Adhikarana 1 (1-3) · Śloka 3
अथातः प्रमेहचिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
द्वौ प्रमेहौ भवतः- सहजोऽपथ्यनिमित्तश्च |
तत्र सहजो मातृपितृबीजदोषकृतः, अहिताहारजोऽपथ्यनिमित्तः |
तयोः पूर्वेणोपद्रुतः कृशो रूक्षोऽल्पाशी पिपासुर्भृशं परिसरणशीलश्च भवति; उत्तरेण स्थूलो बह्वाशी स्निग्धः शय्यासनस्वप्नशीलः प्रायेणेति ||३||
द्वावित्यादि| अत्र केचिदाहुः स्त्रीणां प्रमेहा न भवन्तीति, तथा हि तन्त्रान्तरे- “रजःप्रसेकान्नारीणां मासि मासि विशुध्यति| सर्वं शरीरं दोषाश्च न प्रमेहन्त्यतः स्त्रियः”- इति; एतत्तु न युक्तं, सर्वतन्त्राप्रसिद्धेः, प्रत्यक्षविरोधाच्च||१-३||
Adhikarana 2 (4) · Śloka 4
तत्र कृशमन्नपानप्रतिसंस्कृताभिः क्रियाभिश्चिकित्सेत, स्थूलमपतर्पणयुक्ताभिः ||४||
तत्र कृशमित्यादि| कृशं कार्श्यादिलक्षणयुक्तं सहजमित्यर्थः| स्थूलं स्थौल्यादिधर्मयुक्तमहिताहारविहारजमित्यर्थः| अत्र, अपतर्पयतीति अपतर्पणं लङ्घनं, अपतर्पणानि व्यायामशोधनानि तिक्तकटुकादिकानि च||४||
Adhikarana 3 (5) · Śloka 5
सर्व एव च परिहरेयुः सौवीरकतुषोदकशुक्तमैरेयसुरासवतोयपयस्तैलघृतेक्षुविकारदधिपिष्टान्नाम्लयवागूपानकानि ग्राम्यानूपौदकमांसानि चेति ||५||
सौवीरकं विरेचनाध्यायोक्तं, तुषोदकं तत्रोक्तमेव काञ्जिकं, शुक्तं चुक्रं, सुरासवयोः प्रत्येकनिष्पादितयोरेकीकृत्य पुनः सन्धानम्मैरेयं, सुरा पिष्टमयी, द्रवप्रधान आसवः| आनूपा महिषादयः, औदका मत्स्यादयः||५||
Adhikarana 4 (6) · Śloka 6
ततः शालिषष्टिकयवगोधूमकोद्रवोद्दालकाननवान् भुञ्जीत चणकाढकीकुलत्थमुद्गविकल्पेन, तिक्तकषायाभ्यां च शाकगणाभ्यां निकुम्भेङ्गुदीसर्षपातसीतैलसिद्धाभ्यां, बद्धमूत्रैर्वा जाङ्गलैर्मांसैरपहृतमेदोभिरनम्लैरघृतैश्चेति ||६||
उद्दालका अरण्यकोद्रवाः| अनवाः पुराणाः| तिक्तगणः प्रपुन्नाटपटोलादिकः, कषायगणो वटशुङ्गादिकः| तेषां शाकानां साधनाङ्गानि निकुम्भादितैलानि| निकुम्भा दन्ती| बद्धमूत्रैरेणादिभिः| अपहृतमेदोभिरिति अविद्यमानमेदोभिः||६||
Adhikarana 5 (7) · Śloka 7
तत्रादित एव प्रमेहिणं स्निग्धमन्यतमेन तैलेन प्रियङ्ग्वादिसिद्धेन वा घृतेन वामयेत् प्रगाढं विरेचयेच्च, विरेचनादनन्तरं सुरसादिकषायेणास्थापयेन्महौषधभद्रदारुमुस्तावापेन मधुसैन्धवयुक्तेन, दह्यमानं च न्यग्रोधादिकषायेण निस्तैलेन ||७||
