Adhikarana masUrikAyA nidAnapUrvikA samprAptiH, pUrvarUpaM ca (1-3) · Śloka 4
अथ मसूरिकानिदानम् |
कट्वम्ललवणक्षारविरुद्धाध्यशनाशनैः |
दुष्टनिष्पावशाकाद्यैः प्रदुष्टपवनोदकैः ||१||
क्रूरग्रहेक्षणाच्चापि देशे दोषाः समुद्धताः |
जनयन्ति शरीरेऽस्मिन् दुष्टरक्तेन सङ्गताः ||२||
मसूराकृतिसंस्थानाः पिडकाः स्युर्मसूरिकाः |
तासां पूर्वं ज्वरः कण्डूर्गात्रभङ्गोऽरतिर्भ्रमः ||३||
त्वचि शोथः सवैवर्ण्यो नेत्ररागश्च जायते |४|
विस्फोटप्रभेदत्वात् प्रायेण तुल्यनिदानत्वाच्च मसूरिकानिदानम्| तस्या निदानपूर्विकां सम्प्राप्तिमाह– कट्वम्लेत्यादि| विरुद्धाध्यशनाशनैरिति विरुद्धैरन्नैरध्यशनैश्च, ‘विरुद्धाध्यशनेन तु’ इति पाठो वा| दुष्टनिष्पावशाकाद्यैरिति दुष्टं व्यापन्नमन्नं, निष्पावः शिम्बिबीजम्, आद्यशब्दान्मध्वालुकादिग्रहणम्| प्रदुष्टपवनोदकैरिति विषकुसुमादिसंस्पर्शात् प्रदुष्टः पवनस्तथोदकं च, तैः| क्रूरग्रहेक्षणाच्चेति शनैश्चरादयो देशक्षोभकराः क्रूरग्रहास्तेषामीक्षणात्| दुष्टरक्तेन सङ्गता इत्यनेन रक्तस्य कट्वम्लादिभिर्हेतुभिर्विशेषेण कोपं दर्शयति| अत एवोक्तं तन्त्रान्तरे– “पित्तं शोणितसंसृष्टं यदा दूषयति त्वचम्| तदा करोति पिडकाः सर्वगात्रेषु देहिनाम्|| मसूरमुद्गमाषाणां तुल्याः कोलोपमा अपि| मसूरिकास्तु ता ज्ञेयाः पित्तरक्ताधिका बुधैः||” इति||१-३||–
Adhikarana vAtajamasUrikAlakShaNam (4-5) · Śloka 6
स्फोटाः श्यावारुणा रूक्षास्तीव्रवेदनयाऽन्विताः ||४||
कठिनाश्चिरपाकाश्च भवन्त्यनिलसम्भवाः |
सन्ध्यस्थिपर्वणां भेदः कासः कम्पोऽरतिः क्लमः ||५||
शोषस्ताल्वोष्ठजिह्वानां तृष्णा चारुचिसंयुता |६|
वातजामाह– स्फोटा इत्यादि| चिरपाका इति विकारप्रभावात्||४-५||–
Adhikarana pittajamasUrikAlakShaNam (6-7) · Śloka 8
रक्ताः पीतासिताः स्फोटाः सदाहास्तीव्रवेदनाः ||६||
भवन्त्यचिरपाकाश्च पित्तकोपसमुद्भवाः |
विड्भेदश्चाङ्गमर्दश्च दाहस्तृष्णाऽरुचिस्तथा ||७||
मुखपाकोऽक्षिरागश्च ज्वरस्तीव्रः सुदारुणः |८|
पित्तजामाह– रक्ता इत्यादि| ज्वरस्तीव्रः सुदारुण इति तीव्रश्चण्डवेगः, सुदारुणो बहुदुःखेनातिदुःसह||६-७||–
Adhikarana raktaja-kaphajamasUrikAlakShaNam (8-10) · Śloka 10
रक्तजायां भवन्त्येते विकाराः पित्तलक्षणाः ||८||
कफप्रसेकः स्तैमित्यं शिरोरुग् गात्रगौरवम् |
हृल्लासः सारुचिर्निद्रा तन्द्रालस्यसमन्विताः ||९||
श्वेताः स्निग्धा भृशं स्थूलाः कण्डूरा मन्दवेदनाः |
मसूरिकाः कफोत्थाश्च चिरपाकाः प्रकीर्तिताः ||१०||
रक्तजामाह– रक्तजायामित्यादि| एते विकाराः पित्तलक्षणा इति पित्तजमसूरीलक्षणत्वेन उक्ताः| ‘ रक्ताः पीतासिताः स्फोटा’ इत्यादयो ये ये विकारास्ते रक्तजायां भवन्ति| अत्र कफजामनुक्त्वैव पित्तजाया अनन्तरं रक्तजाया उक्तिः पित्तलक्षणस्यातिदिष्टस्याव्यवहितत्वेन सुखग्रहणार्थं, रक्तरससमत्वात् रक्तमलत्वाद्वा पित्तस्य पित्तजामभिधाय अस्याः कथनं, सर्वत्र कृतस्य समर्थनाय||८-१०||
