Adhikarana 1 (1-2) · Śloka 2
अथातोऽर्शसां निदानं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथेत्यादि| निदानं हेतुलक्षणनिर्देशः||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातोऽर्शसां निदानं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथेत्यादि| निदानं हेतुलक्षणनिर्देशः||१-२||
Adhikarana 2 (3) · Śloka 3
षडर्शांसि भवन्ति वातपित्तकफशोणितसन्निपातैः सहजानि चेति ||३||
🔊 Audio coming soon
षडर्शांसीत्यादि| ननु, वातपित्तकफशोणितसन्निपातैः सहजानि चेत्यनेनैव षट्सङ्ख्याया लब्धत्वात् कथं षडिति सङ्ख्यानिर्देशः? उच्यते- द्विदोषजनितार्शोगणनापरिहारार्थम्| यद्यपि शोणिताधिष्ठाना वातादयो रक्तार्शसामारम्भकाः, तथाऽप्युपचारात् ‘शोणितजानि’ इत्युच्यन्ते; यथा- घृताधिष्ठानेनाग्निना दग्धो ‘घृतदग्ध’ इत्युच्यते||३||
Adhikarana 3 (4) · Śloka 4
तत्रानात्मवतां यथोक्तैः प्रकोपणैर्विरुद्धाध्यशनस्त्रीप्रसङ्गोत्कटुकासनपृष्ठयानवेगविधारणादिभिर्विशेषैः प्रकुपिता दोषा एकशो द्विशः समस्ताः शोणितसहिता वा यथोक्तं प्रसृताः प्रधानधमनीरनुप्रपद्याधो गत्वा गुदमागम्य प्रदूष्य गुदवलीर्मांसप्ररोहाञ्जनयन्ति विशेषतो मन्दाग्नेः, तथा तृणकाष्ठोपललोष्ठवस्त्रादिभिः शीतोदकसंस्पर्शनाद्वा कन्दाः परिवृद्धिमासादयन्ति, तान्यर्शांसीत्याचक्षते ||४||
🔊 Audio coming soon
अर्शसां हेतून् सम्प्राप्ति च दर्शयन्नाह- तत्रेत्यादि| प्रकुपिता दोषा मांसप्ररोहाञ्जनयन्तीति सम्बन्धः| अनात्मवताम् अजितेन्द्रियाणाम्| यथोक्तैः प्रकोपणैर्बलवद्विग्रहादिक्रोधशोकादिदिवास्वप्नादिभिः| विरुद्धं बहुधा हिताहितीयोक्तम्| स्त्रीप्रसङ्ग इत्यत्र प्रशब्देनात्यन्तसक्तिः प्रतिपाद्यते| ‘गुदपार्ष्णीसमायोगः प्राहुरुत्कटुकासनम्’, ‘उकुडु’ इति लोके| अश्वादीनां पृष्ठेन गमनं पृष्ठयानम्| वेगविधारणशब्देन वातविण्मूत्रादीनां वेगधारणम्| विरुद्धाशनशब्देन गुरुशीताभिष्यन्दिविदाह्यसात्म्यप्रमिताशनादीनि गृह्यन्ते| विशेषैर्भेदैः| तेषां निदानमभिधाय सम्प्राप्तिमाह- यथोक्तमित्यादि| प्रसृता इति ‘किण्वोदकपिष्टसमवाय इवोद्रिक्तानां प्रसरो भवति’ (सू. २१) इत्यादिक्रमेण प्रसृताः| प्रधानधमनीः पुरीषवाहिनीः| अनु पश्चात्, प्रपद्य प्राप्य| गुदवलीरिति वलिस्त्वक्सङ्कोचः| मन्दाग्नेर्विशेषतोऽतिशयेन मांसप्ररोहाञ्जनयन्तीति सम्बन्धः| तथा तृणेत्यादि| परिवृद्धिमासादयन्ति प्राप्नुवन्तीत्यर्थः| आचक्षत इति ‘पूर्वाचार्या’ इत्यध्याहारः||४||
Adhikarana 4 (5-6) · Śloka 6
