Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

8. bhagandaracikitsitam

Adhikarana 1 (1-3) · Śloka 3

अथातो भगन्दराणां चिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२|| पञ्च भगन्दरा व्याख्याताः , तेष्वसाध्यः शम्बूकावर्तः शल्यनिमित्तश्च; शेषाः कृच्छ्रसाध्याः ||३||

🔊 Audio coming soon

निदानेऽपि भगन्दराणां साध्यासाध्यविभागे पूर्वोक्ते पुनरिह चिकित्सितविधानायानुकथनं प्रकरणान्तरत्वादिति न पौनरुक्त्यम्||१-३||

Adhikarana 2 (4) · Śloka 4

तत्र भगन्दरपिडकोपद्रुतमातुरमपतर्पणादिविरेचनान्तेनैकादशविधेनोपक्रमेणोपक्रमेतापक्वपिडकं, पक्वेषु चोपस्निग्धमवगाहस्विन्नं शय्यायां सन्निवेश्यार्शसमिव यन्त्रयित्वा, भगन्दरं समीक्ष्य पराचीनमवाचीनं वा, ततः प्रणिधायैषणीमुन्नम्य साशयमुद्धरेच्छस्त्रेण; अन्तर्मुखे चैवं सम्यग्यन्त्रं प्रणिधाय प्रवाहमाणस्य भगन्दरमुखमासाद्यैषणीं दत्त्वा शस्त्रं पातयेत्; आसाद्य वाऽग्निं क्षारं चेति; एतत् सामान्यं सर्वेषु ||४||

🔊 Audio coming soon

तत्रेत्यादि| अपतर्पणादिविरेचनान्त उपक्रमो द्विव्रणीयचिकित्सितोक्तः| पक्वेषु चेति चकारेण भिन्नेषु चेति द्रष्टव्यम्| तत्र बहिर्मुखं पराचीनम्, अन्तर्मुखमवाचीनम्| एषणी लोहादिशलाका| तत्रान्तर्मुखमवाचीनमित्युक्तं, तत्र विशेषं निर्दिशन्नाह- अन्तर्मुखे इत्यादि| सर्वेष्वग्निक्षारावासाद्यैव||४||

Adhikarana 3 (5) · Śloka 5

विशेषतस्तु- नाड्यन्तरे व्रणान् कुर्याद्भिषक् तु शतपोनके | ततस्तेषूपरूढेषु शेषा नाडीरुपाचरेत् ||५||

🔊 Audio coming soon

नाड्यन्तरे इत्यादि| नाडीनां पूर्यमाणानां निकटस्थानां त्रिचतुराणामन्तरं मध्यं नाड्यन्तरं, तस्मिन् व्रणान् कुर्यात्| भिषक् सुशिक्षितो वैद्यः||५||

Adhikarana 4 (6-8) · Śloka 9

गतयोऽन्योन्यसम्बद्धा बाह्याश्छेद्यास्त्वनेकधा | नाडीरनभिसम्बद्धा यश्छिनत्त्येकधा भिषक् ||६|| स कुर्याद्विवृतं जन्तोर्व्रणं गुदविदारणम् | तस्य तद्विवृतं मार्गं विण्मूत्रमनुगच्छति ||७|| आटोपं गुदशूलं च करोति पवनो भृशम् | तत्राधिगततन्त्रोऽपि भिषङ्मुह्येदसंशयम् ||८|| तस्मान्न विवृतः कार्यो व्रणस्तु शतपोनके |९|

🔊 Audio coming soon

यदि नाडीष्वनिश्चितनिकटासु छेदः क्रियते तदा को दोषः स्यादित्याह- गतय इत्यादि| अनेकधा अनेकप्रकारा इत्यर्थः| आटोपम् आध्मानम्| विवृतो व्यात्तमुखः||६-८||-

Adhikarana 5 (9-11) · Śloka 11

व्याधौ तत्र बहुच्छिद्रे भिषजा वै विजानता ||९|| अर्धलाङ्गलकश्छेदः कार्यो लाङ्गलकोऽपि वा | सर्वतोभद्रको वाऽपि कार्यो गोतीर्थकोऽपि वा ||१०|| सर्वतः स्रावमार्गांस्तु दहेद्वैद्यस्तथाऽग्निना | सुकुमारस्य भीरोर्हि दुष्करः शतपोनकः ||११||

