Adhikarana vAtarogasya nidAnaM samprAptishca (1-4) · Śloka 4
अथ वातव्याधिनिदानम्|
रूक्षशीताल्पलघ्वन्नव्यवायातिप्रजागरैः |
विषमादुपचाराच्च दोषासृक्स्रवणादपि ||१||
लङ्घनप्लवनात्यध्वव्यायामादिविचेष्टितैः |
धातूनां सङ्क्षयाच्चिन्ताशोकरोगातिकर्षणात् ||२||
वेगसन्धारणादामादभिघातादभोजनत् |
मर्माबाधाद्गजोष्ट्राश्वशीघ्रयानापतंसनात् ||३||
देहे स्रोतांसि रिक्तानि पूरयित्वाऽनिलो बली |
करोति विविधान् व्याधीन् सर्वाङ्गैकाङ्गसंश्रयान् ||४||
(च. चि. अ. २८) |
अपस्मारवद्वातविकाराणामप्याक्षेपकादीनां वेगकर्तृत्वादपस्मारानन्तरं वातव्याध्यारम्भः| ननु, वातव्याधिरिति कोऽर्थः? किं वात एव व्याधिर्वातव्याधिः, उत वातेन जनितो व्याधिर्वातव्याधिः? आद्ये स्वस्थेष्वपि प्रसङ्गः, द्वितीये ज्वरादिषु| उच्यते– व्याधिपदसामानाधिकरण्याद्विकृतो दुःखकारी वातो वातव्याधिः| उक्तं हि सुश्रुते– ‘‘पक्वाशयस्थोऽन्त्रकूजं शूलाटोपौ करोति च|’’ (सु. नि. अ. १) इति| वातजनितोऽसाधारणव्याधिर्वातव्याधिरिति विशेषणीयं, तेनोभयत्राप्रसङ्गः| यच्चोक्तम्– ‘‘कफपित्तान्वितो वायुर्वायुरेव च केवलः| कुर्यादाक्षेपकम्’’ इत्यादि; तत्रारम्भको वायुरेव, पित्तकफौ त्वनुबन्धाविति न विरोधः स्यात्| चरके हि द्विविधा व्याधय उक्ताः सामान्यजा, नानात्मजाश्चेति; तत्र सामान्यजा ये वातादिभिः समस्तैर्व्यस्तैर्वा जन्यन्ते, यथा– ज्वरादयः; नानात्मजा ये नियतैकदोषजन्याः, यथा– आक्षेपकादयो ये वातेनैव जन्यन्ते, न स्वतन्त्रेण पित्तेन कफेन वा; तथा ओषचोषादयः पित्तेनैव, न वातेन कफेन च तथा तृप्त्यादयः कफेनैव, न वातेन, न पित्तेन,; एवं व्यवस्थिते वातव्याधिवत् पित्तकफव्याधी कस्मान्नोक्तौ? उच्यते– वायोरतिबलत्वेन आशुकारित्वेन च गरीयस्त्वात्तद्विकाराणां दुःसाध्यत्वादाश्वेवात्ययकरत्वाद्विशिष्टचिकित्स्यत्वाद्वातव्याध्यभिधानं, नतु कफपित्तव्याध्यभिधानम्| अत एव चरकसुश्रुतादिष्वपि वातरोगाध्याय एव निर्दिष्टो, नतु पित्तकफरोगाध्यायः| चन्द्रिकाकारस्त्वाह– पित्तकफयो रूपरसादियोगाद्दूष्यविशेषयोगाद्वा हरिद्राचूर्णसंयोगवदत्यन्तविसदृशा रसादिमन्तो विकाराः पृथङ्नामानो जायन्ते, वायोस्तु रूपरसाद्यभावात् दूष्यनिरपेक्षा आक्षेपकादयो वातादनतिभिन्नरूपा नानात्मजाः; तेन वातविकाराः पृथगुच्यन्ते, नतु पित्तकफविकारा इति| एतत्तु बकुलकरप्रभृतया नानुमन्यन्ते, चरकविरोधात्| चरके हि पित्तकफयोरपि नानात्मजा उक्ताः, यथा– ‘अशीतिर्वातविकाराः, चत्वारिंशत् पित्तविकाराः, विंशतिः श्लेष्मविकाराः|’ (च. सू. अ. २०) इति| सुश्रुतेन तु शल्याध्यायिना पित्तकफनानात्मजा न दर्शिताः, पराधिकारेषु न विस्तारोक्तिरित्यभिप्रायेणेति| लङ्घनमुत्पतनम्, उपवासस्यानशनशब्देन वमनादेश्च दोषस्रवणशब्देन वक्ष्यमाणत्वात्| प्लवनं बाहुभ्यां जलप्रतरणम्| आमादिति आमरसात्, तस्य कारणत्वं मार्गावरणद्वारेण नतु स्वरूपेण; आयासादिति पाठान्तरमयुक्तं, तस्य व्यायामशब्देनोक्तत्वात्| मर्माबाधात् मर्माभिघातात्| अपतंसनं गजादिभ्यः शीघ्रयानेन पतनम्, उच्छ्वासावरोधो वा; धातुकर्षणमिति खरनादः||१-४||
Adhikarana vAtavyAdheH pUrvarUpAdayaH (5) · Śloka 5
अव्यक्तं लक्षणं तेषां पूर्वरूपमिति स्मृतम् |
आत्मरूपं तु यद्व्यक्तमपायो लघुता पुनः ||५||
(च. चि. अ. २८) |
पूर्वरूपादिकमाह– अव्यक्तमित्यादि| अव्यक्तमिति वक्ष्यमाणानां वातविकाराणां रूपमेवाव्यक्तं पूर्वरूपं, नतु ज्वरादिवद्विशिष्टमन्यत्| आत्मरूपमित्यादि तदेव व्यक्तमात्मरूपं दोषादिभेदेन सम्यक् प्रकाशितं स्वलक्षणमित्यर्थः| अपाय इति वायोश्चलत्वेन स्तम्भसङ्कोचकम्पादीनां कदाचिदभावात्; यदुक्तम्– “गते वेगे भवेत् स्वास्थ्यं सर्वेष्वाक्षेपकादिषु|” इति लघुतेति शरीरस्य, वायुना सर्वधातुशोषणात्| अथवा अपायो लघुता इति सर्ववातविकाराणामपायोऽभावः, किं तदित्याह– लघुतेति; वातलिङ्गानां लघुताऽत्यल्पत्वेनावस्थानं नतु निःशेषनिवृत्तिः; यथा– बहिरायामनिवृत्तावपि न रूक्षत्वादिनिवृत्तिरित्याहुः||५||
Adhikarana vAtavyAdheH sAmAnyali~ggaM, vAyorhetvAdivisheShAdrogavisheShakartRutvaM ca (6-8) · Śloka 8
सङ्कोचः पर्वणां स्तम्भो भङ्गोऽस्थ्नां पर्वणामपि |
रोमहर्षः प्रलापश्च पाणिपृष्ठशिरोग्रहः ||६||
खाञ्ज्यपाङ्गुल्यकुब्जत्वं शोथोऽङ्गानामनिद्रता |
गर्भशुक्ररजोनाशः स्पन्दनं गात्रसुप्तता ||७||
शिरोनासाक्षिजत्रूणां ग्रीवायाश्चापि हुण्डनम् |