तत्र स्थूलान्त्रप्रतिबद्धमर्धपञ्चाङ्गुलं गुदमाहुः, तस्मिन् वलयस्तिस्रोऽध्यर्धाङ्गुलान्तरसम्भूताः प्रवाहणी विसर्जनी संवरणी चेति चतुरङ्गुलायताः ; सर्वास्तिर्यगेकाङ्गलोच्छ्रिताः ||५|| शङ्खावर्तनिभाश्चापि उपर्युपरि संस्थिताः | गजतालुनिभाश्चापि वर्णतः सम्प्रकीर्त्तिताः | रोमान्तेभ्यो यवाध्यर्धो गुदौष्ठः परिकीर्तितः ||६||
🔊 Audio coming soon
इदानीं गुदं गुदवलीश्च विवृण्वन्नाह- तत्रेत्यादि| स्थूलान्त्रं कट्यन्त्रं ‘गुदान्त्रं’ इति प्रसिद्धम्| अर्धपञ्चाङ्गुलमिति अर्धपञ्चममङ्कुलं यस्मिन् तत्तथा, एतेन सार्धचतुरङ्गुलप्रमाणं गुदमित्यर्थः| अध्यर्धाङ्गुलान्तरसम्भूता इति सार्धैकाङ्गुलान्तरसञ्जाताः| तत्रोपरितनं वलिद्वयं शङ्खावर्त्तनिभं प्रत्येकमन्तरेण सह सार्धैकाङ्गुलं, प्रथमा तु वलिरन्तरेण विनैकाङ्गुलोच्छ्राया, अर्धाङ्गुलस्तु गुदौष्ठ ईदृशं बोद्धव्यम्| अत एव ‘प्रथमा तु गुदौष्ठादङ्गुलमात्रे’ इत्यग्रे वक्ष्यति| तासां नामान्याह- प्रवाहणीत्यादि| प्रवाहयतीति प्रवाहणी, विसृजतीति विसर्जनी, संवृणोतीति संवरणी| गुदौष्ठप्रमाणमाह- रोमान्तेभ्य इत्यादि| रोमान्तेभ्यो रोमप्रान्तेभ्यो रोममालिकायाः, यवाध्यर्धः सार्धो यवः, अर्धाङ्गुलप्रमाण इत्यर्थः, अङ्गुलस्य त्रियवप्रमाणत्वात्||५-६||
Adhikarana 5 (7) · Śloka 7
प्रथमा तु गुदौष्ठादङ्गुलमात्रे ||७||
🔊 Audio coming soon
प्रथमा वलिर्गुदौष्ठात् कियद्दूरे भवतीत्याह- प्रथमेत्यादि| प्रथमा ‘वलिः’ इति शेषः||७||
Adhikarana 6 (8) · Śloka 8
तेषां तु भविष्यतां पूर्वरूपाणि- अन्नेऽश्रद्धा कृच्छ्रात् पक्तिरम्लीका परिदाहो विष्टम्भः पिपासा सक्थिसदनमाटोपः कार्श्यमुद्गारबाहुल्यमक्ष्णोः श्वयथुरन्त्रकूजनं गुदपरिकर्तनमाशङ्का पाण्डुरोगग्रहणीदोषशोषाणां कासश्वासौ बलहानिर्भ्रमस्तन्द्रा निद्रेन्द्रियदौर्बल्यं च ||८||
🔊 Audio coming soon
तेषामित्यादि| भविष्यतां भवितुकामानाम्| अम्लीका अम्लोद्गारः| सक्थिसदनम् ऊरुग्लानिः, स्फुटनमिवेत्येके| आटोप आध्मानम्| पाण्डुरोगादीनामाशङ्का विकल्पः| कासश्वासौ भ्रमस्तन्द्रा निद्रेन्द्रियदौर्बल्यं च ‘जायते’ इति शेषः||८||
Adhikarana 7 (9) · Śloka 9
जातेष्वेतान्येव लक्षणानि प्रव्यक्ततराणि भवन्ति ||९||
🔊 Audio coming soon
तेषां सामान्यरूपमाह- जातेष्वित्यादि| एतानि पूर्वोक्तानि||९||
Adhikarana 8 (10) · Śloka 10
