Adhikarana 1 (1-2) · Śloka 2
अथातो वातव्याधिनिदानं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
हेतुलिङ्गौषधज्ञानबीजभूतेन सूत्रस्थानेन सङ्क्षेपोद्दिष्टस्य हेतुलिङ्गौषधस्य विवरणे सर्वाण्येव स्थानानि प्रस्तुतानि, तेषु च प्रस्तुतेषु स्वाधिकारिणां शल्यतन्त्रव्याधीनां हेतुलक्षणप्रतिपादकतया निदानस्थानस्यारम्भः, तत्रापि दोषाणां वातस्य प्रधानत्वात्तद्व्याधीनां हेतुलक्षणाभ्यां प्राक् प्रतिपादनं युज्यत इत्याह- अथात इत्यादि| वातव्याधेराक्षेपकादेर्निदानं हेतुलक्षणनिर्देशः| अथातो वातव्याधिनिदानमित्यादि यद्यपि प्रथममेव सूत्रमस्ति तथाऽपि ‘प्राब्रवीद्भिषजांवरः’ इत्यनन्तरं द्रष्टव्यम्, अनुपासिताप्रार्थितगुरोः शिष्याणां व्याख्यानेऽनधिकारात्||१-२||
Adhikarana 2 (3-4) · Śloka 4
धन्वन्तरिं धर्मभृतां वरिष्ठममृतोद्भवम् |
चरणावुपसङ्गृह्य सुश्रुतः परिपृच्छति ||३||
वायोः प्रकृतिभूतस्य व्यापन्नस्य च कोपनैः |
स्थानं कर्म च रोगांश्च वद मे वदतां वर ||४||
कः पुनरेवं प्रतिज्ञातवानिति तमेव प्रकारेण दर्शयन्नाह- धन्वन्तरिमित्यादि| धर्मभृतां धार्मिकाणां, वरिष्ठं श्रेष्ठम्| अमृतेन सह उद्भव उत्पतिर्यस्य तम्| चरणावुपसङ्गृह्येति पादपतनं कृत्वेत्यर्थः| किं परिपृच्छतीत्याह- वायोरित्यादि| प्रकृतिभूतस्य स्वभावावस्थितस्य, व्यापन्नस्य विकृतस्य| कोपनैः द्रव्यगुणकर्मभिर्वायुसमानैः| स्थानं श्रोणिगुदादि, तच्च प्रकृतिभूतस्य वायोः; विकृतस्य तु सर्वशरीरम्| कर्म सामान्यं विशिष्टं च; सामान्यम् ‘इन्द्रियार्थोपसम्प्राप्तिं’ इत्यादि, विशिष्टं ‘स प्राणो नाम देहधृक्’ इत्यादि| रोगांश्चेति हिक्काश्वासादिकान्| यदाह- “प्रायशः कुरुते दुष्टो हिक्काश्वासादिकान् गदान्” इति| चकारान्नाम च| वदतां वर व्याख्यातॄणां मध्ये श्रेष्ठ! ‘कोपनैः’ इत्यत्र ‘भूपते’ इति केचित् पठन्ति; ‘वद मे’ इत्यत्र च ‘वदस्व’ इति पठन्ति; तत्र भूपते इति धन्वन्तरिसम्बोधनं; वदस्व वदेति चैक एवार्थः| मे मम| कर्मग्रहणं केचिन्नाधीयते; तन्मते, ‘स्थानं रोगविभागं च’ इति पाठः||३-४||
Adhikarana 3 (5-8) · Śloka 9
तस्य तद्वचनं श्रुत्वा प्राब्रवीद्भिषजां वरः |
स्वयम्भूरेष भगवान् वायुरित्यभिशब्दितः ||५||
स्वातन्त्र्यान्नित्यभावाच्च सर्वगत्वात्तथैव च |
सर्वेषामेव सर्वात्मा सर्वलोकनमस्कृतः ||६||
स्थित्युत्पत्तिविनाशेषु भूतानामेष कारणम् |
अव्यक्तो व्यक्तकर्मा च रूक्षः शीतो लघुः खरः ||७||
तिर्यग्गो द्विगुणश्चैव रजोबहुल एव च |
अचिन्त्यवीर्यो दोषाणां नेता रोगसमूहराट् ||८||
आशुकारी मुहुश्चारी पक्वाधानगुदालयः |९|
तस्येत्यादि| तस्य सुश्रुतस्य| तत् पूर्वोक्तम्| भिषजां वरो धन्वन्तरिः| ‘भिषजां गुरुः’ इति केचित् पठन्ति| प्राब्रवीत् जगाद| एष वायुरिति सम्बन्धः| भगवान् समस्तैश्वर्यगुणयुक्तः, अणिमादिगुणयुक्त इत्यर्थः| अभिशब्दितः कीर्त्तितः| स्वयम्भूत्वे हेतुत्रितयमाह- स्वातन्त्र्यादित्यादि| स्वातन्त्र्यादिति स्वकर्मविषये नान्येन प्रेर्यत इत्यर्थः| नित्यभावात् नित्यस्य हि कारणरहितत्वेन स्वतन्त्रत्वं, ततश्च स्वयम्भूत्वमित्यर्थः; सर्वगत्वाच्चेति यो हि सर्वगतः स स्वयम्भूः, आकाशवत्| चकारात् सूक्ष्मत्वमपि परमाणोरिव स्वयम्भूत्वे हेतुः समुच्चीयते| कथं पुनरस्य सर्वगत्वं यावता पार्थिवद्रव्यमूर्त्तिषु वायुर्नास्तीत्याह- सर्वेषामित्यादि| सर्वेषां स्थावरजङ्गमानां, सर्वात्मा कारणकार्यात्मकत्वेन सर्वस्वरूपः, ‘सर्वप्रयोजनहेतुः’ इति केचित्| सर्वलोकनमस्कृत इति कुत इत्याह- स्थित्युत्पत्तिविनाशेष्वित्यादि| स्थितिः जीवनम्| अव्यक्तोऽदृश्यमूर्तिः| व्यक्तकर्मा प्रकटक्रियः| शीत इति असंयुक्तस्य वायोर्गुणोऽयं संयुक्तस्तूष्णोऽपि| खरः खरस्पर्शः, कर्कोटकफलवत्| तिर्यग्गः तिर्यग्गामी| द्विगुणः शब्दस्पर्शगुणः| रजोबहुल इति त्रिगुणत्वेऽप्युत्कर्षविशेषाद्रजः प्रबलत्वमस्य| अचिन्त्यवीर्योऽचिन्त्यशक्तिः, सा चास्य शक्तिः शरीरदोषमूत्रपुरीषादिविभागोऽवयवादिसंस्थानका(क)रणं दोषधातुमलसंवहनादिश्च, शरीराद्बहिस्तु सञ्चरतो धरणीधारणादिः| दोषाणां नेता दोषधातुमलानां प्रेरक इत्यर्थः, अन्ये तु वायोरपि वायुरेव नेतेति बहुवचनं समर्थयन्ति| रोगसमूहराडिति रोगसमूहे रोगहेतुवृन्दे पित्तकफरक्तादौ राजते शोभते इति रोगसमूहराट्; न तु राट्शब्दो राजपर्यायः, ‘स रोगानीकराट् स्मृत’ इत्यग्रेतनेन सह विरोधापत्तेः| आशुकारी शीघ्रमत्ययकारित्वात्| मुहुर्मुहुः प्रकृतिभूतोऽपि चरतीति मुहुश्चारी| पक्वाधानगुदालय इति पक्वाशयगुदौ स्थानमस्येत्यर्थः||५-८||-
