Adhikarana vAtaraktanidAnam (1-3) · Śloka 3
अथ वातरक्तनिदानम् |
लवणाम्लकटुक्षारस्निग्धोष्णाजीर्णभोजनः |
क्लिन्नशुष्काम्बुजानूपमांसपिण्याकमूलकैः ||१||
कुलत्थमाषनिष्पावशाकादिपललेक्षुभिः |
दध्यारनालसौवीरशुक्ततक्रसुरासवैः ||२||
विरुद्धाध्यशनक्रोधदिवास्वप्नप्रजागरैः |
प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम् |
(च. चि. अ. २९) |
स्थूलानां सुखिनां चापि कुप्यते वातशोणितम् ||३||
(सु. चि. अ. १) |
वातव्याधिविशेषत्वात्तदनन्तरं वातरक्तमाह| ननु, सुश्रुते वातरोगाध्याये एव वातरक्तं पठितं, तत् कुतोऽत्र सङ्ग्रहे पृथक् पाठः? उच्यते– सत्यपि वातरोगत्वे निदानवैशिष्ट्यात् विशिष्टदोषदूष्यख्यापनार्थं हस्तादिदेश एव सम्प्राप्तिकथनार्थं क्रियाविशेषख्यापनार्थं च पृथक्करणम्| अत एव चरकेऽपि वातव्याध्यनन्तरं पृथग्वातरक्ताधिकारः| ननु, ‘रुजस्तीव्राः ससन्तापा’ इत्यादिना रक्तगतस्य वातस्य लक्षणं वातव्याधावेवोक्तं, ततश्च वातरक्ताभिधानं पुनरुक्तं स्यात्; नैवं, वातरक्तं हि दुष्टेन वातेन दुष्टेन रक्तेन च विशिष्टसम्प्राप्तिकं विकारान्तरमेव| उक्तं हि चरके– “वायुः प्रवृद्धो वृद्धेन रक्तेनावारितः पथि| क्रुद्धः सन्दूषयेद्रक्तं तज्ज्ञेयं वातशोणितम्||” (च. चि. अ. २९) इति| रक्तगतवाते तु वात एव दुष्टो रक्तमदुष्टमेव गच्छतीति भेदः| लवणाम्लेत्यादि, क्लिन्नशुष्कशब्दौ मांसेन सम्बध्येते| पिण्याकस्तिलकल्कः| निष्पावः शिम्बिः, पललं मांसम्| प्रायश इत्यादि, सुकुमारा मृदुदेहावयवाः, “तेषामल्पचेष्टत्वाल्लवणादिभिः रक्तं कटुतिक्तप्रजागरादिभिश्च वातः कुप्यति|” इति ईशानः||१-३||
Adhikarana vAtaraktasamprAptiH (4) · Śloka 4
हस्त्यश्वोष्ट्रैर्गच्छतश्चाश्नतश्च विदाह्यन्नं सविदाहोऽशनस्य |
कृत्स्नं रक्तं विदहत्याशु तच्च स्रस्तं दुष्टं पादयोश्चीयते तु |
तत् सम्पृक्तं वायुना दूषितेन तत्प्राबल्यादुच्यते वातरक्तम् ||४||
(सु. नि. अ. १) |
सम्प्राप्तिमाह– हस्त्यश्वेत्यादि| हस्त्यादिगमनं वातवृद्धौ विशेषेण रक्तस्य द्रवस्याधोगमनेऽपि हेतुः, विदाह्यन्नं च शोणितवृद्धौ| हस्त्यादिगमनं विशेषेण, पादेनापि गमनं हेतुरेव| तत् रक्तम्| सम्पृक्तं वायुना दूषितेन स्वहेतुवृद्धेन| तत्प्राबल्यादिति द्वयोर्दुष्टत्वेऽपिवातस्य प्राबल्यात् दोषत्वेन प्राधान्याद्वातरक्तव्यपदेशः, नतु रक्तवात इति||४||
Adhikarana vAtaraktapUrvarUpam (5-7) · Śloka 7
स्वेदोऽत्यर्थं न वा कार्ष्ण्यं स्पर्शाज्ञत्वं क्षतेऽतिरुक् |
सन्धिशैथिल्यमालस्यं सदनं पिडकोद्गमः ||५||
जानुजङ्घोरुकट्यंसहस्तपादाङ्गसन्धिषु |
निस्तोदः स्फुरणं भेदो गुरुत्वं सुप्तिरेव च ||६||
कण्डूः सन्धिषु रुग्भूत्वा भूत्वा नश्यति चासकृत् |
वैवर्ण्यं मण्डलोत्पत्तिर्वातासृक्पूर्वलक्षणम् ||७||
(च. चि. अ. २९) |
पूर्वरूपमाह– स्वेदेत्यादि| स्वेदोऽत्यर्थं न वेति घर्मागमनमत्यर्थं भवति सर्वथा वा न भवति, एतच्च व्याधिमहिम्ना कुष्ठवत्| क्षतेऽतिरुगिति यदि कारणान्तरात् क्षतं स्यात्तदाऽतिशयं रुजा स्यात्, तद्देशस्य दुष्टत्वात्||५-७||
Adhikarana vAtaraktasya doShAntareNa saMsarge lakShaNAni (8-12) · Śloka 12
वातेऽधिकेऽधिकं तत्र शूलस्फुरणभञ्जनम् |
शोथस्य रौक्ष्यं कृष्णत्वं श्यावता वृद्धिहानयः ||८||