भेदस्तोदोऽर्तिराक्षेपो मुहुश्चायास एव च ||८||
करोति विविधान् व्याधीनिति यदुक्तं तद्व्याकरोति– सङ्कोच इत्यादि| स्तम्भः पर्वणामेव| पाङ्गुल्यं पङ्गुता| शोथोऽङ्गानामिति बाहुमुखादीनाम्| अनिद्रतेत्यनेन अल्पनिद्रतेत्याहुः| गर्भशुक्ररजोनाश इति गर्भशय्याया वाताधिष्ठितत्वेन गर्भाग्रहणमिति जेज्जटः| गर्भादिविकृतिरप्यत्र द्रष्टव्या| स्पन्दनं कम्पनम्| हुण्डनं शिरःप्रभृतीनामन्तःप्रवेशो वक्रत्वं वा, धातूनामनेकार्थन्त्वात्| अन्ये त्वाहुः– शिरोहुण्डनं केशभूमिस्फुटनं शङ्खललाटभेदश्च, नासाहुण्डनं घ्राणनाशः, अक्षिहुण्डनमक्षिव्युदासः, जत्रुहुण्डनं वक्षोपरोधः, ग्रीवाहुण्डनं ग्रीवास्तम्भः| भेद इति ओष्ठदन्तश्रोण्यादीनाम्| तोदः शूलम्| अर्तिः पीडा, सा च पादपार्श्वश्रोत्राक्षिवक्षसामिति जेज्जटः| आक्षेपश्च आक्षेपकादिषु वक्ष्यमाणः| आयासः श्रमः||६-८||
Adhikarana kupitavAyoH hetusthAnavisheShAt rogavisheShakartRutvam (9) · Śloka 9
एवंविधानि रूपाणि करोति कुपितोऽनिलः |
हेतुस्थानविशेषाच्च भवेद्रोगविशेषकृत् ||९||
(च. चि. अ. २८) |
हेत्वित्यादि| हेतुविशेषः आवरणादिः यथा– श्लेष्मावृतो मन्यास्तम्भकारी; स्थानविशेषः कोष्ठादिः; यथा– पक्वाशयस्थोऽन्त्रकूजनमित्यादि||९||
Adhikarana koShThAshritavAtalakShaNaM, sarvA~ggakupitavAtalakShaNaM ca (10-11) · Śloka 11
तत्र कोष्ठाश्रिते दुष्टे निग्रहो मूत्रवर्चसोः |
ब्रध्नहृद्रोगगुल्मार्शःपार्श्वशूलं च मारुते ||१०||
सर्वाङ्गकुपिते वाते गात्रस्फुरणभञ्जनम् |
वेदनाभिः परीताश्च स्फुटन्तीवास्य सन्धयः ||११||
(च. चि. अ. २८) |
एतदेव विवृणोति (कोष्ठाश्रितवातलक्षणमाह)– तत्रेत्यादि| कोष्ठशब्देनाविशेषात् सर्वे आमाशयादयो गृह्यन्ते, आमाशयादिगं तु पृथगपि वक्ष्यति| निग्रहोऽप्रवृत्तिः| ब्रध्नः कोशवङ्क्षणसन्धिः||१०-११||
Adhikarana gudasthitavAtalakShaNam AmAshayasthavAtalakShaNaM ca (12-13) · Śloka 13
ग्रहो विण्मूत्रवातानां शूलाध्मानाश्मशर्कराः |
जङ्घोरुत्रिकपात्पृष्ठरोगशोषौ गुदे स्थिते ||१२||
रुक् पार्श्वोदरहृन्नाभेस्तृष्णोद्गारविसूचिकाः |
कासः कण्ठास्यशोषश्च श्वासश्चामाशयस्थिते ||१३||
(च. चि. अ. २८) |
गुदस्थितवातलक्षणमाह– ग्रह इत्यादि| अश्मा अश्मरी| रोगो रुजा| गुद इत्युत्तरगुदे पक्वाशय इत्यर्थः, नतु गुदमात्रे; तथा सति अश्मरीकर्तृत्वानुपपत्तेः||१२-१३||
Adhikarana pakvAshayasthavAtalakShaNaM shrotrAdigatavAtalakShaNaM ca (14) · Śloka 14
पक्वाशयस्थोऽन्त्रकूजं शूलाटोपौ करोति च |
कृच्छ्रमूत्रपुरीषत्वमानाहं त्रिकवेदनाम् ||१४||
श्रोत्रादिष्विन्द्रियवधं कुर्याद्दुष्टसमीरणः |
(सु. नि. अ. १) |
पक्वाशयस्थवातलक्षणमाह– पक्वाशयस्थ इत्यादि| ननु, पक्वाशयस्थ इति पुनरुक्तिः, गुदे स्थित इत्यनेनैवोक्तत्वात्| उच्यते– गुदे स्थित इति दृढबलस्य लक्षणं, पक्वाशयस्थ इति सुश्रुतस्य; उभयलिङ्गोपन्यासस्तु सकललिङ्गप्रदर्शनार्थमित्यविरोधः||१४||
Adhikarana tvaggatavAtalakShaNam (15) · Śloka 15
त्वग्रूक्षा स्फुटिता सुप्ता कृशा कृष्णा च तुद्यते |
आतन्यते सरागा च पर्वरुक् त्वग्गतेऽनिले ||१५||
(च. चि. अ. २८) |
त्वग्गतवातलक्षणमाह– त्वगित्यादि| आतन्यते विस्तार्यत एव| त्वग्गते इति उपधातुरूपां त्वचं प्राप्ते; चन्द्रिकाकारस्तु त्वक्शब्देन रसमाह, तेन रसगत इत्यर्थः| हृदयस्थस्य च रसस्यामाशयसामीप्यादामाशयगतवातलक्षणेनैव तदधिगतेः रसगतस्यानभिधानमिति कार्तिकः||१५||
Adhikarana asRuggatavAtalakShaNam (16) · Śloka 16
रुजस्तीव्राः ससन्तापा वैवर्ण्यं कृशताऽरुचिः |
गात्रे चारूंषि भुक्तस्य स्तम्भश्चासृग्गतेऽनिले ||१६||
(च. चि. अ. २८) |
असृग्गतवातलक्षणमाह– रुजा इत्यादि| अरूंषि व्रणाः| भुक्तस्य स्तम्भः भुक्तवतो गात्रस्तम्भः, सन्तर्पणेन रक्तस्य वृद्धेः| अन्ये त्वसृग्गतवातलक्षणं न पठन्ति, वातरक्तेन सहाभेदात्; तन्न, अत्र दुष्टो वायुः रक्तेनावृतः कुप्यति, वातरक्ते तु स्वकारणादुभावपि हस्त्यादिगमनकुपितौ विशिष्टसम्प्राप्त्या हस्तपादगतावेव वातरक्ताख्यं विकारं जनयत इति||१६||
Adhikarana mAMsamedogatavAtalakShaNaM majjAsthigatavAtalakShaNaM ca (17-18) · Śloka 18
गुर्वङ्गं तुद्यतेऽत्यर्थं दण्डमुष्टिहतं यथा |
सरुक् श्रमितमत्यर्थं मांसमेदोगतेऽनिले ||१७||
भेदोऽस्थिपर्वणां सन्धिशूलं मांसबलक्षयः |
अस्वप्नः सन्तता रुक् च मज्जास्थिकुपितेऽनिले ||१८||
