Adhikarana 1 (1-2) · Śloka 2
अथातो जङ्गमविषविज्ञानीयं कल्पं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातो जङ्गमविषविज्ञानीयं कल्पं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि||१-२||
Adhikarana 2 (3-4) · Śloka 4
जङ्गमस्य विषस्योक्तान्यधिष्ठानानि षोडश | समासेन मया यानि विस्तरस्तेषु वक्ष्यते ||३|| तत्र, दृष्टिनिःश्वासदंष्ट्रानखमूत्रपुरीषशुक्रलालार्तवमुखसन्दंश- विशर्धिततुण्डास्थिपित्तशूकशवानीति ||४||
🔊 Audio coming soon
तान्येवाधिष्ठानानि निर्दिशन्नाह- तत्र दृष्टिनिःश्वासेत्यादि| निःश्वासः फूत्कारः, विशर्धितं पायुकृतः कुत्सितशब्दः, शूकं कीटलोम, कीटानां सर्पाणां च विगतप्राणानां देहः शवः| वृद्धवाग्भटस्तु तुण्डविशर्धितस्थाने अल(आर)शोणिते पठति||३-४||
Adhikarana 3 (5) · Śloka 5
तत्र, दृष्टिनिःश्वासविषा दिव्याः सर्पाः, भौमास्तु दंष्ट्राविषाः, मार्जारश्ववानरमकरमण्डूकपाकमत्स्यगोधाशम्बूकप्रचलाकगृहगोधिकाचतुष्पादकीटास्तथाऽन्ये दंष्ट्रानखविषाः, चिपिटपिच्चिटककषायवासिकसर्षपकतोटकवर्चःकीटकौण्डिन्यकाः शकृन्मूत्रविषाः, मूषिकाः शुक्रविषाः, लूता लालामूत्रपुरीषमुखसन्दंशनखशुक्रार्तवविषाः , वृश्चिकविश्वम्भरवरटीराजीवमत्स्योच्चिटिङ्गाः समुद्रवृश्चिकाश्चाल(र)विषाः, चित्रशिरःसरावकुर्दिशतदारुकारिमेदकसारिकामुखा मुखसन्दंशविशर्धितमूत्रपुरीषविषाः, मक्षिकाकणभजलायुका मुखसन्दंशविषाः, विषहतास्थि सर्पकण्टकवरटीमत्स्यास्थि चेत्यस्थिविषाणि, शकुलीमत्स्यरक्तराजिवरकी(टी)मत्स्याश्च पित्तविषाः, सूक्ष्मतुण्डोच्चिटिङ्गवरटीशतपदीशूकवलभिकाशृङ्गिभ्रमराः शूकतुण्डविषाः, कीटसर्पदेहा गतासवः शवविषाः; शेषास्त्वनुक्ता मुखसन्दंशविषेष्वेव गणयितव्याः ||५||
🔊 Audio coming soon
तत्रेत्यादि| दिवि भवा दिव्याः, भूमौ भवा भौमाः; एतच्च प्रायिकं, सर्वेऽपि सर्पा दंशायतनविषाः; तथा हि सावित्रे,- “सर्व एव सर्पा दंशविषा भवन्ति, मलदशनदंष्ट्राचक्षुर्लालानिःश्वासेन्द्रियमूत्रपुरीषपुच्छैः ”(?) इति| मार्जारेत्यादि| अत्र मार्जारोक्त्यैव व्याला व्याघ्रादयोऽभिप्रेताः| मकरो जलजन्तुरित्येके, अन्ये आग्नेयकीटपठितं मकराकारत्वेन मकरं, कर्कटवृश्चिकं मकरमन्ये| पाकमत्स्योऽपि आग्नेयेष्वेव पठितः कीटविशेषः| गोधा पञ्चनखी पवित्रा सौम्यकीटपठिता; कृष्णशब्दस्य लोपात् कृष्णगोधां विदुरन्ये| प्रचलाकं सौम्यकीटपठितं कीटविशेषमाहुः| गृहगोधिका कोष्ठागारी कोष्ठगृहकारिका| चतुष्पदकीटाः प्रतिसूर्यकादयः| तथाऽन्ये मशकमक्षिकादयश्च कीटाः| चिपिटपिच्चिटकेत्यादि एते कीटविशेषा देशान्तरे लोकतो ज्ञेयाः| वृश्चिकेत्यादि| आरशब्देनात्र वृश्चिकलाङ्गूलादिस्थितः कण्टको भण्यते, तस्य च स्थूलशूकरूपत्वाच्छूकग्रहणेनैव ग्रहणं, अत एव दृष्टिनिःश्वासेत्यादिसूत्रे पृथङ्नोदाहृतमारग्रहणम् | गयदासश्चात्र `आलालविषा’ इति पठति, व्याख्यानयति च- आलालं लाला| चित्रशिर इत्यादि| वरकीमत्स्ययोः स्थाने केचिदेकमेव वरटी(की)मत्स्यं पठन्ति| गतासवो गतप्राणाः||५||