तत्र मारुतात् परिशुष्कारुणविवर्णानि विषममध्यानि कदम्बपुष्पतुण्डिकेरीनाडीमुकुलसूचीमुखाकृतीनि च भवन्ति; तैरुपद्रुतः सशूलं संहतमुपवेश्यते कटीपृष्ठपार्श्वमेढ्रगुदनाभिप्रदेशेषु चास्य वेदना भवन्ति, गुल्माष्ठीलाप्लीहोदराणि चास्य तन्निमित्तान्येव भवन्ति, कृष्णत्वङ्नखनयनदशनवदनमूत्रपुरीषश्च पुरुषो भवति ||१०||
🔊 Audio coming soon
विशिष्टं रूपमाह- तत्रेत्यादि| परिशुष्काणि अनास्रावीणि| अरुणानि ईषद्रक्तानि| विवर्णानि विविधवर्णानि| विषममध्यानि निम्नोन्नतमध्यानि, केचिदत्र ‘विषमध्यामानि’ इति पठन्ति, व्याख्यानयन्ति च- विषमाणि निम्नोन्नतत्वेन, ध्यामानि दग्धेष्टिकादिवस्तुवर्णानि| तुण्डिकेरी वनकार्पासिका, तत्पुष्पाकृतीनि| अन्ये त्वत्र “तुण्डिकेरीनाडीमुकुलसूचीमुखसदृशानि भवन्ति” इति पठन्ति, व्याख्यानयन्ति च- तुण्डिकेरी बिम्बी, तस्या नाडी नालिका; मुकुलं पुष्पमुकुलं; सूचीसीवनद्रव्यम्; एषां मुखसदृशानि भवन्ति| उपद्रुतः अभिभूतः| संहतं घनम्| उपवेश्यते विट्सर्गं कार्यते| गुल्मादीनि चास्य तन्निमित्तानीत्युपद्रवकथनम्||१०||
Adhikarana 9 (11) · Śloka 11
पित्तान्नीलाग्राणि तनूनि विसर्पीणि पीतावभासानि यकृत्प्रकाशानि शुकजिह्वासंस्थानानि यवमध्यानि जलौकोवक्रसदृशानि प्रक्लिन्नानि च भवन्ति; तैरुपद्रुतः सदाहं सरुधिरमतिसार्यते, ज्वरदाहपिपासामूर्च्छाश्चास्योपद्रवा भवन्ति, पीतत्वङ्नखनयनदशनवदनमूत्रपुरीषश्च पुरुषो भवति ||११||
🔊 Audio coming soon
पित्तादित्यादि| विसर्पीणि प्रसरणशीलानि| संस्थानमाकारः| यवमध्यानीति पीनमध्यानि मूलाग्रयोस्तनूनि| प्रक्लिन्नानि क्लेदस्रावीणि||११||
Adhikarana 10 (12) · Śloka 12
श्लेष्मजानि श्वेतानि महामूलानि स्थिराणि वृत्तानि स्निग्धानि पाण्डूनि करीरपनसास्थिगोस्तनाकाराणि, न भिद्यन्ते न स्रवन्ति कण्डूबहुलानि च भवन्ति; तैरुपद्रुतः सश्लेष्माणमनल्पं मांसधावनप्रकाशमतिसार्यते, शोफशीतज्वरारोचकाविपाकशिरोगौरवाणि चास्य तन्निमित्तान्येव भवन्ति, शुक्लत्वङ्नखनयनदशनवदनमूत्रपुरीषश्च पुरुषो भवति ||१२||
🔊 Audio coming soon
श्लेष्मजानीत्यादि| स्थिराणि कठिनानि| पाण्डूनि धूसराणि| करीरो मरुदेशातिप्रवृद्धो वृक्षविशेषः, पनसो बहिः- कण्टकिफलः ‘कटहल’ इति लोके, तस्य फलसदृशानि| अनल्पं बहु| शीतज्वरः शीतप्रधानज्वरः||१२||
Adhikarana 11 (13) · Śloka 13
रक्तजानि न्यग्रोधप्ररोहविद्रुमकाकणन्तिकाफलसदृशानि पित्तलक्षणानि च, यदाऽवगाढपुरीषप्रपीडितानि भवन्ति तदाऽत्यर्थं दुष्टमनल्पमसृक् सहसा विसृजन्ति, तस्य चातिप्रवृत्तौ शोणितातियोगोपद्रवा भवन्ति ||१३||
🔊 Audio coming soon