(च. चि. अ. २८) |
मांसमेदोगतवातलक्षणमाह– गुर्वित्यादि| श्रमितं श्रान्तं निःसहमित्यर्थः| मांसमेदोगतवायोरेकलिङ्गत्वम् अदूरान्तरेण प्रत्यासत्तेराश्रयाभेदात्, एवं मज्जास्थिकुपितेऽपि वाच्यम्||१७-१८||
Adhikarana shukrasthavAtalakShaNam (19) · Śloka 19
क्षिप्रं मुञ्चति बध्नाति शुक्रं गर्भमथापि वा |
विकृतिं जनयेच्चापि शुक्रस्थः कुपितोऽनिलः ||१९||
(च. चि. अ. २८) |
शुक्रस्थवातलक्षणमाह– क्षिप्रमित्यादि| गर्भमिति दुष्टशुक्रारब्धत्वाद्गर्भस्य| विकृतिमिति गर्भस्य, शुक्रस्य च||१९||
Adhikarana sirAgatavAtalakShaNaM snAyugatavAtalakShaNaM ca (20) · Śloka 20
कुर्यात् सिरागतः शूलं सिराकुञ्चनपूरणम् |
(सु. नि. अ. १) |
स बाह्याभ्यन्तरायामं खल्लीं कौब्ज्यमथापि वा ||२०||
सर्वाङ्गैकाङ्गरोगांश्च कुर्यात् स्नायुगतोऽनिलः |
(च. चि. अ. २८) |
सिरागतवातलक्षणमाह– कुर्यादित्यादि| आकुञ्चनं सङ्कोचः| पूरणं स्थूलत्वं, यदुक्तमन्यत्र– ‘सुप्तास्तन्व्यो बृहत्यो वा सिरा वाते सिरागते|’ इति| खल्लीं वक्ष्यमाणाम्||२०||
Adhikarana sandhigatavAtalakShaNam (21) · Śloka 21
हन्ति सन्धिगतः सन्धीन् शूलाटोपौ करोति च ||२१||
(सु. नि. अ. १७) |
सन्धिगतवातलक्षणमाह– हन्तीत्यादि| हन्ति सन्धिगतः सन्धीनिति सन्धिविश्लेषं स्तम्भादिकं वा करोति||२१||
Adhikarana pittakaphAvRutAnAM prANAdInAM lakShaNAni (22-26) · Śloka 27
(प्राणोदानौ समानश्च व्यानश्चापान एव च |
स्थानस्था मारुताः पञ्च यापयन्ति शरीरिणम्) |
(सु. नि. अ. १) |
प्राणे पित्तावृते छर्दिर्दाहश्चैवोपजायते |
दौर्बल्यं सदनं तन्द्रा वैरस्यं च कफावृते ||२२||
(सु. नि. अ. १) |
उदाने पित्तयुक्ते तु दाहो मूर्छा भ्रमः क्लमः |
अस्वेदहर्षौ मन्दोऽग्निः शीतता च कफावृते ||२३||
स्वेददाहौष्ण्यमूर्छाः स्युः समाने पित्तसंवृते |
कफेन सक्ते विण्मूत्रे गात्रहर्षश्च जायते ||२४||
अपाने पित्तयुक्ते तु दाहौष्ण्यं रक्तमूत्रता |
अधःकाये गुरुत्वं च शीतता च कफावृते ||२५||
व्याने पित्तावृते दाहो गात्रविक्षेपणं क्लमः |
स्तम्भनो दण्डकश्चापि शूलशोथौ कफावृते ||२६||
(सु. नि. अ. १) |२७|
पित्तकफावृतानां प्राणादीनामर्धार्धश्लोकेन लिङ्गान्याह– प्राण इत्यादि| गात्रहर्षो रोमाञ्चः| दण्डको दण्डवत् स्तम्भः| परस्परं च प्राणादीनामावरणानि विंशतिर्भवन्ति| यदुक्तं चरके– ‘‘मारुतानां हि पञ्चानामन्योन्यावरणं शृणु|’’ (च. चि. अ. २८) इत्यादि| एषां च लक्षणं चरक एव द्रष्टव्यम् विदेहे चैक एव वायुः स्थानकर्मभेदात् पञ्चेत्याहुः, संसर्गिद्रव्यत्वेनैकाश्रये जलवत्पृथगवस्थानानुपपत्तेः| ईशानाऽप्याह– ‘‘यथैको देवदत्तः स्थानभेदाद् गृहस्थो वानप्रस्थः, कर्मभेदात् कुम्भकारो मालाकार इत्युच्यते तथा वायुरपि’’ इति||२२-२६||
Adhikarana AkShepakasya sAmAnyalakShaNAni (27) · Śloka 27
यदा तु धमनीः सर्वाः कुपितोऽभ्येति मारुतः |
तदाऽऽक्षिपत्याशु मुहुर्मुहुर्देहं मुहुश्चरः ||२७||
मुहुर्मुहुश्चाक्षेपणादाक्षेपक इति स्मृतः |
(सु. नि. अ. १) |
आक्षेपकस्य सामान्यलक्षणमाह– यदा त्वित्यादि| सर्वा इति ऊर्ध्वाधस्तिर्यग्गाः| आक्षिपति देहं हस्त्यारूढपुरुषस्येव गात्रं चालयति| मुहुश्चर इति हेतुगर्भविशेषणम्| ‘बहिश्चर’ इति पाठान्तरे कोष्ठाद्बहिः शाखागतश्चरन्नाक्षेपकं करोतीत्यर्थः| चन्द्रिकाकारस्तु एतन्नानुमन्यते, स्थानगाम्भीर्यादाक्षेपकस्य तदारम्भकवायोर्बहिश्चरत्वायुक्तत्वात्||२७||
Adhikarana apatantrakalakShaNam apatAnakalakShaNaM ca (28-31) · Śloka 31
क्रुद्धः स्वैः कोपनैर्वायुः स्थानादूर्ध्वं प्रवर्तते ||२८||
पीडयन् हृदयं गत्वा शिरःशङ्खौ च पीडयन् |
धनुर्वन्नमयेद्गात्राण्याक्षिपेन्मोहयेत्तदा ||२९||
स कृच्छ्रादुच्छ्वसेच्चापि स्तब्धाक्षोऽथ निमीलकः |
कपोत इव कूजेच्च निःसञ्ज्ञः सोऽपतन्त्रकः ||३०||
दृष्टिं संस्तभ्य सञ्ज्ञां च हत्वा कण्ठेन कूजति |
हृदि मुक्ते नरः स्वास्थ्यं याति मोहं वृते पुनः ||३१||
वायुना दारुणं प्राहुरेके तदपतानकम् |
(च. सि. अ. १) |
अस्यैवावस्थाविशेषावपतन्त्रकापतानकावाह– क्रुद्ध इत्यारभ्य एके तदपतानकमित्यन्तेन| स्वैः कोपनैरित्यनेन रूक्षादिकुपितः स्वतन्त्रो न त्वावरणकुपित इतीशानः| निमीलिताक्षः स्तब्धाक्षो वा भवतीत्यर्थः| आक्षेपकश्चतुर्विधो भवति– दण्डापतानकोऽभ्यन्तरायामो बहिरायामोऽभिघातजश्चेति| दृढबलेन यद्यपि आक्षेपकात् पूर्वमन्तरायामबहिरायामौ पठितौ, तथाऽप्याक्षेपकविशेषावेतौ मन्तव्यौ, सुश्रुतदर्शनात्||२८-३१||