Adhikarana 4 (6) · Śloka 6
भवन्ति चात्र- राज्ञोऽरिदेशे रिपवस्तृणाम्बुमार्गान्नधूमश्वसनान् विषेण | सन्दूषयन्त्येभिरतिप्रदुष्टान् विज्ञाय लिङ्गैरभिशोधयेत्तान् ||६||
🔊 Audio coming soon
राज्ञ इत्यादि| अरिदेशे प्रविष्टस्य राज्ञोऽपि रिपवः शत्रवः तृणादीन् सन्दूषयन्ति| अन्नम् अन्नरक्षायामुक्तमपि देशादिप्रसङ्गेणात्र पुनरुक्तम्| श्वसनो वायुः| एभिर्लिङ्गैः वक्ष्यमाणैरित्यर्थः||६||
Adhikarana 5 (7-8) · Śloka 8
दुष्टं जलं पिच्छिलमुग्रगन्धि फेनान्वितं राजिभिरावृतं च | मण्डूकमत्स्यं म्रियते विहङ्गा मत्ताश्च सानूपचरा भ्रमन्ति ||७|| मज्जन्ति ये चात्र नराश्वनागास्ते छर्दिमोहज्वरदाहशोफान् | ऋ(ग)च्छन्ति तेषामपहृत्य दोषान् दुष्टं जलं शोधयितुं यतेत ||८||
🔊 Audio coming soon
दुष्टमित्यादि| राजिभिः कृष्णाभिः| विहङ्गा इत्यादि सानूपचरा अनूपचरसहिता विहङ्गाः पक्षिणो विषवेगेन मत्ताः सन्तो भ्रमन्ति| ऋच्छन्ति प्राप्नुवन्ति| यतेत यत्नं कुर्वीत||७-८||
Adhikarana 6 (9) · Śloka 10
धवाश्वकर्णासनपारिभद्रान् सपाटलान् सिद्धकमोक्षकौ च | दग्ध्वा सराजद्रुमसोमवल्कांस्तद्भस्म शीतं वितरेत् सरःसु ||९|| भस्माञ्जलिं चापि घटे निधाय विशोधयेदीप्सितमेवमम्भः |१०|
🔊 Audio coming soon
तदेव दुष्टवारिप्रशोधनौषधं दर्शयन्नाह- धवाश्वेत्यादि| अश्वकर्णः पूर्वदेशे प्रसिद्धो गन्धमुण्डः अश्वत्थसदृशः, असनो बीजकः, पारिभद्रः फलभद्रो रक्तकुसुमः कण्टकी रोहिणीसदृशपत्रः पूर्वदेशे प्रसिद्धः, राजद्रुमः किरमालकः, सोमवल्कः कट्वलः| वितरेत् निःक्षिपेत्| सरःस्विति बहुवचनमवहज्जलोपलक्षणं; वहज्जलानां दूषणमेव दुष्करणम्| सामान्यजनार्थं सरसां संशोधनमभिधाय विशिष्टजनार्थमुद्धृतजलस्य शोधनं दर्शयन्नाह- भस्माञ्जलिमित्यादि| अञ्जलिं चतुःपलं, तं च घटे द्रोणप्रमिते जले, निधाय निःक्षिप्य, ईप्सितं वाञ्छितं शोधयेत्| जेज्जटाचार्यस्तु घटं गर्गरीमाह||९||-
Adhikarana 7 (10-12) · Śloka 12
क्षितिप्रदेशं विषदूषितं तु शिलातलं तीर्थमथेरिणं वा ||१०|| स्पृशन्ति गात्रेण तु येन येन गोवाजिनागोष्ट्रखरा नरा वा | तच्छूनतां यात्यथ दह्यते च विशीर्यते रोमनखं तथैव ||११|| तत्राप्यनन्तां सह सर्वगन्धैः पिष्ट्वा सुराभिर्विनियोज्य मार्गम् | सिञ्चेत् पयोभिः सुमृदन्वतैस्तं विडङ्गपाठाकटभीजलैर्वा ||१२||
