Adhikarana 1 (1-4) · Śloka 4
अथातो वातव्याधिचिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
आमाशयगते वाते च्छर्दयित्वा यथाक्रमम् |
देयः षड्धरणो योगः सप्तरात्रं सुखाम्बुना ||३||
चित्रकेन्द्रयवे पाठा कटुकाऽतिविषाऽभया |
वातव्याधिप्रशमनो योगः षड्धरणः स्मृतः ||४||
प्रथममामाशयगतवायोश्चिकित्सितमाह- आमाशयेत्यादि| छर्दयित्वा वमनं कारयित्वा| वमनं च सोत्क्लेशे पुरुषे बहुदोषे बलवति ज्ञेयम्| आमाशयगते छर्दनं कफस्थानत्वात्| यथाक्रममिति अत्र यथाक्रमशब्देन पूर्वकालापरकालकर्तव्यताः सर्वैवाक्षिप्ताः स्नेहस्वेदनपानलैङ्गिकवैगिकमानिककायशुद्धिसम्सर्जनभोजनादयः| देय इति दातुमर्हः| षड्धरण इति षण्णां चित्रकादीनां धरणा मानविशेषा यत्र योगे स षड्धरणो योगः| तत्र धरणप्रमाणं मध्यमैरेकविंशतिभिर्निष्पावैर्भवति| सुखाम्बुना ईषदुष्णाम्बुनेत्यर्थः| षड्धरणानि कथं सप्तदिनान्युपयुज्यन्ते? उच्यते- एकस्मिन् दिने कर्षयोगः, स चाष्टादशनिष्पावैर्भवति, तत्र षड्धरणेभ्यः प्रतिदिनं त्रयस्त्रयो निष्पावा उच्छ्रिता भवन्ति, ततः षड्भिस्त्रिकैरष्टादशनिष्पावाः, तैरष्टादशभिः सप्तमं दिनं पूर्यते; अथवा सञ्ज्ञैषा षड्धरण इति| इदानीं षड्धरणयोगमाह- चित्रकेत्यादि| ‘कटुकाऽतिविषा क्षपा’ इति केचित् पठन्ति| वातव्याधिप्रशमन इति आमाशयगत एव वातव्याधिर्गृहीतव्यो न पुनराक्षेपकादयः, रूक्षविषयत्वेन वातकारित्वादस्य| अन्ये तु ‘महाव्याधिप्रशमन’ इति पठन्ति, महाव्याधिरिह मेदोयुतोऽनिलो नान्यः||१-४||ह्
Adhikarana 2 (5) · Śloka 5
पक्वाशयगते चापि देयं स्नेहविरेचनम् |
बस्तयः शोधनीयाश्च प्राशाश्च लवणोत्तराः ||५||
पक्वाशयगतवायोश्चिकित्सामाह- पक्वाशयेत्यादि| स्नेहविरेचनं तिल्वकसर्पिरादिविरेचनम्| बस्तयः शोधनीयाश्चेति “शोधनद्रव्यनिष्क्वाथास्तत्कल्कस्नेहसंयुताः” (चि. ३८) इत्याद्याः| प्राशाश्च लवणोत्तरा इति स्नेहलवणकल्याणकलवणादयः; अन्ये तु प्राश्यन्त इति प्राशा आहाराः, न तु लेहाः; लवणोत्तरा लवणप्रधानाः| गयी त्वत्राह- पक्वाशयः पुनरिह द्विविधः- पित्तवाताशयभेदेन; तयोर्मध्ये पित्ताशयगते वायौ स्नेहविरेचनं तिल्वकसिद्धमेरण्डतैलादिभिर्वा, वाताशयगतस्य तु वायोर्मलकफपित्तैरावृतस्य यथादोषं कषायकल्कस्नेहबस्तयः; तत्र मलावृतवायौ विदारीकल्कसिद्धः स्नेहयुक्तो व्यक्तोष्णक्षारश्च बस्तिः, श्लेष्मावृतवायौ व्यक्तक्षारोष्णो बस्तिः; (त्रिवृदादिद्रव्यमूत्रविदारीकल्कसिद्धः ) पित्तावृते पुनरक्षारबस्तिः शीतः; शेषं समम्||५||
Adhikarana 3 (6) · Śloka 6
कार्यो बस्तिगते चापि विधिर्बस्तिविशोधनः |६|
बस्तिगतस्य वायोश्चिकित्सितमाह- कार्य इत्यादि| बस्तिविशोधनो विधिरिति अश्मरीचिकित्सितोक्तो मूत्राघाताद्युक्तश्च|६|-
