Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

2. sthāvaraviṣavijñānīyakalpaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातः स्थावरविषविज्ञानीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

अन्ने पाने च प्रायेण स्थावरविषावचारणात्तद्विज्ञानीयारम्भो युज्यत इत्याह- अथात इत्यादि||१-२||

Adhikarana 2 (3) · Śloka 3

स्थावरं जङ्गमं चैव द्विविधं विषमुच्यते | दशाधिष्ठानमाद्यं तु द्वितीयं षोडशाश्रयम् ||३||

🔊 Audio coming soon

तत्र विषस्य चिकित्साविशेषार्थं स्वरूपभेदेनाश्रयभेदेन च द्वैविध्यं प्रतिपादयति- स्थावरमित्यादि| आद्यं प्रथमम्; ‘अदनीयम् आद्यं’ इत्यन्ये, तन्नेच्छति गयी||३||

Adhikarana 3 (4) · Śloka 4

मूलं पत्रं फलं पुष्पं त्वक् क्षीरं सार एव च | निर्यासो धातवश्चैव कन्दश्च दशमः स्मृतः ||४||

🔊 Audio coming soon

तान्येव स्थावरस्य दशाधिष्ठानानि निर्दिशन्नाह- मूलमित्यादि||४||

Adhikarana 4 (5) · Śloka 5

तत्र, क्लीतकाश्वमारगुञ्जासुगन्धगर्गरककरघाटविद्युच्छिखाविजयानीत्यष्टौ मूलविषाणि; विषपत्रिकालम्बावरदारुकरम्भमहाकरम्भाणि पञ्च पत्रविषाणि; कुमुद्वतीवेणुकाकरम्भमहाकरम्भकर्कोटकरेणुकखद्योतकचर्मरीभगन्धासर्पघातिनन्दनसारपाकानीति द्वादश फलविषाणि; वेत्रकादम्बवल्लीजकरम्भमहाकरम्भाणि पञ्च पुष्पविषाणि; अन्त्रपाचककर्तरीयसौरीयककरघाटकरम्भनन्दननाराचकानि सप्त त्वक्सारनिर्यासविषाणि; कुमुदघ्नीस्नुहीजालक्षीरीणि त्रीणि क्षीरविषाणि; फेनाश्म(भस्म) हरितालं च द्वे धातुविषे; कालकूटवत्सनाभसर्षपपालककर्दमकवैराटकमुस्तकशृङ्गीविषप्रपुण्डरीकमूलकहालाहलमहाविषकर्कटकानीति त्रयोदश कन्दविषाणि; इत्येवं पञ्चपञ्चाशत् स्थावरविषाणि भवन्ति ||५||

🔊 Audio coming soon

गयी तु गर्गरकस्थाने `अनन्ता’ इति पठति| विषपत्रिकेत्यादि| गयी तु नाराचस्थाने वल्लीजं पठति| कुमुद्वतीत्यादि| गयी तु पालकस्थाने बलाहमिति पठति| मूलादिविषाणां यत्नपरैरपि ज्ञातुमशक्यत्वात्तानि हिमवत्प्रदेशे किरातशबरादिभ्यो ज्ञेयानि||५||

Adhikarana 5 (6) · Śloka 6

चत्वारि वत्सनाभानि मुस्तके द्वे प्रकीर्तिते | षट् चैव सर्षपाण्याहुः शेषाण्येकैकमेव तु ||६||

🔊 Audio coming soon

तेषां कन्दविषाणामवान्तरभेदान् दर्शयन्नाह- चत्वारीत्यादि||६||

Adhikarana 6 (7-10) · Śloka 11

उद्वेष्टनं मूलविषैः प्रलापो मोह एव च | जृम्भाङ्गोद्वेष्टनश्वासा ज्ञेयाः पत्रविषेण तु ||७|| मुष्कशोफः फलविषैर्दाहोऽन्नद्वेष एव च | भवेत् पुष्पविषैश्छर्दिराध्मानं मोह एव च ||८|| त्वक्सारनिर्यासविषैरुपयुक्तैर्भवन्ति हि | आस्यदौर्गन्ध्यपारुष्यशिरोरुक्कफसंस्रवाः ||९|| फेनागमः क्षीरविषैर्विड्भेदो गुरुजिह्वता | हृत्पीडनं धातुविषैर्मूर्च्छा दाहश्च तालुनि ||१०|| प्रायेण कालघातीनि विषाण्येतानि निर्दिशेत् |११|

