Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

30. nivr̥ttasaṁtāpīyarasāyanam

Adhikarana 1 (1-2) · Śloka 2

अथातो निवृत्तसन्तापीयं रसायनं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

निवृत्तसन्तापशब्दमधिकृत्य कृतं रसायनं निवृत्तसन्तापीयम्| तदधिकृत्य कृतो ग्रन्थ इतीयप्रत्ययः||१-२||

Adhikarana 2 (3) · Śloka 3

यथा निवृत्तसन्तापा मोदन्ते दिवि देवताः | तथौषधीरिमाः प्राप्य मोदन्ते भुवि मानवाः ||३||

🔊 Audio coming soon

महौषधिरसायनस्योपादेयत्वार्थं सामान्यफलैरौषधिप्रशंसामुद्दिशन्नाह- यथेत्यादि| निवृत्तव्याधित्वेन शारीरमानसिकदुःखरहिताः, मोदन्ते हृष्यन्तिः, एतेन मनःसुखं दर्शयति| दिवि स्वर्गे||३||

Adhikarana 3 (4) · Śloka 4

अथ खलु सप्त पुरुषा रसायनं नोपयुञ्जीरन्; तद्यथा- अनात्मवानलसो दरिद्रः प्रमादी व्यसनी पापकृद् भेषजापमानी चेति | सप्तभिरेव कारणैर्न सम्पद्यते; तद्यथा- अज्ञानादनारम्भादस्थिरचित्तत्वाद्दारिद्र्यादनायत्तत्वादधर्मादौषधालाभाच्चेति ||४||

🔊 Audio coming soon

अनात्मवान् अप्रशस्तात्मा मिथ्याचारप्रवृत्तो मूढबुद्धिः| प्रमादी प्रमादशीलोऽनवहितचित्त इत्यर्थः| व्यसनानि द्यूतमद्यवेश्यादीनि सन्त्यस्यासौ व्यसनी| सप्त कारणानि च सन्ति अनात्मवदादीनां सप्तानां पुंसामज्ञानादिकारणैः सप्तभिरेव यथायथं रसायनं न प्रयुञ्ज्यात्| तत्रानात्मनोऽज्ञानात्, दरिद्रस्यालसस्यानारम्भानवस्थितचित्तत्वान्न प्रवृत्तिः, एवं प्रमादिव्यसनिपापकृदादीनामप्यप्रवृत्तिरनुमेयेति||४||

Adhikarana 4 (5) · Śloka 5

अथौषधीर्व्याख्यास्यामः- तत्राजगरी, श्वेतकापोती, कृष्णकापोती, गोनसी, वाराही, कन्या, छत्रा, अतिच्छत्रा, करेणुः, अजा, चक्रका, आदित्यपर्णी, ब्रह्मसुवर्चला, श्रावणी, महाश्रावणी, गोलोमी, अजलोमी, महावेगवती, चेत्यष्टादश सोमसमवीर्या महौषधयो व्याख्याताः | तासां सोमवत् क्रियाशीःस्तुतयः शास्त्रेऽभिहिताः | तासामागारेऽभिहुतानां याः क्षीरवत्यस्तासां क्षीरकुडवं सकृदेवोपयुञ्जीत , यास्त्वक्षीरा मूलवत्यस्तासां प्रदेशिनीप्रमाणानि त्रीणि काण्डानि प्रमाणमुपयोगे, श्वेतकापोती समूलपत्रा भक्षयितव्या, गोनस्यजगरीकृष्णकापोतीनां सनखमुष्टिं खण्डशः कल्पयित्वा क्षीरेण विपाच्य परिस्राव्याभिघारितमभिहुतं च सकृदेवोपयुञ्जीत, चक्रकायाः पयः सकृदेव, ब्रह्मसुवर्चला सप्तरात्रमुपयोक्तव्या भक्ष्यकल्पेन, शेषाणां पञ्च पञ्च पलानि क्षीराढकक्वथितानि प्रस्थेऽवशिष्टेऽवतार्य परिस्राव्य सकृदेवोपयुञ्जीत | सोमवदाहारविहारौ व्याख्यातौ, केवलं नवनीतमभ्यङ्गार्थे, शेषं सोमवदानिर्गमादिति ||५||