🔊 Audio coming soon

व्याधावित्यादि| लाङ्गलं हलमुच्यते, अर्धलाङ्गल इव अर्धलाङ्गलकः| सर्वतोभद्रस्त्वासनविशेषः पर्यङ्किकाकारो मण्डलाङ्कुशसदृशो वा| गोतीर्थको गच्छतो गोमूत्रगतिसदृशः; अथवा गोतीर्थ गोयोनिरुच्यते, तदाकारो गोतीर्थकः; अथवा गोतीर्थं निपानं येन गावः पिबन्ति, तत्खुराङ्कितवच्छेदविशेषः कर्तव्यः; तथाच तन्त्रान्तरम्- “द्वाभ्यां समाभ्यां पार्श्वाभ्यां छेदो लाङ्गलको मतः| ह्रस्वमेकतरं यच्च सोऽर्धलाङ्गलकः स्मृतः|| सेवनीं वर्जयित्वा तु चतुर्धा दारिते गुदे| सर्वतोभद्रकं छेदमाहुश्छेदविदो जनाः|| पार्श्वागतेन शस्त्रेण छेदो गोतीर्थको भवेत्”- इति| छिन्ने पश्चात्कर्म निर्दिशन्नाह- सर्वत इत्यादि| अग्निनेति नात्रावधारणं, तेन क्षारेणापि| दुष्कर इति नाडीनामनेकत्वात्||९-११||

Adhikarana 6 (12-19) · Śloka 20

रुजास्रावापहं तत्र स्वेदमाशु प्रयोजयेत् | स्वेदद्रव्यैर्यथोद्दिष्टैः कृशरापायसादिभिः ||१२|| ग्राम्यानूपौदकैर्मांसैर्लावाद्यैर्वाऽपि विष्किरैः | वृक्षादनीमथैरण्डं बिल्वादिं च गणं तथा ||१३|| कषायं सुकृतं कृत्वा स्नेहकुम्भे निषेचयेत् | नाडीस्वेदेन तेनास्य तं व्रणं स्वेदयेद्भिषक् ||१४|| तिलैरण्डातसीमाषयवगोधूमसर्षपान् | लवणान्यम्लवर्गं च स्थाल्यामेवोपसाधयेत् ||१५|| आतुरं स्वेदयेत्तेन तथा सिध्यति कुर्वतः | स्विन्नं च पाययेदेनं कुष्ठं च लवणानि च ||१६|| वचाहिङ्ग्वजमोदं च समभागानि सर्पिषा | मार्द्वीकेनाथवाऽम्लेन सुरासौवीरकेण वा ||१७|| ततो मधुकतैलेन तस्य सिञ्चेद्भिषग्व्रणम् | परिषिञ्चेद्गुदं चास्य तैलैर्वातरुजापहैः ||१८|| विधिनाऽनेन विण्मूत्रं स्वमार्गमधिगच्छति | अन्ये चोपद्रवास्तीव्राः सिध्यन्त्यत्र न संशयः ||१९|| शतपोनक आख्यात... |२०|

🔊 Audio coming soon

तत्र कृतकर्मणि रुजोपशमार्थं पश्चात्कर्म निर्दिशन्नाह- रुजास्रावेत्यादि| तिलतण्डुलमाषैर्यवागूः कृता कृशरा, क्षीरसिद्धास्तण्डुलाः पायसः| गयी तु ‘रुजास्रावापहं तत्र’ इत्यत्र “तत्र धीरो विधानज्ञ” इति पठति| वृक्षादनी बन्दाकः, वृक्षकलम्बिकामपरे| बिल्वादिश्च गणो बृहत्पञ्चमूलम्| अम्लवर्गो रसविज्ञानीयोक्तः| स्विन्नस्यानन्तरं पानं निर्दिशन्नाह- स्विन्नमित्यादि| मार्द्वीकेन द्राक्षामद्येन| अम्लेन काञ्जिकेन| सौवीरकेण काञ्जिकभेदेन| अनेन पानेन विण्मूत्राणि स्वमार्गमनुप्रपद्यन्ते अग्निश्च दीप्तो भवति| ततो मन्दे पित्ते रक्ते वाते च प्रबले स्नेहपरिषेकं निर्दिशन्नाह- तत इत्यादि| सामान्यक्वाथकल्कविधिना मधुकतैलं साध्यम्| वातरुजापहैर्वातव्याधिनिर्दिष्टैः| अन्ये चोपद्रवा आध्मानगुदभ्रंशादयः||१२-१९||-

