Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

16. mukharōganidānam

Adhikarana 1 (1-2) · Śloka 2

अथातो मुखरोगाणां निदानं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

अथात इत्यादि||१-२||

Adhikarana 2 (3) · Śloka 3

मुखरोगाः पञ्चषष्टिर्भवन्ति सप्तस्वायतनेषु | तत्रायतनानि- ओष्ठौ, दन्तमूलानि, दन्ताः, जिह्वा, तालु, कण्ठः, सर्वाणि चेति | तत्राष्टावोष्ठयोः, पञ्चदश दन्तमूलेषु, अष्टौ दन्तेषु, पञ्च जिह्वायां, नव तालुनि, सप्तदश कण्ठे, त्रयः सर्वेष्वायतनेषु ||३||

🔊 Audio coming soon

तेषां सङ्ख्यामाह- मुखरोगा इत्यादि| अन्ये सप्तषष्टिरित्याहुः, तन्नेच्छन्ति निबन्धकाराः| अथ ते कियत्सु स्थानेषूत्पद्यन्त इत्याह- सप्तस्वायतनेष्विति| आयतनेषु स्थानेषु| तान्येव स्थानान्याह- तत्रायतनानीत्यादि||३||

Adhikarana 3 (4) · Śloka 4

तत्रौष्ठप्रकोपा वातपित्तश्लेष्मसन्निपातरक्तमांसमेदोभिघातनिमित्ताः ||४||

🔊 Audio coming soon

ओष्ठप्रकोपा ओष्ठरोगाः||४||

Adhikarana 4 (5-12) · Śloka 12

कर्कशौ परुषौ स्तब्धौ कृष्णौ तीव्ररुगन्वितौ | दाल्येते परिपाट्येते ह्योष्ठौ मारुतकोपतः ||५|| आचितौ पिडकाभिस्तु सर्षपाकृतिभिर्भृशम् | सदाहपाकसंस्रावौ नीलौ पीतौ च पित्ततः ||६|| सवर्णाभिस्तु चीयेते पिडकाभिरवेदनौ | कण्डूमन्तौ कफाच्छूनौ पिच्छिलौ शीतलौ गुरू ||७|| सकृत् कृष्णौ सकृत् पीतौ सकृच्छ्वेतौ तथैव च | सन्निपातेन विज्ञेयावनेकपिडिकाचितौ ||८|| खर्जूरफलवर्णाभिः पिडकाभिः समाचितौ | रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ ||९|| मांसदुष्टौ गुरू स्थूलौ मांसपिण्डवदुद्गतौ | जन्तवश्चात्र मूर्च्छन्ति सृक्कस्योभयतो मुखात् ||१०|| मेदसा घृतमण्डाभौ कण्डूमन्तौ स्थिरौ मृदू | अच्छं स्फटिकसङ्काशमास्रावं स्रवतो गुरू ||११|| क्षतजाभौ विदीर्येते पाट्येते चाभिघाततः | ग्रथितौ च समाख्यातावोष्ठौ कण्डूसमन्वितौ ||१२||

🔊 Audio coming soon

तेषामोष्ठरोगाणां प्रत्येकं विशिष्टं लक्षणमाह- कर्कशावित्यादि| कर्कशौ शाकपत्रसदृशौ| परुषौ रूक्षौ| स्तब्धौ निश्चलौ| दाल्येते द्विविधा भवत इव| परिपाट्येते पुटपुटायेते| आचितौ व्याप्तौ| चीयेते व्याप्येते| शूनौ शोफयुक्तौ| सकृत् किञ्चिदित्यर्थः| अनेकपिडकाचितौ अनेकवर्णपिडकाव्याप्तावित्यर्थः| अयमसाध्यो ज्ञेयः| रक्तोपसृष्टौ रक्तजव्याधियुक्तौ| शोणितप्रभौ रक्तच्छायौ| जन्तवः क्रिमयः| अत्र अस्मिन्| मूर्च्छन्ति भवन्ति| उभयतः सृक्कभागयोरित्यर्थः, सृक्क ओष्ठप्रान्तः| मेदसा ‘दूषितौ’ इति शेषः| घृतमण्डो घृतस्योपर्यच्छो भागः| स्थिरावचलौ| क्षतजाभौ रक्तच्छायौ| विदीर्येते विदारणयुक्तौ भवतः| पाट्येते द्विधा भवत इव| ग्रथितौ ग्रन्थियुक्तौ| ओष्ठप्रकोपे वातजे शुद्धो वातः कारणम्, अभिघातजे तु कफरक्तसहित इति परस्परं भेदः||५-१२||