🔊 Audio coming soon

सोमवदिति अध्वरविधिवर्जमन्यत्सर्वं सोमवत् क्रियाविधानम्| आशीर्मङ्गलपाठादिः, स्तुतिः फलवादः; गयी तु क्रिया करणं विधानं, आशीः फलं, तस्य स्तुतयः सोमस्यैव; शास्त्रे आगमे अभिहिताः| एतेन तन्मते सोमस्येवाध्वरविधिरपि प्राप्यते| अभिहुतानां कृतहोमानाम्| क्षीरकुडवमष्टौ पलानि, महती मात्रा| प्रदेशिनीप्रमाणानि आयामविस्ताराभ्याम्| क्षीरेण विपाच्येति “द्रव्यादष्टगुणं क्षीरं क्षीरात्तोयं चतुर्गुणम्| क्षीरावशेषः कर्तव्यः क्षीरपाके त्वयं विधिः” अनेन विधिना| अभिघारितमभिहुतमिति पूर्वमभिघारितं पश्चादभिहुतं; अभिघारितम् ईषद्धृताक्तम्| तत्र चक्रकायाः पयः सकृदेव| गयी तु ‘तत्र चक्रकायाः पायसम्’ इति पठति, व्याख्यानयति च- तत्र चक्रकायाः पलकल्कं द्विगुणिततण्डुलं क्षीरेण साध्यं, सकृदेवोपयुञ्जीत| भक्ष्यकल्पेनेति अपूपादिविधानेन| आनिर्गमादिति गूढागारं कृत्वा तत्रावासपर्यन्तमित्यर्थः||५||

Adhikarana 5 (6-8) · Śloka 8

भवन्ति चात्र- युवानं सिंहविक्रान्तं कान्तं श्रुतनिगादिनम् | कुर्युरेताः क्रमेणैव द्विसहस्रायुषं नरम् ||६|| अङ्गदी कुण्डली मौली दिव्यस्रक्चन्दनाम्बरः | चरत्यमोघसङ्कल्पो नभस्यम्बुददुर्गमे ||७|| व्रजन्ति पक्षिणो येन जललम्बाश्च तोयदाः | गतिः सौषधिसिद्धस्य सोमसिद्धे गतिः परा ||८||

🔊 Audio coming soon

अतः परं फलश्रुतिमाह- युवानमित्यादि| विक्रान्तं विक्रमयुक्तम्| कान्तं मनोज्ञम्| क्रमेणैवेति शास्त्रविहितसकलक्रमेण| अङ्गदी केयूरयुक्तः, कुण्डली कुण्डलयुक्तः, मौली मुकुटधारी, स्रक् माला, अम्बरं वस्त्रम्, अमोघसङ्कल्पः सफलकामितः| नभसि आकाशे| अम्बुददुर्गमे मेघैर्दुःखसञ्चारे| सोमसिद्धे गतिः परेति सोमसिद्धे पुरुषे पुनरेवमुत्कृष्टं गमनं भवतीत्यर्थः||६-८||