Adhikarana 4 (6) · Śloka 6
श्रोत्रादिषु प्रकुपिते कार्यश्चानिलहा क्रमः ||६||
श्रोत्रादिषु प्रकुपितवायोश्चिकित्सितमाह- श्रोत्रेत्यादि| आदिशब्दात्त्वग्घ्राणजिह्वानेत्राणीन्द्रियाणि गृह्यन्ते| अत्र क्रमः “स्नेहः स्वेदस्तथाऽभ्यङ्ग” इत्यादिको दोषदूष्यप्रत्यनीको यथायथं कार्यः, स चेन्द्रियसात्म्यमपेक्ष्य कर्तव्यः; तेन स्नेहशब्दसामान्येऽपि नेत्रयोः क्षीरसर्पिस्तर्पणं, तैलतर्पणं पुनः कर्णादिष्विति||६||
Adhikarana 5 (7) · Śloka 7
स्नेहाभ्यङ्गोपनाहाश्च मर्दनालेपनानि च |
त्वङ्मांसासृक्सिराप्राप्ते कुर्यात् चासृग्विमोक्षणम् ||७||
धातूपधातुगस्य वायोश्चिकित्सितमाह- स्नेहेत्यादि| स्नेहाभ्यङ्गोपनाहांश्चेत्यत्र चकारेण त्वग्गतवायौ हृद्यमप्यन्नपानमनुक्तं समुच्चीयते| त्वगत्र रसः, सिराः पुनरसृज उपधातुः, प्राप्ते गते इत्यर्थः| रक्तगते वायौ रक्तस्रावो रक्ताधिष्ठानवातनिवृत्त्यर्थः| यदा द्रव्यप्रभावविशेषेण खर्जूरमातुलुङ्गसौवर्चलादिस्नेहाभ्यङ्गादिभिर्न प्रशममेति तदा नियमेन रक्तावरणं परिज्ञाय रक्तमोक्षणं कर्तव्यं, न पुनरन्यथा| मेदोगते पुनरिहानिले चिकित्सा नोपदिष्टा, तस्य स्नेहाविषयत्वेन वातव्याधिकर्मणामविषयत्वात्; महावातव्याधौ पुनरावरणप्रसङ्गेन मेदोगतमनिलं वक्ष्यति||७||
Adhikarana 6 (8) · Śloka 8
स्नेहोपनाहाग्निकर्मबन्धनोन्मर्दनानि च |
स्नायुसन्ध्यस्थिसम्प्राप्ते कुर्याद्वायावतन्द्रितः ||८||
स्नायुगतस्य सन्ध्यस्थिगतस्य च वायोश्चिकित्सामाह- स्नेहेत्यादि| स्नेहोऽत्र बाह्य आभ्यन्तरश्च| अतन्द्रितः अनलसः; एतेन चिरकालं निरन्तरं क्रियेति दर्शयति||८||
Adhikarana 7 (9) · Śloka 9
निरुद्धेऽस्थनि वा वायौ पाणिमन्थेन दारिते |
नाडीं दत्त्वाऽस्थनि भिषक् चूषयेत्पवनं बली ||९||
अस्थनि गते मज्जस्थे च कर्म निर्दिशन्नाह- निरुद्धे इत्यादि| त्वङ्मांसं शस्त्रेण विपाट्य, अस्थि पाणिमन्थेन आराशस्त्रेण विद्ध्वा, तत्र रन्ध्रे द्विमुखीं नाडीं प्रणिधाय, मुखमारुता चूषणेन पवनापकर्षणं करणीयमिति| बली बलयुक्तः| ‘बाह्याभ्यन्तरस्नेहैश्च’ इत्यादि केचित् पठन्ति| तत्र बाह्यस्नेहः परिषेकावगाहाभ्यङ्गमस्तिष्क्यशिरोबस्त्यादिः, आभ्यन्तरस्तु पानबस्त्यादिः; अस्य पाठस्याभावान्निर्णयो न कृतः||९||
Adhikarana 8 (10) · Śloka 10
शुक्रप्राप्तेऽनिले कार्यं शुक्रदोषचिकित्सितम् |१०|
शुक्रगतस्य वायोश्चिकित्सामाह- शुक्रेत्यादि| शुक्रदोषचिकित्सितमिति शुक्रशोणितशुद्ध्युक्तं चिकित्सितं वाजीकरणोक्तं मूत्रदोषचिकित्सितोक्तं च कार्यं; “तेष्वाद्यान् शुक्रदोषांस्त्रीन्” (शा. २) इत्यादिकम्|१०|-
Adhikarana 9 (10-11) · Śloka 11
अवगाहकुटीकर्षूप्रस्तराभ्यङ्गबस्तिभिः ||१०||
जयेत् सर्वाङ्गजं वातं सिरामोक्षैश्च बुद्धिमान् |