Adhikarana daNDApatAnakalakShaNam (32) · Śloka 32
कफान्वितो भृशं वायुस्तास्वेव यदि तिष्ठति ||३२||
दण्डवत् स्तम्भयेद्देहं स तु दण्डापतानकः |
(सु. नि. अ. १) |
एषां लक्षणमाह– कफान्वित इत्यादि| भृशं कफान्वित इत्यनेन पित्तमपि न वार्यत इत्याहुः| चरके त्वस्यासाध्यत्वं केवलवातजत्वेन द्र्ष्टव्यम्| यदाह– “पाणिपादशिरःपृष्ठश्रोणीः स्तभ्नाति मारुतः| दण्डवत् स्तब्धगात्रस्य दण्डकः सोऽनुपक्रमः||” (च. चि. अ. २८) इति| तास्विति सर्वधमनीषु||३२||
Adhikarana dhanuHstambhalakShaNam (33) · Śloka 33
धनुस्तुल्यं नमेद्यस्तु स धनुःस्तम्भसञ्ज्ञकः ||३३||
(सु. नि. अ. १) |
अन्तरायामबहिरायामयोः साधारणं रूपमाह– ‘धनुस्तुल्यं नमेद्यस्तु स धनुस्तम्भसञ्ज्ञकः’ इति||३३||
Adhikarana abhyantarAyAmalakShaNaM bAhyAyAmalakShaNaM ca (34-36) · Śloka 36
अङ्गुलीगुल्फजठरहृद्वक्षोगलसंश्रितः |
स्नायुप्रतानमनिलो यदाऽऽक्षिपति वेगवान् ||३४||
विष्टब्धाक्षः स्तब्धहनुर्भग्नपार्श्वः कफं वमन् |
अभ्यन्तरं धनुरिव यदा नमति मानवम् ||३५||
तदाऽस्याभ्यन्तरायामं कुरुते मारुतो बली |
बाह्यस्नायुप्रतानस्थो बाह्यायामं करोति च ||३६||
तमसाध्यं बुधाः प्राहुर्वक्षःकट्यूरुभञ्जनम् |
(सु. नि. अ. १) |
विशेषलक्षणमाह– अङ्गुलीत्यादि| वक्षो बाहुद्वयान्तरम्| हृदयं तदभ्यन्तरं द्व्यङ्गुलम्| स्नायुप्रतानं लतावदनेकप्ररोहं स्नायुजालम्; स्नायुरित्युपलक्षणं, तेन सिराकण्डरयोरपि ग्रहणम्| यदुक्तं तन्त्रान्तरे– “महाहेतुर्बली वायुः सिराः सस्नायुकण्डराः| मन्यापृष्ठाश्रिता बाह्याः संशोष्यायामयेद्बहिः||” इत्यादि| अभ्यन्तरायामं क्रोडे नतं, बाह्यायामं पृष्ठे नतम्| अन्तरायामबहिरायामाभ्यां तन्त्रान्तरोक्तकुब्जस्यावरोधः| यदुक्तम्– “हृदयं यदि वा पृष्ठमुन्नतं क्रमशः सरुक्| क्रुद्धो वायुर्यदा कुर्यात्तदा तं कुब्जमादिशेत्||” इति||३४-३६||
Adhikarana abhighAtajAkShepakalakShaNam (37) · Śloka 37
( हृदयं यदि वा पृष्ठमुन्नतं क्रमशः सरुक् |
क्रुद्धो वायुर्यदा कुर्यात् तदा तं कुब्जमादिशेत्) |
कफपित्तान्वितो वायुर्वायुरेव च केवलः ||३७||
कुर्यादाक्षेपकं त्वन्यं चतुर्थमभिघातजम् |
(सु. नि. अ. १) |
उक्तानामाक्षेपकप्रकाराणां कफपित्तानुबन्धमाह– कफपित्तान्वित इत्यादि| एतच्च दण्डापतानकलक्षणमेव जेज्जटेन व्याख्यातम्| पित्तकफानुबन्धश्चात्र शैत्यशोथगुरुत्वानीत्यादिनोक्तलक्षण एव बोध्यः| चतुर्थमभिघातजमिति दण्डापतानकादित्रितयापेक्ष्य चतुर्थत्वम्, अभिघातजं दण्डाद्यभिघातकुपितवातजम्; अस्य च लक्षणम्– ‘‘यदा तु धमनीः सर्वाः’’ इत्यादिनोक्तसामान्यलक्षणं द्रष्टव्यम्||३७||
Adhikarana apatAnakasyAsAdhyalakShaNam (38) · Śloka 38
गर्भपातनिमित्तश्च शोणितातिस्रवाच्च यः ||३८||
अभिघातनिमित्तश्च न सिध्यत्यपतानकः |
(सु. नि. अ. १) |
असाध्यत्वमाह– गर्भपातेत्यादि| गदाधरस्त्वाह– कफपित्तान्वित इत्यादिना निमित्तभेदेनाक्षेपकश्चतुर्धा इति; तद्यथा– एकः कफान्वितेन वातेन, द्वितीयः पित्तान्वितेन, तृतीयः केवलेन, चतुर्थोऽभिघातेनेति| अत्र पक्षे गर्भपातशोणितातिस्रावजौ केवलवातेन ग्राह्यौ| एतेषां च मुहुर्मुहुराक्षेपणं बोध्यम् आक्षेपकविशेषत्वात्||३८||
Adhikarana pakShavadhasya samprAptipUrvakaM lakShaNam (39-41) · Śloka 41
गृहीत्वाऽर्धं तनोर्वायुः सिराः स्नायूर्विशोष्य च ||३९||
पक्षमन्यतरं हन्ति सन्धिबन्धान् विमोक्षयन् |
कृत्स्नोऽर्धकायस्तस्य स्यादकर्मण्यो विचेतनः ||४०||
एकाङ्गरोगं तं केचिदन्ये पक्षवधं विदुः |
सर्वाङ्गरोगस्तद्वच्च सर्वकायाश्रितेऽनिले ||४१||
(वा. नि. अ. १५) |
पक्षवधमाह– गृहीत्वेत्यादि| अर्धमिति अर्धमर्यादया अर्धनारीश्वरवत्| पक्षं बाहुकक्षपार्श्वादिभागम्, अन्यतरमिति वामं दक्षिणं वा| सन्धिबन्धान् कफसहितस्नायुभिर्वृतान् मोक्षयन्निति गदाधरः; अत एव “सिराः स्नायूर्विशोष्य” इत्युक्तम्| अर्धकाय इत्युक्तेऽपि कृत्स्नग्रहणं युगपत् सर्वार्धाङ्गव्याप्त्यर्थम्| अकर्मण्य ईषच्चेष्टाक्षमः| विचेतनोऽल्पचेतनः, ईषत्स्पर्शादिज्ञानवानित्यर्थः| तद्वच्चेत्यनेन सिराः स्नायूर्विशोष्य चेत्यादिसम्प्राप्तिं लक्षणं चातिदिशति||३९-४१||
Adhikarana pakShavadhasya sAdhyAsAdhyavicAraH (42-43) · Śloka 43
दाहसन्तापमूर्छाः स्युर्वायौ पित्तसमन्विते |
