Adhikarana 1 (1-2) · Śloka 2
अथातः क्षीणबलीयं वाजीकरणचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
क्षीणता हीनशक्तित्वम्||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातः क्षीणबलीयं वाजीकरणचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
क्षीणता हीनशक्तित्वम्||१-२||
Adhikarana 2 (3-5) · Śloka 5
कल्यस्योदग्रवयसो वाजीकरणसेविनः | सर्वेष्वृतुष्वहरहर्व्यवायो न निवारितः ||३|| स्थविराणां रिरंसूनां स्त्रीणां वाल्लभ्यमिच्छताम् | योषित्प्रसङ्गात् क्षीणानां क्लीबानामल्परेतसाम् ||४|| विलासिनामर्थवतां रूपयौवनशालिनाम् | नृणां च बहुभार्याणां योगा वाजीकरा हिताः ||५||
🔊 Audio coming soon
कल्यस्य रोगरहितस्य| उदग्रवयसः तरुणस्य||३-५||
Adhikarana 3 (6-8) · Śloka 10
सेवमानो यदौचित्याद्वाजीवात्यर्थवेगवान् | नारीस्तर्पयते तेन वाजीकरणमुच्यते ||६|| भोजनानि विचित्राणि पानानि विविधानि च | वाचः श्रोत्रानुगामिन्यस्त्वचः स्पर्शसुखास्तथा ||७|| यामिनी सेन्दुतिलका कामिनी नवयौवना | गीतं श्रोत्रमनोहारि ताम्बूलं मदिराः स्रजः ||८|| गन्धा मनोज्ञा रूपाणि चित्राण्युपवनानि च | मनसश्चाप्रतीघातो वाजीकुर्वन्ति मानवम् |१०|
🔊 Audio coming soon
अथ किं तद्वाजीकरणमित्युच्यत इत्याह- सेवमान इत्यादि| तथाऽन्यत्रापि “वाजीवातिबलो येन यात्यप्रतिहतः स्त्रियः” इत्यादिलक्षणं वाजीकरणम्| तत् त्रिविधम्- जनकं, प्रवर्तकं, जनकप्रवर्तकं चेति| तत्र जनकं मांसघृतादिकं, यतस्तद्रसादिधातुक्रमेण परिणतं सत् प्रधानधातुपुष्टिं करोति; प्रवर्तकमुच्चटाचूर्णादिकं शुक्रवैरेचनिकं, न च तस्य वैरेचनिकोक्तया शुक्रक्षयकारित्वं स्यात्, अतो विरेचनं शुक्रस्य पतनायाभिमुखीभावमात्रकरणं; जनकप्रवर्तकं तु गव्यघृतगोधूममाषकाकाण्डफलादिकम्| केवलं देहबलकरं जनकं गोधूमादिकं, केवलमनोबलकरं सङ्कल्पादि तु प्रवर्तकं, घृतक्षीरादि देहमनोबलकरं सदुभयकरमिति| वृष्यादिद्रव्याणां सद्यः शुक्रादिकरणे प्रभावोऽयम्| तथा च श्रीवाग्भटः,- “केचिदाहुरहोरात्रात् षडहादपरे, परे| मासात् प्रयाति शुक्रत्वमन्नं पाकक्रमादिति|| वृष्यादीनि प्रभावेण सद्यः शुक्रादि कुर्वते|| प्रायः करोत्यहोरात्रात् कर्मान्यदपि भेषजम्” (वा. शा. ३)- इति| रिरंसुः रन्तुमिच्छुः| प्रवर्तनादिकारणान्युद्दिशन्नाह- भोजनानीत्यादि||६-८||
Adhikarana 4 (9-15) · Śloka 15
तैस्तैर्भावैरहृद्यैस्तु रिरंसोर्मनसि क्षते ||९|| द्वेष्यस्त्रीसम्प्रयोगाच्च क्लैब्यं तन्मानसं स्मृतम् | कटुकाम्लोष्णलवणैरतिमात्रोपसेवितैः ||१०|| सौम्यधातुक्षयो दृष्टः क्लैब्यं तदपरं स्मृतम् | अतिव्यवायशीलो यो न च वाजीक्रियारतः ||११|| ध्वजभङ्गमवाप्नोति तच्छुक्रक्षयहेतुकम् | महता मेढ्ररोगेण मर्मच्छेदेन वा पुनः ||१२|| क्लैब्यमेतच्चतुर्थं स्यान्नृणां पुंस्त्वोपघातजम् | जन्मप्रभृति यः क्लीबः क्लैब्यं तत् सहजं स्मृतम् ||१३|| बलिनः क्षुब्धमनसो निरोधाद् ब्रह्मचर्यतः | षष्ठं क्लैब्यं मतं तत्तु खरशुक्रनिमित्तजम् ||१४|| असाध्यं सहजं क्लैब्यं मर्मच्छेदाच्च यद्भवेत् | साध्यानामितरेषां तु कार्यो हेतुविपर्ययः ||१५||