🔊 Audio coming soon
क्षितिप्रदेशमित्यादि| तीर्थं नद्यादिघट्टम्| ईरिणम् ऊषरम्| अनन्तां सर्वगन्धैः सह संयोज्य सुराभिः पिष्ट्वा मार्गं सिञ्चेदिति सम्बन्धः| सुराभिरिति बहुवचनान्मधुगुडपिष्टकृताभिः| अनन्ता उत्पलसारिवा| सर्वगन्धैः एलादिपरिपठितैः| पयोभिः क्षीरैः| मृदन्वितैस्तं मार्गं सिञ्चेत्, विडङ्गादिजलैर्वा मार्गं सिञ्चेत्| मृदिह कृष्णा प्राधान्यकल्पनया| अन्ये त्वेवं पठन्ति- “तत्राप्यनन्तां सह सर्वगन्धैर्वचां तु पिष्ट्वा सुरयाऽनुमार्गम्| सिञ्चेत्तथा मृत्सहिताभिरद्भिर्मार्गोऽस्ति नान्यो यदि तेन गच्छेत्” इति| `पयोभिस्तु मृदन्वितैः’ इत्यत्र `वल्मीकमृदन्विताभिः’ इति केचित् पठन्ति, विषघ्नत्वाद्वल्मीकस्य||१०-१२||
Adhikarana 8 (13-15) · Śloka 15
तृणेषु भक्तेषु च दूषितेषु सीदन्ति मूर्च्छन्ति वमन्ति चान्ये | विड्भेदमृच्छन्त्यथवा म्रियन्ते तेषां चिकित्सां प्रणयेद्यथोक्ताम् ||१३|| विषापहैर्वाऽप्यगदैर्विलिप्य वाद्यानि चित्राण्यपि वादयेत | तारः सुतारः ससुरेन्द्रगोपः सर्वैश्च तुल्यः कुरुविन्दभागः ||१४|| पित्तेन युक्तः कपिलान्वयेन वाद्यप्रलेपो विहितः प्रशस्तः | वाद्यस्य शब्देन हि यान्ति नाशं विषाणि घोराण्यपि यानि सन्ति ||१५||
🔊 Audio coming soon
तृणेष्वित्यादि| सीदन्ति अङ्गग्लानियुक्ता भवन्ति| प्रणयेदित्यादि| अङ्गसादादिषु यथोक्तां चिकित्सां विषापहैर्द्रव्यैर्युक्तां वितरेत्| अगदैर्वा दुन्दुभिस्वनीयोक्तैः, वाद्यानि भेरीपटहादीनि विलिप्य वादयेत्| अपरमपि वाद्यलेपमाह- तार इत्यादि| तारो रूप्यं, सुतारः पारदः; सुरेन्द्रं सुवर्णं, कुटजमन्ये; गोपा सारिवा; कुरुविन्दो मुस्ता, निशानपाषाण इत्यन्ये, उत्तमलोहितरत्नं कुरुविन्द इत्येके||१३-१५||
Adhikarana 9 (16-17) · Śloka 17
धूमेऽनिले वा विषसम्प्रयुक्ते खगाः श्रमार्ताः प्रपतन्ति भूमौ | कासप्रतिश्यायशिरोरुजश्च भवन्ति तीव्रा नयनामयाश्च ||१६|| लाक्षाहरिद्रातिविषाभयाब्दहरेणुकैलादलवक्रकुष्ठम् | प्रियङ्गुकां चाप्यनले निधाय धूमानिलौ चापि विशोधयेत ||१७||
🔊 Audio coming soon
लाक्षेत्यादि| लाक्षादिद्रव्यं वह्नौ निधाय धूमं विशोधयेत, चूर्णमनिले विकीर्य पुनरनिलमिति| प्रियङ्गुकामित्यत्र `मधूलिकां’ केचित् पठन्ति, गुडूचिकामिति च विवृण्वन्ति||१६-१७||
Adhikarana 10 (18-22) · Śloka 22