रूक्षस्य मेहिनो वमननिषेधात्तदितरस्य मेहिनो बलवतश्च वमनमुपदिशन्नाह- तत्रेत्यादि| तैलेनान्यतमेनेति निकुम्भादितैलानामनन्तरनिर्दिष्टानामेकतमेन; अथवा स्नेहोपयोगिकोक्तमेहहरनिकुम्भसर्षपातसीपिचुमर्दातिमुक्तकस्नेहानामन्यतमेन स्निग्धम्| पैत्तिकेषु तु मेहेषु सामान्यस्नेहपाकपरिभाषार्थकल्पनया प्रियङ्ग्वादिसिद्धेन घृतेनोपस्निग्धं वामयेत्, प्रगाढं विरेचयेच्च; कफमेहे वामयेत्, पित्तमेहे विरेचयेत्; आमाशयस्थे कफपित्ते वामयेत्, पक्वाशयस्थे पित्ते विरेचयेत्| विरेचनानन्तरं सप्तरात्रात् परतो वातविद्रध्यादावुक्तेन सुरसादिकषायेण महौषधादिकल्कयुक्तेन मधुप्रायेण; मधुसैन्धवादीनां सामान्यपरिभाषार्थकल्पेनैव सिद्धे पुनर्वचनं स्नेहनिषेधार्थमित्येके| दह्यमानं , च न्यग्रोधादिकषायेणास्थापयेत्| निस्तैलेनेति वचनादल्पघृताभ्यनुज्ञानम्, अल्पस्नेहार्थमित्यन्ये||७||
Adhikarana 6 (8) · Śloka 8
ततः शुद्धदेहमामलकरसेन हरिद्रां मधुसंयुक्तां पाययेत्, त्रिफलाविशालादेवदारुमुस्तकषायं वा, शालकम्पिल्लकमुष्कककल्कमक्षमात्रं वा मधुमधुरमामलकरसेन हरिद्रायुतं, कुटजकपित्थरोहीतकबिभीतकसप्तपर्णपुष्पकल्कं वा निम्बारग्वधसप्तपर्णमूर्वाकुटजसोमवृक्षपलाशानां वा त्वक्पत्रमूलफलपुष्पकषायाणि, एते पञ्च योगाः सर्वमेहानामपहन्तारो व्याख्याताः ||८||
ततः शुद्धदेहमित्यादि| कल्पनामाह- आमलकरसस्य चत्वारि पलानि, हरिद्रा कर्षप्रमाणा, तथा मधु च कर्षप्रमाणमेव, एवं विभज्य पिबेत्| त्रिफलेत्यादि| त्रिफलादीनां मुस्तान्तानां पले षोडशगुणं जलं दत्त्वा चतुर्भागावशिष्टं ग्राह्यम्| तथा चोक्तं- “द्रव्यमापोत्थितं क्वाथ्यं दत्त्वा षोडशिकं जलम्| पादशेषं च कर्तव्यमेष क्वाथविधिः स्मृतः”- इति| कुटजकपित्थेत्यादि कुटजादिभिः पुष्पशब्दः प्रत्येकं सम्बध्यते, अस्मिन् योगेऽपि मधु आमलकरसश्चानुवर्तते| निम्बेत्यादि निम्बादीनां यानि त्वक्पत्रमूलफलपुष्पाणि तैः कृतानि कषायाणि| एष पञ्चमो योगः| एते पञ्चापि सर्वमेहेषु साध्येष्वसाध्येष्वपीत्येके, यापनार्थमित्यपरे||८||
Adhikarana 7 (9) · Śloka 9
विशेषश्चात ऊर्ध्वं- तत्रोदकमेहिनं पारिजातकषायं पाययेत्, इक्षुमेहिनं वैजयन्तीकषायं, सुरामेहिनं निम्बकषायं, सिकतामेहिनं चित्रककषायं, शनैर्मेहिनं खदिरकषायं, लवणमेहिनं पाठाऽगुरुहरिद्राकषायं , पिष्टमेहिनं हरिद्रादारुहरिद्राकषायं, सान्द्रमेहिनं सप्तपर्णकषायं, शुक्रमेहिनं दूर्वाशैवलप्लवहठकरञ्जकसेरुककषायं ककुभचन्दनकषायं वा, फेनमेहिनं त्रिफलारग्वधमृद्वीकाकषायं, मधुमधुरमिति; पैत्तिकेषु नीलमेहिनं शालसारादिकषायमश्वत्थकषायं वा पाययेत्, हरिद्रामेहिनं राजवृक्षकषायं, अम्लमेहिनं न्यग्रोधादिकषायं, क्षारमेहिनं त्रिफलाकषायं, मञ्जिष्ठामेहिनं मञ्जिष्ठाचन्दनकषायं, शोणितमेहिनं