोऽसाध्यैस्तु’ इति पाठपक्षेऽसाध्यैः सद्यःप्राणहरैर्वृश्चिकैर्दष्टो यथोक्तलिङ्गो भवति| चरकेऽप्ययमेव पाठः||४७-४८||

Adhikarana kaNabhadaShTali~ggam (49) · Śloka 49

विसर्पः श्वयथुः शूलं ज्वरश्छर्दिरथापि च | लक्षणं कणभैर्दष्टे दंशश्चैवावसीदति ||४९|| (च. चि. अ. २३) |

🔊 Audio coming soon

कणभदष्टलिङ्गमाह– विसर्प इत्यादि| कणभः कीटविशेषः||४९||

Adhikarana ucciTi~ggadaShTalakShaNam (50) · Śloka 50

हृष्टलोमोच्चिटिङ्गेन स्तब्धलिङ्गो भृशार्तिमान् | दष्टः शीतोदकेनेव सिक्तान्यङ्गानि मन्यते ||५०|| (च. चि. अ. २३) |

🔊 Audio coming soon

उच्चिटिङ्गदष्टलिङ्गमाह– हृष्टरोमेत्यादि||५०||

Adhikarana maNDUkadaShTalakShaNaM, saviShamatsyadaShTalakShaNaM, saviShajalaukAdaShTali~ggaM ca (51-52) · Śloka 52

एकदंष्ट्रार्दितः शूनः सरुजः पीतकः सतृट् | छर्दिर्निद्रा च सविषैर्मण्डूकैर्दष्टलक्षणम् ||५१|| मत्स्यास्तु सविषाः कुर्युर्दाहं शोथं रुजं तथा | कण्डूं शोथं ज्वरं मूर्छां सविषास्तु जलौकसः ||५२|| (च. चि. अ. २३) |

🔊 Audio coming soon

सविषमण्डूकादिदष्टलिङ्गमाह– एकदंष्ट्रार्दित इत्यादि| स्वभावादेकया दंष्ट्रया कृतो दंशो भवति||५१-५२||

Adhikarana gRuhagodhikAdaShTali~ggam (53) · Śloka 53

विदाहं श्वयथुं तोदं स्वेदं च गृहगोधिका |५३| (च. चि. अ. २३) |

🔊 Audio coming soon

गृहगोधिकादष्टलिङ्गमाह– विदाहमित्यादि| गृहगोधिका ज्येष्ठी, अन्ये तु भ्रामरकमाहुः| अत्र वक्ष्यमाणं कुर्यादिति सम्बन्धनीयं, तेन विदाहादीनां कर्मत्वम्|५३|–

Adhikarana shatapadIdaShTali~ggam (53) · Śloka 53

दंशे स्वेदं रुजं दाहं कुर्याच्छतपदीविषम् ||५३|| (च. चि. अ. २३) |

🔊 Audio coming soon

शतपदीदष्टलक्षणमाह– दंशे इत्यादि| कुर्याच्छतपदीविषमिति शतपदी कारुण्डिका||५३||

Adhikarana mashakadaShTalakShaNam (54) · Śloka 54

कण्डूमान् मशकैरीषच्छोथः स्मान्मन्दवेदनः | असाध्यकीटसदृशमसाध्यं मशकक्षतम् ||५४|| (च. चि. अ. २३) |

🔊 Audio coming soon

मशकदष्टलिङ्गमाह– कण्डूमानित्यादि| असाध्यकीटसदृशमिति असाध्यकीटैर्लूतादिभिः समलक्षणमिति| असाध्यं मशकक्षतमिति पञ्चसु मशकेषु मध्ये पार्वतीयमशकक्षतमसाध्यम्| यदाह सुश्रुतः– “ पार्वतीयैस्तु कीटैश्च प्राणहरैस्तुल्यलक्षणम्|” इति||५४||

Adhikarana makShikAdaShTali~ggam (55) · Śloka 55

सद्यःप्रस्राविणी श्यावा दाहमूर्छाज्वरान्विता | पिडका मक्षिकादंशे तासां तु स्थगिकाऽसुहृत् ||५५|| (च. चि. अ. २३) |

🔊 Audio coming soon

मक्षिकादष्टलिङ्गमाह– सद्य इत्यादि| तासां च स्थगिकाऽसुहृदिति तासां सुश्रुतोक्तषण्मक्षिकाणां मध्ये स्थगिका प्राणहरेत्यर्थः||५५||

Adhikarana catuShpadbhirdvipadbhishca kRutanakhadantaviShalakShaNam (56) · Śloka 56

चतुष्पद्भिर्द्विपद्भिश्च नखदन्तविषं च यत् | शूयते पच्यते वाऽपि स्रवति ज्वरयत्यपि ||५६||