प्रजामिमामात्मयोनेर्ब्रह्मणः सृजतः किल | अकरोदसुरो विघ्नं कैटभो नाम दर्पितः ||१८|| तस्य क्रुद्धस्य वै वक्त्राद्ब्रह्मणस्तेजसो निधेः | क्रोधो विग्रहवान् भूत्वा निपपातातिदारुणः ||१९|| स तं ददाह गर्जन्तमन्तकाभं महाबलम् | ततोऽसुरं घातयित्वा तत्तेजोऽवर्धताद्भुतम् ||२०|| ततो विषादो देवानामभवत्तं निरीक्ष्य वै | विषादजननत्वाच्च विषमित्यभिधीयते ||२१|| ततः सृष्ट्वा प्रजाः शेषं तदा तं क्रोधमीश्वरः | विन्यस्तवान् स भूतेषु स्थावरेषु चरेषु च ||२२||
🔊 Audio coming soon
चिकित्सोपयोगि विषस्य मूर्तिस्वरूपमाह- प्रजामित्यादि| आत्मयोनेः आत्मा परमपुरुषो योनिः कारणं यस्य स तथा तस्य; एतेनेश्वरादिकारणं निरस्य स्वयम्भूत्वमुक्तम्| किलेत्यागमसंवादे| तत इत्यादि| विग्रहवान् शरीरवान्| निःपपात निःसृतः| स तमित्यादि|- स क्रोधः पुरुषरूपः, तं कैटभं, ददाह भस्मीकृतवान्| किंविशिष्टं कैटभं? गर्जन्तमित्यादिविशेषणयुक्तम्| तत्तेजः तस्य मूर्तिमतः क्रोधस्य तेज इत्यर्थः| तत इत्यादि| वाक्कायचित्तावसादो विषादः| तत इत्यादि| विन्यस्तवान् विनिःक्षिप्तवान्||१८-२२||
Adhikarana 11 (23-24) · Śloka 24
यथाऽव्यक्तरसं तोयमन्तरीक्षान्महीगतम् | तेषु तेषु प्रदेशेषु रसं तं तं नियच्छति ||२३|| एवमेव विषं यद्यद्द्रव्यं व्याप्यावतिष्ठते | स्वभावादेव तं तस्य रसं समनुवर्तते ||२४||
🔊 Audio coming soon
विषस्य नानावीर्यहेतुभूतमुद्दिशन्नाह- यथाऽव्यक्तरसमित्यादि| यथा जलमेकरसमप्यन्तरीक्षात् पतितं भूमिगतं तेषु तेषु प्रदेशेष्वाकाशगुणभूयिष्ठादिषु रसं तं तं नियच्छति निश्चयेन ददाति, एवमेव विषं यद्यद्द्रव्यं व्याप्यावतिष्ठते स्वभावादेव तस्य तस्य रसं समनुवर्तते||२३-२४||
Adhikarana 12 (25-27) · Śloka 27
विषे यस्माद्गुणाः सर्वे तीक्ष्णाः प्रायेण सन्ति हि | विषं सर्वमतो ज्ञेयं सर्वदोषप्रकोपणम् ||२५|| ते तु वृत्तिं प्रकुपिता जहति स्वां विषार्दिताः | नोपयाति विषं पाकमतः प्राणान् रुणद्धि च ||२६|| श्लेष्मणाऽऽवृतमार्गत्वादुच्छ्वासोऽस्य निरुध्यते | विसञ्ज्ञः सति जीवेऽपि तस्मात्तिष्ठति मानवः ||२७||
🔊 Audio coming soon
विषे यस्मादित्यादि| यस्माद्विषे ये गुणाः सन्ति ते सर्वे स्वभावतः सर्वदेहधातुविरोधेन तीक्ष्णा आशुकारिणः, प्रायेण तेजोरूपक्रोधात्मकत्वाद्विषस्य; अतः सर्वमेव विषं सर्वदोषप्रकोपणम्| ते तु वृत्तिमित्यादि| ते प्रकुपिता वातादयो विषार्दिता विषपीडिताः सन्तः, स्वां वृत्तिं वातः प्रस्पन्दनादिकां, रागपक्त्यादिकां पित्तं, सन्धिसंश्लेषादिकां कफः, त्यजन्ति; तेन च पित्तस्य पक्त्यभावाद्विषं पाकं न याति, अतोऽपक्वं विषं प्राणान् रुणद्धि, विषविलीनेन श्लेष्मणा निरुद्धोच्छ्वासत्वाज्जीवेऽपि प्राणेऽपि सति विसञ्ज्ञो विगतसम्यग्ज्ञानो मानवस्तिष्ठति||२५-२७||
Adhikarana 13 (28-29) · Śloka 29
