Adhikarana 1 (1-2) · Śloka 2
अथातः सर्वोपघातशमनीयं रसायनं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
रसादिधातूनामयनमाप्यायनम्, अथवा भेषजाश्रितानां रसवीर्यविपाकप्रभावाणामायुर्बलवीर्यदार्ढ्याणां वयःस्थैर्यकराणामयनं लाभोपायो रसायनम्; वर्धकं स्थापकमप्राप्तप्रापकं वेत्यर्थः| द्विविधं रसायनं- कुटीप्रावेशिकं, वातातपिकं च; पुनश्च त्रिविधं- काम्यं, नैमित्तिकम्, आजस्रिकं च; ‘प्राणमेधाकामः श्रीकाम’ इत्यादिकं काम्यं, नैमित्तिकं व्याधिनिमित्तं शिलाजतुभल्लातकतुवरकाद्यम्, आजस्रिकं क्षीरघृताभ्यासादिकम्; पुनश्च द्विविधं- संशोधनसंशमनभेदेन; दोषस्य संशोधनात् संशोधनं सस्यादिरसायनं (?), संशमनं नागबलाप्रयोगादिकमिति||१-२||
Adhikarana 2 (3-5) · Śloka 5
पूर्वे वयसि मध्ये वा मनुष्यस्य रसायनम् |
प्रयुञ्जीत भिषक् प्राज्ञः स्निग्धशुद्धतनोः सदा ||३||
नाविशुद्धशरीरस्य युक्तो रासायनो विधिः |
न भाति वाससि क्लिष्टे रङ्गयोग इवाहितः ||४||
शरीरस्योपघाता ये दोषजा मानसास्तथा |
उपदिष्टाः प्रदेशेषु तेषां वक्ष्यामि वारणम् ||५||
न भाति न दीप्यते| आहितः प्रयुक्तः| शरीरदोषा वातादयः; मानसौ तु रजस्तमसी||३-५||
Adhikarana 3 (6) · Śloka 6
शीतोदकं पयः क्षौद्रं सर्पिरित्येकशो द्विशः |
त्रिशः समस्तमथवा प्राक् पीतं स्थापयेद्वयः ||६||
शरीरस्य प्रकृतिभेदेन चतुर्विधं वयःस्थापनमुपदिशन्नाह- शीतोदकमित्यादि| शीतोदकपयःक्षौद्रसर्पिषामेकशश्चत्वारः प्रयोगाः, द्विशः षट्, त्रिशश्चत्वारः, चतुर्भिरेकः, एवं पञ्चदश प्रयोगाः| उदकं पयः क्षौद्रं सर्पिरित्येकशश्चत्वारः; उदकपयसी, उदकक्षौद्रे, उदकसर्पिषी, पयःक्षौद्रे, पयःसर्पिषी, क्षौद्रसर्पिषीत्येवं द्विशः षट्; उदकपयःसर्पींषि, उदकक्षौद्रसर्पींषि, पयःक्षौद्रसर्पींषि, उदकपयःक्षौद्राणीत्येवं चत्वारः; उदकपयःक्षौद्रसर्पिर्भिरेक एव च प्रयोगः| मानाविरुद्धानामेषां विषमाणामुपयोगः कार्य इति ज्ञेयम्| शीतोदकं समपित्तवातकफप्रकृतौ, पयः पुनरधिकपित्तप्रकृतावेव, क्षौद्रं कफप्रकृतौ, सर्पिः पुनरधिकवातप्रकृतौ; अत्रैवैकद्वित्रिचतुर्द्रव्यसंयोगो हिताहितवातादिदोषभेदप्रकृतिषु स्वबुद्ध्या विभजनीयः||६||
Adhikarana 4 (7) · Śloka 7
