Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

7. aśmarīcikitsitam

Adhikarana 1 (1-4) · Śloka 4

अथातोऽश्मरीचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२|| अश्मरी दारुणो व्याधिरन्तकप्रतिमो मतः | औषधैस्तरुणः साध्यः प्रवृद्धश्छेदमर्हति ||३|| तस्य पूर्वेषु रूपेषु स्नेहादिक्रम इष्यते | तेनास्यापचयं यान्ति व्याधेर्मूलान्यशेषतः ||४||

🔊 Audio coming soon

अश्मरीत्यादि| तरुणः तत्कालोत्पन्नः||१-४||

Adhikarana 2 (5-7) · Śloka 8

पाषाणभेदो वसुको वशिराश्मन्तकौ तथा | शतावरी श्वदंष्ट्रा च बृहती कण्टकारिका ||५|| कपोतवङ्काऽऽर्तगलः कच्चकोशीरकुब्जकाः | वृक्षादनी भल्लुकश्च वरुणः शाकजं फलम् ||६|| यवाः कुलत्थाः कोलानि कतकस्य फलानि च | ऊषकादिप्रतीवापमेषां क्वाथैर्घृतं कृतम् ||७|| भिनत्ति वातसम्भूतामश्मरीं क्षिप्रमेव तु |८|

🔊 Audio coming soon

येन स्नेहादिक्रमेण व्याधिमूलानि दोषदूष्यरूपाण्यशेषतः प्रशमं यान्ति तं निर्दिशन्नाह- पाषाणेत्यादि| वसुको बकपुष्पम्| वशिरो मर्कटसञ्ज्ञस्तृणजातिविशेषः, सूर्यावर्तभेद इत्यन्ये| अश्मन्तकोऽम्ललोटः कोविदारसदृशपत्रकः| कपोतवङ्का कटभीसदृशपत्रो विटपी मध्यदेशे प्रसिद्धः| आर्तगलः ककुभकः सुगन्धिमूलः ‘कौहा’ इति नाम्रा पूर्वदेशे प्रसिद्धः, अन्ये तु आर्तगलः ‘कुखक’ इत्याहुः, बहिःकेशरः कण्टकितफलो विटप इत्यन्ये| कच्चको मध्यलेखानिचितः ऋजुकपत्र ईषद्रक्तमूलः ‘कवहक’ इति मालवके प्रसिद्धः, अन्ये तु कच्चकस्थाने ‘ककुभ’ इति पठन्ति, स च प्रसिद्धः| कुब्जः गुञ्जा| वृक्षादनी बन्दाकः| भल्लुकः श्योनाकः| शाकः कर्कशमसृणपृष्टोदरपत्रो वृक्षस्तस्य फलम्| कतकफलमम्बुप्रसादनं शशकशुष्कपुरीषप्रतिमम्| एषां सामान्यस्नेहकषायपरिभाषया कषायः; ऊषकादीनां स्नेहपादेन कल्कः||५-७||-

Adhikarana 3 (8) · Śloka 9

क्षारान् यवागूर्यूषांश्च कषायाणि पयांसि च ||८|| भोजनानि च कुर्वीत वर्गेऽस्मिन् वातनाशने |९|

🔊 Audio coming soon

घृतौषधवर्गं सङ्क्षेपार्थमन्यत्राप्यतिदिशन्नाह- क्षारानित्यादि| क्षाराश्चात्र पातव्याः, ते च चूर्णत्वात् कर्षमात्रया सलिलेन मस्त्वादिबस्तिशोधनद्रव्येण वा पलद्वयचतुष्टयप्रमाणेन; क्षारोदकपक्षे तु कर्षद्वयं त्रयं वा षड्गुणेनाष्टगुणेन वा जलेन बहुशः परिस्राव्य पूतं पेयम्| यवाग्वादयश्चात्र पलद्रव्यक्वाथेन कर्तव्याः| भोजनानि भक्तादयः| चकाराच्चूर्णानामपि समुच्चयः कर्तव्यः| एवं पित्तकफहरद्रव्यवर्गेऽप्यूह्यम्| क्षारादीनां कल्पना परिभाषाबलात्; स्वयमप्यूहः कर्तव्यः||८||-