🔊 Audio coming soon
प्रवर्तनाकारणान्युद्दिशन्नाह- तैस्तैरित्यादि| तैस्तैर्भावैरिति भयाविश्रम्भस्त्रीदोषदर्शनादिभिः| आहारजं क्लैब्यमाह- कटुकेत्यादि| रिरंसुः रन्तुमिच्छुः| धातुक्षयजन्यं क्लैब्यमाह- अतिव्यवायेत्यादि| ध्वजो मेहनम्| मर्मच्छेदेनेति शुक्रवहनाडीनां छेदनात्| बलिनः अतिस्थूलस्य| क्षुब्धमनसः चलचित्तस्य| निरोधात् वातमूत्रादीनाम्| खरं कठिनम्, अन्ये परुषमाहुः||९-१५||
Adhikarana 5 (16-17) · Śloka 18
विधिर्वाजीकरो यस्तु तं प्रवक्ष्याम्यतः परम् | तिलमाषविदारीणां शालीनां चूर्णमेव वा ||१६|| पौण्ड्रकेक्षुरसैरार्द्रं मर्दितं सैन्धवान्वितम् | वराहमेदसा युक्तां घृतेनोत्कारिकां पचेत् ||१७|| तां भक्षयित्वा पुरुषो गच्छेत्तु प्रमदाशतम् |१८|
🔊 Audio coming soon
रसैः मांसरसैरिक्षुरसैश्च| उत्कारिकां लप्सिकाम्||१६-१७||-
Adhikarana 6 (18-19) · Śloka 19
बस्ताण्डसिद्धे पयसि भावितानसकृत्तिलान् ||१८|| शिशुमारवसापक्वाः शष्कुल्यस्तिस्तैलैः कृताः | यः खादेत् स पुमान् गच्छेत् स्त्रीणां शतमपूर्ववत् ||१९||
🔊 Audio coming soon
सामान्यपरिभाषाकल्पेन सिद्धे पयसि सप्ताहं भावितान् तिलान् खादेत्, तत्रानुपानं क्षीरमेवेत्येको योगः| परिभाषामाह- “द्रव्यादष्टगुणं क्षीरं क्षीरात्तोयं चतुर्गुणम्| क्षीरावशिष्टं कर्तव्यं क्षीरपाके त्वयं विधिः”- इति| बस्ताण्डसिद्धपयोभाविततिलैः कृताः शष्कुल्यः शिशुमारवसया भृष्टा भक्षिता यथोक्तफलदाः, तत्राप्यनुपाने क्षीरमिति द्वितीयो योगः, एतेन योगद्वयमुक्तम्| अपूर्ववत् प्रथमसुरतवत्||१८-१९||
Adhikarana 7 (20) · Śloka 20
पिप्पलीलवणोपेते बस्ताण्डे क्षीरसर्पिषि | साधिते भक्षयेद्यस्तु स गच्छेत् प्रमदाशतम् ||२०||
🔊 Audio coming soon
पिप्पलीत्यादि| बस्ताण्डे क्षीरसर्पिषा क्षीरोत्थितनवनीतसर्पिषा पक्वे पिप्पल्या किञ्चित्कटुके सैन्धवेन किञ्चिल्लवणे भक्षिते यथोक्तफलदे, अनुपानं शीतलजलम्||२०||
Adhikarana 8 (21-22) · Śloka 22
पिप्पलीमाषशालीनां यवगोधूमयोस्तथा | चूर्णभागैः समैस्तैस्तु घृते पूपलिकां पचेत् ||२१|| तां भक्षयित्वा पीत्वा तु शर्करामधुरं पयः | नरश्चटकवद्गच्छेद्दशवारान्निरन्तरम् ||२२||
🔊 Audio coming soon
पिप्पलीत्यादि| शृतं शर्करामधुरं क्षीरमनुपानम्||२१-२२||
Adhikarana 9 (23-24) · Śloka 25
विदार्याः सुकृतं चूर्णं स्वरसेनैव भावितम् | सर्पिर्मधुयुतं लीढ्वा दश स्त्रीरधिगच्छति ||२३|| एवमामलकं चूर्णं स्वरसेनैव भावितम् | शर्करामधुसर्पिर्भिर्युक्तं लीढ्वा पयः पिबेत् ||२४|| एतेनाशीतिवर्षोऽपि युवेव परिहृष्यति |२५|
🔊 Audio coming soon
स्वरसेनैव विदार्या एव, शर्करासर्पिःक्षौद्रयुतं लीढ्वाऽनन्तरमनुपानं पयः पिबेत्||२३-२४||-
Adhikarana 10 (25-26) · Śloka 27
पिप्पलीलवणोपेते बस्ताण्डे घृतसाधिते ||२५|| शिशुमारस्य वा खादेत्ते तु वाजीकरे भृशम् | कुलीरकूर्मनक्राणामण्डान्येवं तु भक्षयेत् ||२६|| महिषर्षभबस्तानां पिबेच्छुक्राणि वा नरः |२७|
🔊 Audio coming soon