Adhikarana 7 (20-22) · Śloka 23

...उष्ट्रग्रीवे क्रियां शृणु | अथोष्ट्रग्रीवमेषित्वा छित्त्वा क्षारं निपातयेत् ||२०|| पूतिमांसव्यपोहार्थमग्निरत्र न पूजितः | अथैनं घृतसंसृष्टैस्तिलैः पिष्टैः प्रलेपयेत् ||२१|| बन्धं ततोऽनुकुर्वीत परिषेकं तु सर्पिषा | तृतीये दिवसे मुक्त्वा यथास्वं शोधयेद्भिषक् ||२२|| ततः शुद्धं विदित्वा च रोपयेत्तु यथाक्रमम् |२३|

🔊 Audio coming soon

उष्ट्रग्रीवे पित्तभगन्दरे क्रियां निर्दिशन्नाह- अथेत्यादि| उष्ट्रग्रीवे पूतिमांसापकर्षणाय क्षारकर्म| गयी तु ‘एष्योष्ट्रग्रीवमात्रत्वे छित्त्वा क्षारं निपातयेत्’ इति पठति| बन्धोऽत्र चर्मणाऽन्तश्छिद्रेण गोफणकः| सर्पिषा घृतेन परिषेकः| यथास्वं शोधनं पित्तापहरद्रव्यकृतम्| यथाक्रमं क्रमानतिक्रमेण रोपणावस्थायामित्यर्थः| रोपयेत् पित्तव्रणरोपणैरेव| अस्य चैकनाडीत्वाच्छेदविशेषानभिधानम्||२०-२२||-

Adhikarana 8 (23-27) · Śloka 28

उत्कृत्यास्रावमार्गंस्तु परिस्राविणि बुद्धिमान् ||२३|| क्षारेण वा स्रावगतिं दहेद्धुतवहेन वा | सुखोष्णेनाणुतैलेन सेचयेद्गुदमण्डलम् ||२४|| उपनाहाः प्रदेहाश्च मूत्रक्षारसमन्विताः | वामनीयौषधैः कार्याः परिषेकाश्च मात्रया ||२५|| मृदुभूतं विदित्वैनमल्पस्रावरुगन्वितम् | गतिमन्विष्य शस्त्रेण छिन्द्यात् खर्जूरपत्रकम् ||२६|| चन्द्रार्धं चन्द्रचक्रं च सूचीमुखमवाङ्मुखम् | छित्त्वाऽग्निना दहेत् सम्यगेवं क्षारेण वा पुनः ||२७|| ततः संशोधनैरेव मृदुपूर्वैर्विशोधयेत् |२८|

🔊 Audio coming soon

कफजस्य परिस्राविणश्चिकित्सां निर्दिशन्नाह- उत्कृत्येत्यादि| परितः सर्वतः स्रोतुं शीलं यस्य स परिस्रावी सर्वतः स्रावमुखः| अत एव ‘स्रावमार्गान्’ इति बहुवचनम्| एतेन मध्यस्थनाड्याः परितः स्थितान्यास्रावमुखानि शस्त्रेणोत्कृत्य क्षारेणाग्निना वा दहेत्, नतु मध्यस्थनाडीं प्रागेवोत्कृत्य क्षारेणाग्निना वा दहेत्, तथा चास्रावमुखानां तथैवावस्थानात्; मुखेषु पुनः प्रथमं दग्धेषु स्रावे च बलीयसि मन्दतामापन्ने नाडीं पुनर्मध्यमामन्विष्य छिन्द्यादित्येतदर्थमेवाग्रे छेदं वक्ष्यति| अणुतैलेन सेचनं शस्त्ररुजाशान्त्यर्थम्, अणुतैलं वातव्याध्युत्पादितम्| उपनाहो बन्धनम्| प्रदेहाः प्रलेपाः| मूत्रं गोमूत्रम्| वामनीयं मदनफलादि| मात्रया अल्पश इत्यर्थः, गतिमिति मध्यस्थां प्रधानामास्रावगतिं छिन्द्यात्| प्रागुत्कृत्येत्यनेनैव छेदनमभिहितं, तस्य बह्वास्रावे मुख्यविषयत्वाद्विशेषमाह- खर्जूरपत्रकमित्यादि| खर्जूरपत्रमिव खर्जूरपत्रकं, तच्च मध्यनाडीच्छेदस्य पार्श्वद्वयस्थानां मुखानां तिर्यक्च्छेदेन पङ्क्तिद्वयेन भवति| मध्यवक्रनाड्यनुलोमच्छेदस्यार्धचन्द्रतुल्यत्वादर्धचन्द्रः| मध्यरूढव्रणपदस्यैकमूलपार्श्वद्वयगतनाडीद्वयेनैकमुखेन बहिर्मुखेन चन्द्रमण्डलतुल्यत्वाच्छेदस्य चन्द्रमध्यतनीयस्याभग्नकूलयोर्विशालायां वा नाड्यनुरोधिमध्यैकच्छेदेन मूलाग्रयोस्त्रिशिष्येऽवच्छेदेन चक्राकारसादृश्याच्चन्द्रचक्रम्| अन्तर्मूले स्थूलं मुखेऽणु तेन सूचीमुखं, तदेव अवाङ्मुखमधोमुखम्| ततः संशोधनैरित्यादि|- ततः पूर्वं मृदु शोधयित्वा विज्ञातकोष्ठस्य तीक्ष्णं शोधनम्||२३-२७||-