🔊 Audio coming soon

चतुष्पद्भिरिति चतुष्पादा व्याघ्रादयः| द्विपादा वनमानुषवानरादयः||५६||

Adhikarana viShojjhitalakShaNam (57-60) · Śloka 60

श्वशृगालतरक्ष्वर्क्षव्याघ्रादीनां यदाऽनिलः | श्लेष्मप्रदुष्टो मुष्णाति सञ्ज्ञां सञ्ज्ञावहाश्रितः ||५७|| तदा प्रस्रस्तलाङ्गूलहनुस्कन्धोऽतिलालवान् | अव्यक्तबधिरान्धश्च सोऽन्योन्यमभिधावति ||५८|| प्रमूढोऽन्यतमस्त्वेषां खादन् विपरिधावति | तेनोन्मत्तेन दष्टस्य दंष्ट्रिणा सविषेण तु ||५९|| सुप्तता जायते दंशे कृष्णं चातिस्रवत्यसृक् | दिग्धविद्धस्य लिङ्गेन प्रायशश्चोपलक्षितः ||६०||

🔊 Audio coming soon

अत्र केचित् विषाधिकारसामान्यात् श्वादीनामपि व्याघ्रादीनां भल्लकानां विषलक्षणं भणन्ति| तदाह– श्वेतेत्यादि| श्वा कुक्कुरः, शृगालः प्रसिद्धः, तरक्षुर्मृगशत्रुर्व्याघ्रविशेषः, चरष इति लोके, ऋक्षो भल्लूकः अतिलोमशः, ऋच्छ इति लोके प्रसिद्धः| आदिशब्दाद् वृकचित्रादयो हिंस्राः पशवो ग्राह्याः| श्वादीनां यदा अनिलो वायुः श्लेष्मप्रदुष्टः सन् सञ्ज्ञावहाश्रितः सञ्ज्ञावहस्रोतोगतः सञ्ज्ञां सम्यग्ज्ञानं मुष्णाति हरति| सम्यग्ज्ञानहरणाच्च हीदृशो भवतीत्याह– तदेत्यादि| प्रस्रस्तं स्थानच्युतं, लाङ्गूलं वालधिः, मेहनं च| प्रस्रस्तशब्दो लाङ्गूलादिभिः प्रत्येकं सम्बन्धनीयः| अतिलालावान् अतिशयेन लालास्रावयुक्तः| अव्यक्तबधिरोऽन्धश्च न व्यक्तो बधिरोऽन्धो वेत्यर्थः| अन्योन्यमभिधावति परस्परं दष्टुमभिधावति| हनुस्कन्धस्थाने ‘शूनस्कन्धः’ इति केचित्पठन्ति| ‘प्रमूढोऽन्यतमस्तेषां खादन्विपरिधावति|’ इत्यत्रोत्तरार्धं केचित्पठन्ति| एषां मध्येऽन्यतम एकतमः प्रमूढः सन् खादन् विशेषेण परिधावति| तेनेति दंष्ट्रिणा| सुप्तता बाधिर्यम्| उपलक्षितो युक्त इत्यर्थः||५७-६०||

Adhikarana jalatrAsalakShaNaM, sAdhyAsAdhyalakShaNaM ca (61-64) · Śloka 64

येन चापि भवेद्दष्टस्तस्य चेष्टां रुतं नरः | बहुशः प्रतिकुर्वाणः क्रियाहीनो विपश्यति ||६१|| दंष्ट्रिणा येन दष्टश्च तद्रूपं यस्तु पश्यति | अप्सु चादर्शबिम्बे वा तस्य तद्रिष्टमादिशेत् ||६२|| त्रस्यत्यकस्माद्योऽभीक्ष्णं दृष्ट्वा स्पृष्ट्वाऽपि वा जलम् | जलत्रासं तु तं विद्याद्रिष्टं तदपि कीर्तितम् ||६३|| अदष्टो वा जलत्रासी न कथञ्चन सिद्ध्यति | प्रसुप्तो वोत्थितो वाऽपि स्वस्थस्त्रस्तो न सिद्ध्यति ||६४|| (सु. क. अ. ७) |