Adhikarana 4 (9-13) · Śloka 13

कुशः काशः सरो गुन्द्रा इत्कटो मोरटोऽश्मभित् ||९|| वरी विदारी वाराही शालिमूलत्रिकण्टकम् | भल्लूकः पाटला पाठा पत्तूरोऽथ कुरुण्टिका ||१०|| पुनर्नवा शिरीषश्च क्वथितास्तेषु साधितम् | घृतं शिलाजमधुकबीजैरिन्दीवरस्य च ||११|| त्रपुसैर्वारुकादीनां बीजैश्चावापितं शुभम् | भिनत्ति पित्तसम्भूतामश्मरीं क्षिप्रमेव तु ||१२|| क्षारान् यवागूर्यूषांश्च कषायाणि पयांसि च | भोजनानि च कुर्वीत वर्गेऽस्मिन् पित्तनाशने ||१३||

🔊 Audio coming soon

पित्ताश्मरीचिकित्सामाह- कुश इत्यादि| इत्कटः महती खगाली| मोरट इक्षुमूलम्| पत्तूरः शरबालिका| कुरण्टिका शरबालिकाभेदो लोहितपुष्पः| शिलाजं शिलाजतु| इन्दीवरं शरबालिकाभेदो दीर्घपत्रो बहुलपुष्पः; जेज्जटस्तु इन्दीवरं नीलोत्पलं, तन्नेच्छति गयी||९-१३||

Adhikarana 5 (14-16) · Śloka 16

गणो वरुणकादिस्तु गुग्गुल्वेलाहरेणवः | कुष्ठभद्रादिमरिचचित्रकैः ससुराह्वयैः ||१४|| एतैः सिद्धमजासर्पिरूषकादिगणेन च | भिनत्ति कफसम्भूतामश्मरीं क्षिप्रमेव तु ||१५|| क्षारान् यवागूर्यूषांश्च कषायाणि पयांसि च | भोजनानि च कुर्वीत वर्गेऽस्मिन् कफनाशने ||१६||

🔊 Audio coming soon

कफाश्मरीचिकित्सामाह- गण इत्यादि| भद्रादिर्भद्रदारुकुष्ठहरिद्रेत्यादिः| अजासर्पिः केचिन्न पठन्ति, ते प्रकरणात् पूर्वोदितात् सामान्येन गव्यमेव घृतं ददति| कफाश्मरीचिकित्सितेनैव शुक्राश्मरीचिकित्सितमुक्तं मन्तव्यं, तुल्यगुणत्वात् कफशुक्रयोरिति||१४-१६||

Adhikarana 6 (17) · Śloka 17

पिचुकाङ्कोलकतकशाकेन्दीवरजैः फलैः | चूर्णितैः सगुडं तोयं शर्कराशमनं पिबेत् ||१७||

🔊 Audio coming soon

इदानीं शर्करापतनाय शमनाय वा योगोपदेशः| पिचुकः करीरः, तस्य फलं; ‘कार्पासफलं’ इत्येके| इन्दीवरं कर्णपूरकाख्यो महापुष्पः शरवालिकाभेदः; अन्ये नीलोत्पलमाहुः, तन्नेच्छति गयी| अङ्कोलोङ्कोटः, कतकः प्रागुक्तः शाकोऽपि| गुडोऽत्र चूर्णसमो ज्ञेयः, “चूर्णे चूर्णसमो देयो मोदके द्विगुणो गुडः”- इत्युक्तत्वात्| उष्णोदकेन सह पातव्यम्||१७||

Adhikarana 7 (18) · Śloka 19

क्रौञ्चोष्ट्ररासभास्थीनि श्वदंष्ट्रा तालमूलिका | अजमोदा कदम्बस्य मूलं नागरमेव च ||१८|| पीतानि शर्करां भिन्द्युः सुरयोष्णोदकेन वा |१९|

🔊 Audio coming soon

क्रौञ्चेत्यादि| क्रौञ्चः क्रौञ्चपक्षी| तालमूलिका मुषली मूषकपुच्छाकारशिफा||१८||-

Adhikarana 8 (19) · Śloka 20

त्रिकण्टकस्य बीजानां चूर्णं माक्षिकसंयुतम् ||१९|| अविक्षीरेण सप्ताहमश्मरीभेदनं पिबेत् |२०|

🔊 Audio coming soon

त्रिकण्टकस्येत्यादि|- त्रिकण्टको गोक्षुरकः| अन्ये तु ‘मर्कटकस्य बीजानां’ इति पठन्ति, तत्रापि स एवार्थः| अनेन योगेन भिद्यते अश्मरी, शर्करा तु शान्तिमुपैति||१९||-

