Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

10. mahākuṣṭhacikitsitam

Adhikarana 1 (1-2) · Śloka 2

अथातो महाकुष्ठचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

अथात इत्यादि| अस्मिन्नध्याये महतां क्षुद्राणां च कुष्ठानां चिकित्सितस्य प्रोक्तत्वान्महच्च तत् कुष्ठचिकित्सितं चेत्येके व्याचक्षते; तन्न, “कुष्ठानां महतां चापि” (सू.अ.३) इत्यादिकेनाध्यापनसम्प्रदानीयोक्तेन विरोधात्; तस्माद्धात्वनुप्रविष्टानि सप्त कुष्ठानि महान्तीत्यतो महतां धात्वनुप्रविष्टानां कुष्ठानां चिकित्सितमिति व्याख्या ज्यायसीति; गयी तु महतां सप्तानां काकणकवर्जितानामित्याह||१-२||

Adhikarana 2 (3) · Śloka 3

कुष्ठेषु मेहेषु कफामयेषु सर्वाङ्गशोफेषु च दारुणेषु | कृशत्वमिच्छत्सु च मेदुरेषु योगानिमानग्र्यमतिर्विदध्यात् ||३||

🔊 Audio coming soon

कुष्ठेष्वित्यादि| कुष्ठादीनां चतुर्णामपि दारुणेष्विति विशेषणम्| कफामया अग्निसादकफप्रसेकादयः| मेदुरा मेदस्विनः| अग्र्यमतिरिति वैद्यस्य विशेषणं विहितम्, अग्र्यमतिः कुशाग्रीयमतिः; प्रकृतिवयोबलशरीरादीनामवस्थान्तराणि यो जानातीत्यर्थः||३||

Adhikarana 3 (4-5) · Śloka 5

क्षुण्णान् यवान्निष्पूतान् रात्रौ गोमूत्रपर्युषितान् महति किलिञ्जे शोषयेत्, एवं सप्तरात्रं भावयेच्छोषयेच्च, ततस्तान् कपालभृष्टान् शक्तून् कारयित्वा, प्रातः प्रातरेव कुष्ठिनं प्रमेहिणं वा सालसारादिकषायेण कण्टकिवृक्षकषायेण वा पाययेद्भल्लातकप्रपुन्नाडावल्गुजार्कचित्रकविडङ्गमुस्तचूर्णचतुर्भागयुक्तान्; एवमेव सालसारादिकषायपरिपीतानामारग्वधादिकषायपरिपीतानां वा गवाश्वाशकृद्भूतानां वा यवानां शक्तून् कारयित्वा भल्लातकादीनां चूर्णान्यावाप्य खदिराशननिम्बराजवृक्षरोहीतकगुडूचीनामन्यतमस्य कषायेण शर्करामधुमधुरेण द्राक्षायुक्तेन दाडिमामलकवेतसाम्लेन सैन्धवलवणान्वितेन पाययेत्; एष सर्वमन्थकल्पः ||४|| यावकांश्च भक्ष्यान् धानोलुम्बककुल्माषापूपपूर्णकोशोत्कारिकाशष्कुलिकाकुणावीप्रभृतीन् सेवेत; यवविधानेन गोधूमवेणुयवानुपयुञ्जीत ||५||

🔊 Audio coming soon

क्षुण्णानित्यादि| किलिञ्जो वंशादित्वग्ग्रथितः पेटिकाकारः| कपालो घटादिकर्परः| कण्टकिवृक्षाः खदिरबदरारिमेदस्रुग्दारुप्रभृतयः| भल्लातकादिचूर्णचतुर्भागानिति सर्वशक्तुप्रयोगेषु चूर्णप्रक्षेपमात्रापरिभाषेयम्| एवमित्यादि| परिपीतानां भावितानाम्| दाडिमाम्लवेतससैन्धवादीनामत्र यावताऽम्ललवणता तावती प्रक्षेपपरिमाणमात्रा| यावकानित्यादि| धानाः शुष्कभृष्टयवाः, उलुम्बकाः सरसा भृष्टयवाः, कुल्माषा यवपिष्टमया अम्लरसस्विन्नाः शृङ्गाटादयः, अपूपाः स्थूलपूपाः, पूर्णकोशाः यवपिष्टमया एव कुष्ठहितशमीधान्यस्विन्नविदलादिपूर्णकोष्ठाः, उत्कारिका संयावप्रकारा, शष्कुल्यो यवप्रकारेण संस्कृतैस्तिलैर्यवपिष्टेन शष्कुलीकल्पेन विधेयाः, कुणावी यवपर्पटी, प्रभृतिग्रहणादन्तर्गतगुडादयः | कुणावीत्यत्र अन्ये तु कोनाडि(लि)केति पठन्ति; तत्रापि स एवार्थः| गयी तु उत्कारिकाग्रे चित्रेति पठति, चित्रा अपूपविशेषः| वेणुयवा वंशफलानि||४-५||

