Adhikarana 1 (1-2) · Śloka 2
अथातो भग्नानां चिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातो भग्नानां चिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि||१-२||
Adhikarana 2 (3) · Śloka 3
अल्पाशिनोऽनात्मवतो जन्तोर्वातात्मकस्य च | उपद्रवैर्वा जुष्टस्य भग्नं कृच्छ्रेण सिध्यति ||३||
🔊 Audio coming soon
तत्र प्रथमं भग्नस्य कृच्छ्रसाध्यत्वमाह- अल्पाशिन इत्यादि| अनात्मवतः अजितेन्द्रियस्य अपथ्यरतस्येत्यर्थः| वातात्मकस्य वातप्रकृतेः| उपद्रवैरिति उपद्रवा ज्वराध्मानमूत्रपुरीषसङ्गादयः| अमुं पाठं जेज्जटो न मन्यते; गयी तु मन्यत इत्यस्माभिरङ्गीकृतः||३||
Adhikarana 3 (4) · Śloka 4
लवणं कटुकं क्षारमम्लं मैथुनमातपम् | व्यायामं च न सेवेत भग्नो रूक्षान्नमेव च ||४||
🔊 Audio coming soon
इदानीमसेव्यानाह- लवणमित्यादि||४||
Adhikarana 4 (5) · Śloka 5
शालिर्मांसरसः क्षीरं सर्पिर्यूषः सतीनजः | बृंहणं चान्नपानं स्याद्देयं भग्नाय जानता ||५||
🔊 Audio coming soon
इदानीं सेव्यानाह- शालिरित्यादि| क्षीरं व्रणे सामान्योक्त्या निषिद्धमपि भग्नेऽपवादत्वात् प्रयुज्यते; अन्ये पुनरव्रणे एव भग्ने क्षीरं दातव्यमित्याहुः; केचित्तु भग्ने क्षीरदानं विरुद्धं, नवधान्यादिवर्गपठितत्वेन पाकपूयजनकत्वादित्याहुः; केचित् क्षीरसर्पिरिति च समस्तमेकपदं पठन्ति, व्याख्यानयन्ति च- क्षीरादुत्थितं सर्पिः क्षीरसर्पिरिति| सतीनो वर्तुलकलायः, सतीनानां वातकराणामपि सर्पिरादिसंस्कृतत्वाद्यूषो भग्ने युज्यत एव| बृंहणं देहवृद्धिकरम्||५||
Adhikarana 5 (6) · Śloka 6
मधूकोदुम्बराश्वत्थपलाशककुभत्वचः | वंशसर्जवटानां च कुशार्थमुपसंहरेत् ||६||
🔊 Audio coming soon
भग्नव्रणबन्धनद्रव्यं कुशा, तदर्थं द्रव्यं निर्दिशन्नाह- मधूकोदुम्बराश्वत्थेत्यादि| उपसंहरेत् एकत्र कुर्यात्| वंशसर्जवटानां चेति ‘त्वच’ इति शेषः| कुशाशब्देन भग्नबन्धनार्थं वंशवेत्रादिकं प्रोच्यते; अन्ये कुश्यमिति पठन्ति, तत्रापि स एवार्थः||६||
Adhikarana 6 (7) · Śloka 7
आलेपनार्थं मञ्जिष्ठां मधुकं रक्तचन्दनम् | शतधौतघृतोन्मिश्रं शालिपिष्टं च संहरेत् ||७||
🔊 Audio coming soon
भग्ने लेपनद्रव्याणि निर्दिशन्नाह- आलेपनार्थमित्यादि| संहरेत् एकत्र कुर्यात्| शालिपिष्टमित्यस्य स्थाने ‘अम्लपेषितमाहरेत्’ इति केचित् पठन्ति, अम्लपेषितं काञ्जिकपिष्टम्||७||
Adhikarana 7 (8) · Śloka 9
सप्ताहादथ सप्ताहात् सौम्येष्वृतुषु बन्धनम् | साधारणेषु कर्तव्यं पञ्चमे पञ्चमेऽहनि ||८|| आग्नेयेषु त्र्यहात् कुर्याद्भग्नदोषवशेन वा |९|
🔊 Audio coming soon
भग्नव्रणविशेषे बन्धनकालावधिं निर्दिशन्नाह- सप्ताहादित्यादि||८||-
Adhikarana 8 (9-10) · Śloka 10
तत्रातिशिथिलं बद्धे सन्धिस्थैर्यं न जायते ||९|| गाढेनापि त्वगादीनां शोफो रुक् पाक एव च | तस्मात् साधारणं बन्धं भग्ने शंसन्ति तद्विदः ||१०||
🔊 Audio coming soon
इदानीं त्रिविधो बन्धो व्रणे निर्दिष्टो गाढः, समः, शिथिल इति; तत्र भग्नेषु गाढशिथिलयोर्बन्धयोर्दोषावहत्वात् सममेव बन्धं निर्दिशन्नाह- तत्रातिशिथिलमित्यादि| सन्धिस्थैर्यं सन्धीनां दृढता ||९-१०||
Adhikarana 9 (11) · Śloka 11
न्यग्रोधादिकषायं तु सुशीतं परिषेचने | पञ्चमूलीविपक्वं तु क्षीरं कुर्यात् सवेदने ||११||
🔊 Audio coming soon