Adhikarana 9 (20-21) · Śloka 22

द्रव्याणां तु घृतोक्तानां क्षारोऽविमूत्रगालितः ||२०|| ग्राम्यसत्त्वशकृत्क्षारैः संयुक्तः साधितः शनैः | तत्रोषकादिरावापः कार्यस्त्रिकटुकान्वितः ||२१|| एष क्षारोऽश्मरीं गुल्मं शर्करां च भिनत्त्यपि |२२|

🔊 Audio coming soon

द्रव्याणामित्यादि| अविशेषोक्तेर्वातादीनां त्रयाणां दोषाणामपि गणानां, वर्गत्वाद्यथालाभेन; तिलनालादिदीपनेन क्षारीकृतानां भागः| ग्राम्या ग्रामभवा अश्वादयः , तेषां समभागपुरीषक्षारसंयुक्तः षड्गुणाविमूत्रगालितः| ततस्तस्य क्षारोदकस्य पाकसिद्धिसमये चतुर्थांशेनोषकादित्रिकटुकयोः समभागेन मिश्रितयोः प्रक्षेपः||२०-२१||-

Adhikarana 10 (22) · Śloka 23

तिलापामार्गकदलीपलाशयवकल्कजः ||२२|| क्षारः पेयोऽविमूत्रेण शर्करानाशनः परः |२३|

🔊 Audio coming soon

तिलेत्यादि|- तिलादेर्कल्कजातस्य प्रत्येकं क्षारः समोऽविमूत्रपलद्वयेन पेयः, तिलादेः क्षारस्य कर्षद्वयं त्रयं वाऽविमूत्रेणषड्गुणेन बहुशः स्रावितं पूतं वा पेयम्||२२||-

Adhikarana 11 (23) · Śloka 23

पाटलाकरवीराणां क्षारमेवं समाचरेत् ||२३||

🔊 Audio coming soon

पाटलेत्यादि| एते च वातकफसम्भूतायामश्मर्यां मधुरक्षीरघृताशिनः क्षारयोगा योज्याः||२३||

Adhikarana 12 (24) · Śloka 24

श्वदंष्ट्रायष्टिकाब्राह्मीकल्कं वाऽक्षसमं पिबेत् |२४|

🔊 Audio coming soon

श्वदंष्ट्रेत्यादि| यष्टिका यष्टिमधु| ब्राह्मी लवणिका| पानमत्र अविमूत्रेणैव|२४|-

Adhikarana 13 (24) · Śloka 24

सहैडकाख्यौ पेयौ वा शोभाञ्जनकमार्कवौ ||२४||

🔊 Audio coming soon

सहैडकाख्यावित्यादि| एडाख्यया सह शोभाञ्जनमार्कवौ पातव्यावविमूत्रेणैव| मार्कवो भृङ्गराजः||२४||

Adhikarana 14 (25) · Śloka 25

कपोतवङ्कामूलं वा पिबेदम्लैः सुरादिभिः | तत्सिद्धं वा पिबेत् क्षीरं वेदनाभिरुपद्रुतः ||२५||

🔊 Audio coming soon

कपोतेत्यादि| कपोतवङ्का प्रसिद्धैव| अम्लैः काञ्जिकादिभिः| सुरादिभिः सुरासौवीरकमैरेयकमेदकैः| तदित्यादि| तत्सिद्धं कपोतवङ्कासिद्धं, ‘द्रव्यादष्टगुणं क्षीरं’ इत्यादिन्यायेन||२५||

Adhikarana 15 (26) · Śloka 26

हरीतक्यादिसिद्धं वा वर्षाभूसिद्धमेव वा |२६|

🔊 Audio coming soon

हरीतकीत्यादि| हरीतक्यादिः त्रिफला, तत्सिद्धं क्षीरं पित्तजाश्मरीवेदनाभिरुपद्रुतः, वातकफजाश्मरीवेदनाभिद्रुतस्तु पुनर्नवामूलसिद्धं पयः पिबेत्|२६|-

