Adhikarana 1 (1-2) · Śloka 2
अथातः कुष्ठनिदानं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथेत्यादि||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातः कुष्ठनिदानं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथेत्यादि||१-२||
Adhikarana 2 (3) · Śloka 3
मिथ्याहाराचारस्य विशेषाद्गुरुविरुद्धासात्म्याजीर्णाहिताशिनः स्नेहपीतस्य वान्तस्य वा व्यायामग्राम्यधर्मसेविनो ग्राम्यानूपौदकमांसानि वा पयसाऽभीक्ष्णमश्नतो यो वा मज्जत्यप्सूष्माभितप्तः सहसा छर्दिं वा प्रतिहन्ति, तस्य पित्तश्लेष्माणौ प्रकुपितौ परिगृह्यानिलः प्रवृद्धस्तिर्यग्गाः सिराः सम्प्रपद्य समुद्धूय बाह्यं मार्गं प्रति समन्ताद्विक्षिपति, यत्र यत्र च दोषो विक्षिप्तो निश्चरति तत्र तत्र मण्डलानि प्रादुर्भवन्ति, एवं समुत्पन्नस्त्वचि दोषस्तत्र तत्र च परिवृद्धिं प्राप्याप्रतिक्रियमाणोऽभ्यन्तरं प्रतिपद्यते धातूनभिदूषयन् ||३||
🔊 Audio coming soon
इदानीं हेतुमाह- मिथ्येत्यादि| मिथ्याहाराचारस्य शास्त्रोक्तविधिभ्रष्टाहाराचारस्येत्यर्थः| सम्प्राप्तिमाह- तस्येत्यादि| तस्य मिथ्याहाराचारस्येत्यादिकस्य| समुद्भूय आक्षिप्य, समन्तात् सर्वत्र; एतेन सर्वदेहगतत्वं रोगस्य सूचयति||३||
Adhikarana 3 (4) · Śloka 4
तस्य पूर्वरूपाणि- त्वक्पारुष्यमकस्माद्रोमहर्षः कण्डूः स्वेदबाहुल्यमस्वेदनं वाऽङ्गप्रदेशानां स्वापः क्षतविसर्पणमसृजः कृष्णता चेति ||४||
🔊 Audio coming soon
पूर्वरूपमाह- तस्येत्यादि| अकस्मात् कारणं विना| स्वापः स्पर्शाज्ञानम्||४||
Adhikarana 4 (5) · Śloka 5
तत्र सप्त महाकुष्ठानि, एकादश क्षुद्रकुष्ठानि, एवमष्टादश कुष्ठानि भवन्ति | तत्र महाकुष्ठान्यरुणोदुम्बरर्ष्य(र्क्ष)जिह्वकपालकाकणकपुण्डरीकदद्रुकुष्ठानीति | क्षुद्रकुष्ठान्यपि स्थूलारुष्कं महाकुष्ठमेककुष्ठं चर्मदलं विसर्पः परिसर्पः सिध्मं विचर्चिका किटिभं (मं) पामा रकसा चेति ||५||
🔊 Audio coming soon
इदानीं सङ्ख्यामाह- तत्रेत्यादि| महत्त्वमुत्तरोत्तरधात्वनुप्रवेशात्| एकादशकुष्ठानां क्षुद्रत्वमुत्तरोत्तरधात्वननुप्रवेशात्| अष्टादश कुष्ठानि भवन्तीति दिङ्मात्रमिदं दर्शितं, कुष्ठानामनियतसङ्ख्यत्वात्; तथा च चरकः- “सप्तविधोऽष्टादशविधोऽसङ्ख्येयविधो वा” (च. नि. ५) इति| महाकुष्ठानि नामतः प्राह- तत्र महाकुष्ठानीत्यादि| क्षुद्रकुष्ठानि नामतः प्राह- क्षुद्रकुष्ठान्यपीत्यादि||५||
Adhikarana 5 (6) · Śloka 6
सर्वाणि कुष्ठानि सवातानि सपित्तानि सश्लेष्माणि सक्रिमीणि च भवन्ति, उत्सन्नतस्तु दोषग्रहणमभिभवात् ||६||