Adhikarana 4 (9-10) · Śloka 10
देहे विचरतस्तस्य लक्षणानि निबोध मे ||९||
दोषधात्वग्निसमतां सम्प्राप्तिं विषयेषु च |
क्रियाणामानुलोम्यं च करोत्यकुपितोऽनिलः ||१०||
(इन्द्रियार्थोपसम्प्राप्तिं दोषधात्वग्न्यवैकृतम्|
क्रियाणामानुलोम्यं च कुर्याद्वायुरदूषितः ||१०||) |
निबोध मे इति निबोध जानीहि, मे मत्सकाशात्| धातुशब्दानन्तरमादिशब्दो लुप्तो द्रष्टव्यः| तेन मलोपधातूनामपि ग्रहणम्; अथवा धातुशब्देन मलोपधातव उच्यन्ते, शरीरधारणकारणात्| विषयेषु शब्दस्पर्शरूपरसगन्धेषु| क्रियाणां कायवाङ्मानसीनाम्| आनुलोम्यं प्रवर्त्तकत्वम्| गयदासाचार्यस्तु इमं श्लोकम् ‘इन्द्रियार्थोपसम्प्राप्तिं’ इत्यादि कृत्वा पठति, स च विस्तरभयान्न लिखितः||९-१०||
Adhikarana 5 (11) · Śloka 11
यथाऽग्निः पञ्चधा भिन्नो नामस्थानक्रियामयैः |
भिन्नोऽनिलस्तस्था ह्येको नामस्थानक्रियामयैः ||११||
तदेवं सर्वानिलस्य सामान्येन स्वास्थ्यहेतुत्वं प्रदर्श्य स्थानोपाधिभेदेन भिन्नस्य नामान्तरविशिष्टस्य प्रतिस्थानं विशिष्टस्वस्थक्रिया रोगांश्च दर्शयन्नाह- यथाऽग्निरित्यादि| यथाऽग्निः पित्तग एक एव पाचकरञ्जकालोचकभ्राजकसाधकेति नाम्ना, स्थानेनामपक्वाशयादिना, क्रियया अन्नपाचनादिकया, आमयेनाम्लपाकादिना पञ्चविधः; एवमनिलोऽप्येक एव नामादिभिः पञ्चविधः| अन्ये तु पुनरत्र बाह्याग्नेर्गार्हपत्याहवनीयदक्षिणाग्न्यावसथ्यसभ्यलक्षणान् पञ्च भेदानाहुः, तन्नेच्छति गयदासाचार्यः||११||
Adhikarana 6 (12) · Śloka 12
प्राणोदानौ समानश्च व्यानश्चापान एव च |
स्थानस्था मारुताः पञ्च यापयन्ति शरीरिणम् ||१२||
तत्र वायोर्नामान्याह- प्राणोदानावित्यादि| स्थानस्थाः स्थानशब्देनात्र साम्यमुच्यते| यापयन्ति धारयन्ति||१२||
Adhikarana 7 (13) · Śloka 14
यो वायुर्वक्त्रसञ्चारी स प्राणो नाम देहधृक् |
सोऽन्नं प्रवेशयत्यन्तः प्राणांश्चाप्यवलम्बते ||१३||
प्रायशः कुरुते दुष्टो हिक्काश्वासादिकान् गदान् |१४|
वक्त्रसञ्चारित्वं चास्योपलक्षणं, तेन मूर्धोरःकण्ठनासिका अपि प्राणस्य स्थानम्| अन्तः अभ्यन्तरमन्नं प्रवेशयति देहधारणाय | प्राणांश्चाप्यवलम्बत इति प्राणानग्न्यादीन्, अवलम्बते स्वक्रियासु योजयति| गयदासाचार्यस्त्वेवं मन्यते- प्राणानामग्नीषोमादीनामवलम्बनवचनेनाधारभूतहृदयावलम्बनमेवोच्यते, एतेन प्राणाधारहृदयधारणेन प्राणधारणमेवोक्तम्| अत एव प्राणानामवलम्बनेन मरणमूलत्वमुच्यते| यदुक्तं श्रुतौ- “यथा हि सैन्धवोऽश्वः शङ्कुमुत्पाट्य धावति, तद्वत् प्राणो रुद्धः सर्वान् वायूनुत्पाट्य प्रयाणकाले धावति”- इति| श्वासादिकानित्यादिशब्दात् प्रतिश्यायस्वरभेदकासादयः||१३||-
Adhikarana 8 (14-15) · Śloka 15
उदानो नाम यस्तूर्ध्वमुपैति पवनोत्तमः ||१४||
तेन भाषितगीतादिविशेषोऽभिप्रवर्तते |
ऊर्ध्वजत्रुगतान् रोगान् करोति च विशेषतः ||१५||
उदानस्य प्रकृतिभूतस्य नामादि व्यापन्नस्य च रोगान्निर्दिशन्नाह- उदान इत्यादि| उपैति गच्छति| स्थानं पुनरनुक्तमप्यस्य नाभ्युरःकण्ठादि | भाषितगीतादिरिति आदिशब्दादुच्छ्वासादि| ‘विशेषोऽभिप्रवर्तते’ इत्यत्र केचित् ‘विषयोऽभिप्रवर्तते’ इति पठन्ति| ऊर्ध्वजत्रुगतानिति नयनवदनघ्राणश्रवणशिरःसंश्रयान्| चकारादन्यानपि कासादीन् करोति||१४-१५||
Adhikarana 9 (16) · Śloka 17
आमपक्वाशयचरः समानो वह्निसङ्गतः |
सोऽन्नं पचति तज्जांश्च विशेषान्विविनक्ति हि ||१६||
गुल्माग्निसादातीसारप्रभृतीन् कुरुते गदान् |१७|
पाकः पक्वं, नपुंसके भावे क्तः; आमस्य पक्वमामपक्वं, तस्याशयः पच्यमानाहाराशय इत्यर्थः; तत्र चरतीति आमपक्वाशयचरः| ‘वह्निसङ्गत’ इत्यत्र ‘अग्निसहायवान्’ इति केचित् पठन्ति, तत्रापि स एवार्थः| सोऽन्नं पचतीति अग्निसन्धुक्षणाद्भक्तकार इव| तज्जान् अन्नपाकजान्| विशेषान् रसदोषमूत्रपुरीषाणि| विविनक्ति पृथक् करोति||१६||-
Adhikarana 10 (17-18) · Śloka 18
कृत्स्नदेहचरो व्यानो रससंवहनोद्यतः ||१७||
स्वेदासृक्स्रावणश्चापि पञ्चधा चेष्टयत्यपि |
क्रुद्धश्च कुरुते रोगान् प्रायशः सर्वदेहगान् ||१८||
रससंवहनोद्यत इत्यत्रादिशब्दो द्रष्टव्यः, तेन रसादिसंवहनोद्यत इत्यर्थः; संवहनं प्रेरणम्| पञ्चधा चेष्टयत्यपीति प्रसारणाकुञ्चनविनमनोन्नमनतिर्यग्गमनानि पञ्च चेष्टाः; अन्ये तु ‘गतिप्रसारणोत्क्षेपणनिमेषोन्मेषैः पञ्चभिः प्रकारैः पञ्चधा’ इति व्याख्यानयन्ति| सर्वदेहगान् ज्वरातीसाररक्तपित्तप्रभृतीन्||१७-१८||