Adhikarana 5 (13) · Śloka 13

दन्तमूलगतास्तु- शीतादो, दन्तपुप्पुटको, दन्तवेष्टकः, शौषिरो, महाशौषिरः, परिदर, उपकुशो, दन्तवैदर्भो, वर्धनः, अधिमांसो, नाड्यः पञ्चेति ||१३||

🔊 Audio coming soon

दन्तमूलगतास्त्वित्यादि||१३||

Adhikarana 6 (14-26) · Śloka 26

शोणितं दन्तवेष्टेभ्यो यस्याकस्मात् प्रवर्तते | दुर्गन्धीनि सकृष्णानि प्रक्लेदीनि मृदूनि च ||१४|| दन्तमांसानि शीर्यन्ते पचन्ति च परस्परम् | शीतादो नाम स व्याधिः कफशोणितसम्भवः ||१५|| दन्तयोस्त्रिषु वा यस्य श्वयथुः सरुजो महान् | दन्तपुप्पुटको ज्ञेयः कफरक्तनिमित्तजः ||१६|| स्रवन्ति पूयरुधिरं चला दन्ता भवन्ति च | दन्तवेष्टः स विज्ञेयो दुष्टशोणितसम्भवः ||१७|| श्वयथुर्दन्तमूलेषु रुजावान् कफरक्तजः | लालास्रावी स विज्ञेयः कण्डूमाञ् शौषिरो गदः ||१८|| दन्ताश्चलन्ति वेष्टेभ्यस्तालु चाप्यवदीर्यते | दन्तमांसानि पच्यन्ते मुखं च परिपीड्यते ||१९|| यस्मिन् स सर्वजो व्याधिर्महाशौषिरसञ्ज्ञकः | दन्तमांसानि शीर्यन्ते यस्मिन् ष्ठीवति चाप्यसृक् ||२०|| पित्तासृक्कफजो व्याधिर्ज्ञेयः परिदरो हि सः | वेष्टेषु दाहः पाकश्च तेभ्यो दन्ताश्चलन्ति च ||२१|| आघट्टिताः प्रस्रवन्ति शोणितं मन्दवेदनाः | आध्मायन्ते स्रुते रक्ते मुखं पूति च जायते ||२२|| यस्मिन्नुपकुशः स स्यात् पित्तरक्तकृतो गदः | घृष्टेषु दन्तमूलेषु संरम्भो जायते महान् ||२३|| भवन्ति च चला दन्ताः स वैदर्भोऽभिघातजः | मारुतेनाधिको दन्तो जायते तीव्रवेदनः ||२४|| वर्धनः स मतो व्याधिर्जाते रुक् च प्रशाम्यति | हानव्ये पश्चिमे दन्ते महाञ्छोथो महारुजः ||२५|| लालास्रावी कफकृतो विज्ञेयः सोऽधिमांसकः | दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः ||२६||

🔊 Audio coming soon

तेषां प्रत्येकं लक्षणमाह- शोणितमित्यादि| दन्तवेष्टेभ्यो दन्तमांसेभ्यः| शीर्यन्ते गलन्ति| दन्तयोरित्यादि| दन्तयोरिति द्विवचनाद् द्वयोः| तालु चाप्यवदीर्यत इति चकारेण दन्ताश्चावदीर्यन्ते, ओष्ठावपि च| सर्वजः सर्वदोषेभ्यो जातः| अयं सप्तरात्रान्मारयति| ष्ठीवति चाप्यसृगिति रोगी लोहितं थूत्करोतीत्यर्थः| वेष्टेषु दन्तवेष्टनमांसेषु| तेभ्यो दन्तवेष्टेभ्यः| आघट्टिता आचालिताः| घृष्टेष्वित्यादि| संरम्भोऽत्र श्वयथुः| मारुतेनेत्यादि| जाते रुक् च प्रशाम्यतीति व्याधिप्रभावात्| हानव्य इत्यादि| हानव्ये हनुसम्भवे| दन्तमूलगता इत्यादि| यथेरिता इति यथाकथिता निदाने| तेषां मध्ये त्रिलिङ्गा नाडी असाध्या||१४-२६||