गुडूचीतिन्दुकास्थिकाश्मर्यखर्जूरकषायं मधुमिश्रं; अत ऊर्ध्वमसाध्येष्वपि योगान् यापनार्थं वक्ष्यामः, तद्यथा- सर्पिर्मेहिनं कुष्ठकुटजपाठाहिङ्गुकटुरोहिणीकल्कं गुडूचीचित्रककषायेण पाययेत्, वसामेहिनमग्निमन्थकषायं शिंशपाकषायं वा, क्षौद्रमेहिनं कदरक्रमुककषायं , हस्तिमेहिनं तिन्दुककपित्थशिरीषपलाशपाठामूर्वादुःस्पर्शाकषायं मधुमधुरं हस्त्यश्वशूकरखरोष्ट्रास्थिक्षारं चेति; दह्यमानमौदककन्दक्वाथसिद्धां यवागूं क्षीरेक्षुरसमधुरां पाययेत् ||९||
विशेष इत्यादि| अत ऊर्ध्वं ‘वक्ष्यते’ इति वाक्यशेषः| तत्रेत्यादि| पारिजातः पारिभद्रकः| इक्ष्वित्यादि| वैजयन्ती अरणिका| दूर्वेत्यादि शैवलं शेवालं, प्लवो गोपालदमनकः, हठो जलकुम्भिका| ककुभः सुगन्धिमूलो विटपी| कफजेषु मधुमधुरमिति अन्ते स्थितं दशस्वपि सम्बन्धन्ति, एवं पैत्तिकेष्वपि; मधुनो योगवाहित्वान्मेहहरत्वाच्च| पैत्तिकेत्यादि| राजवृक्षः किरमालकः| अत इत्यादि| कदर आपीतसारः खदिराकारः, क्रमुकः पूगफलम्| मूर्वा चौरस्नायुः; दुःस्पर्शा दुरालभा| मधुमधुरमिति वचनं सर्पिर्मेहादिकषायेष्वपि द्रष्टव्यम्| हस्त्यश्वादिक्षारोदकस्य शीतस्य पानं खरतीक्ष्णत्वात्| प्रमेहिणोऽब्धातौ क्षीणे तद्विरोधिनि पित्ते विवृद्धे दाहो भवतीति तच्चिकित्सितमुपदिशन्नाह- दह्यमानमित्यादि| औदककन्दक्वाथेत्यादि षडङ्गकल्पक्वथितेन शालूकादिक्वाथेन सह क्षीरेक्षुरससिद्धां शीतां मधुमधुरां यवागूं पाययेत्| तथा चोक्तम्- “यदप्सु शृतशीतासु षडङ्गादि प्रयुज्यते| कर्षमात्रं ततो द्रव्यं साधयेत् प्रास्थिकेऽम्भसि|| अर्धशृतं प्रयोक्तव्यं पाने पेयादिसंविधौ-” इति| पूर्वनिषिद्धस्य यवागूपानस्यापवादः| क्षीरेक्षुरसमधुमधुराया यवाग्वाः पानं पित्तमेहे एव, वातश्लेष्ममेहेषु पुनर्यवागूपानस्य प्रतिषेध एव||९||
Adhikarana 8 (10) · Śloka 10
ततः प्रियङ्ग्वनन्तायूथिकापद्मात्रायन्तिकालोहितिकाम्बष्ठादाडिमत्वक्शालपर्णीपद्मतुङ्गकेशर- धातकीबकुलशाल्मलीश्रीवेष्टकमोचरसेष्वरिष्टानयस्कृतीर्लेहानासवांश्च कुर्वीत; शृङ्गाटकगिलोड्यबिसमृणालकाशकसेरुकमधुकाम्रजम्ब्वसनतिनिशककुभकट्वङ्गरोध्रभल्लातक- पलाशचर्मवृक्षगिरिकर्णिकाशीतशिवनिचुलदाडिमाजकर्णहरिवृक्षराजादनगोपघोण्टाविकङ्कतेषु वा; यवान्नविकारांश्च सेवेत; यथोक्तकषायसिद्धां यवागूं चास्मै प्रयच्छेत्, कषायाणि वा पातुम् ||१०||