🔊 Audio coming soon

तत्र नवानां मूलाद्यधिष्ठानानां समासेन चिकित्सार्थं सामान्यं लक्षणं निर्दिशन्नाह- उद्वेष्टनमित्यादि| उद्वेष्टनम् अङ्गमोटनम्| जृम्भाङ्गोद्वेष्टनेत्यादि| उद्वेष्टनं पूर्वं व्याख्यातम्| मुष्कशोफ इत्यादि| एषां नवानां सामान्यं धर्ममुद्दिशन्नाह- प्रायेणेत्यादि| उपयोगदिवसादन्यो दिवसपक्षमासादिः कालः, तेषु घ्नन्तीत्येवंशीलानि कालघातीनि||७-१०||-

Adhikarana 7 (11-17) · Śloka 18

कन्दजानि तु तीक्ष्णानि तेषां वक्ष्यामि विस्तरम् ||११|| स्पर्शाज्ञानं कालकूटे वेपथुः स्तम्भ एव च | ग्रीवास्तम्भो वत्सनाभे पीतविण्मूत्रनेत्रता ||१२|| सर्षपे वातवैगुण्यमानाहो ग्रन्थिजन्म च | ग्रीवादौर्बल्यवाक्सङ्गौ पालकेऽनुमताविह ||१३|| प्रसेकः कर्दमाख्येन विड्भेदो नेत्रपीतता | वैराटकेनाङ्गदुःखं शिरोरोगश्च जायते ||१४|| गात्रस्तम्भो वेपथुश्च जायते मुस्तकेन तु | शृङ्गीविषेणाङ्गसाददाहोदरविवृद्धयः ||१५|| पुण्डरीकेण रक्तत्वमक्ष्णोर्वृद्धिस्तथोदरे | वैवर्ण्यं मूलकैश्छर्दिर्हिक्काशोफप्रमूढताः ||१६|| चिरेणोच्छ्वसिति श्यावो नरो हालाहलेन वै | महाविषेण हृदये ग्रन्थिशूलोद्गमौ भृशम् ||१७|| कर्कटेनोत्पतत्यूर्ध्वं हसन् दन्तान् दशत्यपि |१८|

🔊 Audio coming soon

कन्दजानीत्यादि| तीक्ष्णानि तीक्ष्णविषाणि, अतः सद्यःप्राणहराणि| विस्तरमिति प्रत्येकं लक्षणं कथयामीति तात्पर्यार्थः| स्पर्शाज्ञानमित्यादि| अङ्गसादः अङ्गग्लानिः| पुण्डरीकेणेत्यादि| प्रमूढता प्रकर्षेणाचैतन्यम्| चिरेणोच्छ्वसितीत्यादि| हासं कुर्वन् पुरुषो दन्तान् खादति||११-१७||-

Adhikarana 8 (18) · Śloka 19

कन्दजान्युग्रवीर्याणि प्रत्युक्तानि त्रयोदश ||१८|| सर्वाणि कुशलैर्ज्ञेयान्येतानि दशभिर्गुणैः |१९|

🔊 Audio coming soon

मूलादिविषेभ्यः कन्दजानां धर्मान्तरेण विशेषं निर्दिशन्नाह- कन्दजानीत्यादि| उग्रवीर्याणि उत्कटशक्तीनि; गयी तु अग्रवीर्याणीति पठति, व्याख्यानयति च- अग्राणि उरूणि वीर्याणि गुणविशेषा येषां तानि तथाविधानि| प्रत्युक्तानि प्रत्येकमुक्तानि||१८||-