तस्य पित्तप्रकृतौ काले चोष्णे परिषेकं निर्दिशन्नाह- न्यग्रोधेत्यादि| सन्धानार्थं पाकादिपरिहारार्थं च| वातोत्तरे सपित्ते सशूले च परिषेकान्तरमाह- पञ्चमूलीत्यादि| पञ्चमूली स्वल्पा, तस्याः शीतवीर्यत्वात्||११||
Adhikarana 10 (12) · Śloka 12
सुखोष्णमवचार्यं वा चक्रतैलं विजानता |१२|
🔊 Audio coming soon
वातकफप्रकृतौ सशूले सशीते च काले चक्रतैलमाह- सुखोष्णमित्यादि| अवचार्यं ‘परिषेके’ इति शेषः| चक्रतैलं सद्यःपीडितोद्धृतमेके वदन्ति, अन्ये पुनरणुतैलकल्पेन गृहीतमपक्वं तैलं चक्रतैलमाहुः|१२|-
Adhikarana 11 (12) · Śloka 13
विभज्य कालं दोषं च दोषघ्नौषधसंयुतम् ||१२|| परिषेकं प्रदेहं च विदध्याच्छीतमेव च |१३|
🔊 Audio coming soon
विभज्य कालमित्यादि| शीतमेव चेति चकाराद्दोषाद्यपेक्षयोष्णमपि||१२||-
Adhikarana 12 (13) · Śloka 14
गृष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितम् ||१३|| शीतलं लाक्षया युक्तं प्रातर्भग्नः पिबेन्नरः |१४|
🔊 Audio coming soon
भग्ने आभ्यन्तरमौषधं निर्दिशन्नाह- गृष्टिक्षीरमित्यादि| गृष्टिः प्रथमप्रसूता गौः| मधुरौषधानि काकोल्यादीनि| प्रातः पिबेन्न तु भुक्ते| कल्पना चेयं- काकोल्यादीनां मधुराणां कर्षमात्रं द्रव्यमष्टगुणं क्षीरं चतुर्गुणोदकसिद्धं क्षीरशेषं सर्पिर्लाक्षाकर्षमात्रप्रक्षेपान्वितं; तच्च लघौ कोष्ठे देयम्, इयं च दिनं प्रति मात्रा||१३||-
Adhikarana 13 (14) · Śloka 15
सव्रणस्य तु भग्नस्य व्रणं सर्पिर्मधूत्तरैः ||१४|| प्रतिसार्य कषायैस्तु शेषं भग्नवदाचरेत् |१५|
🔊 Audio coming soon
इदानीं सव्रणस्य भग्नस्य चिकित्सितमाह- सव्रणस्येत्यादि| व्रणं प्रतिसार्य लेपयित्वेत्यर्थः| कैः प्रतिसार्य? कषायैः; किंविशिष्टैः? सर्पिर्मधूत्तरैः घृतमधुप्रधानैः; कषायोऽत्र न्यग्रोधादिकल्कः| शेषम् आहारविहारादिकमित्यर्थः||१४||-
Adhikarana 14 (15) · Śloka 16
प्रथमे वयसि त्वेवं भग्नं सुकरमादिशेत् ||१५|| अल्पदोषस्य जन्तोस्तु काले च शिशिरात्मके |१६|
🔊 Audio coming soon
इदानीं कालदोषाश्रयं साध्यत्वं भग्ने निर्दिशन्नाह- प्रथमे इत्यादि| एवमिति उक्ताहाराचारेणेत्यर्थः| सुकरं सुखसाध्यम्||१५||-
Adhikarana 15 (16) · Śloka 17
प्रथमे वयसि त्वेवं मासात् सन्धिः स्थिरो भवेत् ||१६|| मध्यमे द्विगुणात् कालादुत्तरे त्रिगुणात् स्मृतः |१७|
🔊 Audio coming soon
तस्यैव सुकरत्वे कालावधिं दर्शयन्नाह- प्रथमे इत्यादि| स्थिरो दृढ इत्यर्थः| द्विगुणात् कालाद् द्वाभ्यां मासाभ्यामित्यर्थः| त्रिगुणादिति त्रिभिर्मासैरित्यर्थः||१६||-
Adhikarana 16 (17) · Śloka 18
अवनामितमुन्नह्येदुन्नतं चावपीडयेत् ||१७|| आञ्छेदतिक्षिप्तमधो गतं चोपरि वर्तयेत् |१८|
🔊 Audio coming soon
इदानीं द्विविधानामपि सन्धिमुक्तकाण्डभग्नानां प्रतीकारोपायानाह- अवनामितमित्यादि| अवनामितम् अधोगतम्| उन्नह्येत् ऊर्ध्वं कुर्यादित्यर्थः| अतिक्षिप्तम् अतिप्रेरितम्, उपरि वर्तयेदुपरि नयेदित्यर्थः| गयी तु अवनामितमित्यादि पठित्वा पञ्च स्थापनोपायानाह, स च पाठोऽभावान्न लिखितः||१७||-
Adhikarana 17 (18-19) · Śloka 19
आञ्छ्नैः पीडनैश्चैव सङ्क्षेपैर्बन्धनैस्तथा ||१८|| सन्धीञ्छरीरे सर्वांस्तु चलानप्यचलानपि | एतैस्तु स्थापनोपायैः स्थापयेन्मतिमान् भिषक् ||१९||
🔊 Audio coming soon