Adhikarana 16 (26) · Śloka 26

सर्वथैवोपयोज्यः स्याद्गणो वीरतरादिकः ||२६||

🔊 Audio coming soon

अनुक्तमपि घृतादि विशिष्टद्रव्यगणैर्निर्दिशन्नाह- सर्वथेत्यादि| सर्वथा सर्वैः प्रकारैः घृतक्षीरकषाययवागूभोजनसाधनभेदेन तथाऽवगाहस्वेदादिभिः||२६||

Adhikarana 17 (27) · Śloka 27

घृतैः क्षारैः कषायैश्च क्षीरैः सोत्तरबस्तिभिः | यदि नोपशमं गच्छेच्छेदस्तत्रोत्तरो विधिः ||२७||

🔊 Audio coming soon

उपक्रमासिद्धौ च्छेदविधिमाह- घृतैरित्यादि| उत्तरबस्तिरत्र अश्मरीहरद्रव्यसिद्धो नैरुहिकः स्नैहिकश्च| उत्तरो विधिश्छेदः||२७||

Adhikarana 18 (28) · Śloka 28

कुशलस्यापि वैद्यस्य यतः सिद्धिरिहाध्रुवा | उपक्रमो जघन्योऽयमतः सम्परिकीर्तितः ||२८||

🔊 Audio coming soon

अध्रुवा अनिश्चिता| अन्ये तु निश्चितस्यापि वैद्यस्येति पठन्ति, निश्चितं शास्त्रनिश्चितं कर्म करोतीति निश्चितो निश्चितकर्मकृत्||२८||

Adhikarana 19 (29) · Śloka 29

अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत् | तस्मादापृच्छ्य कर्तव्यमीश्वरं साधुकारिणा ||२९||

🔊 Audio coming soon

ननु मर्मोपघातेनातिदुःखकारणं मरणं वा, तत् किमर्थं क्रियत इत्याह- अक्रियायामित्यादि| अन्यथा तस्मिन्नपृष्टे कर्मण्यातुरस्य मृत्यौ दण्डं कुर्यात्||२९||