🔊 Audio coming soon

इदानीं श्वादिदष्टस्य रिष्टमाह– येनेत्यादि| चेष्टां क्रियां, रुतं शब्दं, बहुशः अनेकवारं, प्रतिकुर्वाणः अनुकुर्वन्, क्रियाहीनः स्वकीयकायादिव्यापाररहितः| इदानीमपरमप्यरिष्टं निर्दिशन्नाह– दंष्ट्रिणेत्यादि| तद्दंष्ट्रिरूपदर्शनमरिष्टं मरणलक्षणम्| पुनरपरमरिष्टं निर्दिशन्नाह– त्रस्यतीत्यादि| अकस्माज्जलत्रासहेतुं विना, अपिशब्दात् श्रुत्वाऽपि जलत्रासरोगं जानीयात्तस्येति सम्बन्धः| रिष्टमित्यादि| तदपि जलत्रसनमरिष्टं मरणं कीर्तितम्| एतच्चारिष्टं दष्टस्य| अत्रार्थे तन्त्रान्तरे– “व्याधितेन श्वादिना दष्टस्य श्लेष्मा कुपितः स्रोतोवाहिनीर्धमनीरनुप्रविश्य सञ्ज्ञानाशमापादयति| ततो नरः स्पृष्ट्वा दृष्ट्वा श्रुत्वा च जलं त्रस्यति, तस्यापि तद्रिष्टं जानीयात्|” इति| एवमदष्टस्यापि जलत्रासो रिष्टमेवेति दर्शयन्नाह– अदष्ट इत्यादि| अस्मिन्नर्थे तन्त्रान्तरे– “ अदष्टस्यापि जन्तोर्हि जलत्रासो भवेद्यदि| तस्यारिष्टं हि भिषजो ब्रुवते विषचिन्तकाः|| जलं विना जलत्रासो जायते श्लेष्मसञ्चयात्|” इति| अथ चोक्तम्– “बुद्धिस्थानं यदा श्लेष्मा केवलः प्रतिपद्यते| तदा बुद्धौ निरुद्धायां श्लेष्मणाऽधिष्ठितो नरः|| जाग्रत्सुप्तोऽथवाऽऽत्मानं मज्जन्तमिव मन्यते| सलिलात्त्रस्यति तदा जलत्रासं तु तं विदुः|| श्लेष्मघ्नं तत्र कर्तव्यं शोधनं शमनानि च| आहारस्य विधानेन यावत्स प्रकृतिं व्रजेत्||” इति| अयं जलत्रासः कुपितकफस्य भवतीति रिष्टं न भवति| अत एवाऽत्र चिकित्सोपदेशः| दष्टस्य तु रिष्टमेव, तथा स्वस्थस्य जाग्रतो वा जलमन्तरेण त्रासो रिष्टमेवेति दर्शयन्नाह– प्रसुप्त इति| सुगमम्||६१-६४||

Adhikarana aviShakShaNam (65) · Śloka 65

प्रशान्तदोषं प्रकृतिस्थधातुमन्नाभिकामं सममूत्रविट्कम् | प्रसन्नवर्णेन्द्रियचित्तचेष्टं वैद्योऽवगच्छेदविषं मनुष्यम् ||६५|| (सु. क. अ. ६) |

🔊 Audio coming soon

विषातुरः कीदृशो निर्विषो भवतीति दर्शयितुमाह– प्रशान्तदोषमित्यादि| अन्नाभिकाममित्यनेन प्रकृतिस्थाग्नितोक्ता| यदाह चरकः– “प्रायेणोपहताग्नित्वात् सपिच्छमतिसार्यते| प्राप्नोति चास्यवैरस्यं न चान्नमभिनन्दति||” इति| सममूत्रविट्कमिति अक्षीणानतिरिक्तमूत्रपुरीषम्| अन्ये ‘ समसूत्रजिह्वम्’ इति पठन्ति, तदाऽयमर्थः– सममविकृतं सूत्रं जिह्वा च यस्य स तथा; एतेन विषजुष्टा जिह्वा न रसबोधिनी भवति, सूत्रमपि जिह्वायां विषप्रभावेण वैकृतं भवतीति प्रतिपादयति| जिह्वाग्रहणेनैव सूत्रग्रहणे सिद्धे तस्य च रसग्रहणे अनुगुणत्वप्रतिपादनार्थं पृथगुपादानम्| अनेन श्लोकेन “समदोषः समाग्निश्च” (सु. सू. अ. १५) इत्यादिश्लोकस्य सकल एवार्थ उपबद्धः||६५||

Adhikarana puShpikA · Śloka 69

इति श्रीमाधवकरविरचिते माधवनिदाने विषनिदानं समाप्तम् ||६९||

🔊 Audio coming soon

इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां विषनिदानं समाप्तम्||६९|| सूक्तिमुक्तावलीग्रन्थे गुरुणा यन्न गुम्फितम्|| मया समस्तमग्रन्थि तद्गिरा शुद्धियुक्तया||१|| गुणनिधिगुरुबद्धे दाम्नि वाङ्मालतीनां परमपरिमलश्रीधाम्नि लब्धावलम्बम्|| स्फुरति वचनकुन्दं मन्दसौरभ्यलेशाद्वचनमपि मदीयं किञ्चिदेतत् कदाचित्||२|| इति श्रीविजयरक्षितश्रीकण्ठदत्ताभ्यां विरचिता मधुकोशव्याख्या समाप्ता||६९||