Adhikarana 4 (6) · Śloka 6

अरिष्टानतो वक्ष्यामः- पूतीकचव्यचित्रकसुरदारुसारिवादन्तीत्रिवृत्त्रिकटुकानां प्रत्येकं षट्पलिका भागा बदरकुडवस्त्रिफलाकुडव इत्येतेषां चूर्णानि, ततः पिप्पलीमधुघृतैरन्तःप्रलिप्ते घृतभाजने प्राक्कृतसंस्कारे सप्तोदककुडवानयोरजोऽर्धकुडवमर्धतुलां च गुडस्याभिहितानि चूर्णान्यावाप्य स्वनुगुप्तं कृत्वा यवपल्ले सप्तरात्रं वासयेत्, ततो यथाबलमुपयुञ्जीत, एषोऽरिष्टः कुष्ठमेहमेदःपाण्डुरोगश्वयथूनपहन्ति | एवं शालसारादौ न्यग्रोधादावारग्वधादौ चारिष्टान् कुर्वीत ||६||

🔊 Audio coming soon

इदानीं मद्यसात्म्यानां वातकफकुष्ठिनामरिष्टांस्तत आसवसुरे च निर्दिशन्नाह- अरिष्टानित्यादि| त्रिफलायाः समुदितायाः कुडव इति केचित्, अन्ये तु सञ्ज्ञायाः सञ्ज्ञिन एव प्रधानत्वमिति प्रत्येकमेव कुडवं मन्यन्ते| जलस्य सप्त कुडवा अष्टाविंशतिपलानीति जेज्जटः; तन्नेच्छति गयी, सर्वेष्वेव तन्त्रेष्वष्टपलद्रवस्य कुडवत्वात्| एष पिण्डारिष्टसञ्ज्ञकः कुष्ठहरखदिरादिकषायेणालोड्य पातव्यः| पिण्डासवस्य पलद्वयं पलं वा, कुष्ठहरस्य खदिरक्वाथस्याञ्जलिमात्रा; यथानलमुपयुञ्जीतेत्येके| अत्र चूर्णानामतिबाहुल्यात् पूत एवारिष्टः पेय इत्येके, पिण्डासववदपूत एव पेय इत्यन्ये| अस्मिन् योगे पाठान्तरं व्याख्यानान्तरमप्यस्ति, तच्च विस्तरभयान्न लिखितम्||६||

Adhikarana 5 (7) · Śloka 7

आसवानतो वक्ष्यामः- पलाशभस्मपरिस्रुतस्योष्णोदकस्य शीतीभूतस्य त्रयो भागा द्वौ फाणितस्यैकध्यमरिष्टकल्पेन विदध्यात्, एवं तिलादीनां क्षारेषु; शालसारादौ न्यग्रोधादावारग्वधादौ मूत्रेषु चासवान् विदध्यात् ||७||

🔊 Audio coming soon

पलाशेत्यादि| त्रयो भागा आढकत्रयम्| द्वौ भागौ फाणितस्य आढकद्वयम्| अरिष्टकल्पेनेति पूतीकादिवत्| अत्र त्रिफलायाश्चूर्णादि सर्वं पूर्वोक्तमुन्नेयम्| विदध्यात् कुर्यादित्यर्थः| तिलादीनामित्यादि तिलादिरश्मरीपठितः ‘तिलापामार्गकदलीपलाल’ (चि.अ.७) इत्यादिकः||७||

Adhikarana 6 (8) · Śloka 8

अथ सुरा वक्ष्यामः- शिंशपाखदीरयोः सारमादायोत्पाट्य चोत्तमारणीब्राह्मीकोशवतीस्तत्सर्वमेकतः कषायकल्पेन विपाच्योदकमाददीत मण्डोदकार्थं, किण्वपिष्टमभिषुणुयाच्च यथोक्तम् | एवं सुराः शालसारादौ न्यग्रोधादावारग्वधादौ च विदध्यात् ||८||