🔊 Audio coming soon
सर्वेष्वेव कुष्ठेषु सर्वेषामेव दोषाणां क्रिमीणां च सम्भवं दर्शयन्नाह- सर्वाणीत्यादि| सर्वाणि क्षुद्राणि महान्ति च| कथं तर्हि वातेनारुणमित्यादीत्याशङ्क्याह- उत्सन्नतस्तु दोषग्रहणमभिभवादिति; उत्सन्नत औत्कट्यात् दोषग्रहणम्, अभिभवात् ‘इतरदोषयोः’ इति शेषः||६||
Adhikarana 6 (7) · Śloka 7
तत्र वातेनारुणं, पित्तेनोदुम्बरर्ष्य(र्क्ष)जिह्वकपालकाकणकानि, श्लेष्मणा पुण्डरीकं दद्रुकुष्ठं चेति | तेषां महत्त्वं क्रियागुरुत्वमुत्तरोत्तरं धात्वनुप्रवेशादसाध्यत्वं चेति ||७||
🔊 Audio coming soon
यस्य दोषस्य यस्मिन् कुष्ठे औत्कट्यं तेन तद्दर्शयन्नाह- तत्रेत्यादि| तत्रारुणादीनां सप्तानां महत्त्वादिषु हेतुं दर्शयन्नाह- तेषामित्यादि| अनुशब्देन पश्चादर्थवाचिना महत्वेऽसाध्यत्वेऽपि काकणकवर्जं कालान्तरं च सूच्यते; काकणकं पुनरुत्पत्तावेवासाध्यं, व्याधिस्वभावात्| असाध्यत्वं चेति चकारो धात्वनुप्रवेशाच्चेत्यनन्तरं द्रष्टव्यः; तेनानुक्तमारम्भकदोषमहत्त्वं समुच्चिनोति||७||
Adhikarana 7 (8) · Śloka 8
तत्र, वातेनारुणाभानि तनूनि विसर्पीणि तोदभेदस्वापयुक्तान्यरुणानि | पित्तेन पक्वोदुम्बरफलाकृतिवर्णान्यौदुम्बराणि , ऋष्य(क्ष)जिह्वाप्रकाशानि खराणि ऋष्य(क्ष)जिह्वानि, कृष्णकपालिकाप्रकाशानि कपालकुष्ठानि, काकणन्तिकाफलसदृशान्यतीव रक्तकृष्णानि काकणकानि ; तेषां चतुर्णामप्योषचोषपरिदाहधूमायनानि क्षिप्रोत्थानप्रपाकभेदित्वानि क्रिमिजन्म च सामान्यानि लिङ्गानि | श्लेष्मणा पुण्डरीकपत्रप्रकाशानि पौण्डरीकाणि, अतसीपुष्पवर्णानि ताम्राणि वा विसर्पीणि पिडकावन्ति च दद्रुकुष्ठानि; तयोर्द्वयोरप्युत्सन्नता परिमण्डलता कण्डूश्चिरोत्थानत्वं चेति सामान्यानि रूपाणि ||८||
🔊 Audio coming soon
तत्र महाकुष्ठानां लक्षणं दर्शयन्नाह- तत्र वातेनेत्यादि| ऋष्यजिह्वाप्रकाशानीति ऋष्यजिह्वाया इव प्रकाशः सादृश्यं येषां तानि खरत्वयुक्तानि, ऋष्यो नीलाण्डः ‘रोरु ’ इति प्रसिद्धः; अन्ये ‘ऋक्ष’ इति पठन्ति, ऋक्षो ‘रीछ’ इति लोके| कृष्णकपालिका कृष्णकर्करा| काकणन्तिका गुञ्जा, ‘चिरहण्टिका’ इति प्रसिद्धा, तत्फलवद्रक्तानि मध्ये कृष्णानि| उदुम्बरादीनां पित्तकृतत्वं दर्शयन्नाह- तेषामित्यादि| उषोऽनलसमीप इवोपतापः, प्लुष्टस्येव वेदनाविशेष इत्यन्ये; चोष आचूष्यत इव वेदनाविशेषः, पिपासेत्यन्ये; परिदाहः सर्वतो दाहः; धूमायनं धूमोपहतस्येव, ‘धूमोद्वमनमिवाङ्गानाम्’ इत्येके| पुण्डरीकदद्रुकुष्ठयोर्लक्षणं