एकाङ्गगं च मतिमाञ्छृङ्गैश्चावस्थितं जयेत् ||११||
धातूपधातुगतमभिधाय सर्वाङ्गगतस्य वायोश्चिकित्सामाह- अवगाहेत्यादि| तत्र वातहरक्वाथपूर्णद्रोण्यादिष्ववगाहो द्रवस्वेदः| कुटी चतुर्द्वारा भूमावारोपिताऽपनीतविधूमाङ्गारवातहरद्रवसिक्ता, सा चोष्मस्वेदः| कर्षूः पुरुषायाममात्रनिखातदग्धावनिप्रदेशे वातहरद्रवसिक्ते शयनं, स चोष्मस्वेदविशेषः| स्विन्नतुषधान्यादिभिरास्तृतायां भूमौ परिशयनं प्रस्तरः, सोऽपि चोष्मस्वेदविशेष एव| स्नेहपूर्वा अवगाहादयः | एते च सर्वाङ्गगते वाते सर्वाङ्गयोगिनः, उपनाहस्वेदस्त्ववयवगेऽपि वाते ; तापस्वेदस्त्वत्र रूक्षत्वादयुक्त एव| यद्यपि सर्वाङ्गगो वातप्रकोपः प्रायो धातुक्षयनिमित्तः, तथाऽपि शोणिताधिष्ठानत्वाद्रक्तमोक्षोऽपि युक्तः| सिरामोक्षैरिति बहुवचनात् पञ्चानां सिराणां मोक्षणं स्नेहादिभिरप्रशाम्यति वाते| एकाङ्गगतस्य वायोश्चिकित्सितमाह- एकाङ्गगमित्यादि| शृङ्गैश्चेति बहुवचनमसकृत्प्रयोगज्ञापनाय| चकारेण सर्वाङ्गवातोक्तावगाहादयोऽप्यनुकृष्यन्ते| तैश्चावगाहादिभिरेकाङ्गगतमनवस्थितमेव वातं जयेत्, अवस्थितं शृङ्गैरेव||१०-११||
Adhikarana 10 (12) · Śloka 12
बलासपित्तरक्तैस्तु संसृष्टमविरोधिभिः |१२|
संसर्गस्य चिकित्सामाह- बलासपित्तेत्यादि| सुगमम्|१२|-
Adhikarana 11 (12) · Śloka 13
सुप्तिवाते त्वसृङ्मोक्षं कुर्यात्तु बहुशो भिषक् ||१२||
दिह्याच्च लवणागारधूमैस्तैलसमन्वितैः |१३|
रक्तावृतस्य वायोश्चिकित्सामाह- सुप्तीत्यादि| रक्तावरणकृतया सुप्त्या लक्षितो वातः सुप्तिवातः| सुप्तिः स्पर्शाज्ञानम्| न पुना रसावरणकृतया सुप्ततया लक्षितो वातः, तस्य स्नेहोपनाहादिविषयत्वात्; अन्यधातुगते वायौ रक्तापकर्षणस्यायुक्तत्वात्| बहुशो बहून् वारान्, अल्पाल्पस्रावणात्; अन्यथा वातकोपः स्यात्| दिह्यात् लेपयेत्| अन्ये तु सुप्तवातस्त्वग्गतवातः, ‘वैवर्ण्यं स्फुरणं रौक्ष्यं सुप्तिं चुमचुमायनम्” (नि. १) इत्युक्तत्वात्| तेषां मते त्वङ्मांसेत्यादिना प्रागुक्तमपि शोणितमोक्षणमिह पुनरुक्तं; लवणागारधूमैरित्यादिप्रदेहोऽधिक उक्तः||१२||-
Adhikarana 12 (13) · Śloka 14
पञ्चमूलीशृतं क्षीरं फलाम्लो रस एव च ||१३||
सुस्निग्धो धान्ययूषो वा हितो वातविकारिणाम् |१४|
सर्ववातविकारिणां भोजनान्याह- पञ्चमूलीत्यादि| पञ्चमूली आद्या द्वितीया वा| फलैर्दाडिमादिभिरम्लः| रसो मांसरसः| धान्ययूषः कुलत्थादिवातहरधान्ययूषः| सुस्निग्धशब्दो यूषरसाभ्यां सह सम्बध्यते| दोषप्रकृतिसात्म्यापेक्षया क्षीरादि प्रयोज्यम्| ‘वातिभ्यो भोजनं हितम्’ इति केचित् पठन्ति||१३||-
Adhikarana 13 (14-15) · Śloka 16
काकोल्यादिः सवातघ्नः सर्वाम्लद्रव्यसंयुतः ||१४||
सानूपौदकमांसस्तु सर्वस्नेहसमन्वितः |