शैत्यशोथगुरुत्वानि तस्मिन्नेव कफान्विते ||४२||
शुद्धवातहतं पक्षं कृच्छ्रसाध्यतमं विदुः |
साध्यमन्येन संयुक्तमसाध्यं क्षयहेतुकम् ||४३||
(सु. नि. अ. १) |
(गर्भिणीसूतिकाबालवृद्धक्षीणेष्वसृक्स्रुते |
पक्षाघातं परिहरेत् वेदनारहितो यदि) |
तस्यैव साध्यासाध्यज्ञानार्थमाह– दाहेत्यादि| एतच्च लक्षणमन्यत्रापि वातरोगे द्रष्टव्यम्, अत एव सामान्येन वायाविति कृतवान्| शुद्धः केवलः| अन्येनेति कफेन, पित्तेन वा| क्षयहेतुकमिति धातुक्षयकुपितशुद्धवातजमिति||४२-४३||
Adhikarana arditasya nidAnasamprAptipUrvakaM lakShaNam (44-46) · Śloka 46
उच्चैर्व्याहरतोऽत्यर्थं खादतः कठिनानि वा |
हसतो जृम्भतो वाऽपि भाराद्विषमशायिनः ||४४||
शिरोनासौष्ठचिबुकललाटेक्षणसन्धिगः |
अर्दयत्यनिलो वक्त्रमर्दितं जनयत्यतः |
वक्रीभवति वक्त्रार्धं ग्रीवा चाप्यपवर्तते ||४५||
शिरश्चलति वाक्सङ्गो नेत्रादीनां च वैकृतम् |
ग्रीवाचिबुकदन्तानां तस्मिन् पार्श्वे च वेदना ||४६||
(यस्याग्रजो रोमहर्षो वेपथुर्नेत्रमाविलम् |
वायुरूर्ध्वं त्वचि स्वापस्तोदो मन्याहनुग्रहः) |
तमर्दितमिति प्राहुर्व्याधिं व्याधिविचक्षणाः |
(सु. नि. अ. १) |
अर्दितमाह– उच्चैरित्यादि| अर्दयति पीडयति| अपवर्तते वक्रीभवति| चलति कम्पते| वाक्सङ्गोऽनिर्गमो वचनस्य| आदिशब्देन भ्रूगण्डादीनां ग्रहणम्| वैकृतं वेदनास्फुरणवक्रत्वादिकम्| ग्रीवेत्यादि यस्मिन् पार्श्वेऽर्दितं तस्मिन् ग्रीवादीनां वेदनेति योज्यम्| तन्त्रान्तरे तु मुखार्धवच्छरीरार्धव्यापकोऽप्यर्दितः पठितः| यदाह दृढबलः– ‘अर्धे तस्मिन् मुखार्धे वा केवले स्यात्तदर्दितम्|’ (च. चि. अ. २८) इति| ननु, यद्येवं तदा अर्दितार्धाङ्गवातयोः को भेदः? उच्यते– वेगित्वेनार्दिते कदाचिद्वेदना भवति, अर्धाङ्गवाते तु सर्वदैवेति भेदः; अथवा यथोक्तः सर्वाङ्गोऽर्दितः तद्विपरीतस्त्वर्धाङ्गवात इत्याहुः| सुश्रुतेन तु मुखमात्र एवार्दितः पठितः, अर्धशरीरस्यार्धाङ्गवातेन लब्धत्वात्| स एवात्र माधवेन लिखितः||४४-४६||
Adhikarana arditasyAsAdhyalakShaNam (47) · Śloka 47
क्षीणस्यानिमिषक्षस्य प्रसक्ताव्यक्तभाषिणः ||४७||
न सिध्यत्यर्दितं गाढं त्रिवर्षं वेपनस्य च |
(सु. नि. अ. १) |
तस्यासाध्यलक्षणमाह– क्षीणस्येत्यादि| अनिमिषाक्षस्य निमेषासमर्थचक्षुषः| प्रसक्ताव्यक्तभाषिण इति प्रसक्तं प्रकर्षेण सक्तमप्रवृत्तम्, अव्यक्तं प्रपीडितवर्णपदं, भाषितुं शीलं यस्य स तथा| अन्ये तु प्रसक्तं निरन्तरमाहुः; तन्न, चरके ‘‘दीना जिह्वा समुत्क्षिप्ता काले सज्जति चास्य वाक्|’’ (च. चि. अ. २८) इति वचनात्| त्रिवर्षमिति अतीतवर्षत्रयम्; अथवा त्रयाणां मुखनासाचक्षुषां वर्षः स्रवणं यत्र तत्तथेत्याहुः||४७||
Adhikarana AkShepakAdInAM vegashAntau svasthatvam (48) · Śloka 48
गते वेगे भवेत् स्वास्थ्यं सर्वेष्वाक्षेपकादिषु ||४८||
(वा. नि. अ. १५) |
आक्षेपकादीनामर्दितान्तानां वेगित्वमाह– गत इत्यादि| स्वास्थ्यं पीडालाघवं, भारापगमे सुखित्वव्यपदेशवत्||४८||
Adhikarana hanugrahalakShaNam (49-50) · Śloka 50
जिह्वानिर्लेखनाच्छुष्कभक्षणादभिघाततः |
कुपितो हनुमूलस्थः स्रंसयित्वाऽनिलो हनुम् ||४९||
करोति विवृतास्यत्वमथवा संवृतास्यताम् |
हनुग्रहः स तेन स्यात् कृच्छ्राच्चर्वणभाषणम् ||५०||
(वा. नि. अ. १५) |
हनुग्रहमाह– जिह्वेत्यादि| हनुमूलस्थः कपोलमूलस्थः| हनुं स्रंसयित्वाऽधः कृत्वा| विवृतास्यत्वम् आस्यविवृतिं, संवृतास्यताम् आस्यसंवृतिं; सा च वायोरनियतकारित्वात्||४९-५०||
Adhikarana manyAstambhalakShaNam (51) · Śloka 51
दिवास्वप्नासनस्थानविवृतोर्ध्वनिरीक्षणैः |
मन्यास्तम्भं प्रकुरुते स एव श्लेष्माणऽऽवृतः ||५१||
(सु. नि. अ. १) |
मन्यास्तम्भमाह– दिवास्वप्नेत्यादि| स एवेति वातः||५१||
Adhikarana jihvAstambhalakShaNam (52) · Śloka 52
वाग्वाहिनीसिरासंस्थो जिह्वां स्तम्भयतेऽनिलः |
जिह्वास्तम्भः स तेनान्नपानवाक्येष्वनीशता ||५२||
(वा. नि. अ. १५) |
जिह्वास्तम्भमाह– वागित्यादि| वाग्वाहिनीसिरासंस्थ इति वाग्वाहिनी या सिरा तत्र संस्थ इति योज्यं, समस्तपक्षे “पुंवत् कर्मधारयजातीयदेशीयेषु” इत्यनेन पुंवद्भावप्राप्तेः| अन्नपानवाक्येष्वनीशतेति अन्नपानाभ्यवहारवचनेषु असामर्थ्यम्||५२||
Adhikarana sirAgrahasya samprAptipUrvakaM lakShaNam (53) · Śloka 53
रक्तमाश्रित्य पवनः कुर्यान्मूर्धधराः सिराः |