Adhikarana 20 (30-36) · Śloka 36

अथ रोगान्वितमुपस्निग्धमपकृष्टदोषमीषत्कर्शितमभ्यक्तस्विन्नशरीरं भुक्तवन्तं कृतबलिमङ्गलस्वस्तिवाचनमग्रोपहरणीयोक्तेन विधानेनोपकल्पितसम्भारमाश्वास्य, ततो बलवन्तमविक्लवमाजानुसमे फलके प्रागुपविष्टान्यपुरुषस्योत्सङ्गे निषण्णपूर्वकायमुत्तानमुन्नतकटीकं वस्त्राधारकोपविष्टं सङ्कुचितजानुकूर्परमितरेण सहावबद्धं सूत्रेण शाटकैर्वा, ततः स्वभ्यक्तनाभिप्रदेशस्य वामपार्श्वं विमृद्य मुष्टिनाऽवपीडयेदधोनाभेर्यावदश्मर्यधः प्रपन्नेति, ततः स्नेहाभ्यक्ते क्लृप्तनखे वामहस्तप्रदेशिनीमध्यमे अङ्गुल्यौ पायौ प्रणिधायानुसेवनीमासाद्य प्रयत्नबलाभ्यां पायुमेढ्रान्तरमानीय, निर्व्यलीकमनायतमविषमं च बस्तिं सन्निवेश्य, भृशमुत्पीडयेदङ्गुलिभ्यां यथा ग्रन्थिरिवोन्नतं शल्यं भवति ||३०|| स चेद्गृहीतशल्ये तु विवृताक्षो विचेतनः | हतवल्लम्बशीर्षश्च निर्विकारो मृतोपमः ||३१|| न तस्य निर्हरेच्छल्यं निर्हरेत्तु म्रियेत सः | विना त्वेतेषु रूपेषु निर्हर्तुं प्रयतेत वै ||३२|| ततः सव्ये पार्श्वे सेवनीं यवमात्रेण मुक्त्वाऽवचारयेच्छस्त्रमश्मरीप्रमाणं, दक्षिणतो वा क्रियासौकर्यहेतोरित्येके, यथा सा न भिद्यते चूर्ण्यते वा तथा प्रयतेत, चूर्णमल्पमप्यवस्थितं हि पुनः परिवृद्धिमेति, तस्मात् समस्तामग्रवक्रेणाददीत; स्त्रीणां तु बस्तिपार्श्वगतो गर्भाशयः सन्निकृष्टः, तस्मात्तासामुत्सङ्गवच्छस्त्रं पातयेत्, अतोऽन्यथा खल्वासां मूत्रस्रावी व्रणो भवेत्, पुरुषस्य वा मूत्रप्रसेकक्षणनान्मूत्रक्षरणम्; अश्मरीव्रणादृते भिन्नबस्तिरेकधाऽपि न भवति, द्विधा भिन्नबस्तिराश्मरिको न सिध्यति, अश्मरीव्रणनिमित्तमेकधाभिन्नबस्तिर्जीवति ,क्रियाभ्यासाच्छास्त्रविहितच्छेदान्निः - स्यन्दपरिवृद्धत्वाच्च शल्यस्येति | उद्धृतशल्यं तूष्णोदकद्रोण्यामवगाह्य स्वेदयेत्, तथा हि बस्तिरसृजा न पूर्यते; पूर्णे वा क्षीरवृक्षकषायं पुष्पनेत्रेण विदध्यात् ||३३|| भवति चात्र- क्षीरवृक्षकषायस्तु पुष्पनेत्रेण योजितः | निर्हरेदश्मरीं तूर्णं रक्तं बस्तिगतं च यत् ||३४|| मूत्रमार्गविशोधनार्थं चास्मै गुडसौहित्यं वितरेत्; उद्धृत्य चैनं मधुघृताभ्यक्तव्रणं मूत्रविशोधनद्रव्यसिद्धामुष्णां सघृतां यवागूं पाययेतोभयकालं त्रिरात्रं; त्रिरात्रादूर्ध्वं गुडप्रगाढेन पयसा मृद्वोदनमल्पं भोजयेद्दशरात्रं (मूत्रासृग्विशुद्ध्यर्थं व्रणक्लेदनार्थं च), दशरात्रादूर्ध्वं फलाम्लैर्जाङ्गलरसैरुपाचरेत्; ततो दशरात्रं चैनमप्रमत्तः स्वेदयेत् स्नेहेन द्रवस्वेदेन वा; क्षीरवृक्षकषायेण चास्य व्रणं प्रक्षालयेत्; रोध्रमधुकमञ्जिष्ठाप्रपौण्डरीककल्कैर्व्रणं प्रतिग्राहयेत्; एतेष्वेव हरिद्रायुतेषु तैलं घृतं वा विपक्वं व्रणाभ्यञ्जनमिति; स्त्यानशोणितं चोत्तरबस्तिभिरुपाचरेत्; सप्तरात्राच्च स्वमार्गमप्रतिपद्यमाने मूत्रे व्रणं यथोक्तेन विधिना दहेदग्निना, स्वमार्गप्रतिपन्ने चोत्तरबस्त्यास्थापनानुवासनैरुपाचरेन्मधुरकषायैरिति; यदृच्छया वा मूत्रमार्गप्रतिपन्नामन्तरासक्तां शुक्राश्मरीं शर्करां वा स्रोतसाऽपहरेत्, एवं चाशक्ये विदार्य नाडीं शस्त्रेण बडिशेनोद्धरेत् | रूढव्रणश्चाङ्गनाश्वनगनागरथद्रुमान् नारोहेत वर्षं, नाप्सु प्लवेत, भुञ्जीत वा गुरु ||३५|| मूत्रवहशुक्रवहमुष्कस्रोतोमूत्रप्रसेकसेवनीयोनिगुदबस्तीनष्टौ परिहरेत् | तत्र मूत्रवहच्छेदान्मरणं मूत्रपूर्णबस्तेः, शुक्रवहच्छेदान्मरणं क्लैब्यं वा, मुष्कस्रोत-उपघाताद् ध्वजभङ्गः, मूत्रप्रसेकक्षणनान्मूत्रप्रक्षरणं, सेवनीयोनिच्छेदाद्रुजः प्रादुर्भावः, बस्तिगुदविद्धलक्षणं प्रागुक्तमिति ||३६||