तत्र विडङ्गतण्डुलचूर्णमाहृत्य यष्टीमधुकमधुयुक्तं यथाबलं शीततोयेनोपयुञ्जीत शीततोयं चानुपिबेदेवमहरहर्मासं, तदेव मधुयुक्तं भल्लातकक्वाथेन वा, मधुद्राक्षाक्वाथयुक्तं वा, मध्वामलकरसाभ्यां वा, गुडूचीक्वाथेन वा, एवमेते पञ्च प्रयोगा भवन्ति; जीर्णे मुद्गामलकयूषेणालवणेनाल्पस्नेहेन घृतवन्तमोदनमश्नीयात्; एते खल्वर्शांसि क्षपयन्ति, कृमीनुपघ्नन्ति, ग्रहणधारणशक्तिं जनयन्ति, मासे मासे च प्रयोगे वर्षशतं वर्षशतमायुषोऽभिवृद्धिर्भवति ||७||
अतश्चोर्ध्वमायुर्वर्धनमुपदिशन्नाह- तत्रेत्यादि| यष्टीमधु मधु च विडङ्गतण्डुलमानेन ग्राह्यम्; एतत् पित्तरक्तार्शस्सु तत्प्रकृतौ वा| तदेव विडङ्गतण्डुलचूर्णं मधुप्रक्षेपं भल्लातकक्वाथेन पेयं, यथाबलमत्रापि सम्बध्यते; एतद्वातजेषु शुष्कार्शःसु तत्प्रकृतावपि| मधुद्राक्षाक्वाथयुक्तं वा ‘विडङ्गतण्डुलचूर्णम्’ इति शेषः| मध्वित्यादि अत्रापि विडङ्गतण्डुलचूर्णम्| गुडूचीत्यादि अत्रापि विडङ्गतण्डुलचूर्णम्| घृतवन्तं बहुघृतमित्यर्थः| तेषां फलमाह- एते इत्यादि| तस्य भल्लातकविधानवदाहारः परिहारश्च||७||
Adhikarana 5 (8-10) · Śloka 10
विडङ्गतण्डुलानां द्रोणं पिष्टपचने पिष्टवदुपस्वेद्य विगतकषायं स्विन्नमवतार्य दृषदि पिष्टमायसे दृढे कुम्भे मधूदकोत्तरं प्रावृषि भस्मराशावन्तर्गृहे चतुरो मासान्निदध्यात्, वर्षाविगमे चोद्धृत्योपसंस्कृतशरीरः सहस्रसम्पाताभिहुतं कृत्वा प्रातः- प्रातर्यथाबलमुपयुञ्जीत, जीर्णे मुद्गामलकयूषेणालवणेन घृतवन्तमोदनमश्नीयात्, पांशुशय्यायां शयीत, तस्य मासादूर्ध्वं सर्वाङ्गेभ्यः कृमयो निष्क्रामन्ति, तानणुतैलेनाभ्यक्तस्य वंशविदलेनापहरेत्, द्वितीये पिपीलिकास्तृतीये यूकास्तथैवापहरेत्, चतुर्थे दन्तनखरोमाण्यवशीर्यन्ते; पञ्चमे प्रशस्तगुणलक्षणानि जायन्ते, अमानुषं चादित्यप्रकाशं वपुरधिगच्छति, दूराच्छ्रवणानि दर्शना निचास्य भवन्ति, रजस्तमसी चापोह्य सत्त्वमधितिष्ठति, श्रुतनिगाद्यपूर्वोत्पादी गजबलोऽश्वजवः पुनर्युवाऽष्टौ वर्षशतान्यायुरवाप्नोति; तस्याणुतैलमभ्यङ्गार्थे, अजकर्णकषायमुत्सादनार्थे, सोशीरं कूपोदकं स्नानार्थे, चन्दनमुपलेपनार्थे, भल्लातकविधानवदाहारः परिहारश्च ||८||
काश्मर्याणां निष्कुलीकृतानामेष एव कल्पः पांशुशय्याभोजनवर्जं; अत्र हि पयसा शृतेन भोक्तव्यं, समानमन्यत् पूर्वेणाशिषश्च |