Adhikarana 11 (19) · Śloka 20
पक्वाधानालयोऽपानः काले कर्षति चाप्यधः |
समीरणः शकृन्मूत्रं शुक्रगर्भार्तवानि च ||१९||
क्रुद्धश्च कुरुते रोगान् घोरान् बस्तिगुदाश्रयान् |२०|
पक्वाधानालयः पक्वाशयस्थान इत्यर्थः| बस्त्याश्रयान् अश्मर्यादीन्, गुदाश्रयान् भगन्दरादीन्||१९||-
Adhikarana 12 (20) · Śloka 20
शुक्रदोषप्रमेहास्तु व्यानापानप्रकोपजाः ||२०||
इदानीमुपलक्षणार्थं विकृतवातद्वयादिकर्म दर्शयन्नाह- शुक्रदोषेत्यादि| शुक्रस्य सर्वाङ्गगतत्वात् प्रमेहस्य सर्वदेहगतरसादिदूष्यप्रभवत्वाद्व्यानकृतत्वं, मेढ्रद्वारसंश्रितत्वादपानकृतत्वं च||२०||
Adhikarana 13 (21) · Śloka 21
युगपत् कुपिताश्चापि देहं भिन्द्युरसंशयम् |२१|
तेषां पञ्चानां युगपत् प्रकोपे नियमेन देहनाशं दर्शयन्नाह- युगपदित्यादि| युगपत् एककालमित्यर्थः| भिन्द्युरिति भेदोऽत्र देहविनाशोऽभिप्रेतः|२१|-
Adhikarana 14 (21-24) · Śloka 24
अत ऊर्ध्वं प्रवक्ष्यामि नानास्थानान्तराश्रितः ||२१||
बहुशः कुपितो वायुर्विकारान् कुरुते हि यान् |
वायुरामाशये क्रुद्धश्छर्द्यादीन् कुरुते गदान् ||२२||
मोहं मूर्च्छां पिपासां च हृद्ग्रहं पार्श्ववेदनाम् |
पक्वाशयस्थोऽन्त्रकूजं शूलं नाभौ करोति च ||२३||
कृच्छ्रमूत्रपुरीषत्वमानाहं त्रिकवेदनाम् |
श्रोत्रादिष्विन्द्रियवधं कुर्यात् क्रुद्धः समीरणः ||२४||
अत इत्यादि| नानास्थानान्तराश्रितः कुपितः सन् वायुर्बहुशो यान् विकारान् कुरुते तान् प्रवक्ष्यामीति सम्बन्धः| छर्द्यादीनिति आदिशब्दाद्रुजः पार्श्वोदरहृत्स्तम्भतोदादिका ग्राह्याः, अथवा ऊर्ध्वगरक्तपित्तादिकाः| मोहो नैवात्यन्तं चित्तनाशः| मूर्च्छा चेतनाच्युतिः| पक्वेत्यादि अन्त्रकूजं अन्त्रेऽव्यक्तशब्दम्| चकाराद्वातविण्मूत्रसङ्गं जङ्घोरुत्रिकपार्श्वपृष्ठादीन् प्रति शूलं च कुरुते| ‘शूलं नाभौ’ इत्यत्र ‘शूलानाहौ’ इति केचित् पठन्ति, व्याख्यानयन्ति च- पक्वाशय आनह्यते समन्ताद्विबध्यत इवेति वेदनाप्रकार एक आनाहः, द्वितीयस्तु विसूचिकाप्रतिषेधे प्रोक्तलक्षण एव| श्रोत्रादिषु क्रुद्धः सन् समीरण इन्द्रियवधं कुर्यादिति सम्बन्धः| श्रोत्रादिषु श्रोत्रघ्राणदर्शनरसनत्वक्षु| इन्द्रियवधमित्यनेनाश्रुत्यघ्राणादर्शनारसनास्पर्शानि वेदितव्यानि||२१-२४||
Adhikarana 15 (25-29) · Śloka 29
वैवर्ण्यं स्फुरणं रौक्ष्यं सुप्तिं चुमुचुमायनम् |
त्वक्स्थो निस्तोदनं कुर्यात् त्वग्भेदं परिपोटनम् ||२५||
व्रणांश्च रक्तगो, ग्रन्थीन् सशूलान् मांससंश्रितः |
तथा मेदःश्रितः कुर्याद्ग्रन्थीन्मन्दरुजोऽव्रणान् ||२६||
कुर्यात् सिरागतः शूलं सिराकुञ्चनपूरणम् |
स्नायुप्राप्तः स्तम्भकम्पौ शूलमाक्षेपणं तथा ||२७||
हन्ति सन्धिगतः सन्धीन् शूलशोफौ करोति च |
अस्थिशोषं प्रभेदं च कुर्याच्छूलं च तच्छ्रितः ||२८||
तथा मज्जगते रुक् च न कदाचित् प्रशाम्यति |
अप्रवृत्तिः प्रवृत्तिर्वा विकृता शुक्रगेऽनिले ||२९||
त्वक्स्थो रसस्थः समीरणो वैवर्ण्यादि कुर्यादिति सम्बन्धः| सुप्तिं स्पर्शाज्ञानम्| चुमुचुमायनं सर्षपकल्कावलिप्तानामिवाङ्गानां वेदनाम्| त्वग्भेदं त्वचो भेदमेव| परिपोटनं सर्वतः पुटनं त्वच एव| व्रणांश्च रक्तगः ‘कुर्यात्’ इति शेषः| अमुं पाठं केचिन्न पठन्ति; तन्न, गयदासाचार्यस्य सम्मतत्वात्| ग्रन्थीन् सशूलान् मांससमाश्रितः समीरण इति सम्बन्धः| अव्रणान् व्रणरहितान्| सिराकुञ्चनं ‘कुटिला सिरा’ इति लोके वदन्ति | स्तम्भो निश्चलीकरणम्| आक्षेपणं चालनम्| हन्तीत्यादि एतेनाकुञ्चनप्रसारणयोरभाव उक्तः| तच्छ्रित इति अस्थ्याश्रित इत्यर्थः| तथा मज्जगते यथा अस्थ्याश्रितोऽस्थिशोषं, तथा मज्जाश्रितो मज्जशोषं कुर्यादित्यर्थः| किंविशिष्टा प्रवृत्तिरित्याह- विकृता; अतिशीघ्रातिमन्दग्रथितविवर्णादियुक्तेत्यर्थः||२५-२९||
Adhikarana 16 (30) · Śloka 30
हस्तपादशिरोधातूंस्तथा सञ्चरति क्रमात् |
व्याप्नुयाद्वाऽखिलं देहं वायुः सर्वगतो नृणाम् ||३०||
एकाङ्गगत एकधातुगतो वाऽप्युपेक्षितः सर्वाङ्गगतः सर्वधातुगतो वा भवतीति दर्शयन्नाह- हस्तेत्यादि| वायुस्तथा हस्तपादशिरः क्रमात् सञ्चरति यथा उपेक्षितः सन्नखिलं देहं व्याप्नुयात्, तथा धातून् क्रमात् सञ्चरति यथा सर्वगतो वा भवति सर्वधातुगतो वा भवतीत्यर्थः| व्याप्नुयाद्वेति वाशब्दो भिन्नक्रमे, सर्वगतो वेत्यत्र द्रष्टव्यः||३०||