🔊 Audio coming soon

सुराविधानमाह- अथेत्यादि| उत्तमारणी उत्तमकरणी, कोशवती देवदाली| उदकशब्दोऽत्र क्वाथे वर्तते| किण्वपिष्टमभिषुणुयात् सन्दध्यात्, यथोक्तं सूत्रस्थाने विरेचनाधिकारे| कषायकल्पेन विपाच्येति शिंशपाखदिरयोः सारभागद्वयमादाय, एकं च भागमुत्तमारण्यादीनां; कुत एतदिति? साराणां कुष्ठहरत्वात्; तुलामेकां चतुर्भिरुदकद्रोणैरुत्क्वाथ्य द्रोणावशिष्टमवतार्य, किण्वपिष्टयोरासुतीबलवचनेन प्रमाणादिकल्पनम्| विदध्यात् सुरां कुर्यादित्यर्थः||८||

Adhikarana 7 (9) · Śloka 9

अतोऽवलेहान् वक्ष्यामः- खदिरासननिम्बराजवृक्षशालसारक्वाथे तत्सारपिण्डाञ्छ्लक्ष्णपिष्टान् प्रक्षिप्य विपचेत्, ततो नातिद्रवं नातिसान्द्रमवतार्य तस्य पाणितलं पूर्णमप्रातराशो मधुमिश्रं लिह्यात्; एवं शालसारादौ न्यग्रोधादावारग्वधादौ च लेहान् कारयेत् ||९||

🔊 Audio coming soon

अतोऽवलेहानित्यादि| खदिरादीनां द्रोणमेकं पानीयस्य द्रोणचतुष्टयम्, एतद्द्रोणशेषं ग्राह्यं, पुनः पाकाद्घनीभवत्यस्मिन् चरककुटजावलेहचूर्णप्रक्षेपणप्रमाणोहबीजेन प्रत्येकं सार्धपलानां पञ्चानामेव श्लक्ष्णपिष्टानां पिण्डान् प्रक्षिप्य फाणितीभूतमवतारयेत्; यद्यपि पाणितलं कर्षमित्युक्तं, तथाऽपि पूर्णशब्दात् पाणितलं हस्ततलमङ्गुलिरहितं व्याख्यातम्| अप्रातराशः सायमेव भुञ्जानः| गयी तु शालसारं न पठति, खदिरादीनि चत्वार्येव पठति||९||

Adhikarana 8 (10) · Śloka 10

अतश्चूर्णक्रियां वक्ष्यामः- शालसारादीनां सारचूर्णप्रस्थमाहृत्यारग्वधादिकषायपरिपीतमनेकशः शालसारादिकषायेणैव पाययेत्; एवं न्यग्रोधादीनां फलेषु, पुष्पेष्वारग्वधादीनां चूर्णक्रियां कारयेत् ||१०||

🔊 Audio coming soon

अत इत्यादि| परिपीतं भावितम्| शालसारादिचूर्णप्रस्थे भाव्ये आरग्वधादिक्वथनीयद्रव्यस्यापि प्रस्थमेव , चतुर्भिरुदकप्रस्थैरुत्क्वाथ्याष्टभागावशिष्टमवतार्य प्रागुक्तं चूर्णमार्द्रीकृत्य शोषयेत्; एवं सप्ताहं भावयित्वा ततश्चूर्णकर्षं, शालसारादिद्रव्यपलं, षोडशभिरुदकपलैर्निःक्वाथ्य पादावशिष्टेन तेन क्वाथेन षोडशगुणेन पिबेत्, कुष्ठानामुत्तममात्रार्हत्वात्||१०||

Adhikarana 9 (11) · Śloka 11

अत ऊर्ध्वमयस्कृतीर्वक्ष्यामः- तीक्ष्णलोहपत्राणि तनूनि लवणवर्गप्रदिग्धानि गोमयाग्निप्रतप्तानि त्रिफलाशालसारादिकषायेण निर्वापयेत् षोडशवारान्, ततः खदिराङ्गारतप्तान्युपशान्ततापानि सूक्ष्मचूर्णानि कारयेद्धनतान्तवपरिस्रावितानि , ततो यथाबलं मात्रां सर्पिर्मधुभ्यां संसृज्योपयुञ्जीत, जीर्णे यथाव्याध्यनम्लमलवणमाहारं कुर्वीत, एवं तुलामुपयुज्य कुष्ठमेहमेदःश्वयथुपाण्डुरोगोन्मादापस्मारानपहत्य वर्षशतं जीवति, तुलायां तुलायां वर्षशतमुत्कर्षः, एतेन सर्वलौहेष्वयस्कृतयो व्याख्याताः ||११||