तत्र सर्वेषां मेहानां प्रथमं सामान्यान् ततो वैशेषिकांश्च योगानभिधाय पुनरप्यरिष्टादीन् सामान्येनैव निर्दिशन्नाह- तत इत्यादि| अनन्ता उत्पलसारिवा, पद्मा भार्गी, त्रायन्तिका मदयन्तिका; लोहितिका मञ्जिष्ठा, रामतरुणीत्यन्ये; अम्बष्ठा माचिका, ‘साङ्कुरड’ इति लोके; शालपर्णीत्यत्र केचित् तालपर्णीति पठन्ति, तालपर्णी मुषली; तुङ्गः पुन्नागः, केशरं नागकेशरं, श्रीवेष्टको नवनीतधूपः सरलनिर्यासः, मोचरसः शाल्मलीनिर्यासः| तत्रारिष्टादयः पूर्वेणैव विधानेन विधेयाः| शृङ्गाटकेत्यादि शृङ्गाटकं जलमध्ये त्रिकण्टकं, गिलोड्यः कन्दः प्रावृडूजातः शणपत्राकारो वल्लीयुक्तश्चर्मण्वतीनदीभव(वः)श्वेतवर्तुलपाषाणसदृशः ‘गुगिलोट’ इति लोके, बिसं पद्ममूलं, तस्य स्थूलप्ररोहो मृणालं, असनो बीजकः, तिनिशः स्यन्दनः, कट्वङ्गोऽरलुकः, चर्मवृक्षः ‘चर्मलोह’ इति प्रसिद्धो लकुचद्रुमाकारो महावृक्षः, गिरिकर्णिका श्वेतस्यन्दः, शीतशिवः शतपुष्पाभेदः, निचुलो जलवेतसः, अजकर्णः सर्जः पूर्वदेशे प्रसिद्ध एव, हरिवृक्ष इन्द्रवृक्षः, धवाकार इत्येके, ‘कुटज’ इत्यन्ये पठन्ति, ‘हरिद्रावृक्ष’ इत्यपरे पठन्ति, तत्र हरिद्रा प्रसिद्धा, वृक्षः कुटजः; राजादनः क्षीरिका, गोपघोण्टा घोटाबदरी, विकङ्कतः कण्टकिका| एतेषु वा पूर्वकल्पेनारिष्टादयः कर्तव्याः| यवेत्यादि गृञ्जयवौदनधानादयः| यथोक्तेत्यादि| अनन्तरोक्तप्रियङ्ग्वादिशृङ्गाटकादिवर्गैः कृतामिति||१०||
Adhikarana 9 (11) · Śloka 11
महाधनमहिताहारमौषधद्वेषिणमीश्वरं वा पाठाभयाचित्रकप्रगाढमनल्पमाक्षिकमन्यतममासवं पाययेत्, अङ्गारशूल्योपदंशं वा माध्वीकमभीक्ष्णं, क्षौद्रकपित्थमरिचानुविद्धानि चास्मै पानभोजनान्युपहरेत्, उष्ट्राश्वतरखरपुरीषचूर्णानि चास्मै दद्यादशनेषु; हिङ्गुसैन्धवयुक्तैर्यूषैः सार्षपैश्च रागैर्भोजयेत्; अविरुद्धानि चास्मै पानभोजनान्युपहरेद्रसगन्धवन्ति च; प्रवृद्धमेहास्तु व्यायामनियुद्धक्रीडागजतुरगरथपदातिचर्यापरिक्रमणान्यस्त्रोपास्त्रे वा सेवेरन् ||११||
महाधनो लेलावृक्वणिक्प्रभृतिकाः, ईष्ट इत्येवंशील ईश्वर ईशिता राजा| अत्र गुडस्थाने माक्षिकम्| अनल्पं प्रभूतं, तत्तु कषायसमं; पाठाभयाचित्रकाणाभुक्तानां कषायं कर्षत्रयं देयमिति प्रगाढार्थः; अन्ये तु, अन्यतममासवं पूर्वोक्तं प्रियङ्ग्वाद्यासवम्| अङ्गारशूल्योपदंशमिति भटित्रोपदंशं; माध्वीकं मधुयोनिमद्यं चिरसंस्थितं च; अभीक्ष्णमत्यर्थम्| जेज्जटाचार्यस्तु द्राक्षासवमाह, तन्नेच्छति, गयी| क्षौद्रेत्यादि| उष्ट्रादिपुरीषचूर्णावचारितानि चान्नानि दद्यात्| सर्षपकल्करञ्जिता लेहाः, राजिकास्थाने रागेषु सर्षपाः; अन्ये तु पठन्ति- ‘सार्षपैस्तु शाकैर्भोजयेत्’ इति| अन्यानि पानभोजनान्यविरुद्धानि प्रमेहिणस्तानि रसवन्ति गन्धवन्ति च प्रदद्यात्| निर्दिष्टः