दर्शयन्नाह- श्लेष्मणेत्यादि| पुण्डरीकं श्वेतपद्मम्| दद्रुकुष्ठं द्विविधं- सितमसितं च; असितस्य महोपक्रमसाध्यत्वादनुबन्धित्वप्रकर्षाच्च महाकुष्ठेषु मध्ये सुश्रुते पाठः, सितदद्रुकुष्ठस्य सुखसाध्यत्वादुत्तरोत्तरधात्वनुप्रवेशाभावात्तथाऽत्यर्थपीडारहितत्वाच्च चरके क्षुद्रकुष्ठेषु मध्ये पाठ इत्यदोषः| दद्रुसिध्मयोः सुश्रुतचरकोदितयोरभिधानभेद इति जेज्झटः समादधति, तन्नेच्छति गयी| तयोः पुण्डरीकदद्रुकुष्ठयोः पित्तकफकृतत्वं दर्शयन्नाह- तयोरित्यादि| परिमण्डलता परिपूर्णमण्डलता||८||
Adhikarana 8 (9) · Śloka 9
क्षुद्रकुष्ठान्यत ऊर्ध्वं वक्ष्यामः- स्थूलानि सन्धिष्वतिदारुणानि स्थूलारुषि स्युः कठिनान्यरूंषि |९|
🔊 Audio coming soon
क्षुद्रकुष्ठेषु प्राक् स्थूलारुष्कमाह- स्थूलानीत्यादि| स्थूलानि स्थूलमूलानि| दारुणानि कृच्छ्रसाध्यानि| अरूंषि व्रणाः|९|-
Adhikarana 9 (9) · Śloka 9
त्वक्कोचभेदस्वपनाङ्गसादाः कुष्ठे महत्पूर्वयुते भवन्ति ||९||
🔊 Audio coming soon
महाकुष्ठलक्षणमाह- त्वक्कोचेत्यादि| त्वक्शब्दः कोचभेदस्वप्नैः सह प्रत्येकं सम्बध्यते; तेन त्वक्कोचः त्वक्सङ्कोचः, त्वग्भेदः त्वग्विदारणं, त्वक्स्वपनं त्वचोऽचेतनत्वम्, अङ्गसादोऽङ्गग्लानिः| कुष्ठे महत्पूर्वयुत इति महाकुष्ठ इत्यर्थः||९||
Adhikarana 10 (10) · Śloka 10
कृष्णारुणं येन भवेच्छरीरं तदेककुष्ठं प्रवदन्ति कुष्ठम् |१०|
🔊 Audio coming soon
एककुष्ठमाह- कुष्णारुणमित्यादि|१०|-
Adhikarana 11 (10) · Śloka 10
स्युर्येन कण्डूव्यथनौषचोषास्तलेषु तच्चर्मदलं वदन्ति ||१०||
🔊 Audio coming soon
चर्मदलमाह- स्युर्येनेत्यादि| चोष आचूषणमिव| तलेषु हस्तपादतलेषु||१०||
Adhikarana 12 (11) · Śloka 11
विसर्पवत् सर्पति सर्वतो यस्त्वग्रक्तमांसान्यभिभूय शीघ्रम् | मूर्च्छाविदाहारतितोदपाकान् कृत्वा विसर्पः स भवेद्विकारः ||११||
🔊 Audio coming soon
विसर्पकुष्ठलक्षणमाह- विसर्पवदित्यादि| अत्रोक्तविसर्पाख्यकुष्ठस्य वक्ष्यमाणविसर्परोगस्य च चिरविसर्पणशीघ्रविसर्पणतो भेदः||११||
Adhikarana 13 (12) · Śloka 12
शनैः शरीरे पिडकाः स्रवन्त्यः सर्पन्ति यास्तं परिसर्पमाहुः |१२|
🔊 Audio coming soon
परिसर्पमाह- शनैरित्यादि|१२|-
Adhikarana 14 (12) · Śloka 12
कण्ड्वन्वितं श्वेतमपायि सिध्म विद्यात्तनु प्रायश ऊर्ध्वकाये ||१२||
🔊 Audio coming soon