पिप्पलीत्यादि| बस्ताण्डे अजमुष्कौ| शिशुमारस्य ‘अण्डे’ इति शेषः| कुलीरः कर्कटकः, ‘गृहचटक ’ इत्यन्ये, ‘कुलीरो मत्स्यविशेष’ इत्यपरे| कूर्मः कच्छपः| नक्रो मत्स्यभेदः, ‘घडियाल’ इति लोके| अण्डमत्र प्राणाधारो वर्तुलः, नतु मुष्कः| ऋषभो वृषभः| बस्तः छागः| तेषां शुक्राणि गुरूपदेशात् तदाधारभूतान्येवाण्डानि ||२५-२६||-
Adhikarana 11 (27-36) · Śloka 36
अश्वत्थफलमूलत्वक्शुङ्गासिद्धं पयो नरः ||२७|| पीत्वा सशर्कराक्षौद्रं कुलिङ्ग इव हृष्यति | विदारिमूलकल्कं तु शृतेन पयसा नरः ||२८|| उडुम्बरसमं पीत्वा वृद्धोऽपि तरुणायते | माषाणां पलमेकं तु संयुक्तं क्षौद्रसर्पिषा ||२९|| अवलिह्य पयः पीत्वा तेन वाजी भवेन्नरः | क्षीरपक्वांस्तु गोधूमानात्मगुप्ताफलैः सह ||३०|| शीतान् घृतयुतान् खादेत्ततः पश्चात् पयः पिबेत् | नक्रमूषिकमण्डूकचटकाण्डकृतं घृतम् ||३१|| पादाभ्यङ्गेन कुरुते बलं भूमिं तु न स्पृशेत् | यावत् स्पृशति नो भूमिं तावद्गच्छेन्निरन्तरम् ||३२|| स्वयङ्गुप्तेक्षुरकयोः फलचूर्णं सशर्करम् | धारोष्णेन नरः पीत्वा पयसा न क्षयं व्रजेत् ||३३|| उच्चटाचूर्णमप्येवं क्षीरेणोत्तममिष्यते | शतावर्युच्चटाचूर्णं पेयमेवं बलार्थिना | स्वयङ्गुप्ताफलैर्युक्तं माषसूपं पिबेन्नरः ||३४|| गुप्ताफलं गोक्षुरकाच्च बीजं तथोच्चटां गोपयसा विपाच्य | खजाहतं शर्करया च युक्तं पीत्वा नरो हृष्यति सर्वरात्रम् ||३५|| माषान् विदारीमपि सोच्चटां च क्षीरे गवां क्षौद्रघृतोपपन्नाम् | पीत्वा नरः शर्करया सुयुक्तां कुलिङ्गवद्धृष्यति सर्वरात्रम् ||३६||
🔊 Audio coming soon
अश्वत्थेत्यादि| शुङ्गा अग्रपल्लवाः| हृष्यति सकामो भवति| उडुम्बरसमम् उदुम्बरफलप्रमाणम्| स्वयङ्गुप्ता कपिकच्छूः| इक्षुरकः कोकिलाक्षः ‘तालमखाना’ इति लोके| उच्चटा शणघण्टाकारः स्वल्पविटपः प्रायशो हिमवति सरयूनदीतीरे दृश्यते| एवमिति सशर्करधारोष्णक्षीरेण; खजाहतं मन्थानहतम्||२७-३६||
Adhikarana 12 (37-38) · Śloka 38
गृष्टीनां वृद्धवत्सानां माषपर्णभृतां गवाम् | यत् क्षीरं तत् प्रशंसन्ति बलकामेषु जन्तुषु ||३७|| क्षीरमांसगणाः सर्वे काकोल्यादिश्च पूजितः | वाजीकरणहेतोर्हि तस्मात्तत्तु प्रयोजयेत् ||३८||
🔊 Audio coming soon
गृष्टीनां प्रथमप्रसूतानां, वृद्धवत्सानामेकवर्षवत्सानामित्यर्थः| माषपर्णभृतां माषपर्णेन पोषितानां, माषपर्णग्रहणं फलव्युदासार्थं, ते च माषपर्णा हरिता अभिप्रेता न शुष्काः||३७-३८||
Adhikarana 13 (39) · Śloka 39
एते वाजीकरा योगाः प्रीत्यपत्यबलप्रदाः | सेव्या विशुद्धोपचितदेहैः कालाद्यपेक्षया ||३९||
🔊 Audio coming soon
प्रीतिः मनःसुखम्, अपत्यं सन्ततिः, बलं देहस्योपचयलक्षणं शक्तिलक्षणं वा| विशिष्टशोधनविशुद्धशरीराणां कृतसंसर्जनानामेव यथोक्तं फलं भवति नान्यथेति दर्शयन्नाह- सेव्या विशुद्धोपचितदेहैरिति; पूर्वं विशुद्धाः कृतसंसर्जनत्वात् पश्चादुपचिताः||३९||
Adhikarana puShpikA · Śloka 26
इति सुश्रुतसंहितायां क्षीणबलीयवाजीकरणचिकित्सितं नाम षड्विंशोऽध्यायः ||२६||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने षड्विंशतितमोऽध्यायः||२६|