Adhikarana 17 (31) · Śloka 31
स्तम्भनाक्षेपणस्वापशोफशूलानि सर्वगः |३१|
तस्येदानीं सर्वाङ्गगतस्य लिङ्गं दर्शयन्नाह- स्तम्भनेत्यादि| सर्वगो वायुः सर्वस्मिञ् शरीरे स्तम्भनादिकं करोति|३१|-
Adhikarana 18 (31) · Śloka 31
स्थानेषूक्तेषु सम्मिश्रः सम्मिश्राः कुरुते रुजः ||३१||
तस्य वायोः प्रसरणे पित्तादिसंयुक्तस्य पित्ताद्यावरणप्रतिपत्तिहेतुं दर्शयन्नाह- स्थानेष्वित्यादि| मिश्रः पित्तादिभिः| पित्तादीनामौष्ण्यादिस्वभावलिङ्गदर्शनाद्दाहादिकार्यलिङ्गदर्शनाच्च पित्ताद्यावरणं ज्ञेयं; केवलस्य वायोः शीतस्वभावत्वाद्दाहः पित्तं विना नोत्पद्यत इति||३१||
Adhikarana 19 (32) · Śloka 32
कुर्यादवयवप्राप्तो मारुतस्त्वमितान् गदान् |३२|
तस्येदानीमवयवगतस्यानेकरोगकारणत्वं दर्शयन्नाह- कुर्यादित्यादि|३२|-
Adhikarana 20 (32-39) · Śloka 39
दाहसन्तापमूर्च्छाः स्युर्वायौ पित्तसमन्विते ||३२||
शैत्यशोफगुरुत्वानि तस्मिन्नेव कफावृते |
सूचीभिरिव निस्तोदः स्पर्शद्वेषः प्रसुप्तता ||३३||
शेषाः पित्तविकाराः स्युर्मारुते शोणितान्विते |
प्राणे पित्तावृते छर्दिर्दाहश्चैवोपजायते ||३४||
दौर्बल्यं सदनं तन्द्रा वैवर्ण्यं च कफावृते |
उदाने पित्तसंयुक्ते मूर्च्छादाहभ्रमक्लमाः ||३५||
अस्वेदहर्षौ मन्दोऽग्निः शीतस्तम्भौ कफावृते |
समाने पित्तसंयुक्ते स्वेददाहौष्ण्यमूर्च्छनम् ||३६||
कफाधिकं च विण्मूत्रं रोमहर्षः कफावृते |
अपाने पित्तसंयुक्ते दाहौष्ण्ये स्यादसृग्दरः ||३७||
अधःकायगुरुत्वं च तस्मिन्नेव कफावृते |
व्याने पित्तावृते दाहो गात्रविक्षेपणं क्लमः ||३८||
गुरूणि सर्वगात्राणि स्तम्भनं चास्थिपर्वणाम् |
लिङ्गं कफावृते व्याने चेष्टास्तम्भस्तथैव च ||३९||
इदानीं सम्मिश्राः कुरुते रुज इति सूत्रितमावरणं विवृण्वन्नाह- दाहेत्यादि| दाहोऽग्निदग्धस्येव, सन्तापो घर्मादिसंस्थितस्येव| शैत्यशोफेत्यादि| तस्मिन्नेव वायौ| सूचीभिरित्यादि| सदनम् अङ्गग्लानिः| क्लमोऽनायासश्रमः| हर्षो रोमहर्षः| कफाधिकं श्लेष्मबहुलं विष्ठामूत्रम्| असृग्दरः स्त्रीणामेव| अस्थिपर्वणाम् अस्थिसन्धीनाम्| चेष्टा गमनादिकाः||३२-३९||
Adhikarana 21 (40-41) · Śloka 41
(प्रायशः सुकुमाराणां मिथ्याऽऽहारविहारिणाम् |
रोगाध्वप्रमदामद्यव्यायामैश्चातिपीडनात् ||४०||
ऋतुसात्म्यविपर्यासात् स्नेहादीनां च विभ्रमात् |
अव्यवाये तथा स्थूले वातरक्तं प्रकुप्यति ) ||४१||
सूचीभिरिव निस्तोद इत्यादिवाक्येनाप्रकुपितशोणितावृतवातस्य लक्षणमुक्त्वा, इदानीं प्रकुपितशोणितावृतवातजन्यस्य वातरक्तस्य प्रकोपकारणं दर्शयन्नाह- प्रायश इत्यादि| सुकुमाराणां वातरक्तं प्रकुप्यतीति सम्बन्धः| मिथ्याहारविहारिणामिति मिथ्या अनुचितः, विहारः कायवाङ्मनोव्यापारः| अध्वा मार्गः, व्यायामः शरीरायासजननं कर्म| विभ्रमः अन्यथाकरणम्| अव्यवाये मैथुनवर्जिते| केचित् ‘प्रायशः सुकुमाराणां’ इत्यादिग्रन्थं ‘वातरक्तं प्रकुप्यति’ इति यावन्न पठन्ति, चिकित्सिते पठिष्यमाणत्वात्||४०-४१||
Adhikarana 22 (42-44) · Śloka 44
हस्त्यश्वोष्ट्रैर्गच्छतोऽन्यैश्च वायुः कोपं यातः कारणै सेवितैः स्वैः |
तीक्ष्णोष्णाम्लक्षारशाकादिभोज्यैः सन्तापाद्यैर्भूयसा सेवितैश्च ||४२||
क्षिप्रं रक्तं दुष्टिमायाति तच्च वायोर्मार्गं संरुणद्ध्याशु यातः |
क्रुद्धोऽत्यर्थं मार्गरोधात् स वायुरत्युद्रिक्तं दूषयेद्रक्तमाशु ||४३||
तत् सम्पृक्तं वायुना दूषितेन तत्प्राबल्यादुच्यते वातरक्तम् |
तद्वत् पित्तं दूषितेनासृजाऽऽक्तं श्लेष्मा दुष्टो दूषितेनासृजाऽऽक्तः ||४४||
तस्य सम्प्राप्तिं दर्शयन्नाह- हस्तीत्यादि| अन्यैश्चेति अपरैर्भारहरणादिभिः कारणैरित्यर्थः| कोपं यातः कोपं गत इत्यर्थः| कारणैः सेवितैः स्वैर्विदाह्यादिभिः| तच्च रक्तं वायोर्मार्गं संरुणद्धि| कथम्भूतस्य वायोरित्याह- आशु यातः, शीघ्रं गच्छत इत्यर्थः| अत्युद्रिक्तम् अतिशयेन वृद्धिङ्गतं रक्तम्| तत् सम्पृक्तमिति तद्रक्तं, सम्पृक्तं संसृष्टम्| वायुना दूषितेनेति दूषितेन वायुना सह| तत्प्राबल्यात् वातप्राबल्याच्छोणितस्याप्राबल्यात्, तयोर्वातरक्तयोः प्राबल्यादिति केचित्| तद्वत् पित्तमिति दुष्टं पित्तमित्यर्थः, दूषितेनासृजाऽऽक्तमिति दूषितेन रक्तेन मिश्रम्||४२-४४||
Adhikarana 23 (45-46) · Śloka 46
स्पर्शोद्विग्नौ तोदभेदप्रशोषस्वापोपेतौ वातरक्तेन पादौ |