Adhikarana tridoShajamasUrikAlakShaNam (11-12) · Śloka 12
नीलाश्चिपिटविस्तीर्णा मध्ये निम्ना महारुजाः |
चिरपाकाः पूतिस्रावाः प्रभूताः सर्वदोषजाः ||११||
कण्ठरोधारुचिस्तम्भप्रलापारतिसंयुताः |
दुश्चिकित्स्याः समुद्दिष्टाः पिडकाश्चर्मसञ्ज्ञिताः ||१२||
सान्निपातिकलक्षणमाह– नीला इत्यादि| चिपिटविस्तीर्णा इति चिपिटः ‘चिउडा’ इति ख्यातः, तद्वद्विस्तृताः| चर्मसञ्ज्ञिता इति ‘चर्मदल’ इति ख्याताः||११-१२||
Adhikarana romAntikAlakShaNam (13) · Śloka 13
रोमकूपोन्नतिसमा रागिण्यः कफपित्तजाः |
कासारोचकसंयुक्ता रोमान्त्यो ज्वरपूर्विकाः ||१३||
मसूरिकायाः प्रकारं रोमान्तिकामाह– रोमकूपोन्नतिसमा इत्यादि| रागिण्य इति लोहिताः, ज्वरपूर्विका इति ज्वरपूर्वरूपाः||१३||
Adhikarana rasAdisaptadhAtugatamasUrikAli~ggam (14-23) · Śloka 23
तोयबुद्बुदसङ्काशास्त्वग्गतास्तु मसूरिकाः |
स्वल्पदोषाः प्रजायन्ते भिन्नास्तोयं स्रवन्ति च ||१४||
रक्तस्था लोहिताकाराः शीघ्रपाकास्तनुत्वचः |
साध्या नात्यर्थदुष्टाश्च भिन्ना रक्तं स्रवन्ति च ||१५||
मांसस्थाः कठिनाः स्निग्धाश्चिरपाका घनत्वचः |
गात्रशूलतृषाकण्डूज्वरारतिसमन्विताः ||१६||
मेदोजा मण्डलाकारा मृदवः किञ्चिदुन्नताः |
घोरज्वरपरीताश्च स्थूलाः स्निग्धाः सवेदनाः ||१७||
सम्मोहारतिसन्तापाः कश्चिदाभ्यो विनिस्तरेत् |
क्षुद्रा गात्रसमा रूक्षाश्चिपिटाः किञ्चिदुन्नताः ||१८||
मज्जोत्था भृशसम्मोहवेदनारतिसंयुताः |
छिन्दन्ति मर्मधामानि प्राणानाशु हरन्ति हि ||१९||
भ्रमरेणेव विद्धानि कुर्वन्त्यस्थीनि सर्वतः |
पक्वाभाः पिडकाः स्निग्धाः सूक्ष्माश्चात्यर्थवेदनाः ||२०||
स्तैमित्यारतिसम्मोहदाहोन्मादसमन्विताः |
शुक्रजायां मसूर्यां तु लक्षणानि भवन्ति हि ||२१||
निर्दिष्टं केवलं चिह्नं दृश्यते न तु जीवितम् |
दोषमिश्रास्तु सप्तैता द्रष्टव्या दोषलक्षणैः ||२२||
त्वग्गता रक्तजाश्चैव पित्तजाः श्लेष्मजास्तथा |
श्लेष्मपित्तकृताश्चैव सुखसाध्या मसूरिकाः ||२३||
रसादिसप्तधातुगतमसूरिकालिङ्गमाह– तोयबुद्बुदसङ्काशा इत्यादि| अत्र दुष्टदूष्यप्रभावात् तोयबुद्बुदसङ्काशादीनि दोषलक्षणानि च भवन्ति, दोषमन्तरेण दूष्यदुष्टेरभावात्; अत एव वक्ष्यति– “दोषमिश्राश्च सप्तैता द्रष्टव्या दोषलक्षणैः|” इति| त्वक्शब्देनात्र रसोऽभिधीयते, धातुगतप्रस्तावात्| त्वग्गताः साध्याः, अल्पदोषसम्बन्धाद्रक्तजाया अपि साध्यत्वेनाभिधानात्| मांसस्थाः कृच्छ्रसाध्याः, अत्यवगाढदोषदुष्टेः| मेदोजायां कश्चिदाभ्यो विनिस्तरेदित्यनेनात्यन्तकृच्छ्रसाध्यत्वं बोधयति, अस्थिमध्यस्थितत्वान्मज्ज्ञः| क्षुद्रा इत्यादिना अस्थिमज्जगतयोः समानं लिङ्गम्| मज्जोत्था इत्यत्र मज्जग्रहणादस्थ्नोऽपि ग्रहणम्, आधारत्वात्; अत एव वक्ष्यति– “भ्रमरेणेव विद्धानि कुर्वन्त्यस्थीनि सर्वतः|” इति| मर्मधामानीति मर्मस्थानानि| पक्वाभा इत्यादिना शुक्रजाया लिङ्गम्| दृश्यते न तु जीवितमिति गम्भीरधातुगतदोषदुष्टेः शुक्रजाया असाध्यत्वम्| अस्य न्यायस्य समानतया अस्थिमज्जगतयोरप्यसाध्यत्वं बोद्धव्यम्||१४-२३||