Adhikarana 9 (19-23) · Śloka 23

रूक्षमुष्णं तथा तीक्ष्णं सूक्ष्ममाशुव्यवायि च ||१९|| विकाशि विशदं चैव लघ्वपाकि च तत् स्मृतम् | तद्रौक्ष्यात् कोपयेद्वायुमौष्ण्यात् पित्तं सशोणितम् ||२०|| मतिं च मोहयेत्तैक्ष्ण्यान्मर्मबन्धान् छिनत्ति च | शरीरावयवान् सौक्ष्म्यात् प्रविशेद्विकरोति च ||२१|| आशुत्वादाशु तद्धन्ति व्यवायात् प्रकृतिं भजेत् | क्षपयेच्च विकाशित्वाद्दोषान्धातून्मलानपि ||२२|| वैशद्यादतिरिच्येत दुश्चिकित्स्यं च लाघवात् | दुर्हरं चाविपाकित्वात्तस्मात् क्लेशयते चिरम् ||२३||

🔊 Audio coming soon

तान्येव दशगुणानि निर्दिशन्नाह- रूक्षमित्यादि| तीक्ष्णं राजिकामरिचादिवत्| सूक्ष्मं सूक्ष्ममार्गानुप्रवेशि| आशु शीघ्रं प्रहणनकारि| व्यवायी सकलं देहं व्याप्य पश्चात् पाकयायि| विकाशि प्रसर्पदपसर्पद्धातुबन्धशैथिल्यकारि| विशदम् अपिच्छिलम्| लघु लघुगुणयुक्तम्| अपाकीति आहारवदुदरानलेन पक्तुमशक्यम्| तेष्वपि दशसु गुणेषु मध्ये कुतो गुणात् किं करोतीत्याह- तद्रौक्ष्यादित्यादि| विकरोति शरीरावयवान् विकाराकारं नयतीत्यर्थः| व्यवायात् प्रकृतिं भजेदिति व्यवायात् अखिलदेहव्याप्तिलक्षणात्, प्रकृतिं स्वभावम् अखिलदेहव्याप्तिरूपं भजेत्| विकाशित्वादिति हिंसनशीलत्वात्; क्षपयेद् विनाशयेत्| कसधातुर्गत्यर्थोऽपि विपूर्वो हिंसार्थः| वैशद्यादतिरिच्येत न सज्जेत क्वचिदपि सक्तं न भवेदित्यर्थः| `असक्तगति वैशद्यात्’ इति केचित् पठन्ति, तत्रापि स एवार्थः| दुश्चिकित्स्यं च लाघवादिति इदं हि लघुत्वादुत्प्लुत्य मनो धावति अस्थिरं च भवति, तस्मात् संशमनभेषजाप्राप्त्या दुश्चिकित्स्यं भवति| संशमनेनासाध्यतां विषस्य निर्दिश्य संशोधनेनाप्याह- दुर्हरं चेति|- चकारो भिन्नक्रमे, न परं लाघवात् दुर्हरमपाकित्वाच्च; तस्मादेवापाकित्वाच्चिरं क्लेशयति परं यद्विषं द्वित्रिगुणमदशगुणं वा; पूर्वदशगुणं सद्यो व्यापादकमेव||१९-२३||

Adhikarana 10 (24) · Śloka 25

स्थावरं जङ्गमं यच्च कृत्रिमं चापि यद्विषम् | सद्यो व्यापादयेत्तत्तु ज्ञेयं दशगुणान्वितम् ||२४|| यत् स्थावरं जङ्गमकृत्रिमं वा देहादशेषं यदनिर्गतं तत् |२५|

🔊 Audio coming soon

कन्दजमेव दशगुणान्वितं न भवति किन्त्वन्यदपीति दर्शयन्नाह- स्थावरमित्यादि| स्थावरं जङ्गमं कृत्रिमं वा देहादशेषं यदनिर्हृतं सद्यो व्यापादयेत् तद्दशगुणान्वितं ज्ञेयम्| यद्यपि कन्दजानि परित्यज्यान्येषां गुणसामस्त्याभावेन कालघातित्वमुक्तं, तथाऽप्यमीषां मध्ये येषां दशगुणत्वं तान्याशुघातीनि भवन्ति||२४||-