Adhikarana 7 (27-35) · Śloka 35

दन्तगतास्तु- दालनः, क्रिमिदन्तको, दन्तहर्षो, भञ्जनकः, दन्तशर्करा, कपालिका, श्यावदन्तको, हनुमोक्षश्चेति ||२७|| दाल्यन्ते बहुधा दन्ता यस्मिंस्तीव्ररुगन्विताः | दालनः स इति ज्ञेयः सदागतिनिमित्तजः ||२८|| कृष्णश्छिद्री चलः स्रावी ससंरम्भो महारुजः | अनिमित्तरुजो वाताद्विज्ञेयः कृमिदन्तकः ||२९|| शीतमुष्णं च दशनाः सहन्ते स्पर्शनं न च | यस्य तं दन्तहर्षं तु व्याधिं विद्यात् समीरणात् ||३०|| वक्त्रं वक्रं भवेद्यस्मिन् दन्तभङ्गश्च तीव्ररुक् | कफवातकृतो व्याधिः स भञ्जनकसञ्ज्ञितः ||३१|| शर्करेव स्थिरीभूतो मलो दन्तेषु यस्य वै | सा दन्तानां गुणहरी विज्ञेया दन्तशर्करा ||३२|| दलन्ति दन्तवल्कानि यदा शर्करया सह | ज्ञेया कपालिका सैव दशनानां विनाशिनी ||३३|| योऽसृङ्मिश्रेण पित्तेन दग्धो दन्तस्त्वशेषतः | श्यावतां नीलतां वाऽपि गतः स श्यावदन्तकः ||३४|| वातेन तैस्तैर्भावैस्तु हनुसन्धिर्विसंहतः | हनुमोक्ष इति ज्ञेयो व्याधिरर्दितलक्षणः ||३५||

🔊 Audio coming soon

तेषां प्रत्येकं लक्षणमाह- दाल्यन्त इत्यादि| दाल्यन्ते विदार्यन्ते| सदागतिनिमित्तजः सदागतिर्वातः, तन्निमित्तजः| असाध्योऽयं व्याधिः| कृष्ण इत्यादि| कृष्णः कृष्णदन्तकः| छिद्री सच्छिद्रदन्तकः, क्रिमिकृतच्छिद्रत्वात्| चलः चलदन्तः| संरम्भः श्वयथुः| वक्त्रमित्यादि| असाध्योऽयं व्याधिः| शर्करेत्यादि| शर्करा कर्परस्य सूक्ष्मखण्डः| गुणहरी शुक्लादिगुणहरणशीला| दलन्तीत्यादि| दलन्ति स्फुटन्ति| दन्तवल्कानि दन्तत्वचः| य इत्यादि| असाध्योऽयं व्याधिः| तैस्तैरुच्चैर्व्याहरणकठिनभक्षणजृम्भणादिभिः| विसंहतो विघट्टितः| हनुमोक्षव्याधिरपि दन्तस्थानसामीप्याद्दन्तपीडाकरत्वाच्च दन्तरोग इति व्यपदिश्यते||२७-३५||

Adhikarana 8 (36-39) · Śloka 39

जिह्वागतास्तु- कण्टकास्त्रिविधास्त्रिभिर्दोषैः, अलास, उपजिह्विका चेति ||३६|| जिह्वाऽनिलेन स्फुटिता प्रसुप्ता भवेच्च शाकच्छदनप्रकाशा | पित्तेन पीता परिदह्यते च चिता सरक्तैरपि कण्टकैश्च | कफेन गुर्वी बहला चिता च मांसोद्गमैः शाल्मलिकण्टकाभैः ||३७|| जिह्वातले यः श्वयथुः प्रगाढः सोऽलाससञ्ज्ञः कफरक्तमूर्तिः | जिह्वां स तु स्तम्भयति प्रवृद्धो मूले तु जिह्वा भृशमेति पाकम् ||३८|| जिह्वाग्ररूपः श्वयथुर्हि जिह्वामुन्नम्य जातः कफरक्तयोनिः | प्रसेककण्डूपरिदाहयुक्ता प्रकथ्यतेऽसावुपजिह्विकेति ||३९||

🔊 Audio coming soon

जिह्वागतास्त्वित्यादि| तेषां प्रत्येकं लक्षणमाह- जिह्वेत्यादि| शाको वृक्षविशेषो महाखरपत्रलक्षणः| छदनं पत्रम्| चिता व्याप्ता| बहला स्थूला| मांसोद्गमैः मांसाङ्कुरैः; चिता व्याप्ता भवतीति सम्बन्धः| जिह्वातल इत्यादि| प्रगाढः प्रकर्षेण दारुणः| कफरक्तमूर्तित्वेन कफरक्तयोः प्राधान्यं, जिह्वास्तम्भेन तु वायुरप्यस्ति, भृशं पाकेन तु पित्तमप्यस्ति; अत एव त्रिदोषजत्वेनासाध्यत्वमपि, दुरपक्रमत्वात्| जिह्वाग्ररूप इत्यादि| जिह्वामुन्नम्य ऊर्ध्वीकृत्य, जात उत्पन्नः; एतेन जिह्वाया अधो भवतीत्युक्तम्| कफरक्तयोनिः श्लेष्मरक्तकारणः||३६-३९||