शुक्रवत् सर्वसर्पाणां विषं सर्वशरीरगम् | क्रुद्धानामेति चाङ्गेभ्यः शुक्रं निर्मन्थनादिव ||२८|| तेषां बडिशवद्दंष्ट्रास्तासु सज्जति चागतम् | अनुद्वृत्ता विषं तस्मान्न मुञ्चन्ति च भोगिनः ||२९||
🔊 Audio coming soon
शुक्रवदित्यादि| सर्वसर्पाणां विषं सर्वशरीरगम्| क्रुद्धानामित्यादि क्रुद्धानां सर्पाणामङ्गेभ्योऽवयवेभ्यो विषमागच्छति; किमिव? शुक्रं निर्मन्थनादिव, निर्मन्थनं विशिष्टस्त्रीवराङ्गविलोडनहेतुरेव हर्ष उच्यते| तेषामित्यादि| बडिशं मत्स्यबन्धनयन्त्रम्| सज्जति सङ्गं याति, सम्बद्धं भवतीत्यर्थः| अनुद्वृत्ता अननुयोजिता, अनुच्छलिता इति यावत्; कर्षणकृतपरावृत्त्या हि दंष्ट्राणामधोमुखतेति| भोगिनः सर्पाः||२८-२९||
Adhikarana 14 (30-31) · Śloka 32
यस्मादत्यर्थमुष्णं च तीक्ष्णं च पठितं विषम् | अतः सर्वविषेषूक्तः परिषेकस्तु शीतलः ||३०|| मन्दं कीटेषु नात्युष्णं बहुवातकफं विषम् | अतः कीटविषे चापि स्वेदो न प्रतिषिध्यते ||३१|| कीटैर्दष्टानुग्रविषैः सर्पवत् समुपाचरेत् |३२|
🔊 Audio coming soon
यस्मादित्यादि| कीटेषु विषं मन्दं नात्युष्णं बहुवातकफं भवति; अपिशब्दात् कीटेष्वपि केषुचिदुग्रविषेषु न स्वेदः, अपि तु शीतलमेव चिकित्सितम्| तथा च वक्ष्यति,- `कीटैर्दष्टानुग्रविषैः सर्पवत्समुपाचरेत्’- इति||३०-३१||-
Adhikarana 15 (32-34) · Śloka 35
स्वभावादेव तिष्ठेत्तु प्रहारादंशयोर्विषम् ||३२|| व्याप्य सावयवं देहं दिग्धविद्धाहिदष्टयोः | लौल्याद्विषान्वितं मांसं यः खादेन्मृतमात्रयोः ||३३|| यथाविषं स रोगेण क्लिश्यते म्रियतेऽपि वा | अतश्चाप्यनयोर्मांसमभक्ष्यं मृतमात्रयोः ||३४|| मुहूर्तात्तदुपादेयं प्रहारादंशवर्जितम् |३५|
🔊 Audio coming soon
इदानीं दिग्धविद्धाहिदष्टयोः प्रहारदंशदेशमांसमभक्ष्यं मुहूर्ताच्च तदुपादेयमुद्दिशन्नाह- स्वभावादित्यादि| दिग्धविद्धाहिदष्टयोः `प्राणिनोः’ इति शेषः| अत्र दिग्धविद्धो विषलिप्तकाण्डादिहतः, अहिदष्टः सर्पदष्टः| यथाविषं विषानुसारेणेत्यर्थः||३२-३४||-
Adhikarana 16 (35-37) · Śloka 37
सवातं गृहधूमाभं पुरीषं योऽतिसार्यते ||३५|| आध्मातोऽत्यर्थमुष्णास्रो विवर्णः सादपीडितः | उद्वमत्यथ फेनं च विषपीतं तमादिशेत् ||३६|| न चास्य हृदयं वह्निर्विषजुष्टं दहत्यपि | तद्धि स्थानं चेतनायाः स्वभावाद्व्याप्य तिष्ठति ||३७||
🔊 Audio coming soon
इदानीं विषपीतस्य प्राणैः परित्यज्यमानस्य मृतस्य च लक्षणमाह- सवातमित्यादि| अस्रं नयनजलम्| विवर्णः अत्यर्थं कृष्णश्यामपीतवर्णः| सादः अङ्गग्लानिः| विवर्ण इति मृतस्य लक्षणं, शेषं सर्वं म्रियमाणस्य लक्षणम्| अस्य विषपानमृतस्य विषजुष्टं हृदयं वह्निरपि न दहति; कुतो हृदयमेव विषजुष्टं? हि यस्मात्तद्विषं चेतनास्थानं हृदयं स्वभावाद्व्याप्य तिष्ठति; अत एव च विषपानमृतस्य हृदयमदाह्यं विषव्याप्तत्वात्||३५-३७||