इदानीं सङ्क्षेपतः स्थापनोपायानाह- आञ्छ्नैरित्यादि| पीडनग्रहणेन नमनोन्नमनपरिवर्तनानि गृह्यन्ते| सङ्क्षेपः सम्यक् क्षेपः प्रेरणमित्यर्थः, तस्य च पिच्चितं विषयः; एतेन, आञ्छ्नादिभिरुपायैः प्राक् सन्धाय बन्धनैरुपाचरेदित्यर्थः| सन्धीनिति बाहुल्येन निर्देशः, तेन काण्डभग्नानप्येतैरुपायैः स्थापयेत्| चलानप्यचलानपीति हस्तपादकटीहनुगताः सन्धयश्चलाः, तद्विपरीता अचलाः| गयी तु सङ्क्षेपशब्देन आकुञ्चनमाह, पीडनग्रहणेन च नमनोन्नमनाकुञ्चनानि गृह्यन्ते इति सङ्क्षेपग्रहणमनर्थकमिति कृत्वा जेज्जटस्य पाठं दूषयित्वाऽऽपातनिकापूर्वकं पाठान्तरं पठति| तथाहि- “तत्र स्थापनमुक्तमेवोपसंहरन्ननुक्तं च सन्धिस्थानेषु निर्दिशन्नाह- आञ्छ्नोत्पीडनोन्नामसङ्क्षोभैर्बन्धनैस्तथा” इत्यादि; शेषं पूर्ववत्||१८-१९||
Adhikarana 18 (20-21) · Śloka 22
उत्पिष्टमथ विश्लिष्टं सन्धिं वैद्यो न घट्टयेत् | तस्य शीतान् परीषेकान् प्रदेहांश्चावचारयेत् ||२०|| अभिघाते हृते सन्धिः स्वां याति प्रकृतिं पुनः | घृतदिग्धेन पट्टेन वेष्टयित्वा यथाविधि ||२१|| पट्टोपरि कुशान् दत्त्वा यथावद्बन्धमाचरेत् |२२|
🔊 Audio coming soon
इदानीमुत्पिष्टविश्लिष्टयोश्चिकित्सितमाह- उत्पिष्टमित्यादि| उत्पिष्टं विश्लिष्टं च सन्धिं न घट्टयेन्न चालयेत्; उत्पिष्टः चूर्णितः, विश्लिष्टः विघटितः स्वस्थानाच्च्युत इत्यर्थः| प्रदेहो लेपः||२०-२१||-
Adhikarana 19 (22) · Śloka 22
प्रत्यङ्गभग्नस्य विधिरत ऊर्ध्वं प्रवक्ष्यते ||२२||
🔊 Audio coming soon
प्रत्यङ्गभग्नचिकित्सितमाह- प्रत्यङ्गभग्नस्येत्यादि| अङ्गमङ्गं प्रति प्रत्यङ्गं, नखादारभ्य यावच्छिर इति||२२||
Adhikarana 20 (23) · Śloka 23
नखसन्धिं समुत्पिष्टं रक्तानुगतमारया | अवमथ्य स्रुते रक्ते शालिपिष्टेन लेपयेत् ||२३||
🔊 Audio coming soon
नखसन्धिमित्यादि| समुत्पिष्टं चूर्णितम्| रक्तानुगतं दुष्टरक्तसम्बद्धम्| आरया चर्मकारास्त्रेणावमथ्य रक्तं स्रावयेदित्यर्थः||२३||
Adhikarana 21 (24) · Śloka 24
भग्नां वा सन्धिमुक्तां वा स्थापयित्वाऽङ्गुलीं समाम् | अणुनाऽऽवेष्ट्य पट्टेन घृतसेकं प्रदापयेत् ||२४||
🔊 Audio coming soon
अङ्गुलिभग्नचिकित्सितमाह- भग्नामित्यादि| स्थापयित्वा संस्थापनैर्नमनोन्नमनादिभिः| अणुना सूक्ष्मेणेत्यर्थः, स्थूलपट्टेन त्वाबाधा स्यात्||२४||
Adhikarana 22 (25) · Śloka 25
अभ्यज्य सर्पिषा पादं तलभग्नं कुशोत्तरम् | वस्त्रपट्टेन बध्नीयान्न च व्यायाममाचरेत् ||२५||
🔊 Audio coming soon
तलभग्नचिकित्सितमाह- अभ्यज्येत्यादि||२५||
Adhikarana 23 (26) · Śloka 26
अभ्यज्यायामयेज्जङ्घामूरुं च सुसमाहितः | दत्त्वा वृक्षत्वचः शीता वस्त्रपट्टेन वेष्टयेत् ||२६||
🔊 Audio coming soon
जङ्घाभग्नोरुभग्नयोश्चिकित्सामाह- अभ्यज्येत्यादि| जङ्घापादस्योपरि नलकाश्रया| (आयामयेत् बध्नीयात्|) सुसमाहितः सावधानः| दत्त्वा वृक्षत्वचः शीता इति न्यग्रोधादिशीतवृक्षाणां कुशां दत्त्वेत्यर्थः||२६||
Adhikarana 24 (27) · Śloka 27
मतिमांश्चक्रयोगेन ह्याञ्छेदूर्वस्थि निर्गतम् | स्फुटितं पिच्चितं चापि बध्नीयात् पूर्ववद्भिषक् ||२७||
🔊 Audio coming soon
चक्रयोगेनाञ्छेदिति वर्तुलां कुशां दत्त्वा नामयित्वा चक्रवदाञ्छेद्बध्नीयादित्यर्थः| गयी तु सम्भ्रमभ्रमद्बलवत्तरपुरुषो हस्तद्वयोपरि गृहीतपार्ष्णिपादद्वयत्वात् तद्भ्रमणजवेन निरन्तरभ्रान्तस्य भग्नवतः पुरुषकायस्य चक्राकारोपलम्भाद्युक्तश्चक्रयोग इत्याह| स्फुटितं पिच्चितं चापीति ऊर्वस्थीति सम्बन्धनीयम्| अपिशब्दात् स्फुटितपिच्चितसदृशेष्वन्येषु भग्नेषु यदस्थिनिर्मुक्तं त्वगादिभिरसंश्लिष्टं तदपनीय बध्नीयादित्यर्थः| पूर्ववत् सममित्यर्थः||२७||