Adhikarana 11 (25-26) · Śloka 26

जीर्णं विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा ||२५|| स्वभावतो वा गुणविप्रहीनं विषं हि दूषीविषतामुपैति | वीर्याल्पभावान्न निपातयेत्तत् कफावृतं वर्षगणानुबन्धि ||२६||

🔊 Audio coming soon

स्थावरमपि दशगुणमेतैः कारणैर्हतवीर्यं सत् सञ्ज्ञान्तरं लभते इत्याह- जीर्णमित्यादि| जीर्णादिभिर्हेतुभिर्गुणविप्रहीनं गुणैर्द्वित्र्यादिभिर्हीनं दशगुणमेवं वा मन्दशक्तिकं दूषीविषतां प्राप्नोति| तामेव गुणहीनतां कार्येण दर्शयन्नाह- वीर्याल्पेत्यादि| न निपातयेत् न मारयेत् सद्यश्चिरेण वा; मन्दीभूतोष्णादिगुणविशेषेण विलीनश्लेष्मणाऽऽवृतत्वान्न मारयेदित्यर्थः| वर्षगणानुबन्धि चिरकालानुबन्धीत्यर्थः||२५-२६||

Adhikarana 12 (27-28) · Śloka 30

तेनार्दितो भिन्नपुरीषवर्णो विगन्धवैरस्यमुखः पिपासी | मूर्च्छन् वमन् गद्गदवाग्विषण्णो भवेच्च दुष्योदरलिङ्गजुष्टः ||२७|| आमाशयस्थे कफवातरोगी पक्वाशयस्थेऽनिलपित्तरोगी | भवेन्नरो ध्वस्तशिरोरुहाङ्गो विलूनपक्षस्तु यथा विहङ्गः ||२८|| स्थितं रसादिष्वथवा यथोक्तान् करोति धातुप्रभवान् विकारान् | कोपं च शीतानिलदुर्दिनेषु यात्याशु,... |३०|

🔊 Audio coming soon

तेन गरेण ये दोषा भवन्ति तान् दर्शयन्नाह- तेनार्दित इत्यादि| केचित् `वमन्’ इत्यत्र `भ्रमन्’ इति पठन्ति| गद्गदवाक्यः अस्पष्टवचनः| एतत् सर्वस्थानगतस्य सामान्यं लक्षणम्| स्थानविशेषेण विशिष्टं निर्दिशन्नाह- आमाशयस्थ इत्यादि| व्यस्तशिरोरुहाङ्गो व्यस्तकेशशरीरः| `भवेत् समुद्ध्वस्तशिरोरुहाङ्ग’ इति केचित्; तत्र सम्यक् उद्ध्वस्तशिरोरुहाण्यङ्गानि यस्य स तथा| यथोक्तान् व्याधिसमुद्देशीयोक्तान्| धातुप्रभवान् विकारान् अन्नाश्रद्धारोचकादीन् करोति||२७-२८||-

Adhikarana 13 (29) · Śloka 30

...पूर्वं शृणु तत्र रूपम् ||२९|| निद्रा गुरुत्वं च विजृम्भणं च विश्लेषहर्षावथवाऽङ्गमर्दः |३०|

🔊 Audio coming soon

निद्रेत्यादि| विश्लेषः सन्धीनां प्रसारणादावप्रवृत्तिः| हर्षो रोमहर्षः| अङ्गमर्दो वेदनाविशेषः||२९||-

Adhikarana 14 (30-32) · Śloka 32

ततः करोत्यन्नमदाविपाकावरोचकं मण्डलकोठमोहान् ||३०|| धातुक्षयं पादकरास्यशोफं दकोदरं छर्दिमथातिसारम् | वैवर्ण्यमूर्च्छाविषमज्वरान् वा कुर्यात् प्रवृद्धां प्रबलां तृषां वा ||३१|| उन्मादमन्यज्जनयेत्तथाऽन्यदानाहमन्यत् क्षपयेच्च शुक्रम् | गाद्गद्यमन्यज्जनयेच्च कुष्ठं तांस्तान् विकाराश्चं बहुप्रकारान् ||३२||