पित्तासृग्भ्यामुग्रदाहौ भवेतामत्यर्थोष्णौ रक्तशोफौ मृदू च ||४५||
कण्डूमन्तौ श्वेतशीतौ सशोफौ पीनस्तब्धौ श्लेष्मदुष्टे तु रक्ते |
सर्वैर्दुष्टे शोणिते चापि दोषाः स्वं स्वं रूपं पादयोर्दर्शयन्ति ||४६||
तस्येदानीं वातादिविशेषेण विशिष्टलिङ्गं दर्शयन्नाह- स्पर्शोद्विग्नावित्यादि| स्पर्शोद्विग्नौ स्पर्शासहौ पादाविति सम्बन्धः| प्रशोषः शुष्कता, स्वापः स्पर्शाज्ञानम्| एतेन वातप्रबलवातरक्तलक्षणमुक्तम्| पित्तासृग्भ्यामिति वातशोणित एव यदा पित्तमसृक् च बलवत्तरं भवति तदेत्यर्थः| रक्तशोफौ रक्तवर्णशोफौ| कण्डूमन्तौ पादाविति सम्बन्धः| पीनौ स्थूलौ||४५-४६||
Adhikarana 24 (47) · Śloka 47
प्राग्रूपे शिथिलौ स्विन्नौ शीतलौ सविपर्ययौ |
वैवर्ण्यतोदसुप्तत्वगुरुत्वौषसमन्वितौ ||४७||
तस्य पूर्वरूपमाह- प्राग्रूपे इत्यादि| सविपर्ययाविति कठिनास्विन्नोष्णौ, ‘पादौ’ इत्यध्याहारः| ओषो दाहः| केचिदत्र पूर्वरूपं न पठन्ति, चिकित्सायां पठिष्यमाणत्वात्||४७||
Adhikarana 25 (48) · Śloka 48
पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि |
आखोर्विषमिव क्रुद्धं तद्देहमनुसर्पति ||४८||
तस्येदानीं पादमात्रेऽभिजातस्य कालेनावयवान्तरानुसरणं निर्दिशन्नाह- पादयोरित्यादि| मूलमास्थाय तलं प्राप्य| आखोरित्यादि उन्दुरस्य विषं मूलमास्थाय पश्चात् कुपितं सद्देहं सकलमेवानुयाति||४८||
Adhikarana 26 (49) · Śloka 50
आजानुस्फुटितं यच्च प्रभिन्नं प्रस्रुतं च यत् |
उपद्रवैश्च यज्जुष्टं प्राणमांसक्षयादिभिः ||४९||
शोणितं तदसाध्यं स्याद्याप्यं संवत्सरोत्थितम् |५०|
तस्येदानीमसाध्यादिलक्षणं दर्शयन्नाह- आजानुस्फुटितमित्यादि| आजानुस्फुटितं जानुपर्यन्तमुच्चटितम्| प्रभिन्नं विदीर्णम्| प्रस्रुतं स्रावयुक्तम्| उपद्रवैः प्राणमांसक्षयादिभिरवारणीयोक्तैः | आदिग्रहणादङ्गुलिवक्रतार्बुदादयोऽपि ग्राह्याः| जुष्टं सहितम्| यज्जानुपर्यन्तं स्फुटितं वातप्राबल्यात्, यच्च जानुपर्यन्तं प्रभिन्नं प्रस्रुतं च पित्तरक्तप्राबल्यात्, तदप्यसाध्यमेव||४९||-
Adhikarana 27 (50-51) · Śloka 51
यदा तु धमनीः सर्वाः कुपितोऽभ्येति मारुतः ||५०||
तदाक्षिपत्याशु मुहुर्मुहुर्देहं मुहुश्चरः |
मुहुर्मुहुस्तदाक्षेपादाक्षेपक इति स्मृतः ||५१||
इदानीं वातरक्तमभिधायाक्षेपकमाह- यदेत्यादि| धमन्यो नाड्यः| अभ्येति व्याप्नोति| आक्षिपति चालयति| मुहुश्चर इति वारंवारं चलनशीलो वायुः, मुहुश्चरत्वेनैव मुहुर्मुहुराक्षेपणं युक्तम्; अन्ये तु ‘बहिश्चर’ इति पठन्ति, तन्नेच्छति गयदासाचार्यः| तदाक्षेपात् देहाक्षेपात्| इदमाक्षेपकस्य सामान्यलक्षणमुक्तम्||५०-५१||
Adhikarana 28 (52-58) · Śloka 58
सोऽपतानकसञ्ज्ञो यः पातयत्यन्तराऽन्तरा |
कफान्वितो भृशं वायुस्तास्वेव यदि तिष्ठति ||५२||
स दण्डवत् स्तम्भयति कृच्छ्रो दण्डापतानकः |
हनुग्रहस्तदाऽत्यर्थं सोऽन्नं कृच्छ्रान्निषेवते ||५३||
धनुस्तुल्यं नमेद्यस्तु स धनुःस्तम्भसञ्ज्ञकः |
अङ्गुलीगुल्फजठरहृद्वक्षोगलसंश्रितः ||५४||
स्नायुप्रतानमनिलो यदाऽऽक्षिपति वेगवान् |
विष्टब्धाक्षः स्तब्धहनुर्भग्नपार्श्वः कफं वमन् ||५५||
अभ्यन्तरं धनुरिव यदा नमति मानवः |
तदाऽस्याभ्यन्तरायामं कुरुते मारुतो बली ||५६||
बाह्यस्नायुप्रतानस्थो बाह्यायामं करोति च |
तमसाध्यं बुधाः प्राहुर्वक्षःकट्यूरुभञ्जनम् ||५७||
कफपित्तान्वितो वायुर्वायुरेव च केवलः |
कुर्यादाक्षेपकं त्वन्यं चतुर्थमभिघातजम् ||५८||
आक्षेपकविशेषानाह- सोऽपतानक इत्यादि| य आक्षेपकोऽन्तराऽन्तरा पातयति सोऽपतानक इत्यर्थः| इदं सामान्यापतानकलक्षणमुक्तं; गयदासेनापतानकलक्षणं ‘येनापताम्यते’ इत्यादिवाक्येनाभिधाय व्याख्यातं, यथा- “येन वायुना कर्तृभूतेन हेतुभूतेन वा पुमानपताम्यते तमो दृश्यते मोह्यते इति यावत् सोऽपतानक इति; सोऽयं हृदिस्थमनोऽधिष्ठानेन सकफेन वायुना जन्यते” इति| स एवापतानकस्त्रिधा- दण्डापतानकः, अन्तरायामः, बहिरायामश्च; तत्र दण्डापतानकलक्षणमाह- कफान्वित इत्यादि| तास्वेव सर्वासु धमनीषु, भृशं तिष्ठतीति सम्बन्धः| कृच्छ्रः कष्टसाध्यः| हनुग्रहस्तु दण्डापतानकेऽन्यत्रापि वायौ स्यात्| स दण्डापतानकवान् पुरुषः| धनुःस्तम्भसञ्ज्ञकमन्तरायामं दर्शयन्नाह- धनुस्तुल्यमित्यादि| तस्यैव भाष्यं वक्तुमाह- अङ्गुलीत्यादि| अङ्गुल्योऽत्र पादगताः, गुल्फः पार्ष्णेरुपरि ग्रन्थिः, जठरमुदरं, हृत् हृदयं, वक्षः स्तनयोरन्तरालं, गलः कण्ठः; एतेषु स्थानेषु संश्रित