Adhikarana 25 (28) · Śloka 28
आञ्छेदूर्ध्वमधो वाऽपि कटिभग्नं तु मानवम् | ततः स्थानस्थिते सन्धौ बस्तिभिः समुपाचरेत् ||२८||
🔊 Audio coming soon
कटिभग्नचिकित्सामाह- आञ्छेदूर्ध्वमित्यादि| आञ्छेदूर्ध्वमधो वाऽपीति ऊर्ध्वगतमस्थि अधः कृत्वा बध्नीयात्, अधोगतं तूर्ध्वं कृत्वा बध्नीयादित्यर्थः| बस्तिभिः स्नेहबस्तिभिः| ननु कटिभग्नमसाध्यमुक्तं; तद्यथा- “भिन्नं कपालं कट्यां तु सन्धिमुक्तं तथा च्युतम्| जघनं प्रति पिष्टं च वर्जयेत्तु विचक्षणः” (नि. १५) इति व्यर्थमेव चिकित्सितं? नैवं, प्रति पिष्टं चेति चकारो वर्जयेदित्यत्र द्रष्टव्यः, तेनानेन याप्यत्वं समुच्चीयते; एतदुक्तं भवति- कपालभेदो वर्ज्यः, सन्धिमुक्तसन्धिच्युते तु याप्ये, तेन तद्विषयचिकित्सितमिदं सार्थकमिति गयी; जेज्जटस्तु वर्जयेदित्यत्र वर्जनशब्दः कृच्छ्रसाध्यत्वप्रतिपादनार्थो न तु निषेधार्थ इत्याह||२८||
Adhikarana 26 (29-30) · Śloka 30
पर्शुकास्वथ भग्नासु घृताभ्यक्तस्य तिष्ठतः | दक्षिणास्वथवा वामास्वनुमृज्य निबन्धनीः ||२९|| ततः कवलिकां दत्त्वा वेष्टयेत् सुसमाहितः | तैलपूर्णे कटाहे वा द्रोण्यां वा शाययेन्नरम् ||३०||
🔊 Audio coming soon
पर्शुकाभग्नचिकित्सितमाह- पर्शुकास्वथेत्यादि| पर्शुक्राः पृष्ठभागनिबन्धनान्यस्थीनि, तेषां नमनमेव भग्नत्वम्| तिष्ठत इति ऊर्ध्वस्थितशरीरस्य, नोपविष्टस्येत्यर्थः| दक्षिणास्वथवा वामासु पर्शुकास्विति सम्बन्धः| अनुमृज्य घृताक्तहस्तेन समीकरणार्थमवमृज्य| निबन्धनीः मांसरज्जव इत्यर्थः | कवलिका वंशादिविदलशकला, वस्त्रमयीत्यन्ये| वेष्टयेदिति ‘वेल्लितकबन्धेन’ इति शेषः| सुसमाहितः सावधानो वैद्यः| द्रोणी काष्ठविरचिता नौरिव||२९-३०||
Adhikarana 27 (31) · Śloka 31
मुसलेनोत्क्षिपेत् कक्षामंससन्धौ विसंहते | स्थानस्थितं च बध्नीयात् स्वस्तिकेन विचक्षणः ||३१||
🔊 Audio coming soon
स्कन्धभग्नचिकित्सितमाह- मुसलेनेत्यादि| उत्क्षिपेत् ऊर्ध्वं नयेत्| अंससन्धौ बाहुशिरःसन्धौ| विसंहते विश्लिष्टे| स्वस्तिकेन बन्धविशेषेणेत्यर्थः||३१||
Adhikarana 28 (32) · Śloka 33
कौर्परं तु तथा सन्धिमङ्गुष्ठेनानुमार्जयेत् | अनुमृज्य ततः सन्धिं पीडयेत् कूर्पराच्च्युतम् ||३२|| प्रसार्याकुञ्चयेच्चैनं स्नेहसेकं च दापयेत् |३३|
🔊 Audio coming soon
कूर्परसन्धिभग्नचिकित्सितमाह- कौर्परमित्यादि| बाहुमध्ये कूर्परसन्धिः| अनुमार्जयेत् अनुमर्दयेत्; प्रच्युतस्य सन्ध्यस्थ्नो मार्गोपलम्भार्थं मार्जनं विधेयम्||३२||-
Adhikarana 29 (33) · Śloka 33
एवं जानुनि गुल्फे च मणिबन्धे च कारयेत् ||३३||
🔊 Audio coming soon
कूर्परसन्धिचिकित्सितं सङ्क्षेपार्थमन्यत्रातिदिशन्नाह- एवमित्यादि| एवं कूर्परसन्धिचिकित्सितप्रकारेणेत्यर्थः| गुल्फः पार्ष्ण्युपरिग्रन्थिः| मणिबन्धो हस्ततलस्योपरितनः सन्धिः||३३||
Adhikarana 30 (34-35) · Śloka 35
उभे तले समे कृत्वा तलभग्नस्य देहिनः | बध्नीयादामतैलेन परिषेकं च कारयेत् ||३४|| मृत्पिण्डं धारयेत् पूर्वं लवणं च ततः परम् | हस्ते जातबले चापि कुर्यात् पाषाणधारणम् ||३५||
🔊 Audio coming soon