शोणितपित्तनिमित्तेषु विकारेष्वेतेषामुपयोगः ||९||
यथोक्तमागारं प्रविश्य बलामूलार्धपलं पलं वा पयसाऽऽलोड्य पिबेत्, जीर्णे पयः सर्पिरोदन इत्याहारः, एवं द्वादशरात्रमुपयुज्य द्वादश वर्षाणि वयस्तिष्ठति; एवं दिवसशतमुपयुज्य वर्षशतं वयस्तिष्ठति |
एवमेवातिबलानागबलाविदारीशतावरीणामुपयोगः |
विशेषतस्त्वतिबलामुदकेन, नागबलाचूर्णं मधुना, विदारीचूर्णं क्षीरेण, शतावरीमप्येवं, पूर्वेणान्यत् समानमाशिषश्च समाः |
एतास्त्वौषधयो बलकामानां शोषिणां रक्तपित्तोपसृष्टानां शोणितं छर्दयतां विरिच्यमानानां चोपदिश्यन्ते ||१०||
पिष्टपचने तृणादिकृतास्तारे कटाहे| दृषदि शिलायाम्| मधूदकोत्तरं मधूदकप्रधानम्; उदकमत्र विडङ्गकषाय एव, शीतोदकमित्यन्ये| निदध्यात् स्थापयेत्| उपसंस्कृतशरीरो विशुद्धदेहः| सहस्रसम्पाताभिहुतं कृत्वा सहस्रसम्पाताध्यायो ऋग्वेदे पठ्यते, तैर्मन्त्रैः सहस्रं हुत्वोपयुञ्जीतेत्यर्थः| जेज्जटस्तु सम्पातशब्देन याज्ञिकानां स्रवणं, तथा ह्याहार्य संस्कृत्य द्रव्याणि हूयन्ते, हुत्वा हुत्वा च पानीयादिपूर्णपात्रे संस्राव्यन्ते| एतदुक्तं भवति- सहस्रसम्पतनं यस्मिन्नभिहुते तत्तथा; तत् कृत्वोपयुञ्जीतेत्यर्थः| गयी तु अथर्वविद्भिः सम्पातक्रमेणौषधाधिकारिणा मन्त्रेण त्रिपदा गायत्र्या वा प्राक्तनकर्मक्षयार्थं विघ्नशान्त्यर्थमभिमताशीःप्राप्त्यर्थं वा सहस्राभिहुतं कृत्वा प्रयुज्यन्ते| पांशुः धूलिः| वंशविदलेन वंशकम्बिकया| द्वितीये इति मासे| अवशीर्यन्ते पतन्तीत्यर्थः| चतुर्थेऽतीते इत्यर्थः| अपूर्वोत्पादीति अपूर्वश्लोकादिकं करोतीत्यर्थः| अजकर्णो महासर्जः, ‘गन्धमुण्ड’ इति लोके| कषायोऽत्र कल्कः| सस्नेहकल्केनोद्धर्षणमुत्सादनम्| चन्दनं रक्तचन्दनं, सितचन्दनमित्यपरे| भल्लातकविधानवदिति विवृतागारप्रवेशादिभिरित्यर्थः; समानमन्यत्| आशिष इति गुणा इत्यर्थः||८-१०||
Adhikarana 6 (11) · Śloka 11
वाराहीमूलतुलाचूर्णं कृत्वा ततो मात्रां मधुयुक्तां पयसाऽऽलोड्य पिबेत्, जीर्णे पयः सर्पिरोदन इत्याहारः, प्रतिषेधोऽत्र पूर्ववत् ; प्रयोगमिममुपसेवमानो वर्षशतमायुरवाप्नोति स्त्रीषु चाक्षयताम्, एतेनैव चूर्णेन पयोऽवचूर्ण्य शृतशीतमभिमथ्याज्यमुत्पाद्य मधुयुतमुपयुञ्जीत सायम्प्रातरेककालं वा, जीर्णे पयः सर्पिरोदन इत्याहारः, एवं मासमुपयुज्य वर्षशतायुर्भवति ||११||
