Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

29. svabhāvavyādhipratiṣēdhanīyarasāyanam

Adhikarana 1 (1-2) · Śloka 2

अथातः स्वभावव्याधिप्रतिषेधनीयं रसायनं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

स्वभावप्रवृत्तानां क्षुत्पिपासाजरामृत्युनिद्राप्रभृतीनां व्याधीनां प्रतिषेधनं स्वभावव्याधिप्रतिषेधनं, तदधिकृत्य कृतं रसायनं स्वभावव्याधिप्रतिषेधनीयम्| यद्यपि स्वभावो निष्प्रतिषेधनीयस्तथाऽपि रसायनप्रभावात्तपोज्ञानादियुक्तैर्महर्षिभिरनियतायुषां स्वभावव्याध्यादिः प्रतिषिध्यते; नियतायुषाः पुनः कलिकलुषैरक्षीणा रसायनायोग्या एव||१-२||

Adhikarana 2 (3-9) · Śloka 9

ब्रह्मादयोऽसृजन् पूर्वममृतं सोमसञ्ज्ञितम् | जरामृत्युविनाशाय विधानं तस्य वक्ष्यते ||३|| एक एव खलु भगवान् सोमः स्थाननामाकृतिवीर्यविशेषैश्चतुर्विंशतिधा भिद्यते ||४|| तद्यथा- अंशुमान् मुञ्जवांश्चैव चन्द्रमा रजतप्रभः | दूर्वासोमः कनीयांश्च श्वेताक्षः कनकप्रभः ||५|| प्रतानवांस्तालवृन्तः करवीरोंऽशवानपि | स्वयम्प्रभो महासोमो यश्चापि गरुडाहृतः ||६|| गायत्रस्त्रैष्टुभः पाङ्क्तो जागतः शाक्वरस्तथा | अग्निष्टोमो रैवतश्च यथोक्त इति सञ्ज्ञितः ||७|| गायत्र्या त्रिपदा युक्तो यश्चोडुपतिरुच्यते | एते सोमाः समाख्याता वेदोक्तैर्नामभिः शुभैः ||८|| सर्वेषामेव चैतेषामेको विधिरुपासने | सर्वे तुल्यगुणाश्चैव विधानं तेषु वक्ष्यते ||९||

🔊 Audio coming soon

गायत्र्या त्रिपदा युक्त इति सर्वेषामेव सोमानां विशेषणम्| तत्र गायत्र्या वर्णस्वरात्मिकायाः सोमस्य साक्षाद्योगो नास्तीति गायत्रीप्रतिपादितलोकवेदत्रययुक्त इत्यर्थः; तेन पीतसोमप्रभावेण लोकवेदत्रयमस्य वशीभवति| एतानि च नामानि सामान्यलोकाप्रसिद्धान्यपि प्रमाणानीति दर्शयन्नाह- एते सोमा इत्यादि| तुल्यगुणाः तुल्यफला इत्यर्थः||३-९||