Adhikarana 6 (9-25) · Śloka 25

अथ वक्ष्यामि विज्ञानमौषधीनां पृथक् पृथक् | मण्डलैः कपिलैश्चित्रैः सर्पाभा पञ्चपर्णिनी ||९|| पञ्चारत्निप्रमाणा च विज्ञेयाऽजगरी बुधैः | निष्पत्रा कनकाभासा मूले द्व्यङ्गुलसम्मिता ||१०|| सर्पाकारा लोहितान्ता श्वेतकापोतिरुच्यते | द्विपर्णिनीं मूलभवामरुणां कृष्णमण्डलाम् ||११|| द्व्यरत्निमात्रां जानीयाद्गोनसीं गोनसाकृतिम् | सक्षीरां रोमशां मृद्वीं रसेनेक्षुरसोपमाम् ||१२|| एवंरूपरसां चापि कृष्णकापोतिमादिशेत् | कृष्णसर्पस्वरूपेण वाराही कन्दसम्भवा ||१३|| एकपत्रा महावीर्या भिन्नाञ्जनसमप्रभा | छत्रातिच्छत्रके विद्याद्रक्षोघ्ने कन्दसम्भवे ||१४|| जरामृत्युनिवारिण्यौ श्वेतकापोतिसंस्थिते | कान्तैर्द्वादशभिः पत्रैर्मयूराङ्गरुहोपमैः ||१५|| कन्दजा काञ्चनक्षीरी कन्या नाम महौषधी | करेणुः सुबहुक्षीरा कन्देन गजरूपिणी ||१६|| हस्तिकर्णपलाशस्य तुल्यपर्णा द्विपर्णिनी | अजास्तनाभकन्दा तु सक्षीरा क्षुपरूपिणी ||१७|| अजा महौषधी ज्ञेया शङ्खकुन्देन्दुपाण्डुरा | श्वेतां विचित्रकुसुमां काकादन्या समां क्षुपाम् ||१८|| चक्रकामोषधीं विद्याज्जरामृत्युनिवारिणीम् | मूलिनी पञ्चभिः पत्रैः सुरक्तांशुककोमलैः ||१९|| आदित्यपर्णिनी ज्ञेया सदाऽऽदित्यानुवर्तिनी | कनकाभा जलान्तेषु सर्वतः परिसर्पति ||२०|| सक्षीरा पद्मिनीप्रख्या देवी ब्रह्मसुवर्चला | अरत्निमात्रक्षुपका पत्रैद्र्व्यङ्गुलसम्मितैः ||२१|| पुष्पैर्नीलोत्पलाकारैः फलैश्चाञ्जनसन्निभैः | श्रावणी महती ज्ञेया कनकाभा पयस्विनी ||२२|| श्रावणी पाण्डुराभासा महाश्रावणिलक्षणा | गोलोमी चाजलोमी च रोमशे कन्दसम्भवे ||२३|| हंसपादीव विच्छिन्नैः पत्रैर्मूलसमुद्भवैः | अथवा शङ्खपुष्प्या च समाना सर्वरूपतः ||२४|| वेगेन महताऽऽविष्टा सर्पनिर्मोकसन्निभा | एषा वेगवती नाम जायते ह्यम्बुदक्षये ||२५||

🔊 Audio coming soon

विस्तृतकनिष्ठाङ्गुलिमुष्टिकहस्तः अरत्निः| श्वेतकापोतिसंस्थिते इति श्वेतकापोतिकाकृतीत्यर्थः| रक्षोघ्ने इति स्वभावेन रक्षसां प्रध्वंसकरे| काञ्चनवर्णं क्षीरं यस्याः सा काञ्चनक्षीरी| क्षुपरूपिणी विटपरूपिणी, बद्धमुष्टिकरः अरत्निः| निवातेऽपि स्वभाववेगेनाविष्टा| अम्बुदक्षये शरदि||९-२५||

Adhikarana 7 (26-28) · Śloka 29

सप्तादौ सर्परूपिण्यो ह्यौषध्यो याः प्रकीर्तिताः | तासामुद्धरणं कार्यं मन्त्रेणानेन सर्वदा ||२६|| महेन्द्ररामकृष्णानां ब्राह्मणानां गवामपि | तपसा तेजसा वाऽपि प्रशाम्यध्वं शिवाय वै ||२७|| मन्त्रेणानेन मतिमान् सर्वा एवाभिमन्त्रयेत् | अश्रद्दधानैरलसैः कृतघ्नैः पापकर्मभिः ||२८|| नैवासादयितुं शक्याः सोमाः सोमसमास्तथा |२९|

🔊 Audio coming soon

अनेन मन्त्रेणोद्धरणमुत्पाटनमौषधपरिरक्षार्थमभिमतफलप्राप्त्यर्थं च| मन्त्रमाह- महेन्द्रेत्यादि| प्रशाम्यध्वम् उपशमं कुरुत; किमर्थं? शिवाय कल्याणाय| वै निश्चितम्| नैवासादयितुं नैव प्राप्तुम्||२६-२८||-