सुखोष्णः स्पष्टलवणः साल्वणः परिकीर्तितः ||१५||
तेनोपनाहं कुर्वीत सर्वदा वातरोगिणाम् |१६|
उपनाहस्वेदमाह- काकोल्यादिरित्यादि| काकोल्यादिः प्रसिद्धः| सवातघ्न इति सह वातघ्नैर्भद्रदार्वादिभिर्विदारिगन्धादिभिर्वर्तत इति सवातघ्नः| सर्वाम्लद्रव्यसंयुत इति अम्लद्रव्याणि शुक्तकाञ्जिकसुरासौवीरकदधिमस्त्वादीनि; केचिदाचार्या एवं वदन्ति- अम्लद्रव्याणि दाडिमादीनि| आनूपौदकमांसेन सह वर्तत इति सानूपौदकमांसः; अत्रानूपशब्दोऽयं कूलचरेष्वेव वर्तते, औदकशब्देन तु कोशस्थाः पादिनो मत्स्याश्च गृह्यन्ते; ये पुनरौदकग्रहणं न पठन्ति ते तु पञ्चस्वपि वर्तयन्ति| सर्वस्नेहा घृततैलवसामज्जानस्तैः समन्वितः| सुखोष्ण ईषदुष्णः| स्पष्टलवण इति स्पष्टानि व्यक्तानि सैन्धवादीनि लवणानि यत्र सः स्पष्टलवणः| सह आसमन्ताल्लवणेन वर्तत इति साल्वणः| उपनाहो बन्धनम्| एषां च भागमानमाह- “मांसेनात्रौषधं तुल्यं यावताऽम्लेन चाम्लता| तावन्तश्च चतुःस्नेहाः स्निग्धत्वं च यथा भवेत्”- इति| द्रव्यस्वभावं स्वेद्यदेशमप्यवेक्ष्य कल्पनीय इत्येके वदन्ति||१४-१५||-
Adhikarana 14 (16-17) · Śloka 18
कुञ्च्यमानं रुजार्तं वा गात्रं स्तब्धमथापि वा ||१६||
गाढं पट्टैर्निबध्नीयात् क्षौमकार्पासिकौर्णिकैः |
बिडालनकुलोन्द्राणां चर्मगोण्यां मृगस्य वा ||१७||
प्रवेशयेद्वा स्वभ्यक्तं साल्वणेनोपनाहितम् |१८|
अनग्निमेव स्वेदं दर्शयन्नाह- कुञ्च्यमानमित्यादि| कुञ्च्यमानं सङ्कोच्यमानं, तच्च सिरागतेन वायुना; यदाह- “कुर्यात् सिरागतः शूलं सिराकुञ्चनपूरणम्” (नि. १) इति| रुजार्तं वेदनार्तम्, अत्र प्रधानेन वायुना; एतेन पित्तरक्तावृते वाते बन्धनविधिर्निषिद्धः| अन्ये तु ‘वाल्ककार्पासिकौर्णिकैः’ इति पठन्ति; तत्र वाल्कं वल्कलमयम्| उन्द्रः पानीयबिडालः| चर्मगोणी चर्मप्रसेवकः , छगलादिगल्ल इत्यर्थः||१६-१७||-
Adhikarana 15 (18) · Śloka 19
स्कन्धवक्षस्त्रिकप्राप्तं वायुं मन्यागतं तथा ||१८||
वमनं हन्ति नस्यं च कुशलेन प्रयोजितम् |१९|
अवयवविशेषगते वायौ क्रियाविशेषमाह- स्कन्धेत्यादि| वक्षः स्तनान्तरालम्| त्रिकम् ऊर्ध्वत्रिकम्| नस्यमत्र शिरोविरेचनम्| कुशलेन क्रियाविदा अवस्थाविदा भिषजेत्यर्थः||१८||-
Adhikarana 16 (19) · Śloka 20
शिरोगतं शिरोबस्तिर्हन्ति वाऽसृग्विमोक्षणम् ||१९||
स्नेहं मात्रासहस्रं तु धारयेत्तत्र योगतः |२०|
