Adhikarana 1 (1-2) · Śloka 2
अथातो भगन्दराणां निदानं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथेत्यादि||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातो भगन्दराणां निदानं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथेत्यादि||१-२||
Adhikarana 2 (3) · Śloka 3
वातपित्तश्लेष्मसन्निपातागन्तुनिमित्ताः शतपोनकोष्ट्रग्रीवपरिस्राविशम्बूकावर्तोन्मार्गिणो यथासङ्ख्यं पञ्च भगन्दरा भवन्ति | ते तु भगगुदबस्तिप्रदेशदारणाच्च ‘भगन्दरा’ इत्युच्यन्ते | अभिन्नाः पिडकाः, भिन्नास्तु भगन्दराः ||३||
🔊 Audio coming soon
वातपित्तेत्यादि| सङ्ख्येयनिर्देशादेव सङ्ख्यासिद्धौ पञ्चेतिवचनं शोणितजादिनिषेधार्थम्| भगन्दरनिरुक्तिमाह- ते त्वित्यादि||३||
Adhikarana 3 (4) · Śloka 4
तेषां तु पूर्वरूपाणि- कटीकपालवेदना कण्डूर्दाहः शोफश्च गुदस्य भवति ||४||
🔊 Audio coming soon
पूर्वरूपमाह- तेषां त्वित्यादि| तेषां तु पूर्वरूपाणि ‘भवन्ति’ इत्यर्थः| कटीकपालः कटीफलकः||४||
Adhikarana 4 (5) · Śloka 5
तत्रापथ्यसेविनां वायुः प्रकुपितः सन्निवृत्तः स्थिरीभूतो गुदमभितोऽङ्गुले द्व्यङ्गुले वा मांसशोणिते प्रदूष्यारुणवर्णां पिडकां जनयति, साऽस्य तोदादीन् वेदनाविशेषाञ्जनयति, अप्रतिक्रियमाणा च पाकमुपैति, मूत्राशयाभ्यासगतत्वाच्च व्रणः प्रक्लिन्नः शतपोनकवदणुमुखैश्छिद्रैरापूर्यते, तानि च छिद्राण्यजस्रमच्छं फेनानुविद्धमधिकमास्रावं स्रवन्ति , व्रणश्च ताड्यते भिद्यते छिद्यते सूचीभिरिव निस्तुद्यते, गुदं चावदीर्यते, उपेक्षिते च वातमूत्रपुरीषरेतसामप्यागमश्च तैरेव छिद्रैर्भवति; तं भगन्दरं शतपोनकमित्यावक्षते ||५||
🔊 Audio coming soon
पूर्वरूपानन्तरं पिडिकोत्पत्तिपाकोपद्रवनिरुक्तीदर्शयन्नाह- तत्रापथ्येत्यादि| सन्निवृत्तौ व्याघुटितः| गुदमभितो गुदस्य सर्वतः; अन्ये ‘गुदसन्निधौ’ इत्याहुः| अभ्यासः समीपम्| शतपोनकः शूकदोषपरिपठितो व्याधिः; ‘चालनिका’ इति जेज्झटः; तन्नेच्छति गयी, लोकशास्त्रयोश्चालनिकायां शतपोनकशब्दस्याप्रसिद्धत्वात्; ‘अश्वपुच्छबालरचितं शताक्षकं’ इत्यन्ये| तुद्यते व्यथ्यते| ताड्यते दण्डेनेवाभिहन्यत इत्यर्थः| भिद्यते त्वग्विदार्यत इव| छिद्यते द्विधा क्रियत इव||५||
Adhikarana 5 (6) · Śloka 6
पित्तं तु प्रकुपितमनिलेनाधः प्रेरितं पूर्ववदवस्थितं रक्तां तन्वीमुच्छ्रितामुष्ट्रग्रीवाकारां पिडकां जनयति; साऽस्य चोषादीन् वेदनाविशेषाञ्जनयति; अप्रतिक्रियमाणा च पाकमुपैति; व्रणश्चाग्निक्षाराभ्यामिव दह्यते, दुर्गन्धमुष्णमास्रावं स्रवति, उपेक्षितश्च वातमूत्रपुरीषरेतांसि विसृजति; तं भगन्दरमुष्ट्रग्रीवमित्याचक्षते ||६||
🔊 Audio coming soon
पित्तं त्वित्यादि| पूर्ववदवस्थितमिति गुदमभितोऽङ्गुले द्व्यङ्गुले वेत्यर्थः| विसृजति स्रवति व्रण इति सम्बन्धः||६||
Adhikarana 6 (7) · Śloka 7
श्लेष्मा तु प्रकुपितः समीरणेनाधः प्रेरितः पूर्ववदवस्थितः शुक्लावभासां स्थिरां कण्डूमतीं पिडकां जनयति, साऽस्य कण्ड्वादीन् वेदनाविशेषाञ्जनयति, अप्रतिक्रियमाणां च पाकमुपैति, व्रणश्च कठिनः संरम्भी कण्डूप्रायः पिच्छिलमजस्रमास्रावं स्रवति, उपेक्षितश्च वातमूत्रपुरीषरेतांसि विसृजति; तं भगन्दरं परिस्राविणमित्याचक्षते ||७||
🔊 Audio coming soon