धमन्यङ्गुलिसन्धीनां सङ्कोचोऽङ्गग्रहोऽतिरुक् |
शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः ||९||
रक्ते शोथोऽतिरुक्तोदस्ताम्रश्चिमिचिमायते |
स्निग्धरूक्षैः शमं नैति कण्डूक्लेदसमन्वितः ||१०||
पित्ते विदाहः सम्मोहः स्वेदो मूर्छा मदस्तृषा |
स्पर्शासहत्वं रुग्रागः शोथः पाको भृशोष्मता ||११||
कफे स्तैमित्यगुरुतासुप्तिस्निग्धत्वशीतताः |
कण्डूर्मन्दा च रुग्द्वन्द्वं सर्वलिङ्गं च सङ्करात् ||१२||
(वा. नि. अ. १६) |
वातरक्तस्य दोषान्तरसंसर्गेण लक्षणान्याह– वातेऽधिक इत्यादि| वृद्धिहानय इति वातरक्तलक्षणानाम्| रक्त इत्यादि| रक्त इत्यत्र ‘अधिक’ इत्यनुवर्तनीयम्, एवं वक्ष्यमाणपित्तादिषु| एतच्चारम्भकरक्तादन्यद्रक्तान्तरं बोध्यं, रक्तमपि रक्तान्तरदूषकं भवति| यदुक्तं दुष्टरक्तलक्षणे– “ पित्तवद्रक्तेनातिकृष्णं च|” (सु. सू. अ. १४) इति| शमं नैति शान्तिं न याति| कफ इत्यादि| द्वन्द्वसर्वलिङ्गं च सङ्करादिति सङ्करात् द्विदोषत्रिदोषमेलकात् द्वन्द्वलिङ्गं सर्वलिङ्गं च क्रमाद्वातरक्तं भवति||८-१२||
Adhikarana kruddhasya vAtaraktasya sarvadehavisarpitatvam (13) · Śloka 13
पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि |
आखोर्विषमिव क्रुद्धं तद्देहमुपसर्पति ||१३||
(सु. नि. अ. १) |
पादयोर्जातमप्रतिक्रियमाणं देशान्तरं व्याप्नोति, पादवद्धस्तयोरपि भवतीति दर्शयन्नाह– पादयोरित्यादि| आखोर्विषमित्यनेन मन्दविसर्पणतां दर्शितवान्; एतद्वातरक्तं चरकेण द्विविधमुक्तम्| यदाह– “उत्तानमथ गम्भीरं द्विविधं वातशोणितम्| त्वङ्मांसाश्रयमुत्तानं गम्भीरं त्वन्तराश्रयम्||” (च. चि. अ. २९) इति| सुश्रुतेन तु कुष्ठवदुत्पत्तौ उत्तानस्योत्तरकालं गम्भीरत्वमुक्तमिति मतभेद एव||१३||
Adhikarana vAtaraktasya sAdhyAsAdhyavicAraH (14-18) · Śloka 18
आजानु स्फुटितं यच्च प्रभिन्नं प्रस्रुतं च यत् |
उपद्रवैश्च यज्जुष्टं प्राणमांसक्षयादिभिः ||१४||
वातरक्तमसाध्यं स्याद्याप्यं संवत्सरोत्थितम् |
(सु. नि. अ. १) |
अस्वप्नारोचकश्वासमांसकोथशिरोग्रहाः ||१५||
सम्मूर्छामदरुक्तृष्णाज्वरमोहप्रवेपकाः |
हिक्कापाङ्गुल्यवीसर्पपाकतोदभ्रमक्लमाः ||१६||
अङ्गुलीवक्रतास्फोटदाहमर्मग्रहार्बुदाः |
एतैरुपद्रवैर्वर्ज्यं मोहेनैकेन वाऽपि यत् ||१७||
अकृत्स्नोपद्रवं याप्यं, साध्यं स्यान्निरुपद्रवम् |
एकदोषानुगं साध्यं नवं, याप्यं द्विदोषजम् |
त्रिदोषजमसाध्यं स्याद्यस्य च स्युरुपद्रवाः ||१८||
(च. चि. अ. २९) |
असाध्यत्वादिकमाह– आजान्वित्यादि| आजानु जानुपर्यन्तं गतमसाध्यम्| तथा स्फुटितादिकं स्फुटितं दलितत्वक्, प्रभिन्नं विदीर्णत्वक्| उपद्रवैरित्यादौ आदिशब्देन वक्ष्यमाणानामस्वप्नादीनां ग्रहणम्| याप्यं संवत्सरोत्थितमित्यनेन संवत्सरादर्वाक् साध्यं, यदि स्फुटितत्वगादयो न भवेयुरित्याहुः| अस्वप्नेत्यादि| पाङ्गुल्यं पङ्गुता| मोहेनैकेनेति वचनात् पूर्वोक्तैः समस्तैर्द्वित्र्यादिभिश्चेति ज्ञापयतीति||१४-१८||
Adhikarana puShpikA · Śloka 23
इति श्रीमाधवकरविरचिते माधवनिदाने वातरक्तनिदानं समाप्तम् ||२३||
इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां वातरक्तनिदानं समाप्तम्||२३||