Adhikarana 9 (40-45) · Śloka 45

तालुगतास्तु- गलशुण्डिका, तुण्डिकेरी, अध्रुषः, कच्छपः, अर्बुदं, मांससङ्घातः, तालुपुप्पुटः, तालुशोषः, तालुपाक इति ||४०|| श्लेष्मासृग्भ्यां तालुमूलात् प्रवृद्धो दीर्घः शोफो ध्मातबस्तिप्रकाशः | तृष्णाकासश्वासकृत् सम्प्रदिष्टो व्याधिर्वैद्यैः कण्ठशुण्डीति नाम्ना ||४१|| शोफः स्थूलस्तोददाहप्रपाकी प्रागुक्ताभ्यां तुण्डिकेरी मता तु | शोफः स्तब्धो लोहितस्तालुदेशे रक्ताज्ज्ञेयः सोऽध्रुषो रुग्ज्वराढ्यः ||४२|| कूर्मोत्सन्नोऽवेदनोऽशीघ्रजन्माऽरक्तो ज्ञेयः कच्छपः श्लेष्मणा स्यात् | पद्माकारं तालुमध्ये तु शोफं विद्याद्रक्तादर्बुदं प्रोक्तलिङ्गम् ||४३|| दुष्टं मांसं श्लेष्मणा नीरुजं च ताल्वन्तःस्थं मांससङ्घातमाहुः | नीरुक् स्थायी कोलमात्रः कफात् स्यान्मेदोयुक्तात् पुप्पुटस्तालुदेशे ||४४|| शोषोऽत्यर्थं दीर्यते चापि तालुः श्वासो वातात्तालुशोषः सपित्तात् | पित्तं कुर्यात् पाकमत्यर्थघोरं तालुन्येनं तालुपाकं वदन्ति ||४५||

🔊 Audio coming soon

तेषां प्रत्येकं लक्षणमाह- श्लेष्मासृग्भ्यामित्यादि| कण्ठशुण्डी गलशुण्डीत्यर्थः| शोफ इत्यादि| तोददाहप्रपाकीति तोददाहप्रपाकयुक्तः| प्रागुक्ताभ्यां श्लेष्मासृग्भ्याम्| तुण्डिकेरी वनकार्पासिका, तत्फलानुकारी व्याधिरयम्| कूर्मेत्यादि| कूर्मोत्सन्नः कूर्मवदुन्नतः| अरक्तः पाण्डुरः| अशीघ्रजन्मा मन्दानुसारी| पद्माकारं पद्मकर्णिकाकारम्| प्रोक्तलिङ्गं यथोक्तरक्तार्बुदलिङ्गम् | असाध्योऽयं व्याधिः| दुष्टमित्यादि| स्थायी स्थिरः| पुप्पुट इत्यत्र तालुशब्दो लुप्तो द्रष्टव्यः, तेन तालुपुप्पुट इत्यर्थः| शोष इत्यादि| एनमिति एनं पाकम्||४०-४५||

Adhikarana 10 (46) · Śloka 46

कण्ठगतास्तु- रोहिण्यः पञ्च, कण्ठशालूकम्, अधिजिह्वो, बलयो, बलास , एकवृन्दो, वृन्दः, शतघ्नी, गिलायुः, गलविद्रधिः, गलौघः, स्वरघ्नो, मांसतानो, विदारी चेति ||४६||

🔊 Audio coming soon

कण्ठगतास्त्वित्यादि| एकवृन्दो वृन्द इति एकवृन्द एव दोषविशेषानुगमेनावस्थान्तरं प्राप्तो वृन्दत्वं प्रतिपद्यते, अतो मूलोक्ता सप्तदशसङ्ख्या न विरुध्यत इति जेज्जटः; गयी तु ‘वृन्द’ इति पाठं कल्पितमेव मन्यते; अन्ये तु ‘वृन्दमुदाहरन्ति’ इत्यत्र छन्दोनुरोधादेकवृन्द एव वृन्दशब्देनोक्त इत्याहुः||४६||