रूक्षाः सवेदनाः कृष्णाः सोऽसाध्यः स्यात् सिराग्रहः ||५३||
(वा. नि. अ. १५) |
सिराग्रहमाह– रक्तमित्यादि| मूर्धधरा इति ग्रीवागताः, तासां रूक्षत्वं वेदनावत्त्वं कृष्णत्वं च कुर्यात्| सोऽसाध्य इति स्वरूपेणैव, काकणकुष्ठवत्| शिरोग्रह इति पाठान्तरेऽपि शिरोधारकसिरादुष्ट्या शिरोवेदनाकारित्वात् ‘शिरोग्रह’ इति व्यपदेशः, लक्षणं तु तदेव||५३||
Adhikarana gRudhrasIlakShaNam (54) · Śloka 54
स्फिक्पूर्वा कटिपृष्ठोरुजानुजङ्घापदं क्रमात् |
गृध्रसी स्तम्भरुक्तोदैर्गृह्णाति स्पन्दते मुहुः ||५४||
वाताद्वातकफात्तन्द्रागौरवारोचकान्विता |
(च. चि. अ. २८) |
गृध्रसीमाह– स्फिक्पूर्वेत्यादि| स्फिक् पूर्वा प्रथमतो ग्राह्या स्तम्भरुक्तोदैर्यस्याः सा स्फिक्पूर्वा; ईशानस्तु पूर्वा प्रथमा गृध्रसी वातादिति योजयति, एषा च व्याख्या स्फिक्शब्दस्य नपुंसकत्वेन ‘पूर्वा स्फिक् कटीपृष्ठ’ इत्यादिना पाठेन वोपपद्यते नान्यथा| ‘स्फिक्पूर्वम्’ इति पाठान्तरं जानुजङ्घापदमित्यनेन योज्यम्| क्रमादिति न युगपत्| वातादिति छेदः| वातकफारब्धा गृध्रसी, सा उक्तवातलक्षणयुक्ताऽपि तन्द्रागौरवादियुक्ता भवतीति गृधसीद्वयमुक्तम्||५४||
Adhikarana gRudhrasyA visheShalakShaNam (55-56) · Śloka 56
वातजायां भवेत्तोदो देहस्यापि प्रवक्रता |
जानुकट्यूरुसन्धीनां स्फुरणं स्तब्धता भृशम् ||५५||
वातश्लेष्मोद्भवायां तु निमित्तं वह्निमार्दवम् |
तन्द्रा मुखप्रसेकश्च भक्तद्वेषस्तथैव च ||५६||
गृध्रस्याः पुनरपि विशेषलक्षणमाह– वातजायामित्यादि| सुगमम्||५५-५६||
Adhikarana vishvAcIlakShaNam (57) · Śloka 57
तलं प्रत्यङ्गुलीनां याः कण्डरा बाहुपृष्ठतः ||५७||
बाह्वोः कर्मक्षयकरी विश्वाची चेति सोच्यते |
(सु. नि. अ. १) |
विश्वाचीमाह– तलमित्यादि| तलं हस्तस्योपरिभागः, तलशब्दोऽत्र उपरिवचनः, यथा– भूतलमिति गयदासः| तेनायमर्थः– बाह्वोः पृष्ठं बाहुपृष्ठं, तत आरभ्य हस्ततलं लक्षीकृत्याङ्गुलीनां याः कण्डरास्ताः सन्दूष्य बाह्वोः कर्मक्षयकरी या सा विश्वाची| बाह्वोः कर्म ग्रहणाकुञ्चनादि, द्वित्वं चात्र सम्भवपरं, तेनैकबाहावपि भवति वातरक्तवत्| विश्वाची चेति चकारेण गृध्रसीविश्वाच्योः खल्लीसञ्ज्ञां दर्शयति, तयोरपि करमूलावमोटनकारित्वात्; यदुक्तं हारीते– ‘‘विश्वाची गृध्रसी चोक्ता खल्ली तीव्ररुजान्विता|’’ इति गयदासः| चक्रस्त्वाह– चरके “खल्ली तु पादजङ्घोरुकरमूलावमोटनी|” (च. चि. अ. २८) इत्यनेन विश्वाच्याः पृथगेव खल्ली पठिता, सुश्रुतेन तु खल्ली न पठितैव; नहि तेन तन्त्रान्तरोक्तसर्वविकाराः पठ्यन्ते, चरकक्तपरस्परवातावरणलक्षणमेव न पठितं; हारीतेन तु तीव्ररुजायोगाद् गृध्रसीविश्वाच्योः खल्लीत्वं पठित्वं, भवति हि धर्मान्तरयोगात् कस्यचिद्विकारस्य रोगान्तरत्वं; यथा– अष्ठीलैव प्रत्यष्ठीला, अश्मर्येव शर्करा, पाण्डुरोग एव कामलेत्यादि||५७||
Adhikarana kroShTukashIrShalakShaNam (58) · Śloka 58
वातशोणितजः शोथो जानुमध्ये महारुजः ||५८||
ज्ञेयः क्रोष्टुकशीर्षस्तु स्थूलः क्रोष्टुकशीर्षवत् |
(सु. नि. अ. १) |
क्रोष्टुकशीर्षमाह– वातेत्यादि| वातशोणितज इति वातरक्ताख्यविकारजः, चिकित्साभेदार्थं पृथक् पठित इति गयदासः| वातशोणिताभ्यां जात इति जेज्जटः| दृश्यते ह्ययं वातरक्तव्यतिरेकेणापि; जानुदेशनियतत्वेन विशिष्टलक्षणत्वेन चेतरवातरक्तशोथाद्भेद इति| क्रोष्टुकशीर्षवत् शृगालमस्तकवत् स्थूलः||५८||
Adhikarana kha~jjalakShaNam (59) · Śloka 59
वायुः कट्याश्रितः सक्थ्नः कण्डरामाक्षिपेद्यदा ||५९||
खञ्जस्तदा भवेज्जन्तुः पङ्गुः सक्थ्नोर्द्वयोर्वधात् |
(सु. नि. अ. १) |
खञ्जमाह– वायुरित्यादि| सक्थ्नः ऊर्ध्वजङ्घायाः, कण्डरां महास्नायुम्, आक्षिपेत् ईषत् क्षिपेत्, किञ्चिद्गतिमत्त्वादिति गयदासः| सक्थ्नोरिति द्विवचनेनैव द्वित्वे लब्धे द्वयोरिति पदेन नियमयति– सक्थिद्वयस्यैव वधात् पङ्गुः, एकसक्थिवधात् खञ्ज इति; वधश्चात्र गमनादिक्रियानाशः||५९||
Adhikarana kalAyakha~jjalakShaNam (60) · Śloka 60
प्रक्रामन् वेपते यस्तु खञ्जन्निव च गच्छति ||६०||
कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम् |
(सु. नि. अ. १) |
खञ्जविशेषमाह– प्रक्रामन्नित्यादि प्रक्रामन्निति गमनमारभमाणो वेपते| प्रशब्दोऽयमादिकर्मणि| खञ्जन्निव गच्छति विकलयन्निव गच्छति, गमनारम्भेन अन्येन संसृष्टं वेपते तेन खञ्जादस्य भेदः| मुक्तेत्यादिमित्याहुः| मुक्तसन्धिप्रबन्धनमिति शिथिलीकृतसन्धिबन्धनम्| कलायखञ्ज इति शास्त्रे रूढा सञ्ज्ञा; अयमेवान्यत्र खञ्जवात इत्युक्तः||६०||