शिरोगतेऽपि विशेषमाह- शिर इत्यादि| चकारोऽत्र वमनं शिरोविरेचनं चानुक्तमपि समुच्चिनोति| रक्तमोक्षणं पुनरत्र क्रियान्तरेणाप्रशाम्यति वाते कर्तव्यम्| शिरोबस्तिधारणे कालावधारणं निर्दिशन्नाह- स्नेहमित्यादि| मात्रा कालविशेषः| तथाहि- “निमिषोन्मेषणे पुंसां स्फोटनं वा तथाऽङ्गुलेः| अक्षरस्य लघोर्वाऽपि मात्रा तूच्चारणं भवेत्”- इति| योगतो युक्तितः| युक्तिं चोत्तरतन्त्रे क्रियाकल्पे व्याख्यास्यामः| ननु वाते दशसहस्राण्युक्तानि, अत्र तु सहस्रमात्राधारणमुक्तमिति विरोधः? सत्यम्, अत्राक्षिणि स्थितानां सिराणामत्यन्तसूक्ष्मत्वात्तावतैव कालेन गुणो भवतीति जेज्जटः; गयी तु योगत इति योगे स्वस्थवृत्ते मात्रासहस्रधारणोपदेशं मन्यते| तत्र हि शालाक्यक्रियाकल्पोक्ते शिरोबस्तौ यथादोषं षडष्टदशसहस्राणि धारणमात्रोक्ता, न स्वस्थस्य शिरोबस्तिधारणमात्रा तत्रोक्ता, अत इह स्वस्थस्य मात्रासहस्रधारणोपदेशः कृत इति||१९||-
Adhikarana 17 (20) · Śloka 21
सर्वाङ्गगतमेकाङ्गस्थितं वाऽपि समीरणम् ||२०||
रुणद्धि केवलो बस्तिर्वायुवेगमिवाचलः |२१|
तत्र स्नेहबस्तिमेव वातव्याधौ दर्शयन्नाह- सर्वाङ्गेत्यादि||२०||-
Adhikarana 18 (21-26) · Śloka 26
स्नेहस्वेदस्तथाऽभ्यङ्गो बस्तिः स्नेहविरेचनम् ||२१||
शिरोबस्तिः शिरःस्नेहो धूमः स्नैहिक एव च |
सुखोष्णः स्नेहगण्डूषो नस्यं स्नैहिकमेव च ||२२||
रसाः क्षीराणि मांसानि स्नेहाः स्नेहान्वितं च यत् |
भोजनानि फलाम्लानि स्निग्धानि लवणानि च ||२३||
सुखोष्णाश्च परीषेकास्तथा संवाहनानि च |
कुङ्कुमागुरुपत्राणि कुष्ठैलातगराणि च ||२४||
कौशेयौर्णिकरौमाणि कार्पासानि गुरूणि च |
निवातातपयुक्तानि तथा गर्भगृहाणि च ||२५||
मृद्वी शय्याऽग्निसन्तापो ब्रह्मचर्यं तथैव च |
समासेनैवमादीनि योज्यान्यनिलरोगिषु ||२६||
इदानीं सर्ववातव्याधीनामुक्तानामनुक्तानां च सामान्येन सकलं प्रत्यनीकं दर्शयन्नाह- स्नेहस्वेद इत्यादि| स्नेहस्वेद इति स्नेहस्वेदो न रूक्षस्वेदः, तस्य वातकारित्वात्; अन्ये तु स्नेहः स्वेद इति विच्छिद्य पठन्ति, तन्मते स्नेहान्वितं च यदिति स्नेहग्रहणं पुनरुक्तम्| रसा मांसरसाः| स्नेहा घृतादयः| स्नेहान्वितं च यदिति यत् किच्चिद्वस्तु घृतादियुक्तमित्यर्थः, अथवा स्नेहगुणयुक्तं यत् किञ्चिद्वस्तु| फलाम्लानि दाडिमाद्यम्लीकृतानि| संवाहनं सुखकरस्पर्शः| कौशेयेत्यादि ‘आवरणानि’ इति शेषः| कौशेयं कोशकारकृमिलालोद्गतं ‘तसर’ इति लोके, रौमणि मूषकादिरोमजातानि रौमाणीत्यर्थः| गर्भगृहाणि अपवरकादीनीत्यर्थः| एतानि च यथावस्थं यथाव्याधि च प्रयोज्यानि||२१-२६||-
Adhikarana 19 (27) · Śloka 27
त्रिवृद्दन्तीसुवर्णक्षीरीसप्तलाशङ्खिनीत्रिफलाविडङ्गानामक्षसमाः भागाः , बिल्वमात्रः कल्कस्तिल्वकमूलकम्पिल्लकयोः, त्रिफलारसदधिपात्रे द्वे द्वे, घृतपात्रमेकं, तदैकध्यं संसृज्य विपचेत्; तिल्वकसर्पिरेतत् स्नेहविरेचनमुपदिशन्ति वातरोगिषु |
तिल्वकविधिरेवाशोकरम्यकयोर्द्रष्टव्यः ||२७||