🔊 Audio coming soon

तत इत्यादि| ततः पूर्वरूपात् परतः| अन्नमदाविपाकाविति अन्नेन भुक्तेन मदो हर्षक्षयोऽन्नमदः, अविपाकः पाकाभावः| तांस्तान् विकारान् पूर्वोक्तान् आमाशये कफवातजान्, पक्वाशये पित्तानिलजान्, रसादिधातुगतांश्च विकारान् जनयेत्||३०-३२||

Adhikarana 15 (33) · Śloka 33

दूषितं देशकालान्नदिवास्वप्नैरभीक्ष्णशः | यस्माद्दूषयते धातून् तस्माद्दूषीविषं स्मृतम् ||३३||

🔊 Audio coming soon

दूषीविषनिरुक्तिमुद्दिशन्नाह- दूषितमित्यादि| देश आनूपः प्रभूतानिलशीतवर्षः, कालः शीतानिलदुर्दिनादिः, अन्नं सुरातिलकुलत्थादि, अन्नस्योपलक्षणत्वाद् व्यवायव्यायामक्रोधादिभिरपीत्यर्थः| अभीक्ष्णशः पुनः पुनः||३३||

Adhikarana 16 (34-39) · Śloka 39

स्थावरस्योपयुक्तस्य वेगे तु प्रथमे नृणाम् | श्यावा जिह्वा भवेत्स्तब्धा मूर्च्छा श्वासश्च जायते ||३४|| द्वितीये वेपथुः सादो दाहः कण्ठरुजस्तथा | विषमामाशयप्राप्तं कुरुते हृदि वेदनाम् ||३५|| तालुशोषं तृतीये तु शूलं चामाशये भृशम् | दुर्वर्णे हरिते शूने जायेते चास्य लोचने ||३६|| पक्वामाशययोस्तोदो हिक्का कासोऽन्त्रकूजनम् | चतुर्थे जायते वेगे शिरसश्चातिगौरवम् ||३७|| कफप्रसेको वैवर्ण्यं पर्वभेदश्च पञ्चमे | सर्वदोषप्रकोपश्च पक्वाधाने च वेदना ||३८|| षष्ठे प्रज्ञाप्रणाशश्च भृशं चाप्यतिसार्यते | स्कन्धपृष्ठकटीभङ्गः सन्निरोधश्च सप्तमे ||३९||

🔊 Audio coming soon

स्थावरस्य प्रथमादिवेगलक्षणं दर्शयन्नाह- स्थावरस्योपयुक्तस्येत्यादि| सन्निरोधः सम्यङ्निरोधः, `उच्छ्वासस्य’ इति शेषः||३४-३९||

Adhikarana 17 (40-43) · Śloka 43

प्रथमे विषवेगे तु वान्तं शीताम्बुसेचितम् | अगदं मधुसर्पिर्भ्यां पाययेत समायुतम् ||४०|| द्वितीये पूर्ववद्वान्तं पाययेत्तु विरेचनम् | तृतीयेऽगदपानं तु हितं नस्यं तथाऽञ्जनम् ||४१|| चतुर्थे स्नेहसम्मिश्रं पाययेतागदं भिषक् | पञ्चमे क्षौद्रमधुकक्वाथयुक्तं प्रदापयेत् ||४२|| षष्ठेऽतीसारवत् सिद्धिरवपीडश्च सप्तमे | मूर्ध्नि काकपदं कृत्वा सासृग्वा पिशितं क्षिपेत् ||४३||