Adhikarana vAtakaNTakalakShaNam (61) · Śloka 61
रुक् पादे विषमेन्यस्ते श्रमाद्वा जायते यदा ||६१||
वातेन गुल्फमाश्रित्य तमाहुर्वातकण्टकम् |
(वा. नि. अ. १५) |
वातकण्टकमाह– रुगित्यादि| विषमपादन्यासकुपितः श्रमकुपितो वा वायुर्गुल्फे वेदनां जनयन्, वातकण्टकमित्याहुः; अयमेवान्यत्र ‘खुडुकावात’ इत्युक्तः||६१||
Adhikarana pAdadAhalakShaNam (62) · Śloka 62
पादयोः कुरुते दाहं पित्तासृक्सहितोऽनिलः ||६२||
विशेषतश्चङ्क्रमतः पाददाहं तमादिशेत् |
(सु. नि. अ. १) |
पाददाहमाह– पादयोरित्यादि| विशेषतश्चङ्क्रमत इत्यनेन स्थितस्य मन्दो दाह इति दर्शयति| वैवर्ण्यादेरभावाद्वातरक्तादस्य भेदः||६२||
Adhikarana pAdaharShalakShaNam (63) · Śloka 63
हृष्येते चरणौ यस्य भवेतां चापि सुप्तकौ ||६३||
पादहर्षः स विज्ञेयः कफवातप्रकोपतः |
(सु. नि. अ. १) |
पादहर्षमाह– हृष्येते इत्यादि| हृष्येते हर्षयुक्तौ भवतः, हर्षश्च रोमाञ्चप्रायः अन्तःशीतो झिणिझिणिवत् वेदनाविशेष इत्याहुः; झिणिझिणि तु न चिरानुबन्धिनी केवलवातजेति भेदः||६३||
Adhikarana aMsashoShalakShaNam (64) · Śloka 64
अंसदेशस्थितो वायुः शोषयेदंसबन्धनम् ||६४||
(सु. नि. अ. १) |
अंसेत्यादि| अंसेत्यादिना श्लोकार्धेनांसशोषः केवलवातज उच्यते| अंसबन्धनकारकः श्लेष्मा अंसबन्धनः; एतदनन्तरं ‘अंसशोषं जनयेत्’ इति शेष इति कार्तिकः||६४||
Adhikarana avabAhukalakShaNam (65) · Śloka 65
सिराश्चाकुञ्च्य तत्रस्थो जनयेदवबाहुकम् |६५|
(सु. नि. अ. १) |
अवबाहुकमाह– सिराश्चेत्यादिना| तत्रस्थोंऽसदेशस्थः| अयं च वातकफजः| अन्ये तु मिलित्वा अवबाहुकलक्षणमाहुः; तन्न, यतः सुश्रुतेनोक्तम्– ‘अंसशोषावबाहुकयोर्बाहुमध्ये सिराव्यधः’ (सु. शा. अ. ८) इति| एतदनन्तरं सुश्रुतेन बाधिर्यं पठितम्– “यदा शब्दवहं वायुः” (सु. नि. अ. १) इत्यादिना, माधवेन तु प्रकरणानुरोधं मन्यमानेन कर्णरोग एव तत् पठितं, किन्तु सुश्रुतेन वातव्याधौ बाधिर्यं पठित्वाऽपि बाधिर्यकर्णशूलौ शालाक्यऽपि पठितौ; पुनरुक्तमिति चेत्; नैव, सम्प्राप्तिभेदभिन्नत्वात्; वातव्याधौ शब्दवहमित्यनेन कर्णशष्कुल्यवच्छिन्ननभोदेश उक्तः, शालाक्ये च शब्दवहाः सिरा इत्युक्तम्| माधवेन तु कर्णरोगे शब्दाश्रवणत्वाविशेषादेतदेव तत्र पठितमित्यविरोधः|६५|–
Adhikarana mUkAdInAM lakShaNam (65) · Śloka 65
आवृत्य वायुः सकफो धमनीः शब्दवाहिनीः ||६५||
नरान् करोत्यक्रियकान्मूकमिन्मिनगद्गदान् |
(सु. नि. अ. १) |
मूकादींस्त्रीनाह– आवृत्येत्यादि| अक्रियकान् अवचनक्रियकानिति; नञयमभावे, ईषदर्थे च| आद्यो मूकोऽवचनः, द्वितीयो मिन्मिनः सानुनासिकसर्ववचनः, तृतीयो गद्गदो लुप्तपदव्यञ्जनाभिधायी| एषां च समानकारणाभिधानेऽपि दुष्टेरुत्कर्षादिभिरदृष्टवशाद्वा भेद इत्युन्नेयम्||६५||
Adhikarana tUnIlakShaNam (66) · Śloka 66
अधो या वेदना याति वर्चोमूत्राशयोत्थिता ||६६||
भिन्दतीव गुदोपस्थं सा तूनी नाम नामतः |
(सु. नि. अ. १) |
तूनीमाह– अध इत्यादि| अध इति गुदोपस्थम्| वेदना शूलम्| वर्चोमूत्राशयोत्थिता पक्वाशयमूत्राशयोत्थिता, पक्वाशयमूत्रपुटयोर्व्यस्तसमस्तयोर्जाता| उपस्थं स्त्रीपुंसयोर्गुह्यम्| नामतः प्रसिद्धितः||६६||
Adhikarana pratitUnIlakShaNam (67) · Śloka 67
गुदोपस्थोत्थिता या तु प्रतिलोमं प्रधाविता ||६७||
वेगैः पक्वाशयं याति प्रतितूनीति सोच्यते |
(सु. नि. अ. १) |
प्रतितूनीमाह– गुदेत्यादि| प्रतिलोममित्यूर्ध्वम्| वेगैर्वातकृतोद्गमैः| सेत्यनेन ‘भिन्दतीव’ इत्यतिदिश्यते||६७||
Adhikarana AdhmAnalakShaNaM, pratyAdhmAnalakShaNaM ca (68-69) · Śloka 69
साटोपमत्युग्ररुजमाध्मातमुदरं भृशम् ||६८||
आध्मानमिति तं विद्याद् घोरं वातनिरोधजम् |
विमुक्तपार्श्वहृदयं तदेवामाशयोत्थितम् ||६९||
प्रत्याध्मानं विजानीयात् कफव्याकुलितानिलम् |
(सु. नि. अ. १) |
आध्मानमाह– साटोपमित्यादि| साटोपमिति आटोपश्चलचलनमिति गयदासः, गुडगुडाशब्द इति कार्तिकः| आध्मातं वातपूर्णचर्मपुटकस्थानीयम्| उदरमिति पक्वाशयः, प्रत्याध्मानस्य आमाशयसम्भवत्वात्| घोरमिति कष्टप्रदम्| आमाशयसमुत्थत्वेन प्रत्यासत्त्या पार्श्वहृदययोरपि वेदानाशङ्कानिरासार्थमाह– विमुक्तेत्यादि| तदेवेत्यनेन साटोपादित्वमतिदिशति| कफव्याकुलितानिलं कफावृतवातम्||६८-६९||