सिध्मकुष्ठमाह- कुण्ड्वन्वितमित्यादि| अपायि अकष्टकारि | प्रायश ऊर्ध्वकाय इति प्रायःशब्दोपादानादधःकायेऽपि कदाचिद्भवति| सिध्मकुष्ठं द्विविधं- पुष्पिकासिध्मं, सिध्मं च; पुष्पिकासिध्मस्य सुखसाध्यत्वात् सुश्रुते क्षुद्रकुष्ठेषु पाठः, सिध्मस्य दुःखसाध्यत्वाच्चरके महाकुष्ठे पाठ इत्यदोषः||१२||
Adhikarana 15 (13) · Śloka 13
राज्योऽतिकण्ड्वर्तिरुजः सरूक्षा भवन्ति गात्रेषु विचर्चिकायाम् | कण्डूमती दाहरुजोपपन्ना विपादिका पादगतेयमेव ||१३||
🔊 Audio coming soon
विचर्चिकामाह- राज्य इत्यादि| राज्यो रेखाः, ताश्च सरूक्षा भवन्ति| कण्ड्वर्तिः खर्जूपीडा, रुजो वेदनाः, अतिशब्दः कण्ड्वर्तिरुग्भ्यां सम्बध्यते| गात्रेषु पाणिपादेषु| कण्डूमतीत्यादि| इयमेव विचर्चिका पादगता यदा स्यात्तदा विचर्चिकासञ्ज्ञां विहाय विपादिकासञ्ज्ञां प्राप्नोतीत्यर्थः||१३||
Adhikarana 16 (14) · Śloka 14
यत् स्रावि वृत्तं घनमुग्रकण्डु तत् स्निग्धकृष्णं किटिभं(मं) वदन्ति |१४|
🔊 Audio coming soon
किटिभमाह- यदित्यादि| ‘रक्तकृष्णं’ इति केचित् पठन्ति|१४|-
Adhikarana 17 (14) · Śloka 15
सास्रावकण्डूपरिदाहकाभिः पामाऽणुकाभिः पिडकाभिरूह्या ||१४|| स्फोटैः सदाहैरति सैव कच्छूः स्फिक्पाणिपादप्रभवैर्निरूप्या |१५|
🔊 Audio coming soon
अथ पामामाह,- सास्रावेत्यादि| सहास्रावकण्डूपरिदाहकैर्वर्तन्ते याः पिडकास्तास्तथाविधाः, ताभिरूह्या पामेति सम्बन्धः; ये तु ‘सास्रावकण्डूपरिदाहवद्भिः’ इति पठन्ति, ते तु व्याख्यानयन्ति- सास्रावौ यौ कण्डूपरिदाहौ तद्युक्तैः पुरुषैः कृत्वा, अणुकाभिः पिडकाभिः कृत्वा, पामा ऊह्या ‘वैद्यैः’ इति शेषः| सैव कच्छूरिति सैव पाण्योः स्फिजोश्च तीव्रदाहैः स्फोटैरुपगता कच्छूरुच्यते||१४||-
Adhikarana 18 (15) · Śloka 15
कण्ड्वन्विता या पिडका शरीरे संस्रावहीना रकसोच्यते सा ||१५||
🔊 Audio coming soon
रकसामाह- कण्ड्वन्वितेत्यादि| शरीरे सकले काये||१५||
Adhikarana 19 (16) · Śloka 16
अरुः ससिध्मं रकसा महच्च यच्चैककुष्ठं कफजान्यमूनि | वायोः प्रकोपात् परिसर्पमेकं शेषाणि पित्तप्रभवाणि विद्यात् ||१६||
🔊 Audio coming soon
इदानीं कस्मिन् क्षुद्रकुष्ठे कस्याधिक्यमित्याह- अरुरित्यादि| अरुः स्थूलारुष्कम्| शेषाणि विसर्पकिटिभविचर्चिकापामाचर्मदलानि| अरुः ससिध्ममित्यादि| जेज्झटेन स्वकपोलकल्पितः श्लोक इति गयदासो न मन्यते, यस्मादेककुष्ठं महाकुष्ठं च वातादेव भवति न कफात्, परिसर्पं पित्तात्; पाठान्तरं चात्र ‘अरुष्कं’ इत्यादि पठति, तच्चाभावान्न लिखितम्||१६||
Adhikarana 20 (17) · Śloka 17