Adhikarana 3 (10-12) · Śloka 12

अतोऽन्यतमं सोममुपयुयुक्षुः सर्वोपकरणपरिचारकोपेतः प्रशस्ते देशे त्रिवृतमागारं कारयित्वा हृतदोषः प्रतिसंसृष्टभक्तः प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेषु अंशुमन्तमादायाध्वरकल्पेनाहृतमभिषुतमभिहुतं चान्तरागारे कृतमङ्गलस्वस्तिवाचनः सोमकन्दं सुवर्णसूच्या विदार्य पयो गृह्णीयात् सौवर्णे (राजते वा ) पात्रेऽञ्जलिमात्रं, ततः सकृदेवोपयुञ्जीत नाखादयन्, तत उपस्पृश्य शेषमप्स्ववसाद्य यमनियमाभ्यामात्मानं संयोज्य वाग्यतोऽभ्यन्तरतः सुहृद्भिरुपास्यमानो विहरेत् ||१०|| रसायनं पीतवांस्तु निवाते तन्मनाः शुचिः | आसीत तिष्ठेत् क्रामेच्च न कथञ्चन संविशेत् ||११|| सायं वा भुक्तवानुपश्रुतशान्तिः कुशशय्यायां कृष्णाजिनोत्तरायां सुहृद्भिरुपास्यमानः शयीत, तृषितो वा शीतोदकमात्रां पिबेत् (अशनायितो वा क्षारं); ततः प्रातरुत्थायोपश्रुतशान्तिः कृतमङ्गलो गां स्पृष्ट्वा तथैवासीत, तस्य जीर्णे सोमे छर्दिरुत्पद्यते, ततः शोणिताक्तं कृमिव्यामिश्रं छर्दितवते सायं शृतशीतं क्षीरं वितरेत्; ततस्तृतीयेऽहनि कृमिव्यामिश्रमतिसार्यते, स तेनानिष्टप्रतिग्रहभुक्तप्रभृतिभिर्विशेषैर्विनिर्मुक्तः शुद्धतनुर्भवति, ततः सायं स्नाताय पूर्ववदेव क्षीरं वितरेत्, क्षौमवस्त्रास्तृतायां चैनं शय्यायां शाययेत्; ततश्चतुर्थेऽहनि तस्य श्वयथुरुत्पद्यते, ततः सर्वाङ्गेभ्यः कृमयो निष्क्रामन्ति, तदहश्च शय्यायां पांशुभिरवकीर्यमाणः शयीत, ततः सायं पूर्ववदेव क्षीरं वितरेत्; एवं पञ्चमषष्ठयोर्दिवसयोर्वर्तेत, केवलमुभयकालमस्मै क्षीरं वितरेत्; ततः सप्तमेऽहनि निर्मांसस्त्वगस्थिभूतः केवलं सोमपरिग्रहादेवोच्छ्वसिति, तदहश्च क्षीरेण सुखोष्णेन परिषिच्य तिलमधुकचन्दनानुलिप्तदेहं पयः पाययेत्; ततोऽष्टमेऽहनि प्रातरेव क्षीरपरिषिक्तं चन्दनप्रदिग्धगात्रं पयः पाययित्वा पांशुशय्यां समुत्सृज्य क्षौमवस्त्रास्तृतायां शय्यायां शाययेत्, ततोऽस्य मांसमाप्याय्यते, त्वक् चावदलति, दन्तनखरोमाणि चास्य पतन्ति, तस्य नवमदिवसात् प्रभृत्यणुतैलाभ्यङ्गः सोमवल्ककषायपरिषेकः; ततो दशमेऽहन्येतदेव वितरेत्, ततोऽस्य त्वक् स्थिरतामुपैति; एवमेकादशद्वादशयोर्वर्तेत; ततस्त्रयोदशात् प्रभृति सोमवल्ककषायपरिषेकः, एवमाषोडशाद्वर्तेत; ततः सप्तदशाष्टादशयोर्दिवसयोर्दशना जायन्ते शिखरिणः स्निग्धवज्रवैदूर्यस्फटिकप्रकाशाः समाः स्थिराः सहिष्णवः, तदा प्रभृति चानवैः शालितण्डुलैः क्षीरयवागूमुपसेवेत यावत् पञ्चर्विशतिरिति; ततोऽस्मै दद्याच्छाल्योदनं मृदूभयकालं पयसा, ततोऽस्य नखा जायन्ते विद्रुमेन्द्रगोपकतरुणादित्यप्रकाशाः, स्थिराः स्निग्धा लक्षणसम्पन्नाः केशाश्च सूक्ष्मा जायन्ते, त्वक् च नीलोत्पलातसीपुष्पवैदूर्यप्रकाशा; ऊर्ध्वं च मासात् केशान् वापयेत्, वापयित्वा चोशीरचन्दनकृष्णतिलकल्कैः शिरः प्रदिह्यात् पयसा वा स्नापयेत्; ततोऽस्यानन्तरं सप्तरात्रात् केशा जायन्ते भ्रमराञ्जननिभाः कुञ्चिताः स्थिराः स्निग्धाः; ततस्त्रिरात्रात् प्रथमावसथपरिसरान्निष्क्रम्य मुहूर्तं स्थित्वा पुनरेवान्तः प्रविशेत्, ततोऽस्य बलातैलमभ्यङ्गार्थेऽवचार्यं, यवपिष्टमुद्वर्तनार्थे, सुखोष्णं च पयः परिषेकार्थे, अजकर्णकषायमुत्सादनार्थे, सोशीरं कूपोदकं स्नानार्थे, चन्दनमनुलेपार्थे, आमलकरसविमिश्राश्चास्य यूषसूपविकल्पाः, क्षीरमधुकसिद्धं च कृष्णतिलमवचारणार्थे, एवं दशरात्रं; ततोऽन्यद्दशरात्रं द्वितीये परिसरे वर्तेत; ततस्तृतीये परिसरे स्थिरीकुर्वन्नात्मानमन्यद्दशरात्रमासीत, किञ्चिदातपपवनान् वा सेवेत, पुनश्चान्तः प्रविशेत्, न चात्मानमादर्शेऽप्सु वा निरीक्षेत रूपशालित्वात्; ततोऽन्यद्दशरात्रं क्रोधादीन् परिहरेत् , एवं सर्वेषामुपयोगविकल्पः | विशेषतस्तु वल्लीप्रतानक्षुपकादयः सोमा ब्राह्मणक्षत्रियवैश्यैर्भक्षयितव्याः | तेषां तु प्रमाणमर्धचतुष्कमुष्टयः ||१२||