Adhikarana 9 (28-29) · Śloka 29

बहिरन्तर्मुखश्चापि शिशोर्यस्य भगन्दरः ||२८|| तस्याहितं विरेकाग्निशस्त्रक्षारावचारणम् | यद्यन्मृदु च तीक्ष्णं च तत्तत्तस्यावचारयेत् ||२९||

🔊 Audio coming soon

शिशोः क्रियाविशेषोपदेशात् क्रियान्तरनिषेधं दर्शयन्नाह- बहिरित्यादि| तस्यैव कर्तव्यविशेषमुद्दिशन्नाह- यद्यदित्यादि| शस्त्रकर्मणि तु त्वक्सारादिचतुर्वर्गः, विरेके पुनश्चतुरङ्गुलादि| मृदु च तीक्ष्णं चेति परस्परविरोधवचनेन नातितीक्ष्णं नातिमृदु चावचारणीयं; नात्युष्णशीता काकमाची यथा||२८-२९||

Adhikarana 10 (30) · Śloka 31

आरग्वधनिशाकालाचूर्णं मधुघृताप्लुतम् | अग्रवर्तिप्रणिहितं व्रणानां शोधनं हितम् ||३०|| योगोऽयं नाशयत्याशु गतिं मेघमिवानिलः |३१|

🔊 Audio coming soon

आरग्वधः कृतमालकः, निशा हरिद्रा, काला अहिंस्रा| सूत्रमयी घनवर्तिता वर्तिरग्रवर्तिः||३०||-

Adhikarana 11 (31-32) · Śloka 33

आगन्तुजे भिषङ्नाडीं शस्त्रेणोत्कृत्य यत्नतः ||३१|| जम्ब्वोष्ठेनाग्निवर्णेन तप्तया वा शलाकया | दहेद्यथोक्तं मतिमांस्तं व्रणं सुसमाहितः ||३२|| कृमिघ्नं च विधिं कुर्याच्छल्यानयनमेव च |३३|

🔊 Audio coming soon

शल्यनिमित्तस्य भगन्दरस्य चिकित्सामुद्दिशन्नाह- आगन्तुज इत्यादि| जम्ब्वोष्ठं जम्बूफलसदृशमुखाग्रा कृष्णपाषाणरचिता वर्तिः| शल्यानयनमिति शल्ये सति||३१-३२||-

Adhikarana 12 (33) · Śloka 33

प्रत्याख्यायैष चारभ्यो वर्ज्यश्चापि त्रिदोषजः ||३३||

🔊 Audio coming soon

शेषयोर्द्वयोरसाध्यत्वे एकस्य पाक्षिकीं सिद्धिमुपदिशन्नाह- प्रत्याख्यायेत्यादि||३३||

Adhikarana 13 (34-36) · Śloka 36

एतत् कर्म समाख्यातं सर्वेषामनुपूर्वशः | एषां तु शस्त्रपतनाद्वेदना यत्र जायते ||३४|| तत्राणुतैलेनोष्णेन परिषेकः प्रशस्यते | वातघ्नौषधसम्पूर्णां स्थालीं छिद्रशराविकाम् ||३५|| स्नेहाभ्यक्तगुदस्तप्तामध्यासीत सबाष्पिकाम् | नाड्या वाऽस्याहरेत् स्वेदं शयानस्य रुजापहम् | उष्णोदकेऽवगाह्यो वा तथा शाम्यति वेदना ||३६||