वाराहीत्यादि| प्रतिषेधो निवृत्तिः| एतेनैव चूर्णेन वाराहीचूर्णेन क्षीरपाकविधिना शृतं क्षीरमवचूर्ण्य, तच्च शीतमभिमथ्य, आज्यमुत्पादयेत्, वाराहीशतपाकं वा सर्पिर्द्रोणमुपयुज्य वर्षशतायुर्भवति| जीर्णे पयः सर्पिरोदन इत्याहारः| कल्पनामाह- वाराहीकन्दकल्कं क्षीरचतुर्गुणं घृतद्रोणं पचेत्; अनेन क्रमेण शतपाकं घृतं द्रोणमुपयुज्य वर्षशतायुर्भवति| अन्ये पुनरनुक्तं जलमेव चतुर्गुणमाहुः| यद्यपि स्नेहपानानन्तरं स्नेहभोजनं निषिद्धं, तथाऽप्यत्र वाराह्या शतपाकसंस्कृतस्य स्वभावशमनीयरूपस्य सर्पिषः पानानन्तरं रसायनविधिना सर्पिषा भोजनं युज्यते इति न दोषः||११||
Adhikarana 7 (12-13) · Śloka 13
चक्षुःकामः प्राणकामो वा बीजकसाराग्निमन्थमूलं निष्क्वाथ्य माषप्रस्थं साधयेत्, तस्मिन् सिध्यति चित्रकमूलानामक्षमात्रं कल्कं दद्यादामलकरसचतुर्थभागं, ततः स्विन्नमवतार्य सहस्रसम्पाताभिहुतं कृत्वा शीतीभूतं मधुसर्पिर्भ्यां संसृज्योपयुञ्जीत यथाबलं, यथासात्म्यं च लवणं परिहरन् भक्षयेत् |
जीर्णे मुद्गामलकयूषेणालवणेन घृतवन्तमोदनमश्नीयात् पयसा वा मासत्रयम्; एवमाभ्यां प्रयोगाभ्यां चक्षुः सौपर्णं भवत्यनल्पबलः स्त्रीषु चाक्षयो वर्षशतायुर्भवतीति ||१२||
भवति चात्र- पयसा सह सिद्धानि नरः शणफलानि यः |
भक्षयेत् पयसा सार्धं वयस्तस्य न शीर्यते ||१३||
बीजकसाराग्निमन्थमूलं पलं सलिलाढके निष्क्वाथ्य, अर्धावशिष्टे तत्र पूते षोडशपलानि माषाणि साध्यानि, तस्मिंश्च सिध्यति चित्रमूलकल्काक्षं प्रक्षिपेत्, आमलकरसस्य माषप्रस्थापेक्षया चतुर्थभागं कुडवमष्टौ पलानि| पयसा वेति योगद्वयमेतत्, योजनाविशेषत्वात्| सौपर्णं गरुडचक्षुषा तुल्यं चक्षुर्भवति| गयी तु ‘सहस्रसम्पाताभिहुतं कृत्वा’ इति न पठति| अन्ये तु सुश्रुताध्यायिनोऽत्र वक्ष्यमाणं योगं पठन्ति; यथा- पयसा सह सिद्धानीत्यादि| अयं योगोऽनार्षः, जेज्जटेनाप्यनुक्तत्वात्; तस्मान्न पठनीयः||१२-१३||
Adhikarana puShpikA · Śloka 27
इति सुश्रुतसंहितायां चिकित्सास्थाने सर्वोपघातशमनीयं रसायनचिकित्सितं नाम सप्तविंशोऽध्यायः ||२७||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने सप्तविंशतितमोऽध्यायः|||२७||