प्राक् पादतलचिकित्सितमुक्तम्, अथ हस्ततलचिकित्सितमाह- उभे तले इत्यादि| उभे तले इति एकं पाणितलं, द्वितीयं पादतलम्, इत्युभे तले इति जेज्जटः; गयी तु उमे अपि हस्ततले; तत्रैकस्य भङ्गे वामं दक्षिणेन, दक्षिणं वामेन, उभयोस्तु भङ्गे तत्समेन काष्ठमयेन उभे अपि बध्नीयादित्याह| अन्ये तु व्याख्यानयन्ति- हस्ततलं पादतलं वा तत्समेन काष्ठमयेन मित्वा द्वे अपि सह बध्नीयादेवं दार्ढ्यं भवतीति| मृत्पिण्डादिधारणमात्मकर्मप्राप्त्यर्थम्| जेज्जटस्तु ‘मृत्पिण्डं धारयेत् पूर्वं’ इत्यादि पाठं न मन्यते, किन्तु ‘प्राग्गोमयमयं पिण्डं धारयेन्मृन्मयं ततः| हस्ते जातबले पश्चात् कुर्यात् पाषाणधारणम्’ इति पठति||३४-३५||
Adhikarana 31 (36) · Śloka 36
सन्नमुन्नमयेत् स्विन्नमक्षकं मुसलेन तु | तथोन्नतं पीडयेच्च बध्नीयाद्गाढमेव च ||३६||
🔊 Audio coming soon
नतोन्नतयोरक्षकयोश्चिकित्सितमाह- सन्नमित्यादि| सन्नम् अधःप्रविष्टम्, उन्नमयेत् मुसलेनेति सम्बन्धः; स्विन्नमुन्नतं मुसलेनाधः पीडयेत्| अक्षकोंऽससन्धेरुपरिष्टाद्भवति||३६||
Adhikarana 32 (37) · Śloka 37
ऊरुवच्चापि कर्तव्यं बाहुभग्नचिकित्सितम् |३७|
🔊 Audio coming soon
बाहुभग्नचिकित्सितमूरुभग्नचिकित्सितेनातिदिशन्नाह- ऊरुवदित्यादि| कूर्परांशयोर्मध्ये बाहुः|३७|-
Adhikarana 33 (37-38) · Śloka 39
ग्रीवायां तु विवृत्तायां प्रविष्टायामधोऽपि वा ||३७|| अवटावथ हन्वोश्च प्रगृह्योन्नमयेन्नरम् | ततः कुशां समं दत्त्वा वस्त्रपट्टेन वेष्टयेत् ||३८|| उत्तानं शाययेच्चैनं सप्तरात्रमतन्द्रितः |३९|
🔊 Audio coming soon
ग्रीवायामित्यादि| विवृत्तायां वक्रायाम्| कृकाटिकाभागसन्धौ गर्तोऽवटुः, हनू मुखसन्धी, अवटौ हन्वोश्च गृहीत्वा उन्नमयेदिति जेज्जटः; गयी तु, अधः प्रविष्टायामवटौ गृहीत्वा, विवृत्तायां हन्वोरिति क्रममाह| कुशां समं दत्त्वेति सममिति दत्त्वेत्यस्य विशेषणं, वेष्टयेदित्यस्य विशेषणमिदमित्यन्ये; एतेन नातिगाढं नातिशिथिलमित्यर्थः| अतन्द्रितोऽनलसः, ‘वैद्य’ इति शेषः||३७-३८||-
Adhikarana 34 (39-40) · Śloka 40
हन्वस्थिनी समानीय हनुसन्धौ विसंहते ||३९|| स्वेदयित्वा स्थिते सम्यक् पञ्चाङ्गीं वितरेद्भिषक् | वातघ्नमधुरैः सर्पिः सिद्धं नस्ये च पूजितम् ||४०||
🔊 Audio coming soon
हनुभग्नचिकित्सितमाह- हन्वस्थिनीत्यादि| समानीयेति दक्षिणं वामेन, वामं दक्षिणेन सममानीयेत्यर्थः| विसंहते विश्लिष्टे स्वस्थानाच्च्युते इत्यर्थः| पञ्चाङ्गी बन्धविशेषः पञ्चपदचीराङ्गी| वातघ्नमधुरैरिति वातघ्नानि भद्रदार्वादीनि, विदारिगन्धादीनीत्यन्ये, मधुराणि काकोल्यादीनि, तैः सिद्धं सर्पिर्घृतं, कल्ककषायाभ्यामित्यर्थः||३९-४०||
Adhikarana 35 (41-42) · Śloka 43
अभग्नांश्चलितान् दन्तान् सरक्तानवपीडयेत् | तरुणस्य मनुष्यस्य शीतैरालेपयेद्बहिः ||४१|| सिक्त्वाऽम्बुभिस्ततः शीतैः सन्धानीयैरुपाचरेत् | उत्पलस्य च नालेन क्षीरपानं विधीयते ||४२|| जीर्णस्य तु मनुष्यस्य वर्जयेच्चलितान् द्विजान् |४३|
🔊 Audio coming soon
दन्तभग्नचिकित्सितमाह- अभग्नानित्यादि| सन्धानीयैरिति मधुघृतादिभिः, न्यग्रोधादीनां कषायाणां कल्कैश्चेत्यर्थः||४१-४२||-
Adhikarana 36 (43-44) · Śloka 44
नासां सन्नां विवृत्तां वा ऋज्वीं कृत्वा शलाकया ||४३|| पृथङ्गासिकयोर्नाड्यौ द्विमुख्यौ सम्प्रवेशयेत् | ततः पट्टेन संवेष्ट्य घृतसेकं प्रदापयेत् ||४४||