🔊 Audio coming soon

इदानीं सर्वभगन्दराणामेव शस्त्रपातनवेदनासु तच्छमनाय स्नेहपरिषेकादीनि निर्दिशन्नाह- एतत्कर्मेत्यादि| तत्राणुतैलं केवलं वातवेदनाविषयम्| वातघ्नौषधानि भद्रदार्वादीन्येरण्डादीनि च| बाष्पस्वेदस्तु कर्तव्यो वायौ रक्तपित्तसमन्विते||३४-३६||

Adhikarana 14 (37) · Śloka 37

कदलीमृगलोपाकप्रियकाजिनसम्भृतान् | कारयेदुपनाहांश्च साल्वणादीन् विचक्षणः ||३७||

🔊 Audio coming soon

वातकफजे वेदनायामुपनाहस्वेदमुद्दिशन्नाह- कदलीत्यादि| कदलीमृगः पूर्वदेशे प्रायशः शबलो दृष्टः, स तु बृहत्तमबिडालसमो व्याघ्राकारो बिलेशयः; लोपाको लाङ्गलकः शृगालभेदः; प्रियकः ललितकोऽजगरप्रायः श्लक्ष्णो दीर्घः; अजिनं चर्म||३७||

Adhikarana 15 (38) · Śloka 38

कटुत्रिकं वचाहिङ्गुलवणान्यथ दीप्यकम् | पाययेच्चाम्लकौलत्थसुरासौवीरकादिभिः ||३८||

🔊 Audio coming soon

कटुत्रिकमित्यादि| दीप्यकमजमोदा| अम्लं काञ्जिकम्, सुरा मद्यभेदः, सौवीरकं काञ्जिकभेदः| एतदपि गुदकोष्ठगतवेदनोपशमार्थम्||३८||

Adhikarana 16 (39) · Śloka 40

ज्योतिष्मतीलाङ्गलकीश्यामादन्तीत्रिवृत्तिलाः | कुष्ठं शताह्वा गोलोमी तिल्वको गिरिकर्णिका ||३९|| कासीसं काञ्चनक्षीर्यौ वर्गः शोधन इष्यते |४०|

🔊 Audio coming soon

अतः परं भगन्दरक्षतानां शोधनीयोत्सादनीयरोपणीयान् वैशेषिकान्निर्दिशन्नाह- ज्योतिष्मतीत्यादि| ज्योतिष्मती कुङ्कुमर्दनिका, लाङ्गली कलिहारिका, श्यामा त्रिवृद्विशेषः| गोलोमी दूर्वा| तिल्वकः पट्टिकारोध्रः| गिरिकर्णिका श्वेतस्यन्दा| काञ्चनक्षीर्यौ द्वे एकं कङ्कुष्ठम्, अन्या पीतदुग्धा बृहत्पत्री यवतिक्ता| वर्गस्य यथालाभेन प्रयोगः| एष वर्गो भगन्दरशोधनः कषायादिषु||३९||-

Adhikarana 17 (40) · Śloka 41

त्रिवृत्तिला नागदन्ती मञ्जिष्ठा पयसा सह ||४०|| उत्सादनं भवेदेतत् सैन्धवक्षौद्रसंयुतम् |४१|

🔊 Audio coming soon

त्रिवृदित्यादि| नागदन्ती दन्तिनी| उत्सादनं निम्नव्रणवस्तुनः पूरणं लेपनयोगेन| ‘पयसा सह’ इत्यत्र ‘सर्पिषा सह’ इति केचित् पठन्ति||४०||-

Adhikarana 18 (41-42) · Śloka 43

रसाञ्जनं हरिद्रे द्वे मञ्जिष्ठानिम्बपल्लवाः ||४१|| त्रिवृत्तेजोवतीदन्तीकल्को नाडीव्रणापहः | कुष्ठं त्रिवृत्तिला दन्ती मागध्यः सैन्धवं मधु ||४२|| रजनी त्रिफला तुत्थं हितं स्याद्व्रणशोधनम् |४३|