🔊 Audio coming soon

तमेवोत्तरं छेदं पूर्वकर्मोत्तरकर्मभ्यां निर्दिशन्नाह- अथेत्यादि| अथशब्दोऽयं मङ्गलार्थे छेदक्रियायाम्| अपकृष्टदोषम् ऊर्ध्वाधोदोषनिर्हरणेन| ईषत्कर्शितमिति अतिकर्शनेन कर्माक्षमता, अकर्शनेनोपचितानल्पबस्तिकायत्वादश्मर्या अप्राप्तिरिति| अग्रोपहरणीयोक्तेनेत्यादि यन्त्रशस्त्रक्षारशलाकादिविधिना| ‘अथारोग्यार्थिनं’ इत्यन्ये पठन्ति| तत इत्यादि| बलवन्तमिति अपकृष्टदोषं विशुद्धमन्नसंसर्जनेन सञ्जनितबलम्| इतरेण पुरुषेण सह| तत इत्यादि| अधःप्रपन्ना अधोगता| पायौ गुदे| प्रणिधाय प्रक्षिप्य| निर्व्यलीकं त्वक्सङ्कोचरहितम्| अविषमं निम्नोन्नतत्वरहितम्| अनायतम् अदीर्घम्| सन्निवेश्य संस्थाप्य| गृहीतेऽश्मरीशल्ये यादृशस्य मरणभयान्नाहरणीयं तादृशं दर्शयन्नाह- स चेदित्यादि| विवृत्ताक्षः स्तब्धाक्षः| निर्विकारो निर्व्यापारः| क इव? मृत इवेत्यर्थः; अन्ये ‘निर्व्यापार’ इति पठन्ति; निर्व्यापारो निरीहः; ‘निर्विहार’ इत्यन्ये पठन्ति; तत्रापि स एवार्थः| विनेत्यादि| प्रयतेत प्रयत्नं कुर्वीत| अग्रवक्रेण आहरणयन्त्रेणातीक्ष्णमुखेन| स्त्रीणां पुनर्बस्तिप्रत्यासन्नमधिकमाशयान्तरमस्ति, अतः सामान्यहरणे दोषमभिवीक्ष्य छेदविशेषं निर्दिशन्नाह- स्त्रीणामित्यादि| उत्सङ्गवदिति ऊर्ध्वं सङ्गः स यस्यास्तीति तदुत्सङ्गवत् उत्तानमित्यर्थः| अन्यथेति यदाऽवगाढः शस्त्रपातः स्यात्तदा बहिर्गतं त्वङ्मांसं भित्वा बस्तित्वचा सह भगवस्तुबस्तिपार्श्वाश्रयस्य गर्भाशयस्यापि त्वचो भेदः स्यात्; ततस्तासां भगान्तर्गतो मूत्रस्रावी व्रणः स्यादित्यर्थः| तथाच वैतरणः- “भगस्याधः स्त्रिया बस्तिरूर्ध्वं गर्भाशयः स्थितः| गर्भाशयश्च बस्तिश्च महास्रोतः- समाश्रितौ|| बस्तिभागं समुन्नम्य अवनम्याश्मरीं बुधः| स्फिगग्रे भेदनं तासां हितमन्यत्र दोषकृत्”- इति| इदानीमुभयोरपि स्त्रीपुंसयोरपरप्रकारेण सामान्यं मूत्रस्राविणं व्रणं निर्दिशन्नाह- पुरुषस्येत्यादि| पुरुषस्य वेति वाशब्दश्चार्थे, तेन स्त्रियाः पुरुषस्य चेत्यर्थः| मूत्रप्रसेकस्रोतसी स्त्रीपुंसयोः, अभेदेनोक्तत्वात्| मूत्रप्रसेको नाम मूत्रं येन बस्तिमुखाश्रयेण स्रोतसा क्षरति, तस्य छेदनादित्यर्थः| इदानीमश्मरीनिमित्तमेवैकधा भिन्नबस्तिर्जीवति न पुनरन्योऽपि भिन्नबस्तिरिति दर्शयन्नाह- अश्मरीत्यादि| द्विधाभिन्नबस्तिराश्मरीको न सिध्यति; अश्मरीव्रणं विना एकधाऽपि भिन्नबस्तिर्न भवति न जीवतीत्यर्थः, अशास्त्रविहितच्छेदनत्वेन निःसृतनिःशेषमूत्रत्वात्| अश्मरीनिमित्ताघातेन पुनरेकधा भिन्नबस्तेर्जीविते हेतुं निर्दिशन्नाह- अश्मरीव्रणेत्यादि| क्रियाणामुष्णोदकस्वेदक्षीरवृक्षकषाययोजनादीनामभ्यसनं