कृशस्य प्रायशो विधिरन्नपानप्रतिसंस्कृतः, अतः परं स्थूलस्यापकर्षणविधानमाह- प्रवृद्धमेहा इत्यादि| व्यायामोऽङ्गानां विविधप्रकार आयामः, तथा चोक्तम्,- “तुलाभ्रमगुणाकर्षधनुराकर्षणादिभिः| आयामो विविधोऽङ्गानां व्यायाम इति कीर्तितः”- इति; नियुद्धं बाहुयुद्धं, धनुर्वेदेऽन्यथा नियुद्धं व्याख्यातं, तच्च विस्तरभयान्न लिखितं; क्रीडा लोकप्रसिद्धैर्हस्तपादप्रक्षेपैर्नर्मपूर्वकं क्रीडनं; गजानामारोहणं हस्तिशिक्षायामतिविस्तृतं साङ्ग्रामिकमाभ्यासिकं च गजचर्या; तत्र तुरगचर्या विक्रमवाञ्छितोपशल्यसंहितासु हयारोहणं; रथचर्यां पदातिचर्यां च जमदग्निराह; “सर्वदिग्भागभागेषु हस्त्यश्वरथपत्तिषु| शस्त्रास्त्रैर्यस्तु संयोगः सा चर्येति प्रकीर्त्यते” इति; परिक्रमणं चङ्क्रमणं गतागतमित्यर्थः, सर्वतो भ्रमणमित्यन्ये; अस्त्रं शास्त्रितं धनुः; उपास्त्रं शास्त्रनियमवर्जितं धनुरेव||११||
Adhikarana 10 (12-13) · Śloka 13
अधनस्त्वबान्धवो वा पादत्राणातपत्रविरहितो भैक्ष्याशी ग्रामैकरात्रवासी मुनिरिव संयतात्मा योजनशतमधिकं वा गच्छेत्, महाधनो वा श्यामाकनीवारवृत्तिरामलककपित्थतिन्दुकाश्मन्तकफलाहारो मृगैः सह वसेत्, तन्मूत्रशकृद्भक्षः सततमनुव्रजेद्गाः, ब्राह्मणो वा शिलोञ्छवृत्तिर्भूत्वा ब्रह्मरथमुद्धरेत्, कृषेत् सततमितरः खनेद्वा कूपं, कृशं तु सततं रक्षेत् ||१२||
भवति चात्र- अधनो वैद्यसन्देशादेवं कुर्वन्नतन्द्रितः |
संवत्सरादन्तराद्वा प्रमेहात् प्रतिमुच्यते ||१३||
अधिकमिति शतद्वयं त्रयं वा| नीवार उलिकाधान्यं, तद्विविधम्- एकं धान्यसदृशविटपं धान्यक्षेत्रजं, द्वितीयं महादलकाण्डं तत्तु सलिलजं; तत्र सलिलजं सलिलवृद्धिमात्रस्तम्बप्ररोहं रक्तशूकं, तदेव प्रसाधि(रि)केति तन्त्रान्तरे पठ्यते| तन्मूत्रशकृद्भक्ष इत्यत्र तासां गवामेव मूत्रशकृती ग्राह्ये| भूमिपतितस्योत्सृष्टस्य कणशः शस्यग्रहणं शिलः, कणशो धान्यग्रहणमित्यर्थः; भूमिष्ठमात्रस्य शस्यस्य ग्रहणमुञ्छः| ब्रह्मरथं धर्मपत्न्या सह ब्राह्मणाधिष्ठितं शकटमुद्धरेत्, अथवा ब्रह्म एव रथो ब्रह्मरथस्तमुद्धरेत्, धारयेद्वेदमित्यर्थः; पापरोगप्रायः प्रमेहो वेदाध्ययनान्नाशमुपैति| इतरः शूद्रः| अधन इत्यादि यावन्मृगैः सह संवसेदित्ययं विधिः क्षत्रियस्य; तन्मूत्रशकृद्भक्षः सततमनुव्रजेद्गा इति वैश्यस्यायं विधिः||१२-१३||
Adhikarana puShpikA · Śloka 11
इति सुश्रुतसंहितायां चिकित्सास्थाने प्रमेहचिकित्सितं नामैकादशोऽध्यायः ||११||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने एकादशोऽध्यायः||११||