Adhikarana 8 (29) · Śloka 30

पीतावशेषममृतं देवैर्ब्रह्मपुरोगमैः ||२९|| निहितं सोमवीर्यासु सोमे चाप्योषधीपतौ |३०|

🔊 Audio coming soon

पौराणिकीं श्रुतिं दर्शयन्नाह- पीतेत्यादि| निहितं धृतम्| सोमवीर्यासु औषधिषु| सोमे चन्द्रमसि||२९||-

Adhikarana 9 (30-40) · Śloka 40

देवसुन्दे ह्रदवरे तथा सिन्धौ महानदे ||३०|| दृश्यते च जलान्तेषु मेध्या ब्रह्मसुवर्चला | आदित्यपर्णिनी ज्ञेया तथैव हिमसङ्क्षये ||३१|| दृश्यतेऽजगरी नित्यं गोनसी चाम्बुदागमे | काश्मीरेषु सरो दिव्यं नाम्ना क्षुद्रकमानसम् ||३२|| करेणुस्तत्र कन्या च छत्रातिच्छत्रके तथा | गोलोमी चाजलोमी च महती श्रावणी तथा ||३३|| वसन्ते कृष्णसर्पाख्या गोनसी च प्रदृश्यते | कौशिकीं सरितं तीर्त्वा सञ्जयन्त्यास्तु पूर्वतः ||३४|| क्षितिप्रदेशो वल्मीकैराचितो योजनत्रयम् | विज्ञेया तत्र कापोती श्वेता वल्मीकमूर्धसु ||३५|| मलये नलसेतौ च वेगवत्यौषधी ध्रुवा | कार्तिक्यां पौर्णमास्यां च भक्षयेत्तामुपोषितः ||३६|| सोमवच्चात्र वर्तेत फलं तावच्च कीर्तितम् | सर्वा विचेयास्त्वोषध्यः सोमाश्चाप्यर्बुदे गिरौ ||३७|| स शृङ्गैर्देवचरितैरम्बुदानीकभेदिभिः | व्याप्तस्तीर्थैश्च विख्यातैः सिद्धर्षिसुरसेवितैः ||३८|| गुहाभिर्भीमरूपाभिः सिंहोन्नादितकुक्षिभिः | गजालोडिततोयाभिरापगाभिः समन्ततः | विविधैर्धातुभिश्चित्रैः सर्वत्रैवोपशोभितः ||३९|| नदीषु शैलेषु सरःसु चापि पुण्येष्वरण्येषु तथाऽऽश्रमेषु | सर्वत्र सर्वाः परिमार्गितव्याः सर्वत्र भूमिर्हि वसूनि धत्ते ||४०||

🔊 Audio coming soon

देशमाह- देवसुन्दे इत्यादि| ह्रदे जलाशयविशेषे| महानद इति लोके प्रसिद्धः| हिमसङ्क्षये वसन्ते| अम्बुदागमे वर्षासु| कृष्णसर्पाख्या वाराही| विज्ञेया अनुसरणीयाः| कुतः पुनरत्र गिरौ सर्वा एवानुसरणीया इत्याह- स इत्यादि| यतो गिरिरुक्तविशेषणः | अम्बुदानीकं मेघघटा| धातुभिः गैरिकादिभिः| पुनः किंविशिष्टो गिरिः? गुहाभिरुक्तविशेषणाभिर्व्याप्तः, सिंहोन्नादितकुक्षिभिः सिंहैरुन्नादिताः कुक्षयो यासां तास्ताभिः, पुनरापगाभिर्नदीभिरुक्तविशेषणाभिरुपलक्षितः| हि यस्मादर्थे| यस्मात् कारणात् सर्वत्र सर्वदेशेषु, भूमिरियं रत्नानि धारयतीत्यर्थः||३०-४०||

Adhikarana puShpikA · Śloka 30

इति सुश्रुतसंहितायां चिकित्सास्थाने निवृत्तसन्तापीयं रसायनं नाम त्रिंशोऽध्यायः ||३०||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने त्रिंशत्तमोऽध्यायः||३०||