Adhikarana mAdhavanidAnAntargataviShayAnukramaNikA (9) · Śloka 9
अथ विषयानुक्रमणिका | ज्वरोऽतिसारो ग्रहणी चार्शोऽजीर्णं विसूचिका | अलसश्च विलम्बी च क्रिमिरुक्पाण्डुकामलाः ||१|| हलीमकं रक्तपित्तं राजयक्ष्मा उरःक्षतम् | कासो हिक्का सह श्वासैः स्वरभेदस्त्वरोचकः ||२|| छर्दिस्तृष्णा च मूर्छाद्या रोगाः पानात्ययादयः | दाहोन्मादावपस्मारः कथितोऽथानिलामयः ||३|| वातरक्तमूरुस्तम्भ आमवातोऽथ शूलरुक् | पक्तिजं शूलमानाह उदावर्तोऽथ गुल्मरुक् ||४|| हृद्रोगो मूत्रकृच्छ्रं च मूत्राघातस्तथाऽश्मरी | प्रमेहो मधुमेहश्च पिडकाश्च प्रमेहजाः ||५|| मेदस्तथोदरं शोथो वृद्धिश्च गलगण्डकः | गण्डमालाऽपची ग्रन्थिरर्बुदः श्लीपदं तथा ||६|| विद्रधिर्व्रणशोथश्च द्वौ व्रणौ भग्ननाडिके | भगन्दरोपदंशौ च शूकदोषस्त्वगामयः ||७|| शीतपित्तमुदर्दश्च कोठश्चैवाम्लपित्तकम् | विसर्पश्च सविस्फोटः सरोमान्त्यो मसूरिकाः ||८|| क्षुद्रास्यकर्णनासाक्षिशिरःस्त्रीबालकामयाः | विषं चेत्ययमुद्दिष्टो रुग्विनिश्चयसङ्ग्रहः ||९||
🔊 Audio coming soon
अस्मिन् ग्रन्थे रोगसङ्ग्रहमाह– ज्वरातिसारावित्यादि| ग्रहण्यश्चतस्रः| एकस्मिन्नजीर्णनिदाने विसूचिकालसविलम्बिका ज्ञेयाः| पानात्ययादयः पानविभ्रमादयः| पिडकाः प्रमेहोक्ताः| मेदोदोषो मेदोरोगः| उपदंशो मेढ्ररोगः| त्वगामयः कुष्ठरोगः| रोमान्त्यो मसूरिकाभेदः| आस्यं मुखम्| रुग्विनिश्चये अयमुद्देशः||९||