आश्रितो वायुः| स्नायुप्रतानं स्नायुविस्तारम्| बहिरायामं निर्दिशन्नाह- बाह्यस्नायुप्रतानस्थ इत्यादि| बाह्यस्नायुप्रतानस्थो बाह्यस्नायुविस्तारस्थः, बाह्यस्नायवः पादमूलपिण्डिकाकटीपृष्ठग्रीवापश्चिमभागाश्रयाः| वक्षःकट्यूरुभञ्जनमिति वक्षःकट्यूरुभञ्जनत्वे सत्येवासाध्यत्वम्, अभग्नवक्षःकट्यादिकस्तु नव उपक्रम्य एव| तस्याक्षेपकस्येतरदोषसंसर्गेण निदानविशेषाच्च सङ्ख्याभेदं दर्शयन्नाह- कफपित्तान्वित इत्यादि| एकः कफान्वितः, द्वितीयः पित्तान्वितः, तृतीयः केवलवातकृतः, चतुर्थोऽभिघातजः| चतुर्थमभिघातजमिति निदानविशेषात्| दण्डापतानकादयस्त्रयश्चतुर्थः पुनरभिघातज इति श्रीजेज्झटः; तन्नेच्छति गयी, गर्भपातादिनिमित्तभेदेन सङ्ख्यातिरेकात्| श्रीबह्मदेवस्तु “आक्षेपकश्चतुर्धा- अपतानकः, संसृष्टाक्षेपकः, केवलाक्षेपकः, अभिघातजश्च; तत्रापतानकः ‘सोऽपतानक’ इत्यादिना ‘वक्षःकट्यूरुभञ्जनम्’ इति पर्यन्तेनोक्तः, ‘कफान्वितो वायुः’ इति संसृष्टाक्षेपकः, ‘वायुरेव च केवलः’ इति केवलाक्षेपकः, चतुर्थः पुनरभिघातजः” इत्याह||५२-५८||
Adhikarana 29 (59) · Śloka 59
गर्भपातनिमित्तश्च शोणितातिस्रवाच्च यः |
अभिघातनिमित्तश्च न सिध्यत्यपतानकः ||५९||
तस्यैवाक्षेपकस्यापतानकसञ्ज्ञां प्राप्तस्यासाध्यत्वं दर्शयन्नाह- गर्भपातनिमित्तश्चेत्यादि| गर्भपातादिनिमित्तास्त्रयोऽप्यागन्तवोऽसाध्याः; यदि कथञ्चिद्दैवयोगात् सिध्यन्ति तदा वैकल्यं जनयन्ति||५९||
Adhikarana 30 (60-62) · Śloka 62
अधोगमाः सतिर्यग्गा धमनीरूर्ध्वदेहगाः |
यदा प्रकुपितोऽत्यर्थं मातरिश्वा प्रपद्यते ||६०||
तदाऽन्यतरपक्षस्य सन्धिबन्धान् विमोक्षयन् |
हन्ति पक्षं तमाहुर्हि पक्षाघातं भिषग्वराः ||६१||
यस्य कृत्स्नं शरीरार्धमकर्मण्यमचेतनम् |
ततः पतत्यसून् वाऽपि त्यजत्यनिलपीडितः ||६२||
पक्षाघातमाह- अधोगमा इत्यादि| एकतरशरीरार्धधमनीरूर्ध्वाधस्तिर्यग्गता यदा स मातरिश्वा वायुः, प्रपद्यते आश्रयतीत्यर्थः, तदाऽन्यतरपक्षस्यैकतरशरीरार्धस्य, सन्धिबन्धान् विमोक्षयन् विमोचयन्, पक्षं शरीरार्धं हन्ति| यस्य कृत्स्नमित्यादि| अकर्मण्यम् ईषत्कर्मक्षमम्, अचेतनम् अल्पचेतनम्; यदा अकर्मण्यं भवति तदा पतति; यदा अचेतनं भवति तदा असून् प्राणान् परित्यजति||६०-६२||
Adhikarana 31 (63) · Śloka 63
शुद्धवातहतं पक्षं कृच्छ्रसाध्यतमं विदुः |
साध्यमन्येन संसृष्टमसाध्यं क्षयहेतुकम् ||६३||
पक्षाघातस्य साध्यासाध्यत्वं दर्शयन्नाह- शुद्धवातहतमित्यादि| शुद्धः कफाद्यसंसृष्टः| अन्येन संसृष्टम् इतरदोषसम्बद्धम्||६३||
Adhikarana 32 (64-66) · Śloka 66
वायुरूर्ध्वं व्रजेत् स्थानात् कुपितो हृदयं शिरः |
शङ्खौ च पीडयत्यङ्गान्याक्षिपेन्नमयेच्च सः ||६४||
निमीलिताक्षो निश्चेष्टः स्तब्धाक्षो वाऽपि कूजति |
निरुच्छ्वासोऽथवा कृच्छ्रादुच्छ्वस्यान्नष्टचेतनः ||६५||
स्वस्थः स्याद्धृदये मुक्ते ह्यावृते तु प्रमुह्यति |
कफान्वितेन वातेन ज्ञेय एषोऽपतन्त्रकः ||६६||
अपतन्त्रकमाह- वायुरूर्ध्वमित्यादि| हृदयं शिरः शङ्खौ च पीडयतीति हृदयं कमलमुकुलाकारमधोमुखं, भ्रुवोरन्तोपरि कर्णललाटयोर्मध्ये शङ्खौ, अङ्गानि हस्तपादादीनि| आक्षिपेत् पातयेत् | कूजति कपोत इव शब्दं करोति; अथवा कृच्छ्रादुच्छ्वस्यादिति कष्टेनोच्छ्वासं कुर्यात्| केचिदपतन्त्रकममुं न पठन्ति, अपतन्त्रकापतानकयोरैक्यात्||६४-६६||
Adhikarana 33 (67) · Śloka 67
दिवास्वप्नासनस्थानविवृताध्वनिरीक्षणैः |
मन्यास्तम्भं प्रकुरुते स एव श्लेष्मणाऽऽवृतः ||६७||
मन्यास्तम्भमाह- दिवास्वप्नेत्यादि| आसनम् उपवेशनं, स्थानम् ऊर्ध्वीभवनं| विवृताध्वनिरीक्षणैः वक्रमार्गावलोकनैः| स एव वायुः| मन्यास्तम्भं केचिदपतानकपूर्वरूपं मन्यन्ते||६७||
Adhikarana 34 (68-72) · Śloka 72
(गर्भिणीसूतिकाबालवृद्धक्षीणेष्वसृक्क्षये |) उच्चैर्व्याहरतोऽत्यर्थं खादतः कठिनानि वा |
हसतो जृम्भतो भाराद्विषमाच्छयनादपि ||६८||
शिरोनासौष्ठचिबुकललाटेक्षणसन्धिगः |
अर्दयित्वाऽनिलो वक्त्रमर्दितं जनयत्यतः ||६९||
वक्रीभवति वक्त्रार्धं ग्रीवा चाप्यपवर्तते |
शिरश्चलति वाक्सङ्गो नेत्रादीनां च वैकृतम् ||७०||
ग्रीवाचिबुकदन्तानां तस्मिन् पार्श्वे तु वेदना |
यस्याग्रजो रोमहर्षो वेपथुर्नेत्रमाविलम् ||७१||
वायुरूर्ध्वं त्वचि स्वापस्तोदो मन्याहनुग्रहः |
तमर्दितमिति प्राहुर्व्याधिं व्याधिविशारदाः ||७२||