Adhikarana 17 (38) · Śloka 38
अश्वत्थदेवायतनश्मशानवल्मीकसन्ध्यासु चतुष्पथेषु | याम्ये सपित्र्ये परिवर्जनीया ऋक्षे नरा मर्मसु ये च दष्टाः ||३८||
🔊 Audio coming soon
इदानीं वर्ज्यप्रहारादंशहृदयप्रसङ्गेन विशिष्टदेशादिद्वारेण वर्जनीयान् दष्टानाह- अश्वत्थेत्यादि| याम्ये भरण्यां, पित्र्ये मघायां, ऋक्षे नक्षत्रे||३८||
Adhikarana 18 (39) · Śloka 40
दर्वीकराणां विषमाशुघाति सर्वाणि चोष्णे द्विगुणीभवन्ति | अजीर्णपित्तातपपीडितेषु बालप्रमेहिष्वथ गर्भिणीषु ||३९|| वृद्धातुरक्षीणबुभुक्षितेषु रूक्षेषु भीरुष्वथ दुर्दिनेषु |४०|
🔊 Audio coming soon
दर्वीकराणामित्यादि| दर्वीकराणां फणिनां, सर्वाणि अशेषविषाणि, उष्णे उष्णकाले, द्विगुणीभवन्ति द्विगुणशक्तीनि भवन्ति; `सर्वाणि चोर्ध्वं द्विगुणीभवन्ति’ इति केचित् पठन्ति, ऊर्ध्वम् ऊर्ध्वदेशे इत्यर्थः| अजीर्णपित्तादिष्वपि द्विगुणत्वमाह- अजीर्णेत्यादि||३९||-
Adhikarana 19 (40-44) · Śloka 44
शस्त्रक्षते यस्य न रक्तमेति राज्यो लताभिश्च न सम्भवन्ति ||४०|| शीताभिरद्भिश्च न रोमहर्षो विषाभिभूतं परिवर्जयेत्तम् | जिह्वा सिता यस्य च केशशातो नासावभङ्गश्च सकण्ठभङ्गः ||४१|| कृष्णः सरक्तः श्वयथुश्च दंशे हन्वोः स्थिरत्वं च स वर्जनीयः | वर्तिर्घना यस्य निरेति वक्त्राद्रक्तं स्रवेदूर्ध्वमधश्च यस्य ||४२|| दंष्ट्रानिपाताः सकलाश्च यस्य तं चापि वैद्यः परिवर्जयेत्तु | उन्मत्तमत्यर्थमुपद्रुतं वा हीनस्वरं वाऽप्यथवा विवर्णम् ||४३|| सारिष्टमत्यर्थमवेगिनं च जह्यान्नरं तत्र न कर्म कुर्यात् ||४४||
🔊 Audio coming soon
शस्त्रेत्यादि| लताभिरभिहतेऽङ्गे राज्यो रेखा नोच्छलन्ति| जिह्वेत्यादि| सिता श्वेता, असिता कृष्णा वा भवतीत्यर्थः| केशशातः केशच्यवनम्| नासावभङ्गो नासास्रोतोवैगुण्यं, तच्चानुनासिकवाक्यत्वेन ज्ञेयम्| कण्ठभङ्गः स्वरसादः| दंशो भक्षितस्थानम्| हन्वोः मुखसन्ध्योः| स्थिरत्वम् अचलनम्| वर्तिरित्यादि वर्तिः कफवर्तिः| उन्मत्तेत्यादि| उन्मत्तं वातुलम्| अत्यर्थमुपद्रुतम् उपद्रवबहुलम्| सारिष्टं मरणलक्षणसहितम्| अवेगिनं लहरीवर्जितम्| जह्यात् त्यजेत्||४०-४४||
Adhikarana puShpikA · Śloka 3
इति सुश्रुतसंहितायां कल्पस्थाने जङ्गमविषविज्ञानीयो नाम तृतीयोऽध्यायः ||३||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां कल्पस्थाने तृतीयोऽध्यायः||३||