Adhikarana aShThIlAlakShaNaM, pratyaShThIlAlakShaNaM ca (70-72) · Śloka 72
नाभेरधस्तात् सञ्जातः सञ्चारी यदि वाऽचलः ||७०||
अष्ठीलावद्घनो ग्रन्थिरूर्ध्वमायत उन्नतः |
वाताष्ठीलां विजानीयाद्बहिर्मार्गावरोधिनीम् ||७१||
एतामेव रुजोपेतां वातविण्मूत्ररोधिनीम् |
प्रत्यष्ठीलामिति वदेज्जठरे तिर्यगुत्थिताम् ||७२||
(सु. नि. अ. १) |
अष्ठीलामाह– नाभेरित्यादि| अष्ठीला उत्तरापथे वर्तुलः पाषाणविशेष इति जेज्जटमतानुवादी कार्तिकः, कर्मकाराणां वर्तुला दीर्घा लौहभाण्डीति गयदासः| ऊर्ध्वमायत उपरिदीर्घः| उन्नतः तिर्यगुन्नतः| वातकृता अष्ठीला वाताष्ठीलेति स्वरूपपरं, व्यावृत्त्यभावात्| बहिर्मार्गावरोधिनीं वातमूत्रपुरीषावरोधिनीम्| एतामित्यादि सैव जठरे तिर्यगुत्थिता तिर्यगायता प्रत्यष्ठीलेति भेदः| वातविण्मूत्ररोधिनीमिति विशेषपरम्||७०-७२||
Adhikarana bastau pratilome vAyau vividhamUtrarodhakavikArasambhavaH (73) · Śloka 73
मारुतेऽनुगुणे बस्तौ मूत्रं सम्यक् प्रवर्तते |
विकारा विविधाश्चात्र प्रतिलोमे भवन्ति च ||७३||
(सु. नि. अ. ३) |
अष्ठीलाव्यतिरिक्तामपि वातविकृतिं मूत्ररोधिनीमाह– मारुत इत्यादि| अनुगुणेऽनुलोमे| प्रतिलोमे प्रतिलोमगे मारुत इति सम्बन्धः| विकारा अश्मरीमूत्रकृच्छ्रादयः||७३||
Adhikarana vepathulakShaNam (74) · Śloka 74
सर्वाङ्गकम्पः शिरसो वायुर्वेपथुसञ्ज्ञकः |७४|
वेपथुवातविकारमाह– सर्वेत्यादि| शिरसः कम्प इति सम्बन्धः; शिर इत्यवयवोपलक्षणं, तेन हस्तादेरपि कम्पो वेपथुरित्यर्थः|७४|–
Adhikarana khallIlakShaNam, UrdhvavAtalakShaNaM ca (74) · Śloka 74
खल्ली तु पादजङ्घोरुकरमूलावमोटनी ||७४||
(च. चि. अ. २८) |
खल्लीत्यादि| खल्ली ‘सिरावमोटन’ इति लोके||७४||
Adhikarana UrdhvavAtalakShaNam (75) · Śloka 75
अधः प्रतिहतो वायुः श्लेष्मणा मारुतेन वा |
करोत्युद्गारबाहुल्यमूर्ध्ववातः स उच्यते ||७५||
अधः प्रतिहतो वायुः श्लेष्मणा मारुतेन च| करोत्युद्गारबाहुल्यमूर्ध्ववातं प्रचक्षते||७५||
Adhikarana anuktavAtarogasa~ggrahaH (76-77) · Śloka 77
स्थाननामानुरूपैश्च लिङ्गैः शेषान् विनिर्दिशेत् |
सर्वेष्वेतेषु संसर्गं पित्ताद्यैरुपलक्षयेत् ||७६||
(च. चि. अ. २८) |
हनुस्तम्भार्दिताक्षेपपक्षाघातापतानकाः |
कालेन महता वाता यत्नात् सिध्यन्ति वा न वा ||७७||
नरान् बलवतस्त्वेतान् साधयेन्निरुपद्रवान् |
(च. चि. अ. २८) |
अनुक्तवातरोगसङ्ग्रहणार्थमाह– स्थानेत्यादि| स्थानानुरूपैर्लिङ्गैर्यथा– कुक्षिशूलं, पृष्ठशूलं, नखभेद इत्यादि| नामानुरूपैर्लिङ्गैर्यथा– शूलमित्युक्ते कीलनिखातवद्वेदनाविशेष एव उच्यते, तथा भेदतोदादिभिरपि पीडाविशेष एव गम्यते| वाता इति वातविकाराः, कार्यकारणयोरभेदोपचारात्| वातादिति पाठे तु वाताद्ये पक्षवधादय इति योज्यम्||७६-७७||
Adhikarana pUrvoktavAtarogANAM sAdhyAsAdhyavicAraH, upadravAshca (78-79) · Śloka 79
विसर्पदाहरुक्सङ्गमूर्छारुच्यग्निमार्दवैः ||७८||
क्षीणमांसबलं वाता घ्नन्ति पक्षवधादयः |
शूनं सुप्तत्वचं भग्नं कम्पाध्माननिपीडितम् |
रुजार्तिमन्तं च नरं वातव्याधिर्विनाशयेत् ||७९||
(सु. सू. अ. ३३) |
वातोपद्रवानाह– विसर्पेत्यादि| वाता इति वातविकाराः, कार्यकारणयोरभेदोपचारात्| वातादिति पाठे तु वातात् पक्षवधादय इति योज्यम्| शूनमित्यादि शूनं सशोथम्| सुप्तत्वचं स्पर्शानभिज्ञत्वगिन्द्रियम्||७८-७९||
Adhikarana prakRutisthasya vAyorli~ggaM kAryaM ca (80) · Śloka 80
अव्याहतगतिर्यस्य स्थानस्थः प्रकृतिस्थितः |
वायुः स्यात् सोऽधिकं जीवेद्वीतरोगः समाः शतम् ||८०||
(च. चि. अ. २८) |
इदानीं पञ्चविधस्यापि प्रकृतिस्थस्य वायोर्लिङ्गं कार्यं चाह– अव्याहतेत्यादि| यस्येति पुरुषस्य, अव्याहतगतिः अनवरुद्धमार्गः, स्थानस्थः स्वाश्रयव्यवस्थितः, प्रकृतिस्थितोऽक्षीणश्चाप्रवृद्धः, एतद्विशेषणत्रयं हेतुहेतुमद्भावेन योज्यम्| वीतरोगो नीरोगः, कफपित्तदुष्टेरपि प्रेरकवातेनान्तरीयकत्वात्| अधिकं समाः शतमिति पञ्च दिनाधिकं सविंशं वर्षशतम्| यदाह वराहः आयुर्निरूपणे– ‘समाः षष्टिर्द्विघ्ना मनुजकरिणां पञ्च च निशाः|’ इत्यादि||८०||
Adhikarana puShpikA · Śloka 22
इति श्रीमाधवकरविरचिते माधवनिदाने वातव्याधिनिदानं समाप्तम् ||२२||
इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां वातव्याधिनिदानं समाप्तम्||२२||