🔊 Audio coming soon

अत इत्यादि| अन्यतमम् एकतमम्| उपयुयुक्षुः उपयोगं कर्तुमिच्छुः| उपकरणानि घृतादीनि | परिचारकाः सर्वकर्मणां कर्तारः| प्रशस्तदेशे वास्तुशास्त्रविद्भिः परीक्षिते प्रागुदक्प्रवणे, त्रिवृतमागारं त्रिःपरिवृतां गर्भकुटीं कारयित्वा| हृतदोषः हृतः स्नेहस्वेदपूर्वकैर्वमनादिभिर्दोषो येन सः| प्रतिसंसृष्टं पेयादिसंसर्जनक्रमेण भक्तं पथ्यं येन सः| प्रशस्तास्तिथयो नन्दादयो रिक्तावर्ज्याः, करणानि बवादीनि विष्टिवर्ज्यानि, मुहूर्ताः शिवादयः प्रशस्ताः; नक्षत्राणि पुष्यहस्ताश्विनीश्रवणानि| अघ्वरकल्पस्य विधानेनाहृतमग्निष्टोमविधानेनानीतम्| अभिषुतम् ऋत्विग्भिः स्नापितम्| अभिहुतं वह्नौ प्रक्षिप्तम्, ‘ऋत्विग्भिः एव’ इति शेषः| अन्तरागारे अन्तर्गृहे| अञ्जलिमात्रं कुडवप्रमाणम्| नास्वादयन् सोमरसमनुत्स्वादयन्| उपस्पृश्य आचमनं कृत्वेत्यर्थः| शेषं गृहीतक्षीरमंशुमतः कन्दं पानीये नद्यादिगते निक्षिप्येत्यर्थः| मनःसङ्कल्पादिनिरोधो नियमः, पुनरिन्द्रियदेहयोर्निरोधो यमः| आत्मानं चेतः| वाचः पुनः संयमनमाह- वाग्यतः; मौनं कृत्वेत्यर्थः| विहरेदिति विहारं कुर्यादित्यर्थः| तत्र कायविहारश्चतुर्विधो गमनचङ्क्रमणस्थानासनभेदेन| न कथञ्चन संविशेत् न स्वप्यात्| तन्मना इति तत्रैव सोमे मनो यस्य स तथा| उपश्रुतशान्तिः आकर्णितमङ्गलपाठः| सायं शयीतेति तेन दिवा स्वापनिषेधः| अभोजनं पुनरत्र प्रथम एव दिने यत्र सोमपानम्| शीतोदकमात्रामिति मात्राशब्दोऽयमल्पार्थः, शीतमल्पमुदकं जलं पिबेत्| गां स्पृष्ट्वेति धातूनामनेकार्थत्वाद्गां दत्त्वेति जेज्जटः| अनिष्टभोजनं श्रद्धादिभोजनं, प्रग्रहभोजनं बलादनिच्छं सङ्कीर्णाचारैर्भोज्यते| प्रभृतिग्रहणादन्येऽपि अनिष्टप्रतिग्रहादयोऽभिप्रेताः| वितरेत् दद्यादित्यर्थः| पांशुः धूलिः| परिषेकः स्नानम्| अजकर्णकषायमिति कल्कमित्यर्थः; कल्केऽपि कषायशब्दो वर्तते, “पञ्चविधं कषायकल्पनम्” (च.सू. अ.४) इति वचनात्| सस्नेहकल्केन घर्षणमुत्सादनम्| क्षीरमधुकसिद्धं चेत्यादि गव्यक्षीरचतुर्गुणं मधुककल्कसिद्धं कृष्णतिलानां तैलं व्यञ्जनादिष्ववचार्यम्| उपयोगविकल्प इति उपयुज्यते इत्युपयोगो गव्यक्षीरादिराहारो विहारश्च, उपयोगविकल्प उपयोगभेदः कर्तव्य इत्यर्थः| तत्रैव क्वचिद्वर्णभेदेन भेदं दर्शयन्नाह- विशेषतस्तु वल्लीत्यादि| वल्ली लता, प्रतानं दूर्वाशैवलकमूलानामिव विस्तारः , क्षुपको विटपः, आदिग्रहणात् कन्दादीनामपि ग्रहणम्| अर्धं चतुष्कं येषां ते तथा; मुष्टिः पलम्||१०-१२||