रक्तजानीत्यादि| न्यग्रोधप्ररोहो वटप्ररोहः, विद्रुमः प्रवालः, काकणन्तिका गुञ्जा चिरिहिण्टिका’ इति लोके, काकादनीत्यपरे| चकारेणानुबन्धभूतवातकफरूपमनुक्तमपि समुच्चीयते| शोणितातियोगोपद्रवा आक्षेपकादयः||१३||
Adhikarana 12 (14) · Śloka 14
सन्निपातजानि सर्वदोषलक्षणयुक्तानि ||१४||
🔊 Audio coming soon
सर्वदोषलक्षणयुक्तानीति “सर्वेषां चार्शंसां यानि लक्षणानि” इति जेज्झटः; गयदासस्तु ‘सन्निपातजानि सर्वलक्षणानि’ इति पठति, व्यख्यानयति च- “सर्वेषां वातादीनां लक्षणानि स्वभावकर्मभूतानि येषु तानि तथा” इति||१४||
Adhikarana 13 (15) · Śloka 15
सहजानि दुष्टशोणितशुक्रनिमित्तानि, तेषां दोषत एव प्रसाधनं कर्त्तव्यम्, विशेषतश्चैतानि दुर्दर्शनानि परुषाणि पांसूनि दारुणान्यन्तर्मुखानि; तैरुपद्रुतः कृशोऽल्पभुक् सिरासन्ततगात्रोऽल्पप्रजः क्षीणरेताः क्षामस्वरः क्रोधनोऽल्पाग्निप्राणः परमलसश्च, तथा घ्राणशिरोऽक्षिनासाश्रवणरोगी, सततमन्त्रकूजाटोपहृदयोपलेपारोचकप्रभृतिभिः पीड्यते ||१५||
🔊 Audio coming soon
शरीरेण सह जातानामर्शसां दोषेभ्यो भिन्नं हेतुं दर्शयन्नाह- सहजानीत्यादि| दुष्टशोणितशुक्रनिमित्तानीति गर्भगुदारम्भकमात्रं बीजं दुष्टं न सर्वं, सर्वदुष्टत्वे हि प्रजोत्पत्तिरेव न स्यात्| ‘तेषां दोषत एव प्रसाधनं कर्तव्यमिति येन दोषेण यस्य शुक्रशोणितं दूषितं भवेत्तस्य दोषस्य लक्षणवर्णवेदनाकृतिभिः प्रसाधनं विज्ञानम्’ इत्येके; अन्ये तु ‘दोषत इति दोषलिङ्गं समीक्ष्य प्रसाधनं चिकित्सा’ इत्याहुः| दुर्दर्शनानि दुःखेन दृश्यन्ते, अन्तर्विद्रधिवदित्यर्थः| पांसूनि धूसराणि| दारुणानि अतिदुःखकराणि||१५||
Adhikarana 14 (16) · Śloka 16
भवति चात्र- बाह्यमध्यवलिस्थानां प्रतिकुर्याद्भिषग्वरः | अन्तर्वलिसमुत्थानां प्रत्याख्यायाचरेत् क्रियाम् ||१६||
🔊 Audio coming soon
स्थानाश्रयं साध्यादित्वं दर्शयन्नाह- भवति चात्रेत्यादि| अन्तर्वलिः अभ्यन्तरवलिः| प्रत्याख्याय असाध्यान्येतान्यर्शांसीति निराकृत्य||१६||
Adhikarana 15 (17) · Śloka 17
प्रकुपितास्तु दोषा मेढ्रमभिप्रपन्ना मांसशोणिते प्रदूष्य कण्डूं जनयन्ति, ततः कण्डूयनात् क्षतं समुपजायते, तस्मिंश्च क्षते दुष्टमांसजाः प्ररोहाः पिच्छिलरुधिरस्राविणो जायन्ते कूर्चकिनोऽभ्यन्तरमुपरिष्टाद्वा, ते तु शेफो विनाशयन्त्युपघ्नन्ति च पुंस्त्वं; योनिमभिप्रपन्नाः सुकुमारान् दुर्गन्धान् पिच्छिलरुधिरस्राविणश्छत्राकारान् करीराञ्जनयन्ति, ते तु योनिमुपघ्नन्त्यार्तवं च; नाभिमभिप्रपन्नाः सुकुमारान् दुर्गन्धान् पिच्छिलान् गण्डूपदमुखसदृशान् करीराञ्जनयन्ति; त