तिल्वकसर्पिरुत्पादयति- त्रिवृदित्यादि| त्रिवृदादयो विडङ्गान्ता अक्षसमाः कर्षप्रमाणा इत्यर्थः| सुवर्णक्षीरी कङ्कुष्ठम्| सप्तला यवतिक्ताभेदः, शङ्खिन्यपि तद्भेदः| बिल्वमात्र इत्यादि| तिल्वकः पट्टिकारोध्रः| कम्पिल्लको रोचनिकावृक्षः फलारुणरेणुः| एतयोः प्रत्येकं कल्को बिल्वमात्रो बिल्वप्रमाण इत्यर्थः| त्रिफलेत्यादि| त्रिफलाक्वाथपात्रे द्वे, दधिपात्रे अपि द्वे; पात्रमाढकश्चतुःषष्टिपलानि, स च द्रवत्वाद् द्विगुणो ज्ञेयः; घृतपात्रमप्येवम्| तिल्वकविधिमतिदिशन्नाह- तिल्वकेत्यादि| कल्पना चेयं- तिल्वकस्थानेऽशोकः, अन्यत्र रम्यकः; शेषं पुनः कम्पिल्लकत्रिवृद्दन्त्यादि त्रिफलारसादि समानं पूर्वेण| रम्यको द्रेक्का पर्वतनिम्बः ‘राजनिम्ब’ इति लोके||२७||
Adhikarana 20 (28) · Śloka 28
तिलपरिपीडनोपकरणकाष्ठान्याहृत्यानल्पकालं तैलपरिपीतान्यणूनि खण्डशः कल्पयित्वाऽवक्षुद्य महति कटाहे पानीयेनाभिप्लाव्य क्वाथयेत्, ततः स्नेहमम्बुपृष्ठाद्यदुदेति तत् सरकपाण्योरन्यतरेणादाय वातघ्नौषधप्रतीवापं स्नेहपाककल्पेन विपचेत्, एतदणुतैलमुपदिशन्ति वातरोगिषु; अणुभ्यस्तैलद्रव्येभ्यो निष्पाद्यत इत्यणुतैलम् ||२८||
अणुतैलमुत्पादयन्नाह- तिलेत्यादि| तिलपरिपीडनोपकरणकाष्ठानि चक्रयष्टिमर्कटिकाप्रभृतीनि| अनल्पकालं तैलपरिपीतानि चिरकालं तैलभावितानीत्यर्थः| अणूनि सूक्ष्माणि| खण्डशः कल्पयित्वा कृत्वेत्यर्थः| अवक्षुद्य सुष्ठु पिष्ट्वा चूर्णयित्वा च| अभिप्लाव्य प्रक्षिप्य| अम्बुपृष्ठात् पानीयोपरि, यदुदेति यदुत्पद्यते, तत् सरकपाण्योरन्यतरेणैकेन, आदाय गृहीत्वा; सरकं मृन्मयं पात्रं ‘शराव’ इति लोके, गयी तु सरकं कांस्यताम्रादिभाजनं; पाणिर्हस्तः| वातघ्नौषधानि भद्रदार्वादीनि| प्रतिवापः कल्कः| स्नेहपाककल्पेन विपचेदिति स्नेहचतुर्थांशो भेषजकल्कः, स्नेहाच्चतुर्गुणो द्रव इत्यर्थः| द्रवाः पुनरत्र वक्ष्यमाणतैलोदिताः क्वाथमांसरसक्षीराम्लानि चत्वारि समभागानि; द्रवानुक्तेश्चतुर्गुणमेवात्र जलमित्यन्ये| अणुभ्य इत्यादि कारणाणुत्वेन कार्येष्वणुत्वव्यपदेश इत्यर्थः||२८||
Adhikarana 21 (29) · Śloka 29
अथ महापञ्चमूलकाष्ठैर्बहुभिरवदह्यावनिप्रदेशमसितमुषितमेकरात्रमुपशान्तेऽग्नावपोह्य भस्म निवृत्तां भूमिं विदारिगन्धादिसिद्धेन तैलघटशतेन तुल्यपयसाऽभिषिच्यैकरात्रमवस्थाप्य ततो यावती मृत्तिका स्निग्धा स्यात्तामादायोष्णोदकेन महति कटाहेऽभ्यासिञ्चेत्, तत्र यत्तैलमुत्तिष्ठेत्तत् पाणिभ्यां पर्यादाय स्वनुगुप्तं निदध्यात्; ततस्तैलं वातहरौषधक्वाथमांसरसक्षीराम्लभागसहस्रेण सहस्रपाकं विपचेद्यावता कालेन शक्नुयात् पक्तुं, प्रतिवापश्चात्र हैमवता दक्षिणापथगाश्च गन्धा वातघ्नानि च, तस्मिन् सिध्यति शङ्खानाध्मापयेद्दुन्दुभीनाघातयेच्छत्रं धारयेद्बालव्यजनैश्च वीजयेद्ब्राह्मणसहस्रं भोजयेत्, तत् साधु सिद्धमवतार्य सौवर्णे राजते मृन्मये वा पात्रे स्वनुगुप्तं निदध्यात्, तदेतत् सहस्रपाकमप्रतिवारवीर्यं राजार्हं तैलम्; एवं भागशतविपक्वं शतपाकम् ||२९||