श्लेष्मेत्यादि| संरम्भी शोफवान्| कण्डूप्रायः खर्जूबहुलः| परिस्रावीत्येवंशीलः परिस्रावी||७||
Adhikarana 7 (8) · Śloka 8
वायुः प्रकुपितः प्रकुपितौ पित्तश्लेष्माणौ परिगृह्याधो गत्वा पूर्ववदवस्थितः पादाङ्गुष्ठाग्रप्रमाणां सर्वलिङ्गां पिडकां जनयति, साऽस्य तोददाहकण्ड्वादीन् वेदनाविशेषाञ्जनयति, अप्रतिक्रियमाणा च पाकमुपैति, व्रणश्च नानाविधवर्णमास्रावं स्रवति, पूर्णनदीशम्बूकावर्तवच्चात्र समुत्तिष्ठन्ति वेदनाविशेषाः; तं भगन्दरं शम्बूकावर्तमित्याचक्षते ||८||
🔊 Audio coming soon
‘पूर्णनदीशम्बूकावर्तवन्नैरन्तर्येण वेदना उत्तिष्ठन्ति’ इत्येके; अन्ये तु ‘तथाविधगत्यारम्भकस्य शोफस्य पूर्णनद्यावर्तशम्बूकावर्ताकारेणेवावगत्वादवगाढवेदना भवन्तीत्यर्थः’| शम्बूकाः शङ्खाः||८||
Adhikarana 8 (9) · Śloka 9
मूढेन मांसलुब्धेन यदस्थिशल्यमन्नेन सहाभ्यवहृतं यदाऽवगाढपुरीषोन्मिश्रमपानेनाधःप्रेरितमसम्यगागतं गुदमपक्षिणोति तदा क्षतनिमित्तः कोथ उपजायते, तस्मिंश्च क्षते पूयरुधिरावकीर्णमांसकोथे भूमाविव जलप्रक्लिन्नायां क्रिमयः सञ्जायन्ते, ते भक्षयन्तो गुदमनेकधा पार्श्वतो दारयन्ति, तस्य तैर्मार्गैः कृमिकृतैर्वातमूत्रपुरीषरेतांस्यभिनिःसरन्ति; तं भगन्दरमुन्मार्गिणमित्याचक्षते ||९||
🔊 Audio coming soon
उन्मार्गिणः सम्प्राप्ति दर्शयन्नाह- मूढेनेत्यादि| मूढेन अज्ञातेन| अपक्षिणोति सक्षतं करोति| कोथः पूतिभावः| पार्श्वतो दारयन्ति पक्षतो दारयन्ति| अस्याग्रे अर्शोभगन्दरं केचित् पठन्ति; तन्न, सर्वैर्निबन्धकारैर्निराकृतत्वात्||९||
Adhikarana 9 (10-11) · Śloka 11
भवन्ति चात्र- उत्पद्यतेऽल्परुक् शोफात् क्षिप्रं चाप्युपशाम्यति | पाय्वन्तदेशे पिडका सा ज्ञेयाऽन्या भगन्दरात् ||१०|| पायोः स्याद् द्व्यङ्गुले देशे गूढमूला सरुग्ज्वरा | भागन्दरीति विज्ञेया पिडकाऽतो विपर्ययात् ||११||
🔊 Audio coming soon
अभागन्दरीं भागन्दरीं च पिडकामाह- भवन्ति चात्रेत्यादि| पाय्वन्तदेशे पिडका शोफादुत्पद्यत इति सम्बन्धः| अल्परुक् अल्पवेदना, पाय्वन्तदेशे गुदस्यान्ते, अन्या भगन्दरात् अपरा भगन्दरेभ्य इत्यर्थः| एतेनाभागन्दरी पिडकोक्ता, यतोऽस्या भगन्दरो नोत्पद्यते| अतोऽभागन्दर्याः पिडकायाः, विपर्ययात् विपरीतत्वात्, भागन्दरीति भगन्दरकरी भवतीत्यर्थः||१०-११||
Adhikarana 10 (12) · Śloka 12
यानयानान्मलोत्सर्गात् कण्डूरुग्दाहशोफवान् | पायुर्भवेद्रुजः कट्यां पूर्वरूपं भगन्दरे ||१२||
🔊 Audio coming soon
योनेत्यादि| यानयानात् रथादिगमनात्| मलोत्सर्गात् पुरीषत्यागात्| कण्डूरुग्दाहशोफवान् पायुर्भवेत्, ततोऽनन्तरं कट्यां कण्डूरुग्दाहशोफादिकं पूर्वरूपं भवेत्| अयं वा पठनीयः पूर्वो वा; पूर्वरूपग्रन्थद्वयं वा पठनीयं, पूर्वश्चाप्रसिद्धः, अयं तु प्रसिद्धः||१२||
Adhikarana 11 (13) · Śloka 13
घोराः साधयितुं दुःखाः सर्व एव भगन्दराः | तेष्वसाध्यस्त्रिदोषोत्थः क्षतजश्च भगन्दरः ||१३||
🔊 Audio coming soon
तत्र केषाञ्चिदसाध्यत्वं दर्शयन्नाह- घोरा इत्यादि| घोरा दुःखप्रदाः| साधयितुं दुःखाः कष्टसाध्याः, ‘भवन्ति’ इत्यध्याहारः||१३||
Adhikarana puShpikA · Śloka 4
इति सुश्रुतसंहितायां निदानस्थाने भगन्दरनिदानं नाम चतुर्थोऽध्यायः ||४||
🔊 Audio coming soon
इति श्रीडह्लणविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां निदानस्थाने चतुर्थोऽध्यायः||४||