🔊 Audio coming soon

अत इत्यादि| तनूनि अघनानि तिलोत्सेधमात्राणि| लवणवर्गप्रदिग्धानि सैन्धवसौवर्चलोद्भिदविडसामुद्रलवणादिकल्केन लिप्तानि| खदिराङ्गारतापनमपि षोडशवारान्| घनतान्तवं निबिडवस्त्रम्| मात्रामिति अल्पमित्यर्थः, पञ्चगुञ्जादिक्रमवृद्ध्या लौहमाषचतुष्टयम्| संसृज्य सम्यक् सृष्ट्वा, सम्यक्सृष्टिस्तु लौहमयपात्रे लौहदण्डमर्दनेन मधुघृतलौहैः सम्यगेकीभावः| उपयुक्ते पुनरस्मिन् षडङ्गकल्पेन कुष्ठहरखदिरादिक्वथितजलं षष्टिगुणमनुपानं, पारम्पर्योपदेशात् | एवं प्रमेहादौ प्रमेहादिहरक्वथितमेव जलमनुपानम्| एवमाहारोऽपि यथाव्याधि यथारोगमेव कुष्ठे कुष्ठहरः, मेहे मेहहर इति; अनम्ललवणस्तु सर्वथा व्याधिहरः| एतेनेत्यादि एतेन क्वथितलौहरसायनक्रमेण, सर्वलौहेषु त्रपुसीसताम्ररजतसुवर्णेषु, अयस्कृतयो विशेषेण व्याख्याताः प्रकर्षेण कथिताः||११||

Adhikarana 10 (12) · Śloka 12

त्रिवृच्छयामाग्निमन्थसप्तलाकेवुकशङ्खिनीतिल्वकत्रिफलापलाशशिंशपानां स्वरसमादाय पालाश्यां द्रोण्यामभ्यासिच्य खदिराङ्गारतप्तमयःपिण्डं त्रिसप्तकृत्वो निर्वाप्य तमादाय पुनरासिच्य स्थाल्यां गोमयाग्निना विपचेत्, ततश्चतुर्थभागावशिष्टमवतार्य परिस्राव्य भूयोऽग्नितप्तान्ययःपत्राणि प्रक्षिपेत्, सिध्यति चास्मिन् पिप्पल्यादिचूर्णभागं द्वौ मधुनस्तावद्धृतस्येति दद्यात्, ततः प्रशान्तमायसे पात्रे स्वनुगुप्तं निदध्यात्, ततो यथायोगं शुक्तिं प्रकुञ्चं वोपयुञ्जीत, जीर्णे यथाव्याध्याहारमुपसेवेत | एषौषधायस्कृतिरसाध्यं कुष्ठं प्रमेहं वा साधयति, स्थूलमपकर्षति, शोफमुपहन्ति, सन्नमग्निमुद्धरति, विशेषेण चोपदिश्यते राजयक्ष्मिणां, वर्षशतायुश्चानया पुरुषो भवति | शालसारादिक्वाथमासिच्य पालाश्यां द्रोण्यामयोघनांस्तप्तान्निर्वाप्य कृतसंस्कारे कलशेऽभ्यासिच्य पिप्पल्यादिचूर्णभागं क्षौद्रं गुडमिति च दत्त्वा स्वनुगुप्तं निदध्यात्, एतां महौषधायस्कृतिं मासमर्धमासं वा स्थितां यथाबलमुपयुञ्जीत | एवं न्यग्रोधादावारेवतादिषु च विदध्यात् ||१२||