किलासमपि कुष्ठविकल्प एव; तत्त्रिविधं- वातेन, पित्तेन, श्लेष्मणा चेति | कुष्ठकिलासयोरन्तरं- त्वग्गतमेव किलासमपरिस्रावि च | तद्वातेन मण्डलमरुणं परुषं परिध्वंसि च, पित्तेन पद्मपत्रप्रतीकाशं सपरिदाहं च, श्लेष्मणा श्वेतं स्निग्धं बहलं कण्डूमच्च | तेषु सम्बद्धमण्डलमन्तेजातं रक्तरोम चासाध्यमग्निदग्धं च ||१७||
🔊 Audio coming soon
किलासं निर्दिशन्नाह- किलासमपीत्यादि| अपिशब्दः सम्भावनायां, तेन किलासं कुष्ठविकृतिरिति सम्भाव्यते; अन्ये तु, किमपि किलासं कुष्ठविकल्पो न भवतीत्यपिशब्दादाहुः; किं तत् किलासं कुष्ठविकल्पो न भवति? उच्यते- त्वग्गतमपरिस्रावि चेति; अन्तरं भेदः| त्वग्गतमिति कुष्ठं त्वग्रक्तमांसमधिष्ठाय त्वचि दर्शयत्यात्मानं, किलासं तु त्वचमेव केवलामधितिष्ठतीत्यर्थः| अन्ये तु ‘त्वग्गतमेव किलाससञ्ज्ञं, तदेव धात्वनुप्रवेशाच्छ्वित्रसञ्ज्ञम्’ इत्याहुः| तथा च विश्वामित्रः,- “त्वग्गतं तु यदस्रावि किलासं तत् प्रकीर्तितम्| यदा त्वचमतिक्रम्य तद्धातूनवगाहते|| हित्वा किलाससञ्ज्ञां च श्वित्रसञ्ज्ञां लभेत तत्”- इति| वातादिजानां किलासानां लक्षणमाह- तद्वातेनेत्यादि| परिध्वंसीति घृष्टं सद्रजो विमुञ्चतीत्यर्थः| बहलं स्थूलम्| अतः परमसाध्यावधारणं- तेष्वित्यादि| तेषु वातपित्तश्लेष्मजेषु किलासेषु| सम्बद्धमण्डलमिति परस्परमभिन्नमण्डलमित्यर्थः| अन्ते जातम् ओष्ठपाणिपादगुह्यजम्; अन्ये त्वत्र ‘अन्तर्जातरक्तरोम च’ इति पठन्ति; अन्तर्मध्ये जातानि रक्तानि लोमानि यत्र तत्तथा; ते चाचार्या ‘अग्निदग्धं च’ इति चकारेण पाणिपादगुह्यौष्ठजमनुक्तमप्यसाध्यं समुच्चिन्वन्ति||१७||
Adhikarana 21 (18) · Śloka 18
कुष्ठेषु तु त्वक्सङ्कोचस्वापस्वेदशोफभेदकौण्यस्वरोपघाता वातेन, पाकावदरणाङ्गुलिपतनकर्णनासाभङ्गाक्षिरागसत्त्वोत्पत्तयः पित्तेन, कण्डूवर्णभेदशोफास्रावगौरवाणि श्लेष्मणा ||१८||
🔊 Audio coming soon
कुष्ठानां सङ्क्षेपेणोक्तत्वादनुक्तमपि दोषलिङ्गं दर्शयन्नाह- कुष्ठेष्वित्यादि| वातकार्येषु स्वेदश्चिन्त्यः| ‘त्वक्सङ्कोचस्वापास्वेदौ’ इत्यन्ये पठन्ति, तत्र नञ् स्वेदनिषेधार्थः; ‘व्याधिस्वभावात् स्वेदोऽपि स्यात्’ इत्यपरे| कौण्यं नष्टकरता| सत्त्वोत्पत्तयः क्रिमीणां जन्मानि ||१८||
Adhikarana 22 (19) · Śloka 19
तत्रादिबलप्रवृत्तं पौण्डरीकं काकणं चासाध्यम् ||१९||
🔊 Audio coming soon