🔊 Audio coming soon
नासाभग्नचिकित्सितमाह- नासामित्यादि| सन्नाम् अभिघातेनान्तःप्रविष्टाम्| विवृत्तां वक्राम्| तत्र सन्नां शलाकयोन्नम्य, वक्रां पुनः ऋजूकृत्वेत्यर्थः| द्विमुख्यौ नाड्यौ अन्तर्बहिर्मुख्यौ, निःश्वासोच्छ्वाससिंहाणकादिनिर्गमार्थम्| घृतसेकं घृतपरिषेकम्||४३-४४||
Adhikarana 37 (45) · Śloka 45
भग्नं कर्णं तु बध्नीयात् समं कृत्वा घृतप्लुतम् | सद्यःक्षतविधानं च ततः पश्चात् समाचरेत् ||४५||
🔊 Audio coming soon
कर्णभग्नचिकित्सितमाह- भग्नमित्यादि| भग्नं कुटिलम्, अन्तःप्रविष्टं वा| सद्यःक्षतविधानमिति मधुघृताभ्यङ्गशीतपरिषेकादि| अत्र ‘सद्यःक्षतविधिश्चापि नयने निर्गते बहिः’- इति केचित् पठन्ति| तन्न पठनीयं, भिन्नं नेत्रमकर्मण्यमित्यादिनैव सिद्धत्वात्; अन्ये तु चक्षुर्भग्नद्वयप्रतिपादनार्थं पठनीयमिति मन्यन्ते||४५||
Adhikarana 38 (46) · Śloka 46
मस्तुलुङ्गाद्विना भिन्ने कपाले मधुसर्पिषी | दत्त्वा ततो निबध्नीयात् सप्ताहं च पिबेद्धृतम् ||४६||
🔊 Audio coming soon
कपालभग्नचिकित्सितमाह- मस्तुलुङ्गाद्विनेत्यादि| मस्तुलुङ्गस्रावे तु प्रागभिहितैव बालवर्तिरित्यभिप्रायः||४६||
Adhikarana 39 (47) · Śloka 47
पतनादभिघाताद्वा शूनमङ्गं यदक्षतम् | शीतान् प्रदेहान् सेकांश्च भिषक् तस्यावचारयेत् ||४७||
🔊 Audio coming soon
शीतान् प्रदेहान् सेकांश्च शीतान्; नोष्णान् कथमपि, अतिस्रुतरक्तत्वेन पाकभयात्||४७||
Adhikarana 40 (48-49) · Śloka 49
अथ जङ्घोरुभग्नानां कपाटशयनं हितम् | कीलका बन्धनार्थं च पञ्च कार्या विजानता ||४८|| यथा न चलनं तस्य भग्नस्य क्रियते तथा | सन्धेरुभयतो द्वौ द्वौ तले चैकश्च कीलकः ||४९||
🔊 Audio coming soon
जङ्घोरुभङ्गेषु पश्चात्कर्मविशेषं निर्दिशन्नाह- अथ जङ्घेत्यादि| भग्नानां काण्डभग्नानां, द्विविधानामपीत्यपरे| कपाटशयनमवश्यं कार्यम्| कपाटशयनेनैव सह देशाद्देशान्तरनयनार्थम्, आधारभूतशयनचालनार्थमित्यन्ये| आधेयभूतशरीरावयवचलनपरिहारार्थं कीलाः| कीलानां पञ्चसङ्ख्यात्वं जङ्घोर्वोर्द्वयोरेकतरस्य भग्नमपेक्ष्य; तत्र जङ्घाभग्ने तु गुल्फसन्धेरुभयतो द्वौ, जानुसन्धेरप्युभयतो द्वौ, एकश्च तले, एवं पञ्च; ऊरुभग्ने जानुसन्धेरुभयतो द्वौ, द्वौ वङ्क्षणसन्धेरुभयतः, तले चैक इत्यत्रापि पञ्च; उभयभङ्गापेक्षया तु सप्तभिरेव कीलैर्यन्त्रणम्| तथाहि- उभयतो बहिर्द्वौ गुल्फयोः, द्वौ च जानुनोः, द्वौ च वङ्क्षणयोः, तले चैक एवं सप्त| अत्र “जङ्घोर्वोः पार्श्वयोर्द्वौ द्वौ तले चैकश्च कीलक” इति केचित् पठन्ति; तच्च निबन्धकारैर्न पठितं, तस्मान्न पठनीयम्| गयदासश्चात्र पाठान्तरं किमपि पठति; तच्चाभावान्न लिखितम्||४८-४९||
Adhikarana 41 (50) · Śloka 50
श्रोण्यां वा पृष्ठवंशे वा वक्षस्यक्षकयोस्तथा | भग्नसन्धिविमोक्षेषु विधिमेनं समाचरेत् ||५०||
🔊 Audio coming soon
अमुमेव जङ्घोरुभग्नकपाटशयनादिविधिमन्यत्रापि दर्शयन्नाह- श्रोण्यामित्यादि| श्रोणिः कटिः| वक्ष उरः| अक्षकौ अंससन्धेरुपरि| भग्नसन्धिविमोक्षेष्विति काण्डभग्नेषु तथा सन्धिविमोक्षेष्वपि द्विविधेषु भग्नेषु समाचरेदित्यर्थः| विधिमेनमिति कपाटशयनकीलकनियमनादिकम्||५०||
Adhikarana 42 (51) · Śloka 51
सन्धींश्चिरविमुक्तांस्तु स्निग्धान् स्विन्नान् मृदूकृतान् उक्तैर्विधानैर्बुद्ध्या च सम्यक् प्रकृतिमानयेत् ||५१||