अर्दितमाह- गर्भिणीत्यादि| सूतिका प्रसूता स्त्री| व्याहरतः शब्दं कुर्वतः| भाराद्विषमाच्छयनादपीति विषमाद्भारात्, विषमाच्छयनाच्चेत्यर्थः| अन्ये तु ‘विषमोच्छ्वसनात्’ इति पठन्ति| अर्दयित्वा व्यथयित्वा| अपवर्तते वक्रीभवति| वाक्सङ्गो वाचोऽनिर्गमः| नेत्रादीनामित्यादिशब्दाद् भ्रूगण्डाद्युपसङ्ग्रहः| तस्मिन् पार्श्वे इति यस्मिन् पार्श्वेऽर्दितं भवति तस्मिन् पार्श्वे ग्रीवादयो वक्रीभवन्ति| चिबुकं मुखकुहरस्याधोभागः| तस्य (पूर्व)रूपमाह- यस्येत्यादि| अग्रजः पूर्वभावी| आविलं समलम्| वायुरूर्ध्वं ‘प्रसर्पति’ इति शेषः| त्वचि स्वापः त्वचः स्पर्शाज्ञानम्||६८-७२||
Adhikarana 35 (73) · Śloka 73
क्षीणस्यानिमिषाक्षस्य प्रसक्तं सक्तभाषिणः |
न सिध्यत्यर्दितं बाढं त्रिवर्षं वेपनस्य च ||७३||
तस्यासाध्यत्वमाह- क्षीणस्येत्यादि| अनिमिषाक्षस्य स्तब्धाक्षस्य| प्रसक्तं सततं, सक्तभाषिणः पीडिताव्यक्तपदभाषिणः; अन्ये तु ‘प्रसक्ताव्यक्तभाषिणः’ इति पठन्ति, प्रसक्तं प्रकर्षेण लग्नमिति तत्रार्थः| बाढमतिशयेन न सिध्यतीति सम्बन्धः| त्रिवर्षमिति संवत्सरत्रयातीतम्; अन्ये तु नासाक्षिमुखस्राविणं त्रिवर्षमाहुः| वेपनस्य कम्पनशीलस्य| “गर्भिणीसूतिकाबालवृद्धक्षीणेष्वसृक्क्षये” इत्यमुं पाठं जेज्झटादय आचार्या न पठन्ति| ‘उच्चैर्व्याहरतोऽत्यर्थं’ इत्यादौ कृत्वा पठन्ति, बहुवैद्यपठितत्वादस्माभिः पठितः||७३||
Adhikarana 36 (74) · Śloka 74
पार्ष्णिप्रत्यङ्गुलीनां तु कण्डरा याऽनिलार्दिता |
सक्थ्नः क्षेपं निगृह्णीयाद्गृध्रसीति हि सा स्मृता ||७४||
गृध्रसीमाह- पार्ष्णीत्यादि| या कण्डरा सक्थ्नः क्षेपं निगृह्णीयात् सा गृध्रसीति स्मृतेति सम्बन्धः| पार्ष्णिर्गुल्फस्य पाश्चात्याधोभागः, प्रत्यङ्गुल्योऽङ्गुल्य एव; एतेनोपर्यधोभागगतं कण्डराद्वयं गृह्यते| कण्डरा महास्नायुः| गुल्फादिविटपान्तं सक्थि, तस्य क्षेपः प्रसारणं, तं निगृह्णीयादवरुन्ध्यादित्यर्थः| गृध्रसी ‘रङ्घिणी’ इति लोके| सा च वाताद् वातकफाच्च| खञ्जनवाते न सातिशया व्यथा यथा गृध्रस्याम्| केचित् ‘पार्ष्णिं प्रत्यङ्गुलीनाम्’ इति द्वितीयान्तं पठन्ति; तत्रापि पार्ष्णिं लक्षीकृत्य या कण्डरा, अङ्गुलीनां च या कण्डरेति कण्डराद्वयम्||७४||
Adhikarana 37 (75) · Śloka 75
तलप्रत्यङ्गुलीनां तु कण्डरा बाहुपृष्ठतः |
बाह्वोः कर्मक्षयकरी विश्वाचीति हि सा स्मृता ||७५||
गृध्रसीसदृशीमेकबाहुगतां विश्वाचीमाह- तलेत्यादि| तलशब्दोऽयमुपरि वर्तते, तेन करस्याभ्यन्तरकण्डरा गृहीता, बाहुपृष्ठत इत्यनेन बाह्यकण्डरा गृहीता| बाह्वोरिति द्विवचनं सामान्यापेक्षया , कदाचित् कस्मिंश्चिद्बाहौ भवति| ‘अनिलार्दिता’ इत्यत्रापि सम्बध्यते| चकारोऽत्र गृध्रसीविश्वाच्योर्नामान्तरमनुक्तं खल्ल्यभिधानं समुच्चिनोति| अन्ये त्वत्रापि ‘तलं प्रत्यङ्गुलीनाम्’ इति पूर्ववद्द्वितीयान्तं पठन्ति, तेन तलं लक्षीकृत्य या कण्डरा बाहुपृष्ठतश्च या कण्डरेति कण्डराद्वयं गृह्यते||७५||
Adhikarana 38 (76) · Śloka 76
वातशोणितजः शोफो जानुमध्ये महारुजः |
शिरः क्रोष्टुकपूर्वं तु स्थूलः क्रोष्टुकमूर्धवत् ||७६||
क्रोष्टुकशिर आह- वातेत्यादि| यो जानुमध्ये वातशोणितजो महारुजः क्रोष्टुकमूर्धवत् स्थूलः शोफो भवति स क्रोष्टुकशिर इति ज्ञेयः| वातशोणितज इति वातशोणिताभ्यां जातो वातशोणितजः, न पुनर्वातरक्तेन व्याधिना जनितः; अन्ये तु वातेन शोणितेन च जात इति नेच्छन्ति, किं तर्हि वातरक्तज इति रोगकारणमेव रोगमिच्छन्ति| शिरः क्रोष्टुकपूर्वमिति क्रोष्टुकशब्दपूर्वं शिरः, तस्य रोगस्य ‘क्रोष्टुकशिर’ इति नामेत्यर्थः| क्रोष्टुकमूर्धवत् शृगालमस्तकवत्||७६||
Adhikarana 39 (77) · Śloka 77
वायुः कट्यां स्थितः सक्थ्नः कण्डरामाक्षिपेद्यदा |
खञ्जस्तदा भवेज्जन्तुः, पङ्गुः सक्थ्नोर्द्वयोर्वधात् ||७७||
खञ्जपङ्गुलवातावाह- वायुरित्यादि| आक्षिपेदिति ईषत् क्षिपेत्, खञ्जे विकलगतेर्दर्शनात्| सक्थ्नोर्द्वयोर्वधादिति सर्वथा गतिविघातात् पङ्गुरित्यर्थः| द्वयोरिति पुनरुक्तिप्रसङ्गाद्युगपत् सक्थिद्वयवधादित्यर्थः||७७||
Adhikarana 40 (78) · Śloka 78
प्रक्रामन् वेपते यस्तु खञ्जन्निव च गच्छति |
कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम् ||७८||
कलायखञ्जमाह- प्रक्रामन्नित्यादि| प्रक्रामन् पादविक्रमं कुर्वन्, गमनारम्भ एव वेपते कलायखञ्ज इत्ययं खञ्जाद्विशेषः| मुक्तसन्धिप्रबन्धनमिति शिथिलसन्धिबन्धनमित्यर्थः||७८||