🔊 Audio coming soon

तेषामेव यथाक्रमं चिकित्सितमुद्दिशन्नाह- प्रथम इत्यादि| अगदं मधुसर्पिर्भ्यामित्यत्रान्यत्र चाविशेषेणागदश्रुत्या दूषीविषारिरेव प्रयोक्तव्यः| द्वितीय इत्यादि| तच्च विरेचनं घृतमधुशीतविषघ्नौषधिसम्पृक्तं; गयी तु वान्तं नरं विरेचनं पाययेत् पूर्ववत्, तेन मधुयुक्तमेवेति व्याख्यानयति| तृतीय इत्यादि| अगदोऽत्र दूषीविषारिर्मधुसर्पिर्युक्तो दातव्यः| नस्यं विषघ्नं सञ्ज्ञाप्रबोधनं च| अञ्जनमपि विषघ्नं चक्षुष्यं सञ्ज्ञाप्रबोधनं तथा अतीक्ष्णं च| चतुर्थ इत्यादि| अगदोऽत्रापि दूषीविषारिः| स्नेहोऽत्र गव्यं घृतं, विषघ्नत्वात्तस्य; स्नेहग्रहणेन पूर्वप्रस्तुतं मधु निवर्तते| पञ्चम इत्यादि| अगदमिह दूषीविषारिनामाध्याहरणीयम्| षष्ठ इत्यादि| सप्तमे वेगेऽसाध्यरूपेऽपि प्रत्याख्याय प्रतिक्रियां कुर्यात्| चकारोऽयं भिन्नक्रमे, तेन सप्तमे चेति योजनात् षष्ठेऽप्यवपीडः| वाशब्दश्चानुक्तसमुच्चये, तेनानुक्तं सशोणितचर्मदानं शाखाललाटसिराताडनादिजङ्गमविषोक्तं च समुच्चीयते||४०-४३||

Adhikarana 18 (44-46) · Śloka 46

वेगान्तरे त्वन्यतमे कृते कर्मणि शीतलाम् | यवागूं सघृतक्षौद्रामिमां दद्याद्विषापहाम् ||४४|| कोषातक्योऽग्निकः पाठासूर्यवल्ल्यमृताभयाः | शिरीषः किणिही शेलुर्गिर्याह्वा रजनीद्वयम् ||४५|| पुनर्नवे हरेणुश्च त्रिकटुः सारिवे बला | एषां यवागूर्निष्क्वाथे कृता हन्ति विषद्वयम् ||४६||

🔊 Audio coming soon

इदानीं वेगान्तरेषु कालघातिनः प्रतीकारविधिमाह- वेगान्तर इत्यादि| प्रकृताद्वेगादन्यो वेगो वेगान्तरम्| अन्यतमे एकतमे| कृते कर्मणि प्रथमादिवेगेषूक्ते इत्यर्थः| कोशातक्य इत्यादि| कोशातकी घोषकः; अग्निकः अजमोदः, `मोरट’ इत्यन्ये; सूर्यवल्ली पटोलसदृशपत्रा, यस्याः पत्ररसेनाक्तं मांसं स्विन्नमिव भवति, अन्ये सूर्यावर्तमाहुः; किणिही कटभी, शेलुः श्लेष्मातकः, गिर्याह्वा श्वेतस्यन्दः, पुनर्नवे सितपीतपुष्पे, कोशातक्यादीनां क्वाथेन षडङ्गकल्पनाकल्पितेन यवागूः कल्पनीया| `सारिवे बला’ इत्यत्र `सारिवोत्पले’ इत्यन्ये पठन्ति||४४-४६||

Adhikarana 19 (47-49) · Śloka 49

मधुकं तगरं कुष्ठं भद्रदारु हरेणवः | पुन्नागैलैलवालूनि नागपुष्पोत्पलं सिता ||४७|| विडङ्गं चन्दनं पत्रं प्रियङ्गुर्ध्यामकं तथा | हरिद्रे द्वे बृहत्यौ च सारिवे च स्थिरा सहा ||४८|| कल्कैरेषां घृतं सिद्धमजेयमिति विश्रुतम् | विषाणि हन्ति सर्वाणि शीघ्रमेवाजितं क्वचित् ||४९||