🔊 Audio coming soon
सद्योभग्नविधानं निर्दिश्य चिरभग्नविधानमाह- सन्धीनित्यादि| बुद्ध्या चेति ‘स्वयमप्यूह्य’ इति शेषः||५१||
Adhikarana 43 (52) · Śloka 52
काण्डभग्ने प्ररूढे तु विषमोल्बणसंहिते | आपोथ्य समयेद्भग्नं ततो भग्नवदाचरेत् ||५२||
🔊 Audio coming soon
चिरविमुक्तसन्धिमभिधाय चिरकाण्डभग्नविधिमाह- काण्डभग्न इत्यादि| आपोथ्य विश्लेष्य| समयेत् समं कुर्यादित्यर्थः||५२||
Adhikarana 44 (53) · Śloka 53
कल्पयेन्निर्गतं शुष्क्रं व्रणान्तेऽस्थि समाहितः | सन्ध्यन्ते वा क्रियां कुर्यात् सव्रणे व्रणभग्नवत् ||५३||
🔊 Audio coming soon
कल्पयेत् छिन्द्यात्| व्रणान्ते व्रणैकदेशे| समाहितः सावधानः; यथाऽन्यत्र व्रणो न भवति तथा छिन्द्यादित्यर्थः| सन्ध्यन्ते सन्धिसमीप इत्यर्थः| किंविशिष्टे सन्ध्यन्ते? सव्रणे व्रणयुक्त इत्यर्थः||५३||
Adhikarana 45 (54) · Śloka 54
ऊर्ध्वकाये तु भग्नानां मस्तिष्क्यं कर्णपूरणम् | घृतपानं हितं नस्यं प्रशाखास्वनुवासनम् ||५४||
🔊 Audio coming soon
इदानीमूर्ध्वाधःकायविशेषेण भग्नक्रियाविशेषं निर्दिशन्नाह- ऊर्ध्वकाय इत्यादि| मस्तिष्क्यं शिरोबस्तिप्रकारः, स च स्नेहाक्तपिचुप्लोतादिभिः| नस्यं प्रशाखास्विति प्रकृष्टाः शाखाः प्रशाखास्तासु; जानुजङ्घाबाहुद्वयगते भग्ने नस्यं, घृतपानं बस्तिश्च सर्वत्रैवेति जेज्जटः; गयी तु मस्तिष्क्यादिकं नस्यान्तं सर्वमूर्ध्वकायगतभग्न एव, प्रशाखासु बस्तिरिति व्याख्यानयति||५४||
Adhikarana 46 (55-66) · Śloka 66
अत ऊर्ध्वं प्रवक्ष्यामि तैलं भग्नप्रसाधकम् | रात्रौ रात्रौ तिलान् कृष्णान् वासयेदस्थिरे जले ||५५|| दिवा दिवा शोषयित्वा गवां क्षीरेण भावयेत् | तृतीयं सप्तरात्रं तु भावयेन्मधुकाम्बुना ||५६|| ततः क्षीरं पुनः पीतान् सुशुष्कांश्चूर्णयेद्भिषक् | काकोल्यादिं सयष्ट्याह्वं मञ्जिष्ठां सारिवां तथा ||५७|| कुष्ठं सर्जरसं मांसीं सुरदारु सचन्दनम् | शतपुष्पां च सञ्चूर्ण्य तिलचूर्णेन योजयेत् ||५८|| पीडनार्थं च कर्तव्यं सर्वगन्धशृतं पयः | चतुर्गुणेन पयसा तत्तैलं विपचेद्भिषक् ||५९|| एलामंशुमतीं पत्रं जीवकं तगरं तथा | रोध्रं प्रपौण्डरीकं च तथा कालानुसारि(वा)णम् ||६०|| सैरेयकं क्षीरशुक्लामनन्तां समधूलिकाम् | पिष्ट्वा शृङ्गाटकं चैव पूर्वोक्तान्यौषधानि च ||६१|| एभिस्तद्विपचेत्तैलं शास्त्रविन्मृदुनाऽग्निना | एतत्तैलं सदा पथ्यं भग्नानां सर्वकर्मसु ||६२|| आक्षेपके पक्षघाते तालुशोषे तथाऽर्दिते | मन्यास्तम्भे शिरोरोगे कर्णशूले हनुग्रहे ||६३|| बाधिर्ये तिमिरे चैव ये च स्त्रीषु क्षयं गताः | पथ्यं पाने तथाऽभ्यङ्गे नस्ये बस्तिषु भोजने ||६४|| ग्रीवास्कन्धोरसां वृद्धिरमुनैवोपजायते | मुखं च पद्मप्रतिमं ससुगन्धिसमीरणम् ||६५|| गन्धतैलमिदं नाम्ना सर्ववातविकारनुत् | राजार्हमेतत् कर्तव्यं राज्ञामेव विचक्षणैः ||६६||
🔊 Audio coming soon