क्रियाभ्यासस्तस्मात्| अश्मरीप्रमाणमुखमात्रः सेबनीसव्यपार्श्वगः शास्त्राविहितच्छेदस्तस्मात् | निःस्यन्दो मूत्रं तेन परिवृद्धं शल्यं तस्मादित्यर्थः| एतदुक्तं भवति- येन निःस्यन्देन मूत्रेण वृद्धेन सता शल्यं परिवृद्धं तस्य शल्यापहरणेऽपि निःशेषापरिस्रुतत्वाद्भिन्नबस्तिर्जीवति| गयी तु ‘शल्यस्य’ इति पदं परित्यज्य ‘निःस्यन्दपरिवृद्धत्वात्’ इत्येवं पठति व्याख्यानयति च- निःस्यन्दस्य मूत्रस्य परिवृद्धत्वेन, अत एव मूत्रवृद्धिकरयवागूगुडक्षीरादिसौहित्यविधानं; शास्त्राविहितातिक्रमच्छेदे तु मूत्रनिःशेषक्षरणान्मरणमिति| उद्धृतेत्यादि| पुष्पनेत्रेण उत्तरबस्तिना| भवतीत्यादि| गुडसौहित्यं गुडवासितं भक्तं दद्यादित्यर्थः| उद्धृत्येत्यादि| उद्धृत्य चैनमिति ‘उष्णोदकद्रोण्या’ इति शेषः| मधुघृताभ्यङ्गो व्रणस्य रोपणार्थम्| मूत्रविशोधनद्रव्याणि तृणपञ्चमूलीगोक्षुरककूष्माण्डकपाषाणभेदप्रभृतीनि| उभयकालं सायं प्रातरित्यर्थः| अप्रमत्तः सावधानः| क्षीरवृक्षा वटोदुम्बराश्वत्थप्लक्षगर्दभाण्डाः| रोध्रेत्यादि| प्रतिग्राहयेत् लेपयेदित्यर्थः| एतेष्वेव अनन्तरोद्दिष्टेषु रोध्रादिषु हरिद्रायुतेषु| स्त्यानेत्यादि|- संहतशोणिते तु प्रागुक्तद्रव्यकषायविधानेनोत्तरबस्तिरिति रक्तविलायनेनापकर्षणादित्यर्थः| सप्तरात्रादित्यादि| स्वमार्गमप्रतिपन्ने मूत्रे इत्यर्थः| मधुराणि काकोल्यादीनि, कषायाणि क्षीरवृक्षादीनि, तैः; अन्ये मधुराणां कषायैरित्याहुः, अनुबन्धपरिहारार्थं वायोरनुलोमनाय चेति| कथमपि मूत्रपथागताश्मरीनिर्हरणं निर्दिशन्नाह- यदृच्छयेत्यादि| स्रोतसा मूत्रपथेन| तथाऽप्याहर्तुमशक्यत्वे मेढ्रमपि विदार्यापकर्षयेत्| रूढेत्यादि| अल्पक्षणनात् क्लैब्यम् (सर्वदा लिङ्गपातेनावस्थानम् )| क्षणनात् छेदनात्| मूत्रक्षरणं मूत्रस्रवणम् | प्रागुक्तमिति प्रत्येकमर्मनिर्देशे||३०-३६||

Adhikarana 21 (37) · Śloka 37

भवति चात्र- मर्माण्यष्टावसम्बुध्य स्रोतोजानि शरीरिणाम् | व्यापादयेद्बहून्मर्त्यान् शस्त्रकर्मापटुर्भिषक् ||३७||

🔊 Audio coming soon

अतः परं सङ्ग्रहश्लोकमाह- भवत इत्यादि||३७||

Adhikarana 22 (38) · Śloka 38

सेवनी शुक्रहरणी स्रोतसी फलयोर्गुदम् | मूत्रसेकं मूत्रवहं योनिर्बस्तिस्तथाऽष्टमः ||३८||

🔊 Audio coming soon

तान्येव मर्माणी सुखावबोधार्थं श्लोकेन निर्दिशन्नाह- सेवनीत्यादि| तस्मात् परिहृत्यैतानि दृष्टकर्मा कृतयोग्यो भिषक् कर्म कुर्यात्, एवं साधु भवति||३८||

Adhikarana puShpikA · Śloka 7

इति सुश्रुतसंहितायां चिकित्सास्थानेऽश्मरीचिकित्सितं नाम सप्तमोऽध्यायः ||७||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सितस्थाने सप्तमोऽध्यायः||७||