Adhikarana 4 (13) · Śloka 13

अंशुमन्तं सौवर्णे पात्रेऽभिषुणुयात्, चन्द्रमसं राजते; तावुपयुज्याष्टगुणमैश्वर्यमवाप्येशानं देवमनुप्रविशति, शेषांस्तु ताम्रमये मृन्मये वा रोहिते वा चर्मणि वितते; शूद्रवर्जं त्रिभिर्वर्णैः सोमा उपयोक्तव्याः | ततश्चतुर्थे मासे पौर्णमास्यां शुचौ देशे ब्राह्मणानर्चयित्वा कृतमङ्गलो निष्क्रम्य यथोक्तं व्रजेदिति ||१३||

🔊 Audio coming soon

तेषां तु पात्रेष्वपि भेदं दर्शयन्नाह- अंशुमन्तमित्यादि| अभिषुणुयात् पीडयेत्| तावुपयुज्येति एतयोरुपयोगं कृत्वेत्यर्थः| अष्टविधैश्वर्यं यथा- “अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा| ईशित्वं च वशित्वं च तथा कामावसायिता”- इति; एतदष्टगुणमैश्वर्यं योगलभ्यमपि सोमरसायनाल्लभ्यते| चरके पुनरन्यथोक्तम्- “आवेशश्चेतसो ज्ञानमर्थानां छन्दतः क्रिया| दृष्टिः श्रोत्रं स्मृतिः कान्तिरिष्टतश्चाप्यदर्शनम्|| इत्यष्टगुणमाख्यातं योगिनां बलमैश्वरम्| शुद्धसत्त्वसमाधानात्तत्सर्वमुपवर्तते” (च.शा. अ.१)- इति| ईशानं महेश्वरम्| रोहितः लोहितवर्णो मृगविशेषः| वितते विस्तृते||१३||

Adhikarana 5 (14-19) · Śloka 19

ओषधीनां पतिं सोममुपयुज्य विचक्षणः | दशवर्षसहस्राणि नवां धारयते तनुम् ||१४|| नाग्निर्न तोयं न विषं न शस्त्रं नास्त्रमेव च | तस्यालमायुःक्षपणे समर्थानि भवन्ति हि ||१५|| भद्राणां षष्टिवर्षाणां प्रस्रुतानामनेकधा | कुञ्जराणां सहस्रस्य बलं समधिगच्छति ||१६|| क्षीरोदं शक्रसदनमुत्तरांश्च कुरूनपि | यत्रेच्छति स गन्तुं वा तत्राप्रतिहता गतिः ||१७|| कन्दर्प इव रूपेण कान्त्या चन्द्र इवापरः | प्रह्लादयति भूतानां मनांसि स महाद्युतिः ||१८|| साङ्गोपाङ्गांश्च निखिलान् वेदान् विन्दति तत्त्वतः | चरत्यमोघसङ्कल्पो देववच्चाखिलं जगत् ||१९||

🔊 Audio coming soon

‘नवां’ इत्यत्र ‘अक्षतं’ इति पाठान्तरं, अक्षतं यथा भवति तथा तनुं शरीरं धारयते; अक्षतमिति पाठात्तु व्याधेर्निषेधः| अस्नं मन्त्रवच्छस्त्रम्| तस्यालमित्यादि| अलम् अत्राजस्रम्, अलम् अत्यर्थमायुःक्षपणे न समर्था भवन्तीत्यर्थः| भद्राणां भद्रजातीयानां, षष्टिवर्षाणां षष्टिवर्षप्रमाणानां, प्रस्रुतानां गलितमदानाम्, अनेकधा बहून् वारान्, द्विपानां बलमित्युक्त्या अनिवार्यमित्यर्थः| कन्दर्पः कामदेवः| क्षीरोदः क्षीरसमुद्रः, शक्रसदनम् इन्द्रगृहम्, उत्तरकुरवो देशविशेषाः| अप्रतिहता अनिवार्या| कान्त्येति कान्त्या कृत्यैवं ज्ञायतेऽपरोऽयं चन्द्रः| अमोघसङ्कल्पः अनिवार्यसङ्कल्पः||१४-१९||