🔊 Audio coming soon

रसाञ्जनादिकुष्ठादियोगौ रोपणशोधनौ||४१-४२||-

Adhikarana 19 (43-46) · Śloka 46

मागध्यो मधुकं रोध्रं कुष्ठमेला हरेणवः ||४३|| समङ्गा धातकी चैव सारिवा रजनीद्वयम् | प्रियङ्गवः सर्जरसः पद्मकं पद्मकेसरम् ||४४|| सुधा वचा लाङ्गलकी मधूच्छिष्टं ससैन्धवम् | एतत् सम्भृत्य सम्भारं तैलं धीरो विपाचयेत् ||४५|| एतद्वै गण्डमालासु मण्डलेष्वथ मेहिषु | रोपणार्थं हितं तैलं भगन्दरविनाशनम् ||४६||

🔊 Audio coming soon

मागधी पिप्पली| समङ्गा अञ्जलिकारिका; वराहक्रान्तेत्यपरे| कल्पनामाह- स्नेहचतुर्थांशो भेषजकल्कः, स्नेहाच्चतुर्गुणो द्रवः, द्रवोऽत्र पानीयम् “अनुक्ते द्रवकार्ये तु सर्वत्र सलिलं स्मृतम्” (च. क. १२) इत्युक्तत्वात्||४३-४६||

Adhikarana 20 (47) · Śloka 47

न्यग्रोधादिगणश्चैव हितः शोधनरोपणे | तैलं घृतं वा तत्पक्वं भगन्दरविनाशनम् ||४७||

🔊 Audio coming soon

शोधनरोपणे ‘कषायादिभिः’ इति शेषः||४७||

Adhikarana 21 (48-49) · Śloka 49

त्रिवृद्दन्तीहरिद्रार्कमूलं लोहाश्वमारकौ | विडङ्गसारं त्रिफला स्नुह्यर्कपयसी मधु ||४८|| मधूच्छिष्टसमायुक्तैस्तैलमेतैर्विपाचयेत् | भगन्दरविनाशार्थमेतद्योज्यं विशेषतः ||४९||

🔊 Audio coming soon

त्रिवृदित्यादि| लोहमगुरु| अश्वमारकः करवीरः| स्नुही सेहुण्डः| इदमपि तैलं सामान्यकल्कपरिभाषया कर्तव्यम् ||४८-४९||

Adhikarana 22 (50-52) · Śloka 52

चित्रकार्कौ त्रिवृत्पाठे मलपूं हयमारकम् | सुधां वचां लाङ्गलकीं सप्तपर्णं सुवर्चिकाम् ||५०|| ज्योतिष्मतीं च सम्भृत्य तैलं धीरो विपाचयेत् | एतद्धि स्यन्दनं तैलं भृशं दद्याद्भगन्दरे ||५१|| शोधनं रोपणं चैव सवर्णकरणं तथा | द्विव्रणीयमवेक्षेत व्रणावस्थासु बुद्धिमान् ||५२||

🔊 Audio coming soon

चित्रकेत्यादि| मलपूः काकोदुम्बरिका| हयमारकः करवीरः| सुधा स्नुही| सुवर्चिका स्वर्जिक्षारः| ‘एतद्धि स्यन्दनम्’ इत्यत्र ‘एतद्विस्यन्दनं’ इति पाठे विशेषेण स्यन्दयति दोषांश्च्यावयतीति यथार्थं नाम विस्यन्दनम्||५०-५२||

Adhikarana 23 (53) · Śloka 53

छिद्रादूर्ध्वं हरेदोष्ठमर्शोयन्त्रस्य यन्त्रवित् | ततो भगन्दरे दद्यादेतदर्धेन्दुसन्निभम् ||५३||

🔊 Audio coming soon

भगन्दरयन्त्रमर्शोयन्त्रादवयवविशेषापनयने विशिष्टं निर्दिशन्नाह- छिद्रादूर्ध्वमित्यादि||५३||

Adhikarana 24 (54) · Śloka 54

व्यायामं मैथुनं कोपं पृष्ठयानं गुरूणि च | संवत्सरं परिहरेदुपरूढव्रणो नरः ||५४||

🔊 Audio coming soon

रूढभगन्दरस्यापि पुनरनुबन्धभयात् परिहार्यमुद्दिशन्नाह- व्यायाममित्यादि||५४||

Adhikarana puShpikA · Śloka 8

इति सुश्रुतसंहितायां चिकित्सास्थाने भगन्दरचिकित्सितं नामाष्टमोऽध्यायः ||८||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थानेऽष्टमोऽध्यायः||८||