एवोर्ध्वमागताः श्रोत्राक्षिघ्राणवदनेष्वर्शांस्युपनिर्वर्तयन्ति; तत्र कर्णजेषु बाधिर्यं शूलं पूतिकर्णता च, नेत्रजेषु वर्त्मावरोधो वेदना स्रावो दर्शननाशश्च, घ्राणजेषु प्रतिश्यायोऽतिमात्रं क्षवथुः कृच्छ्रोच्छ्वासता पूतिनस्यं सानुनासिकवाक्यत्वं शिरोदुःखं च; वक्रजेषु कण्ठौष्ठतालूनामन्यतमस्मिंस्तैर्गद्गदवाक्यता रसाज्ञानं मुखरोगाश्च भवन्ति ||१७||
🔊 Audio coming soon
मेढ्रादिष्वर्शांस्याह- प्रकुपितास्त्वित्यादि| अभिप्रपन्ना आश्रिताः| कूर्चकिनः सूक्ष्मदीर्घाङ्कुरसन्तानिनः| अभ्यन्तरमिति मणौ| उपरिष्टादिति बाह्यचर्मणि| पुंस्त्वं शुक्रं पुंश्चिह्नं च| योनिमभिप्रपन्ना इत्यादि अभिप्रपन्ना दोषा इति सम्बन्धः| करीरान् अङ्कुरान्| नाभिमभिप्रपन्ना इत्यादि दोषा इत्यत्रापि सम्बध्यते| त एव दोषा इत्यर्थः| उपनिर्वर्तयन्ति जनयन्तीत्यर्थः| तत्रेत्यादि| वर्त्मावरोध इति वर्त्म अक्षिपुटः| घ्राणजेष्वित्यादि| क्षवथुः छिक्का| वक्रजेष्वित्यादि| अन्यतमस्मिन् एकतमस्मिन् स्थाने ‘उत्पन्नेष्वर्शःसु ’ इति शेषः||१७||
Adhikarana 16 (18) · Śloka 18
व्यानस्तु प्रकुपितः श्लेष्माणं परिगृह्य बहिःस्थिराणि कीलवदर्शांसि निर्वर्तयति, तानि चर्मकीलान्यर्शांसीत्याचक्षते ||१८||
🔊 Audio coming soon
त्वगधिष्ठानमेव चर्मकीलाख्यमर्शो दर्शयन्नाह- व्यानस्त्वित्यादि| बहिः गुदौष्ठाद्बहिः; अन्ये तु ‘बहिःशब्देनान्यत्रापि’ इति कथयन्ति| कीलवत् शङ्कुतुल्यानीत्यर्थः||१८||
Adhikarana 17 (19-20) · Śloka 20
भवन्ति चात्र- तेषु कीलेषु निस्तोदो मारुतेनोपजायते | श्लेष्मणा तु सवर्णत्वं ग्रन्थित्वं च विनिर्दिशेत् ||१९|| पित्तशोणितजं रौक्ष्यं कृष्णत्वं श्लक्ष्णता तथा | समुदीर्णखरत्वं चर्मकीलस्य लक्षणम् ||२०||
🔊 Audio coming soon
तेषां चर्मकीलानां दोषलिङ्गमाह- भवन्ति चात्रेत्यादि| सवर्णत्वमिति श्लेष्मणः समानवर्णतेत्यर्थः| ग्रन्थित्वं ग्रन्थिभावः| पित्तेत्यादि| तेषु चर्मकीलेषु| रौक्ष्यमित्यादि पित्तशोणितजं विनिर्दिशेत्| समुदीर्णखरत्वम् अतीव कठिनत्वम्| चर्मकीलस्य लक्षणमिति एतद्वातादिदोषभेदतश्चर्मकीलस्य लक्षणमुक्तम्| केचिच्चर्मकीलानां दोषलिङ्गं न पठन्ति||१९-२०||
Adhikarana 18 (21) · Śloka 21
अर्शसां लक्षणं व्यासादुक्तं सामान्यतस्तु यत् | तत्सर्वं प्राग्विनिर्दिष्टात्साधयेद्भिषजां वरः ||२१||
🔊 Audio coming soon