Adhikarana 6 (20-26) · Śloka 26

सर्वेषामेव सोमानां पत्राणि दश पञ्च च | तानि शुक्ले च कृष्णे च जायन्ते निपतन्ति च ||२०|| एकैकं जायते पत्रं सोमस्याहरहस्तदा | शुक्लस्य पौर्णमास्यां तु भवेत् पञ्चदशच्छदः ||२१|| शीर्यते पत्रमेकैकं दिवसे दिवसे पुनः | कृष्णपक्षक्षये चापि लता भवति केवला ||२२|| अंशुमानाज्यगन्धस्तु कन्दवान् रजतप्रभः | कदल्याकारकन्दस्तु मुञ्जवांल्लशुनच्छदः ||२३|| चन्द्रमाः कनकाभासो जले चरति सर्वदा | गरुडाहृतनामा च श्वेताक्षश्चापि पाण्डुरौ ||२४|| सर्पनिर्मोकसदृशौ तौ वृक्षाग्रावलम्बिनौ | तथाऽन्ये मण्डलैश्चित्रैश्चित्रिता इव भान्ति ते ||२५|| सर्व एव तु विज्ञेयाः सोमाः पञ्चदशच्छदाः | क्षीरकन्दलतावन्तः पत्रैर्नानाविधैः स्मृताः ||२६||

🔊 Audio coming soon

अपरमपि ग्रहणाय लक्षणं दर्शयन्नाह- सर्वेषामित्यादि||२०-२६||

Adhikarana 7 (27-31) · Śloka 31

हिमवत्यर्बुदे सह्ये महेन्द्रे मलये तथा | श्रीपर्वते देवगिरौ गिरौ देवसहे तथा ||२७|| पारियात्रे च विन्ध्ये च देवसुन्दे हदे तथा | उत्तरेण वितस्तायाः प्रवृद्धा ये महीधराः ||२८|| पञ्च तेषामधो मध्ये सिन्धुनामा महानदः | हठवत् प्लवते तत्र चन्द्रमाः सोमसत्तमः ||२९|| तस्योद्देशेषु चाप्यस्ति मुञ्जवानंशुमानपि | काश्मीरेषु सरो दिव्यं नाम्ना क्षुद्रकमानसम् ||३०|| गायत्रस्त्रैष्टुभः पाङ्क्तो जागतः शाक्वरस्तथा | अत्र सन्त्यपरे चापि सोमाः सोमसमप्रभाः ||३१||

🔊 Audio coming soon

एतेषामन्वेषणस्थानमाह- हिमवतीत्यादि| स्थानेषु क्रियापदस्याविद्यमानत्वात् सन्तीत्येवं सामान्यक्रियां वितरेत्| चन्द्रमसः सोमस्य स्थानविशेषमुद्दिशन्नाह- उत्तरेणेत्यादि| वितस्तायाः नदीविशेषायाः, सिन्धुर्नाम महानदः| हठः जलकुम्भिका| प्लवते तरति| चन्द्रमाः सोमविशेषः||२७-३१||

Adhikarana 8 (32) · Śloka 32

यैश्चात्र मन्दभाग्यैस्ते भिषजश्चापमानिताः | न तान् पश्यन्त्यधर्मिष्ठाः कृतघ्नाश्चापि मानवाः | भेषजद्वेषिणश्चापि ब्राह्मणद्वेषिणस्तथा ||३२||

🔊 Audio coming soon

यैश्चेत्यादि| ‘भेषजद्वेषिण’ इत्यत्र ‘भिषजद्वेषिण’ इति पाठान्तरं; यैर्मन्दभाग्यैर्भिषजो वैद्या अपमानितास्ते पुरुषास्तान् सोमान्न पश्यन्ति||३२||

Adhikarana puShpikA · Śloka 29

इति सुश्रुतसंहितायां चिकित्सास्थाने स्वभावव्याधिप्रतिषेधनीयं रसायनचिकित्सितं नामैकोनत्रिंशोऽध्यायः ||२९||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने एकोनत्रिंशत्तमोऽध्यायः||२९||