तेषामसाध्यतां दर्शयन्नाह- तत्रेत्यादि| पुण्डरीकमादिबलप्रवृत्तं शुक्रशोणितदोषजमसाध्यम्| ननु चादिबलप्रवृत्तमन्यदपि कुष्ठमसाध्यमेव, यदाह चरकः,- “ये चापि केचित् कुलजा विकारास्तांश्चाप्यसाध्यान् प्रवदन्ति तज्ज्ञाः” (च. चि. ६) इति; कुलजा इत्यनेन दुष्टशुक्रशोणितजा उच्यन्ते| पुण्डरीकग्रहणं सर्वेषामेव महाकुष्ठानामुपलक्षणं; तेषामेवोत्तरोत्तरधात्वनुक्रमेण शुक्रधातोर्दुष्टिजननसामर्थ्यात्| एतेन क्षुद्रकुष्ठेष्वादिबलप्रवृत्तत्वं नास्ति, उत्तरोत्तरधात्वननुक्रमणाभावेन शुक्रदोषकरणेऽसामर्थ्यात्| काकणकं चासाध्यम्, उत्पत्तावेव त्रिदोषबलप्रवृत्तत्वात्; धात्वनुक्रमणेन हि महाकुष्ठानामस्थिमज्जशुक्रगतानामसाध्यत्वमुपरिष्ठादेव वक्ष्यति||१९||
Adhikarana 23 (20-21) · Śloka 21
भवन्ति चात्र- यथा वनस्पतिर्जातः प्राप्य कालप्रकर्षणम् | अन्तर्भूमिं विगाहेत मूलैर्वृष्टिविवर्धितैः ||२०|| एवं कुष्ठं समुत्पन्नं त्वचि कालप्रकर्षतः | क्रमेण धातून् व्याप्नोति नरस्याप्रतिकारिणः ||२१||
🔊 Audio coming soon
इदानीमप्रतिकारिण उत्तरोत्तरधात्वनुक्रमणे दृष्टान्तं दर्शयन्नाह- भवन्ति चात्रेत्यादि| यथा वनस्पतिर्वृक्षः, कालप्रकर्षणं कालाधिक्यं प्राप्य, मूलैः कृत्वा, अन्तर्भूमिं विगाहेतेति सम्बन्धः| त्वचीति अत्र त्वक्शब्देन रस उक्तः, रसारब्धत्वात्; तेन रसस्थमित्यर्थः||२०-२१||
Adhikarana 24 (22-28) · Śloka 28
स्पर्शहानिः स्वेदनत्वमीषत्कण्डूश्च जायते | वैवर्ण्यं रूक्षभावश्च कुष्ठे त्वचि समाश्रिते ||२२|| त्वक्स्वापो रोमहर्षश्च स्वेदस्याभिप्रवर्तनम् | कण्डूर्विपूयकश्चैव कुष्ठे शोणितसंश्रिते ||२३|| बाहुल्यं वक्रशोषश्च कार्कश्यं पिडकोद्गमः | तोदः स्फोटः स्थिरत्वं च कुष्ठे मांससमाश्रिते ||२४|| दौर्गन्ध्यमुपदेहश्च पूयोऽथ क्रिमयस्तथा | गात्राणां भेदनं चापि कुष्ठे मेदःसमाश्रिते ||२५|| नासाभङ्गोऽक्षिरागश्च क्षते च क्रिमिसम्भवः | भवेत् स्वरोपघातश्च ह्यस्थिमज्जसमाश्रिते ||२६|| कौण्यं गतिक्षयोऽङ्गानां सम्भेदः क्षतसर्पणम् | शुक्रस्थानगते लिङ्गं प्रागुक्तानि तथैव च ||२७|| स्त्रीपुंसयोः कुष्ठदोषाद्दुष्टशोणितशुक्रयोः | यदपत्यं तयोर्जातं ज्ञेयं तदपि कुष्ठितम् ||२८||
🔊 Audio coming soon
धातुगतकुष्ठानां लक्षणमाह- स्पर्शहानिरित्यादि| “प्रागेव रसधातुं क्रोडीकृत्य दोषाः कुष्ठारम्भकाः, अतो रसधातुलक्षणं नोक्तम्” इत्येके; अपरे त्वक्शब्देन रसमाहुः| जायत इत्यत्रापि सम्बध्यते| विपूयको दुर्गन्धता| शोणितसंश्रिते इति ‘जायते’ इत्यत्रापि सम्बध्यते| बाहुल्यं स्थूलमण्डलता| स्फोटः त्वचः स्फुटनम्| स्थिरत्वं कठिनमण्डलता| केचिदत्रान्यथा पठन्ति, स च पाठोऽभावान्न लिखितः| अत्रापि ‘जायते’ इत्यध्याहारः| उपदेहो मलवृद्धिः| अत्रापि केचिदन्यथा श्लोकं पठन्ति, सोऽपि