🔊 Audio coming soon

औषधायस्कृतिमुपदिशन्नाह- त्रिवृदित्यादि| श्यामा वृद्धदारकः, सप्तला यवतिक्ता, शङ्खिनी तद्भेदः, तिल्वकः पट्टिकारोध्रः| स्वरसमादायेति पञ्चशतपलानि; एषां स्वरसालाभे प्रतिनिधिः- तत्र चूर्णानामाढकमुदकद्रोणे रात्रिपर्युषितं स्वरसवद्ग्राह्यं; वृद्धवैद्यास्तु क्वाथेऽपि स्वरसशब्दं मन्यन्ते; तत्र त्रिवृदादिक्वाथस्य पञ्चशतपलानि| गयी तु त्रिवृदादीनां शिंशपान्तानां द्वादशानां द्रोणमपां चतुर्भिर्द्रोणैरुत्क्वाथ्य द्रोणावशिष्टं कषायं ग्राह्यमिति मन्यते| पालाश्यां द्रोण्यामभ्यासिच्येति द्रोणी जलप्रक्षेपणी, अभ्यासिच्य प्रक्षिप्य, सा चार्द्रपलाशमयी कर्तव्या| खदिराङ्गारेत्यादि| लौहपिण्डं पञ्चाशत्पलप्रमाणम्| त्रिसप्तकृत्व इति एकविंशतिवारान्| तमादायेति द्रवं पुनरासिच्य स्थाल्यां गोमयाग्निना विपचेदिति अयःस्थाल्यां प्रक्षिप्य गोमयाग्निना विपचेत्| ततश्चतुर्भागावशिष्टमवतार्य परिस्राव्य भूयोऽग्नितप्तान्ययःपत्राणि प्रक्षिपेदिति| तत्र कषाये पूर्वलोहपत्राणि खदिराङ्गारतप्तानि पुनरपि निर्वाप्य, एतानि च लोहपत्राणि तेनैव कषायेण श्लक्ष्णपिष्टानि, तस्मिन्नेव कषाये पुनरापचेत्, सिध्यति चास्मिन् पिप्पल्यादिचूर्णभागं दद्याल्लोहपिण्डसममेव, सिद्धशीते द्वौ मधुनः द्वौ गुडस्येति पलशतमित्यर्थः| घृतस्यापि तावत् पलशतं दद्यात्| गयी तु पिप्पल्यादिमधुसर्पिषामन्यथा भागकल्पनं कृतवान्, तच्च विस्तरभयान्न लिखितम्| ततः प्रशान्तमित्यादि प्रशान्तं सिद्धमुच्यते| शुक्तिः अर्धपलम्| प्रकुञ्चः पलम्| सन्नमग्निमुद्धरति उत्कर्षयति| अत औषधायस्कृत्यरिष्टमाह- शालेत्यादि|- शालसारादिक्वाथद्रोणं पलाशद्रोण्यामभ्यासिच्य, अपरे पञ्चशतपलानि मन्यन्ते| अयोघनं कर्मकारभाण्डिभिस्तप्तायस्ताडनाभिः पूर्ववदेकविंशतिवारानभिसंयोज्य शीतीकृत्य, तानि च निर्वापणसाधितलोहपत्राणि तेनैव कषायेण श्लक्ष्णपिष्टानि अरिष्टसंस्कारविधिना विहितसंस्कारे कलशे यावता च मन्दकटुकमरिष्टं स्यात्तावच्चूर्णांशं दत्त्वा, मासं शीतेऽर्धमासमुष्णे च स्थापयेत्| अत्र मधु पुराणमवगन्तव्यं, तच्च कषायचतुर्थांशेन, तत्सम एव जीर्णगुडः| ‘अयोघनांस्तप्तान्’ इत्यत्र घनशब्देनैव लोहपिण्डे प्राप्ते अयःशब्दस्तीक्ष्णलौहप्रापणाय सीसकादिपरिहाराय च| अन्ये तु, अत्र पिप्पल्यादि लौहसमं तद्विगुणं क्षौद्रं गुडं च दद्यात्, लौहप्रमाणं तु पूर्वयोगे व्याख्यातम्| एवमित्यादि आरेवतादिषु आरग्वधादिषु| विदध्यात् अयस्कृतिं कुर्यात्||१२||

Adhikarana 11 (13) · Śloka 13

अतः खदिरविधानमुपदेक्ष्यामः- प्रशस्तदेशजातमनुपहतं मध्यमवयसं खदिरं परितः खानयित्वा तस्य मध्यमं मूलं छित्त्वाऽयोमयं कुम्भं तस्मिन्नन्तरे निदध्याद्यथा रसग्रहणसमर्थो भवति, ततस्तं गोमयमृदाऽवलिप्तमवकीर्येन्धनैर्गोमयमिश्रैरादीपयेद्यथाऽस्य दह्यमानस्य रसः स्रवत्यधस्तात्, तद्यदा जानीयात् पूर्णं भाजनमिति, अथैनमुद्धृत्य परिस्राव्य रसमन्यस्मिन् पात्रे निधायानुगुप्तं निदध्यात्, ततो यथायोगं मात्रामामलकरसमधुसर्पिर्भिः संसृज्योपयुञ्जीत, जीर्णे भल्लातकविधानवदाहारः परिहारश्च, प्रस्थे चोपयुक्ते शतं वर्षाणामायुषोऽभिवृद्धिर्भवति | खदिरसारतुलामुदकद्रोणे विपाच्य षोडशांशावशिष्टमवतार्यानुगुप्तं निदध्यात्, तमामलकरसमधुसर्पिर्भिः संसृज्योपयुञ्जीत | एष एव सर्ववृक्षसारेषु कल्पः | खदिरसारचूर्णतुलां खदिरसारक्वाथमात्रां वा प्रातः प्रातरुपसेवेत, खदिरसारक्वाथसिद्धमाविकं वा सर्पिः ||१३||