Adhikarana masUrikAyAH sAdhyAsAdhyavicAraH (24-26) · Śloka 26
वातजा वातपित्तोत्थाः श्लेष्मवातकृताश्च याः |
कृच्छ्रसाध्यतमास्तस्माद्यत्नादेता उपाचरेत् ||२४||
असाध्याः सन्निपातोत्थास्तासां वक्ष्यामि लक्षणम् |
प्रवालसदृशाः काश्चित् काश्चिज्जम्बूफलोपमाः ||२५||
लोहजालसमाः काश्चिदतसीफलसन्निभाः |
आसां बहुविधा वर्णा जायन्ते दोषभेदतः ||२६||
वातजा इत्यादि| वातजादयः सन्निपातोत्थान्ता असाध्याः| एतासां सम्मूर्छनविशेषजनितवक्ष्यमाणप्रवालादिवर्णयोगादसाध्यत्वं, तेनैतद्वर्णविरहे वातजायाश्चिकित्साविधिरप्युक्त उपपद्यत इति केचित्| अन्ये तु वातजादय एताः स्वरूपत एवासाध्याः, चिकित्सोक्तिस्तु वातजादीनां महात्ययनिषेधार्थं, लिङ्गान्तरसम्भवार्थं च तासां वक्ष्यामि लक्षणमित्युक्तमित्याहुः| तासामिति असाध्यवातजादीनाम्| लोहजालसमा इति जालं जालकं गुडकमिति यावत्, तद्वत्कृष्णवर्णाः| अतसीफलसन्निभा इति उमाफलवर्णतुल्यवर्णाः| अनुक्तवर्णान्तरसङ्ग्रहार्थमाह– आसां बहुविधा इत्यादि| दोषभेदत इति वातपित्तादिदोषविशेषात्, दुष्टिविशेषादित्यन्ये||२४-२६||
Adhikarana sarvamasUrikAyA AvasthikaM lakShaNam (27-29) · Śloka 29
कासो हिक्का प्रमेहश्च ज्वरस्तीव्रः सुदारुणः |
प्रलापश्चारतिर्मूर्छा तृष्णा दाहोऽतिघूर्णता ||२७||
मुखेन प्रस्रवेद्रक्तं तथा घ्राणेन चक्षुषा |
कण्ठे घुर्घुरकं कृत्वा श्वसित्यत्यर्थवेदनम् ||२८||
मसूरिकाभिभूतस्य यस्यैतानि भिषग्वरैः |
लक्षणानि च दृश्यन्ते न दद्यादत्र भेषजम् ||२९||
सर्वमसूरिकाया आवस्थिकं लिङ्गमाह– कास इत्यादि| ज्वरस्तीव्रः सुदारुण इति, अत्र सुदारुण इति परेण सम्बध्यते, तेन सुदारुणः प्रलापः| अतिघूर्णता जिह्मायनम्| तथा घ्राणेन चक्षुषेत्यत्र रक्तं स्रवेदिति सम्बध्यते| श्वसितीति श्वासो भवति||२७-२९||
Adhikarana masUrikAyA asAdhyalakShaNam (30) · Śloka 30
मसूरिकाभिभूतो यो भृशं घ्राणेन निःश्वसेत् |
स भृशं त्यजति प्राणांस्तृषार्तो वायुदूषितः ||३०||
सामान्येनासाध्यत्वमाह– मसूरिकाभिभूतो य इत्यादि| घ्राणेन निःश्वसेदिति मुखव्यतिरेकेण घ्राणेनैव निःश्वसेत्, सर्ववाक्यानामवधारणफलत्वात्||३०||
Adhikarana masUrikopadravAH (31) · Śloka 31
मसूरिकान्ते शोथः स्यात् कूर्परे मणिबन्धके |
तथांऽसफलके चापि दुश्चिकित्स्यः सुदारुणः ||३१||
मसूरिकाया उपद्रवमाह– मसूरिकान्ते इत्यादि| दुश्चिकित्स्य इति दुःशब्दोऽयं निषेधे, तेन असाध्य इत्यर्थः||३१||
Adhikarana puShpikA · Śloka 54
इति श्रीमाधवकरविरचिते माधवनिदाने मसूरिकानिदानं समाप्तम् ||५४||
इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां मसूरिकानिदानं समाप्तम्||५४||