सहस्रपाकं व्युत्पादयन्नाह- अथेत्यादि| पञ्चमूलप्रमाणं तैलं परिप्लाव्य भूमिभागप्रमाणेन| असितं कृष्णभूमिप्रदेशमित्यर्थः| उषितं स्थितम्| अपोह्य स्फोटयित्वा| निवृत्तां भूमिम् उपशान्ततापामित्यर्थः| विदारिगन्धादीत्यादि| कल्ककषायकल्पेन विदारिगन्धादिपक्वेन तैलघटशतेन तुल्यपयसा भूमिमभिसिञ्चयेत्| तैलमत्र तिलतैलम्| स्निग्धेति तैलक्षीराभ्यामार्द्रीकृतेत्यर्थः| महति कटाहे अत्रैकवचनं जात्यपेक्षया| तेनैकस्मिन् द्वयोस्त्रिषु वा| अभ्याषिञ्चेत् प्लावयेत्| वातहरौषधानि भद्रदार्वादीनि, तेषां क्वाथः क्वाथकल्पेन सिद्धः, मांसरसः जाङ्गलमांसरसकल्पेन सिद्धः, क्षीरं गोक्षीरम्, अम्लं काञ्जिकम्| भागसहस्रेणेति अत्र भागश्चतुर्थांशः; तेन वातहरक्वाथमांसरसक्षीराम्लानां प्रत्येकं भागसहस्रं; तेनैतदुक्तं भवति- प्रतिपाकं क्वाथादिभिस्तैलापेक्षया प्रत्येकं पादिकैः समुदायतस्तैलसमैः सहस्रपाकं यथा भवत्येवं वारसहस्रं पचेदिति गयी| जेज्जटस्तु क्वाथादीनां समुदायतस्तैलापेक्षया चतुर्थांशानां सहस्रमप्येकवारमेव निक्षिप्य विपचेदिति मन्यते, सहस्रपाकमिति तु सञ्ज्ञा, प्रत्येकं सहस्रवारान् पाके सति तैलोपक्षयः स्यात्| एतच्च गयदासेन दूषितं; तद्यथा- नहि सर्वतैलोपक्षयो भवति, किन्तु किञ्चिदेव, प्रतिपाकं क्षीरस्य पादिकस्य प्रवेशात्, अल्पः पुनरुपक्षयो राज्ञां महाधनानां यत्किञ्चिदेवेति| तस्मात् महाचार्याभ्यां व्याख्यातत्वात् पाकप्रकारद्वयमपि प्रमाणम्| यद्यपि द्रवसहस्रभागेन शतं वारान् विपचेदिति केनचिदुक्तं, तथाऽपीदृशं न बोद्धव्यं, प्रमादव्याख्यानत्वात्| प्रतिवापश्चात्र गन्धकल्कस्यावाप इत्यर्थः| हैमवता इति हैमवता उत्तरापथसम्भूताः, ते पुनः कस्तूरीशटीकुष्ठमांसीसरलसुरदारुमुरादयः| दक्षिणपथगाः चन्दनजातीफलकङ्कोललवङ्गादयः| तैः कल्कीकृतैस्तैलपादिकैः| वातघ्नानि चेति वातघ्नैरपि शतपुष्पामिश्रिप्रभृतिभिर्वातहरगणपरिपठितैः| तत्र शङ्खाध्मापनाद्यचिन्त्यशक्तित्वादतिशयव्युत्पादनार्थम्| अन्ये तु “तैलघटशतेन दुग्धवसाभ्यामभ्याषिञ्चेत्” इति पठन्ति; तन्न पठितव्यं, विवेककर्तृभिरुपाध्यायैरव्याख्यातत्वात्| शतपाकमुत्पादयन्नाह- एवं भागशतेत्यादि| एतत् सुबोधम्||२९||ह्
Adhikarana 22 (30) · Śloka 30
गन्धर्वहस्तमुष्ककनक्तमालाटरूषकपूतीकारग्वधचित्रकादीनां पत्राण्यार्द्राणि लवणेन सहोदूखलेऽवक्षुद्य स्नेहघटे प्रक्षिप्यावलिप्य गोशकृद्भिर्दाहयेत्; एतत्पत्रलवणमुपदिशन्ति वातरोगेषु ||३०||