🔊 Audio coming soon

अत इत्यादि| खदिररसेन तुल्य आमलकरसः| मधुघृते तु समस्ते तावती द्रव्यपादिके| भल्लातकविधानवदत्राहारे क्षीरं कुष्ठकरमपि न विरुद्धं, रसायनशक्तेरचिन्त्यत्वात्; शेषं सुबोधम्| खदिरसारस्यार्द्रस्य स्वरसालाभेऽनुकल्पिकं स्वरसमुद्दिशन्नाह - खदिरसारेत्यादि| स्नेहकषायपरिभाषाकल्पनया कषायं कृत्वा तस्य पादिकं सर्पिः; अपथ्यमप्याविकं सर्पिः पथ्यत्वेनात्राभिहितं, द्रव्यसंयोगशक्तेरचिन्त्यत्वात् ; अन्ये तु सर्पिरेव पठन्ति न पुनराविकम्||१३||

Adhikarana 12 (14) · Śloka 14

अमृतवल्लीस्वरसं क्वाथं वा प्रातः प्रातरुपसेवेत, तत्सिद्धं वा सर्पिः, अपराह्णे ससर्पिष्कमोदनमामलकयूषेण भुञ्जीत; एवं मासमुपयुज्य सर्वकुष्ठैर्विमुच्यत इति ||१४||

🔊 Audio coming soon

अमृतेत्यादि| अमृतवल्ली गुडूची||१४||

Adhikarana 13 (15-16) · Śloka 16

कृष्णतिलभल्लातकतैलामलकरससर्पिषां द्रोणं शालसारादिकषायस्य च, त्रिफलात्रिकटुकपरूषफलमज्जविडङ्गफलसारचित्रार्कावल्गुजहरिद्राद्वयत्रिवृद्दन्तीद्रवन्तीन्द्रयवयष्टीमधुकातिविषारसाञ्जनप्रियङ्गूणां पालिका भागास्तानैकध्यं स्नेहपाकविधानेन पचेत्, तत् साधुसिद्धमवतार्य परिस्राव्यानुगुप्तं निदध्यात्, तत उपसंस्कृतशरीरः प्रातः प्रातरुत्थाय पाणिशुक्तिमात्रं क्षौद्रेण प्रतिसंसृज्योपयुञ्जीत, जीर्णे मुद्गामलकयूषेणालवणेन सर्पिष्मन्तं खदिरोदकसिद्धं मृद्वोदनमश्नीयात् खदिरोदकसेवी, इत्येवं द्रोणमुपयुज्य सर्वकुष्ठैर्विमुक्तः शुद्धतनुः स्मृतिमान् वर्षशतायुररोगो भवति ||१५|| भवति चात्र- सुरामन्थासवारिष्टांल्लेहांश्चूर्णान्ययस्कृतीः | सहस्रशोऽपि कुर्वीत बीजेनानेन बुद्धिमान् ||१६||

🔊 Audio coming soon

स्नेहसामान्यान्मिश्रकं स्नेहविशेषं निर्दिशन्नाह- कृष्णतिलेत्यादि| कृष्णतिलानां भल्लातकानां च तैलम्| तदेतत् सर्पिषा सह स्नेहद्रोणत्रयमामलकरसशालसारादिकषायद्रोणाभ्यां त्रिफलादिभिः कल्कीकृतैर्विपचेत्| उपसंस्कृतशरीरो वमनादिभिरित्यर्थः| पाणिशुक्तिः पलमित्यर्थः| सहस्रशोऽपीत्यपिशब्दात् खदिरसारप्रयोगेण सारस्नेहयोरनुक्तयोरुक्तेन कल्पेन कल्पनमिति समुच्चिनोति||१५-१६||

Adhikarana puShpikA · Śloka 10

इति सुश्रुतसंहितायां चिकित्सास्थाने महाकुष्ठचिकित्सितं नाम दशमोऽध्यायः ||१०||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने दशमोऽध्यायः||१०||