Adhikarana 41 (79) · Śloka 79
न्यस्ते तु विषमं(मे) पादे रुजः कुर्यात् समीरणः |
वातकण्टक इत्येष विज्ञेयः खडु(ल)काश्रितः ||७९||
वातकण्टकमाह- न्यस्त इत्यादि| न्यस्ते तु विषमं पाद इति विषमस्थाने निक्षिप्ते पादे इत्यर्थः| खुडु(ल)काश्रित इति पादजङ्घासन्धिसंश्रय इत्यर्थः, ‘पार्ष्ण्याश्रयः’ इत्यन्ये||७९||
Adhikarana 42 (80) · Śloka 80
पादयोः कुरुते दाहं पित्तासृक्सहितोऽनिलः |
विशेषतश्चङ्क्रमणात् पाददाहं तमादिशेत् ||८०||
पाददाहमाह- पादयोरित्यादि| विशेषतश्चङ्क्रमणादिति विशेषेण गच्छतः, तिष्ठतस्तु सामान्येन||८०||
Adhikarana 43 (81) · Śloka 81
हृष्यतश्चरणौ यस्य भवतश्च प्रसुप्तवत् |
पादहर्षः स विज्ञेयः कफवातप्रकोपजः ||८१||
पादहर्षमाह- हृष्यत इत्यादि| हृषत इति हर्षो रोमाञ्चप्रायो वेदनाविशेषोऽन्तःशीतकरः| भवतश्च प्रसुप्तवदिति स्पर्शाज्ञानात् सुप्ताविव भवत इत्यर्थः||८१||
Adhikarana 44 (82) · Śloka 82
अंसदेशस्थितो वायुः शोषयित्वांऽसबन्धनम् |
सिराश्चाकुञ्च्य तत्रस्थो जनयत्यवबाहुकम् ||८२||
अंसशोषावबाहुकावाह- अंसदेशेत्यादि| अंससमीपोपलक्षितो देशोंऽसदेशः; अंसो बाहुशिरः| अंसबन्धनं श्लेष्माणमित्यर्थः| अंसबन्धनं शोषयित्वा ‘अंसशोषं रोगं करोति’ इति वाक्यशेषो ज्ञेयः| तत्रस्थः अंसदेशस्थित इत्यर्थः||८२||
Adhikarana 45 (83) · Śloka 83
यदा शब्दवहं स्रोतो वायुरावृत्य तिष्ठति |
शुद्धः श्लेष्मान्वितो वाऽपि बाधिर्यं तेन जायते ||८३||
बाधिर्यमाह- यदेत्यादि| शुद्धः केवलः| अपिशब्दाद्रक्तपित्तावरणयोरुपसङ्ग्रहः| यद्यप्ययं व्याधिः शालाक्येऽपि पठ्यते, तथाऽप्यत्रापि पठनीयः, वृद्धसम्मतत्वात्||८३||
Adhikarana 46 (84) · Śloka 84
हनुशङ्खशिरोग्रीवं यस्य भिन्दन्निवानिलः |
कर्णयोः कुरुते शूलं कर्णशूलं तदुच्यते ||८४||
कर्णशूलमाह- हनुशङ्खेत्यादि||८४||
Adhikarana 47 (85) · Śloka 85
आवृत्य सकफो वायुर्धमनीः शब्दवाहिनीः |
नरान् करोत्यक्रियकान्मूकमिन्मिणगद्गदान् ||८५||
जिह्वागतवातरोगं दर्शयन्नाह- आवृत्येत्यादि| आवृत्य अवरुन्ध्येत्यर्थः| मूको वचनरहितः, मिन्मिणः सानुनासिकवाक्, गद्गदोऽव्यक्तवाक्||८५||
Adhikarana 48 (86-87) · Śloka 87
अधो या वेदना याति वर्चोमूत्राशयोत्थिता |
भिन्दतीव गुदोपस्थं सा तूनीत्यभिधीयते ||८६||
गुदोपस्थोत्थिता सैव प्रतिलोमविसर्पिणी |
वेगैः पक्वाशयं याति प्रतितूनीति सा स्मृता ||८७||
तूनीवातमाह- अधो येत्यादि| भिन्दतीव गुदोपस्थमिति भेदं कुर्वतीव गुदोपस्थस्येत्यर्थः| प्रतिलोमविसर्पिणी अध-उत्थितोर्ध्वगामिनी| वेगैरिति वेदनावेगैर्मुहुर्मुहुः स्वभावोपशमोपलक्षितैः, ‘प्रतिलोमं प्रधाविता ’ इति केचित्||८६-८७||
Adhikarana 49 (88) · Śloka 88
साटोपमत्युग्ररुजमाध्मातमुदरं भृशम् |
आध्मानमिति जानीयाद्घोरं वातनिरोधजम् ||८८||
आध्मानमाह- साटोपमित्यादि| आटोपं सञ्चलनं, तेन सह वर्तत इति साटोपम्| उदरमत्र पक्वाशयः| घोरं कष्टकारि||८८||
Adhikarana 50 (89) · Śloka 89
विमुक्तपार्श्वहृदयं तदेवामाशयोत्थितम् |
प्रत्याध्मानं विजानीयात् कफव्याकुलितानिलम् ||८९||
प्रत्याध्मानमाह- विमुक्तेत्यादि| तदेव आध्मानमेव| आमाशयोत्थितं नाभिस्तनान्तरोत्थितम्| अत एव हृदयपार्श्वयोरप्यधिष्ठानमस्य प्राप्तं निरसन्नाह- विमुक्तपार्श्वहृदयमिति| व्याकुलित आवृतः||८९||
Adhikarana 51 (90-91) · Śloka 91
अष्ठीलावद्घनं ग्रन्थिमूर्ध्वमायतमुन्नतम् |
वाताष्ठीलां विजानीयाद्बहिर्मार्गावरोधिनीम् ||९०||
एनामेव रुजायुक्तां वातविण्मूत्ररोधिनीम् |
प्रत्यष्ठीलामिति वदेज्जठरे तिर्यगुत्थिताम् ||९१||
वाताष्ठीलामाह- अष्ठीलावदित्यादि| “अष्ठीला उत्तरापथे दीर्घवर्तुलपाषाणविशेषः” इत्येके, “चर्मकाराणां वर्तुलदीर्घा लौही भाण्डिः” इत्यपरे| घनः संहतावयवः| आयतो दीर्घः| बहिर्मार्गाणि वातविण्मूत्राणि| अन्येऽत्र ‘नाभेरधस्तात् सञ्जातं चलं वा यदि वाऽचलम्’ इति पठन्ति| प्रत्यष्ठीलामाह- एनामेवेत्यादि| एनामेव अष्ठीलाम्| तिर्यगुत्थितत्वेनाष्ठीलायाः सकाशात् प्रत्यष्ठीलाया भेदः| अस्याग्रे केचिदूरुस्तम्भं पठन्ति, तन्न, चिकित्सायां पठिष्यमाणत्वान्निबन्धकाराणामसम्मतत्वाच्च||९०-९१||
Adhikarana puShpikA · Śloka 1
इति सुश्रुतसंहितायां निदानस्थाने वातव्याधिनिदानं नाम प्रथमोऽध्यायः ||१||
इति श्रीडल्हणविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां निदानस्थाने प्रथमोऽध्यायः||१||