वातप्रधानेषु कफप्रधानेषु वा तथा स्तब्धसङ्कुचिताध्मातादिषु भोजनोपयोगीनि लवणान्युत्पादयन्नाह- गन्धर्वेत्यादि| गन्धर्वहस्त एरण्डः, मुष्ककः कृष्णपुष्पमुष्ककः, नक्तमालः करञ्जः, पूतीकश्चिरबिल्वः, सर्वपत्रसमं लवणं सैन्धवं देयमिति वृद्धवैद्याः| एतद्वातरोगेषु कफप्रायेषु||३०||
Adhikarana 23 (31) · Śloka 31
एवं स्नुहीकाण्डवार्ताकुशिग्रुलवणानि सङ्क्षुद्य घटं पूरयित्वा सर्पिस्तैलवसामज्जभिः प्रक्षिप्यावलिप्य गोशकृद्भिर्दाहयेत्; एतत् स्नेहलवणमुपदिशन्ति वातरोगेषु |
(इति काण्डलवणम्) ||३१||
एवमित्यादि| स्नुहीकाण्डः सेहुण्डयष्टिः| चतुःस्नेहस्य लवणस्य सैन्धवस्य च सर्वद्रव्येण समत्वं बोद्धव्यम्| वातरोगेषु वातप्रायेषु||३१||
Adhikarana 24 (32) · Śloka 32
गण्डीरपलाशकुटजबिल्वार्कस्नुह्यपामार्गपाटलापारिभद्रकनादेयीकृष्णगन्धानीपनिम्बनिर्दहन्यटरूषकनक्तमालक- पूतिकबृहतीकण्टकारिकाभल्लातकेङ्गुदीवैजयन्तीकदलीबाष्पद्वयेक्षुरकेन्द्रवारुणीश्वेतमोक्षकाशोका इत्येवं वर्गं समूलपत्रशाखमार्द्रमाहृत्य लवणेन सह संसृज्य पूर्ववद्दग्ध्वा क्षारकल्पेन परिस्राव्य विपचेत्, प्रतिवापश्चात्र हिङ्ग्वादिभिः पिप्पल्यादिभिर्वा |
इत्येतत् कल्याणकलवणं वातरोगगुल्मप्लीहाग्निषङ्गाजीर्णार्शोऽरोचकार्तानां कासादिभिः कृमिभिरुपद्रुतानां चोपदिशन्ति पानभोजनेष्वपीति ||३२||
गण्डीरेत्यादि| गण्डीरो द्विविधः स्थलजो जलजश्च; तत्र स्थलजो हरितशाकपठितः, जलजो जलपिप्पलीगण्डीरः; पलाशः शटी; नादेयी जलजम्बूः; कृष्णगन्धा शोभाञ्जनकः; नीपो महाकदम्बः; निर्दहनी मोरटः, अग्निमन्थ इत्येके, अपरे चित्रकमाहुः; वैजयन्ती अरणिका; बाष्पद्वयं बाष्पिकाद्वयं तच्च लोहितं कृष्णं च सिन्धुविषये, केचिद्वर्षाभूद्वयमिति पठन्ति; इक्षुरकस्तालमखाना ; सर्वद्रव्यसमं सैन्धवलवणम्; एतत् सर्वमुदूखले सङ्क्षुद्य दहेत्| तद्भस्म पृथक् कृत्वा लवणात्, क्षारकल्पेन परिस्राव्य, तत्र लवणं प्रक्षिप्य, क्षारवन्मृद्वग्निना पचेत्| प्रतिवापश्चात्र लवणपादः पिप्पल्यादेर्हिङ्ग्वादेर्वा| अग्निसङ्गोऽग्निमान्द्यम्| अजीर्णम् अलसकविसूचिकादि| कासादिभिरित्यादिशब्दाच्छ्वासहिक्कादयः कफवातजाः| केचित् प्रतिवापं पिप्पल्यादिं मन्यन्ते, हिङ्ग्वादिमपरे, हिङ्ग्वादिं पिप्पल्यादिं चान्ये, एतत्त्रयमपि प्रमाणं, पूर्वेषामाचार्याणां सम्मतत्वात्||३२||
Adhikarana 25 (33) · Śloka 33
भवति चात्र- विष्यन्दनादुष्णभावाद्दोषाणां च विपाचनात् |
संस्कारपाचनाच्चेदं वातरोगेषु शस्यते ||३३||
लवणफलानुशंसामाह- विष्यन्दनादित्यादि| विष्यन्दनात् स्रवणात्| लवणफलानुशंसां केचिदभिदधति, अन्येऽनार्षमाहुरिमं पाठम्||३३||
Adhikarana puShpikA · Śloka 4
इति सुश्रुतसंहितायां चिकित्सास्थाने वातव्याधिचिकित्सितं नाम चतुर्थोऽध्यायः ||४||
इति श्रीडल्हणविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने चतुर्थोऽध्यायः||४||