अथ विस्फोटनिदानम् | कट्वम्लतीक्ष्णोष्णविदाहिरूक्षक्षारैरजीर्णाध्यशनातपैश्च | तथर्तुदोषेण विपर्ययेण कुप्यन्ति दोषाः पवनादयस्तु ||१|| त्वचमाश्रित्य ते रक्तमांसास्थीनि प्रदूष्य च | घोरान् कुर्वन्ति विस्फोटान् सर्वान् ज्वरपुरःसरान् ||२||
🔊 Audio coming soon
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
प्रायेण दोषदूष्यचिकित्सासाम्याद्विस्फोटनिदानमाह– कट्वित्यादि| अजीर्णाध्यशनातपैश्चेति अजीर्णाशनमपक्वद्रव्यस्याशनम्, अध्यशनमजीर्णे भोजनम्; अथवा अजीर्णं स्वरूपतो हेतुरध्यशनं च| ऋतुदोषेणेति शीतोष्णादीनामतियोगेन| विपर्ययेणेति ऋतुविपर्ययश्च ऋतुस्वभावस्यान्यथाभावः| एभिर्हेतुभिर्यथासम्भवं प्रत्येकं दोषत्रयप्रकोपो बोद्धव्यः| ज्वरपुरःसरानित्यनेन ज्वरस्य पूर्वरूपतां दर्शयति||१-२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
प्रायेण दोषदूष्यचिकित्सितत्वतुल्यत्वादतोऽनन्तरं विस्फोटनिदानारम्भः, तस्य निदानमाह– कट्वित्यादि| अजीर्णाशनमपक्वद्रव्याशनम्| अध्यशनमजीर्णभोजनम्| अथर्तुदोषेण विपर्ययेणेति शीतोष्णादेरतियोगेन ऋतुदोषः, ऋतुविपर्ययः ऋतुस्वभावस्यान्यथाभावात्; एभिर्हेतुभिः यथासम्भवं प्रत्येकं दोषत्रयप्रकोपो बोद्धव्यः| विस्फोटकसम्प्राप्तिमाह– त्वचमित्यादि| ज्वरपुरःसरानित्यनेन ज्वरस्य पूर्वरूपतां दर्शयति||१-२||