पाठोऽभावान्न लिखितः| शुक्रगतस्य कुष्ठस्य लिङ्गं दर्शयन्नाह- कौण्यमित्यादि| तदपीत्यपिशब्दात् पूर्वोक्तान्यपि रसादिमज्जान्तगतानि लिङ्गानि भवन्ति| कुष्ठितं सञ्जातकुष्ठम्; अन्ये तु ‘कुष्ठवत्’ इति पठन्ति, कुष्ठसहितमित्यर्थः; अन्ये ‘कुष्ठिलम्’ इति पठन्ति, तत्रापि स एवार्थः| यदा स्त्रीपुंसयोः कुष्ठिनोर्बीजमुपहतं स्यात्तदा तयोः प्रजा नोत्पद्यते; उपतप्तमात्रबीजयोः पुनः प्रजोपताप उत्पद्यते||२२-२८||
Adhikarana 25 (29) · Śloka 29
कुष्ठमात्मवतः साध्यं त्वग्रक्तपिशिताश्रितम् | मेदोगतं भवेद्याप्यमसाध्यमत उत्तरम् ||२९||
🔊 Audio coming soon
इदानीं धात्वनुक्रमेऽपि साध्यादिभेदं दर्शयन्नाह- कुष्ठमित्यादि| आत्मवतो जितेन्द्रियस्य||२९||
Adhikarana 26 (30) · Śloka 30
ब्रह्मस्त्रीसज्जनवधपरस्वहरणादिभिः | कर्मभिः पापरोगस्य प्राहुः कुष्ठस्य सम्भवम् ||३०||
🔊 Audio coming soon
कुष्ठस्य कर्मजत्वं दर्शयन्नाह- ब्रह्मस्त्रीत्यादि| सज्जनः सत्पुरुषः| परस्वं परद्रव्यम्||३०||
Adhikarana 27 (31-32) · Śloka 32
म्रियते यदि कुष्ठेन पुनर्जातेऽपि गच्छति | नातः कष्टतरो रोगो यथा कुष्ठं प्रकीर्तितम् ||३१|| आहाराचारयोः प्रोक्तामास्थाय महतीं क्रियाम् | औषधीनां विशिष्टानां तपसश्च निषेवणात् | यस्तेन मुच्यते जन्तुः स पुण्यां गतिमाप्नुयात् ||३२||
🔊 Audio coming soon
कुष्ठं दीर्घरोगाणां प्रधानमिति जन्मान्तरेऽपि तदनुबन्धं दर्शयन्नाह- म्रियत इत्यादि| गच्छति अनुगतं भवतीत्यर्थः, कुष्ठजनकस्य कर्मणोऽक्षीणत्वात्| आस्थाय आश्रित्य| स पुण्यां गतिमाप्नुयात्, क्षीणपापत्वात्||३१-३२||
Adhikarana 28 (33-34) · Śloka 34
प्रसङ्गाद्गात्रसंस्पर्शान्निश्वासात् सहभोजनात् | सहशय्यासनाच्चापि वस्त्रमाल्यानुलेपनात् ||३३|| कुष्ठं ज्वरश्च शोषश्च नेत्राभिष्यन्द एव च | औपसर्गिकरोगाश्च सङ्क्रामन्ति नरान्नरम् ||३४||
🔊 Audio coming soon
संसर्गसम्भवप्रधानं कुष्ठमाश्रित्य कुष्ठिप्रभृतीनां संसर्गपरिहारं दर्शयन्नाह- प्रसङ्गादित्यादि| प्रसङ्गादिति प्रसङ्गेन अभ्यासेन कृतात्, पुनः पुनः कृतादित्यर्थः| इदं विशेषणं गात्रसंस्पर्शादिभिः सर्वैः सह प्रत्येकं सम्बध्यते| सहशय्यासनादिति एकशय्यासनस्थितेः| माल्यं पुष्पम्| औपसर्गिकरोगाः शीतलिकादयः| सङ्क्रामन्ति आविशन्ति||३३-३४||
Adhikarana puShpikA · Śloka 5
इति सुश्रुतसंहितायां निदानस्थाने कुष्ठनिदानं नाम पञ्चमोऽध्यायः ||५||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां निदानस्थाने पञ्चमोऽध्यायः||५||