🔊 Audio coming soon

मधुकमित्यादि| पुन्नागः तुङ्गः पूर्वदेशे प्रसिद्धः; एलवालुकं स्वनामप्रसिद्धं; नागपुष्पं नागकेशरं; ध्यामकं कत्तृणं; स्थिरा शालपर्णी| मधुकादीनां कल्कं पादिकं, चतुर्गुणं जलं दत्त्वा घृतं साधयेत्, तस्याजेयमिति सञ्ज्ञा| सर्वाणि स्थावरजङ्गमकृत्रिमाणि| अजितं क्वचिन्न जितमजितं; क्वचित् कस्मिन्नपि स्थावरादावित्यर्थः||४७-४९||

Adhikarana 20 (50-52) · Śloka 52

दूषीविषार्तं सुस्विन्नमूर्ध्वं चाधश्च शोधितम् | पाययेतागदं नित्यमिमं दूषीविषापहम् ||५०|| पिप्पल्यो ध्यामकं मांसी शावरः परिपेलवम् | सुवर्चिका ससूक्ष्मैला तोयं कनकगैरिकम् ||५१|| क्षौद्रयुक्तोऽगदो ह्येष दूषीविषमपोहति | नाम्ना दूषीविषारिस्तु न चान्यत्रापि वार्यते ||५२||

🔊 Audio coming soon

धातुदूषकस्य दूषीविषस्य चिकित्सां वक्तुमाह- दूषीविषार्तमित्यादि| दूषीविषस्य विषत्वेऽपि स्वेदो न निषिध्यते; येन मन्दवीर्यतया कफावरणाद्विषवेगेनानुबन्धित्वमस्य , अतः स्वेदेन कफस्यावरकस्योपशान्तावपहार्यं विषं कोष्ठगतं शोधनेन सकलमेव ह्रियते| अन्ये `दूषीविषार्तं सुस्निग्धं’ इति पठन्ति; तेषामपि स्निग्धश्रुत्या स्वेदोऽप्याक्षिप्तः| कथञ्चिदेवानिर्हृतस्य विषावशेषस्य संशमनार्थमन्यत्रापि स्थावरजङ्गमविषदूषितधातूनां वा प्रसादनार्थं संशमनमुद्दिशन्नाह- पाययेतेत्यादि| ध्यामकं कत्तृणं; शावरो रोध्रः; परिपेलवं वन्यकः, कैवर्तमुस्तकमन्ये; तोयं बालकं; सुवर्णगैरिकं दक्षिणापथे प्रसिद्धम्| अन्यत्रापि स्थावरजङ्गमयोस्तीक्ष्णयोरपीत्यर्थः; अन्येषु वक्ष्यमाणेषु ज्वरादिष्वपीत्यन्ये||५०-५२||

Adhikarana 21 (53-54) · Śloka 54

ज्वरे दाहे च हिक्कायामानाहे शुक्रसङ्क्षये | शोफेऽतिसारे मूर्च्छायां हृद्रोगे जठरेऽपि च ||५३|| उन्मादे वेपथौ चैव ये चान्ये स्युरुपद्रवाः | यथास्वं तेषु कुर्वीत विषघ्नैरौषधैः क्रियाम् ||५४||

🔊 Audio coming soon

दूषीविषेण ये उपद्रवाः स्युस्तच्चिकित्सितमाह- ज्वर इत्यादि| ये चान्ये उपद्रवास्तज्जाः| यथास्वं यद्यस्य विहितं तदित्यर्थः| तच्च विषघ्नैरोषधैर्युक्तं कर्तव्यम्||५३-५४||

Adhikarana 22 (55) · Śloka 55

साध्यमात्मवतः सद्यो याप्यं संवत्सरोत्थितम् | दूषीविषमसाध्यं तु क्षीणस्याहितसेविनः ||५५||

🔊 Audio coming soon

इदानीं साध्ययाप्यप्रत्याख्येयत्वं दर्शयन्नाह- साध्यमित्यादि||५५||

Adhikarana puShpikA · Śloka 2

इति सुश्रुतसंहितायां कल्पस्थाने स्थावरविषविज्ञानीयो नाम द्वितीयोऽध्यायः ||२||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां कल्पस्थाने द्वितीयोऽध्यायः||२||