तदेव बस्तिकर्णपूरणपाननस्यानुवासनसाधनतैलं निर्दिशन्नाह- अत इत्यादि| वासयेदिति प्रथमं सप्तरात्रं यावत्| अस्थिरे जले वहति पानीये| गवां क्षीरेणेति ‘भाव्यद्रव्यसमेन’ इति शेषः| भावयेद् द्वितीयं सप्तरात्रम्| मधुकाम्बुनेति ‘भाव्यद्रव्यसमेन’ इति शेषः| ततः क्षीरं पुनः पीतानिति क्षीरेण भाव्यद्रव्यसमेन पुनर्भावितान्, चतुर्थसप्तरात्रमिति तात्पर्यार्थः| काकोल्यादिं सयष्ट्याह्वमिति यष्टिमधुनि काकोल्यादावुक्तेऽपि पुनर्यष्टीपाठो द्विभागार्थं, यथालाभपरिभाषापरिहारेणावश्यं प्रक्षेपार्थं वा| काकोल्यादिशतपुष्पान्तानां चूर्णपादं तिलचूर्णपादैस्त्रिभिर्योजयन्ति तन्त्रान्तरदर्शिनो वृद्धवैद्या इति जेज्जटः| गयी तु “तिलचूर्णस्य चत्वारो भागाः, भागश्चैकः प्रकीर्तितानां (काकोल्यादीनां), तथा यष्ट्याह्वादीनां शतपुष्पान्तानां द्वितीयो भाग इति षड्भागाः” इति व्याख्यानयति| वङ्गदत्तस्तु तिलचूर्णसमं तत्र मिलितं चूर्णमिष्यत इत्याह| सर्वगन्धशृतं पय इत्यत्र सर्वगन्धा एलादयः, अन्ये च कटुकफलादयः, तैः शृतं क्वथितं, पयः क्षीरम्| अत्र च क्षीरपाके इयं परिभाषा स्मरणीया- “क्वाथ्यादष्टगुणं क्षीरं क्षीरात्तोयं चतुर्गुणम्| क्षीरावशेषं कर्तव्यं क्षीरपाके त्वयं विधिः” इति| यावता च क्षीरेण तिलचूर्णमुत्सादनीयं भवति तावन्मात्रं शृतं करणीयम्| ततः शृतेन क्षीरेणोष्णेनैव काकोल्यादिचूर्णसहितं तत्तिलचूर्णमार्द्रीकृत्य चक्रेण पीडयेत्| पीडनादुत्पन्नं तैलं यथा संस्कार्यं तं प्रकारमाह- चतुर्गुणेनेत्यादि| अंशुमती शालपर्णी| कालानुसारिवा तगरं; तगरस्य द्विरुच्चारणं भागद्वयप्रतिपादनार्थम्| सैरेयकं कण्टशेलुकः| क्षीरशुक्ला क्षीरविदारी| अनन्ता उत्पलसारिवा| मधूलिका मर्कटतृणविशेषः| शृङ्गाटकं त्रिकण्टकं जलजं फलम्| पूर्वोक्तान्यौषधानि काकोल्यादीनि शतपुष्पान्तानि, तानि सर्वाणि च तावता भागेन समेन कल्पयितव्यानि, यावता तैलपादिकानि भवन्ति| मृदुनाऽग्निनेति मृद्वग्नेर्मानमुच्यते- “पद्मविस्तरयुक्तेन मृदुना वह्निना शनैः| पचेत् स्नेहमधश्चोर्ध्वं चालयित्वा निरन्तरम्|| सम्यक्पाको भवत्येवमन्यथा दग्धतां व्रजेत्”- इति| सर्वकर्मसु पानाभ्यङ्गादिषु| गन्धतैलमिदं नाम्नेति अस्य तैलस्य गन्धतैलमिति सञ्ज्ञा; वैतरणे पुनरस्याणुतैलसञ्ज्ञा| राज्ञामेवेति राज्ञामेवेदं तैलं पण्डितैर्विधातव्यं, महासम्भारसाध्यत्वात्; न पुनरन्येषां निषिद्धम्||५५-६६||
Adhikarana 47 (67-68) · Śloka 68
त्रपुसाक्षप्रियालानां तैलानि मधुरैः सह | वसां दत्त्वा यथालाभं क्षीरे दशगुणे पचेत् ||६७|| स्नेहोत्तममिदं चाशु कुर्याद्भग्नप्रसाधनम् | पानाभ्यञ्जननस्येषु बस्तिकर्मणि सेचने ||६८||
🔊 Audio coming soon
त्रपुसं कर्कटीभेदः, अक्षो बिभीतकः, प्रियालश्चारः| मधुरैः काकोल्यादिभिः| तानि च स्नेहपादिकानि| वसां दत्त्वा यथालाभमिति यदि लभ्यते तदा निक्षिपेदित्यर्थः| सेचने परिषेके| अमुं पाठं केचिदनार्षं मन्यन्ते||६७-६८||
Adhikarana 48 (69) · Śloka 69
भग्नं नैति यथापाकं प्रयतेत तथा भिषक् | पक्वमांससिरास्नायु तद्धि कृच्छ्रेण सिध्यति ||६९||
🔊 Audio coming soon
इदानीं भग्ने बाह्यानामाभ्यन्तराणां च पाककारिणां परिहाराय पाकप्रशमकारिणां च सेवनायाह- भग्नं नैतीत्यादि| नैति न गच्छतीत्यर्थः| प्रयतेत प्रयत्नं कुर्वीतेत्यर्थः||६९||
Adhikarana 49 (70) · Śloka 70
भग्नं सन्धिमनाविद्धमहीनाङ्गमनुल्बणम् | सुखचेष्टाप्रचारं च संहितं सम्यगादिशेत् ||७०||
🔊 Audio coming soon
सम्यग्रूढलक्षणमाह- भग्नमित्यादि| अनाविद्धम् अनाकुलम्| अनुल्बणम् अनुन्नतम्| सुखचेष्टाप्रचारमिति चेष्टाप्रचार आकुञ्चनप्रसारणादिकः||७०||
Adhikarana puShpikA · Śloka 3
इति सुश्रुतसंहितायां चिकित्सास्थाने भग्नचिकित्सितं नाम तृतीयोऽध्यायः ||३||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने तृतीयोऽध्यायः||३||