इदानीं सर्वेषामेव मेढ्रादिजानां वातादिलक्षणमतिदेशेन निर्दिशन्नाह- अर्शसामित्यादि| अर्शसां मेढ्रादिजानां वातादिदोषलक्षणं विना यत् सङ्क्षेपतो लक्षणमुक्तं तत् सर्वं साधयेत् जानीयात् चिकित्सेद्वा| कथमित्याह- प्राग्विनिर्दिष्टादिति; “प्राक् पूर्वं व्यासेन प्रत्येकं वातादिजार्शोलक्षणमुक्तं वीक्ष्येत्यर्थः” इति गयदासाचार्यः; अन्ये तु “सङ्क्षेपतः षोढा, व्यासतो विस्तरेण, प्राग्विनिर्दिष्टात् पञ्चदशधा प्रसरात् साधयेत्” इति मन्यन्ते||२१||
Adhikarana 19 (22) · Śloka 22
अर्शःसु दृश्यते रूपं यदा दोषद्वयस्य तु | संसर्गं तं विजानीयात् संसर्गः स च षड्विधः ||२२||
🔊 Audio coming soon
इदानीं षड्विधेष्वेवार्शःस्वत ऊर्ध्वं संसर्गमौषधकल्पनार्थं दर्शयन्नाह- अर्शःस्वित्यादि| संसर्गः स च षड्विध इति वातपित्ते, वातश्लेष्माणौ, पित्तश्लेष्माणौ, वातशोणिते, पित्तशोणिते श्लेष्मशोणिते, एवं संसर्गः षड्विधः| स च सूत्रस्थानोक्तव्रणवेदनालक्षणादवगन्तव्यः ||२२||
Adhikarana 20 (23-24) · Śloka 24
त्रिदोषाण्यल्पलिङ्गानि याप्यानि तु विनिर्दिशेत् | द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च ||२३|| कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च | सन्निपातसमुत्थानि सहजानि तु वर्जयेत् ||२४||
🔊 Audio coming soon
इदानीं याप्यकृच्छ्रसाध्यासाध्यान्यर्शांसि दर्शयन्नाह- त्रिदोषाणीत्यादि| द्वन्द्वजानि द्विदोषोत्थानि, तान्यपि याप्यानीत्यर्थः| परिसंवत्सराणीति परितः संवत्सरमभिव्याप्य स्थितानि कृच्छ्रसाध्यानीत्यर्थः| केचित् ‘सन्निपातसमुत्थानि’ इत्यादौ कृत्वा पठन्ति; स च पाठः समग्रोऽदर्शनान्न लिखितः||२३-२४||
Adhikarana 21 (25-26) · Śloka 26
सर्वाः स्युर्वलयो येषां दुर्नामभिरुपद्रुताः | तैस्तु प्रतिहतो वायुरपानः सन्निवर्तते ||२५|| ततो व्यानेन सङ्गम्य ज्योतिर्मृद्नाति देहिनाम् ||२६||
🔊 Audio coming soon
सर्ववलिव्यापिनामर्शसां पञ्चात्मकस्याप्यग्नेर्महानर्थकरत्वं दर्शयन्नाह- सर्वा इत्यादि| येषां देहिनाम्| दुर्नामभिः अर्शोभिः| तैस्तु अर्शोभिरित्यर्थः| अपानो वायुरिति सम्बन्धः| सन्निवर्तते स्थितिं बध्नाति न निःसरतीत्यर्थः| सङ्गम्य मिलित्वा| ज्योतिः पञ्चात्मकमग्निं, मृद्नाति मन्दीकरोति| अयं चोपद्रवः, प्रायेण सहजेष्वर्शःसु ज्ञेयः||२५-२६||
Adhikarana puShpikA · Śloka 2
इति सुश्रुतसंहितायां निदानस्थानेऽर्शोनिदानं नाम द्वितीयोऽध्यायः ||२||
🔊 Audio coming soon
इति श्रीडल्हणाचार्यविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां निदानस्थाने द्वितीयोऽध्यायः||२||