Adhikarana 11 (47-50) · Śloka 50

गलेऽनिलः पित्तकफौ च मूर्च्छितौ पृथक् समस्ताश्च तथैव शोणितम् | प्रदूष्य मांसं गलरोधिनोऽङ्कुरान् सृजन्ति यान् साऽसुहरा हि रोहिणी ||४७|| जिह्वां समन्ताद्भृशवेदना ये मांसाङ्कुराः कण्ठनिरोधिनः स्युः | तां रोहिणीं वातकृतां वदन्ति वातात्मकोपद्रवगाढयुक्ताम् ||४८|| क्षिप्रोद्गमा क्षिप्रविदाहपाका तीव्रज्वरा पित्तनिमित्तजा स्यात् | स्रोतोनिरोधिन्यपि मन्दपाका गुर्वी स्थिरा सा कफसम्भवा वै ||४९|| गम्भीरपाकाऽप्रतिवारवीर्या त्रिदोषलिङ्गा त्रयसम्भवा स्यात् | स्फोटाचिता पित्तसमानलिङ्गाऽसाध्या प्रदिष्टा रुधिरात्मिकेयम् ||५०||

🔊 Audio coming soon

तेषां प्रत्येकं लक्षणमाह- गल इत्यादि| पृथगिति तिस्रः, समस्ता इति एका, शोणितमित्येका, एवं पञ्च| मूर्च्छितौ वृद्धौ| असुहरा प्राणहरा| ‘गलेऽनिलः पित्तकफौ च मूर्च्छितौ प्रदूष्य मांसं च तथैव शोणितम्| गलोपसंरोधकरैस्तथाऽङ्कुरैर्निहन्त्यसून् व्याधिरयं तु रोहिणी’ इत्यपि पाठान्तरमिच्छन्ति निबन्धकाराः| त्रिदोषजा रक्तजा चासाध्या| उक्तं च,- “वातात् पित्तात् कफात्त्रिभ्यो रक्ताद्रोहिण्य ईरिताः| अन्त्ये सद्यो मारयत आद्यास्तिस्रः क्रियां विना”- इति| जिह्वामित्यादि| जिह्वां समन्तादिति जिह्वां व्याप्य सम्भवतीत्यर्थः| अप्रतिवारवीर्या दुर्निवारशक्तिरित्यर्थः||४७-५०||

Adhikarana 12 (51) · Śloka 51

कोलास्थिमात्रः कफसम्भवो यो ग्रन्थिर्गले कण्टकशूकभूतः | खरः स्थिरः शस्त्रनिपातसाध्यस्तं कण्ठशालूकमिति ब्रुवन्ति ||५१||

🔊 Audio coming soon

कोलेत्यादि| कण्टकशूकभूतः कण्टक इव शूकः कण्टकशूकः, तद्वत्त्वं भूतः प्राप्तः| अत एव पिशिताङ्कुराचितत्वाच्छालूकाकारत्वमस्य||५१||

Adhikarana 13 (52) · Śloka 52

जिह्वाग्ररूपः श्वयथुः कफात्तु जिह्वाप्रबन्धोपरि रक्तमिश्रात् | ज्ञेयोऽधिजिह्वः खलु रोग एष विवर्जयेदागतपाकमेनम् ||५२||

🔊 Audio coming soon

जिह्वेत्यादि| जिह्वाप्रबन्धस्योपरि जिह्वामूलस्योपरिष्टादित्यर्थः| आगतपाकत्वेन पित्तमप्यत्रास्ति||५२||

Adhikarana 14 (53) · Śloka 53

बलास एवायतमुन्नतं च शोफं करोत्यन्नगतिं निवार्य | तं सर्वथैवाप्रतिवारवीर्यं विवर्जनीयं वलयं वदन्ति ||५३||

🔊 Audio coming soon

बलास इत्यादि| बलासः श्लेष्मा||५३||

Adhikarana 15 (54) · Śloka 54

गले तु शोफं कुरुतः प्रवृद्धौ श्लेष्मानिलौ श्वासरुजोपपन्नम् | मर्मच्छिदं दुस्तरमेतदाहुर्बलाससञ्ज्ञं निपुणा विकारम् ||५४||

🔊 Audio coming soon

गल इत्यादि| उपपन्नं सहितम्| निपुणा धीमन्तः||५४||

Adhikarana 16 (55-56) · Śloka 56

वृत्तोन्नतो यः श्वयथुः सदाहः कण्ड्वन्वितोऽपाक्यमृदुर्गुरुश्च | नाम्नैकवृन्दः परिकीर्तितोऽसौ व्याधिर्बलासक्षतजप्रसूतः ||५५|| समुन्नतं वृत्तममन्ददाहं तीव्रज्वरं वृन्दमुदाहरन्ति | तं चापि पित्तक्षतजप्रकोपाद्विद्यात् सतोदं पवनास्रजं तु ||५६||

🔊 Audio coming soon

वृत्तोन्नत इत्यादि| सदाहो मन्ददाहः| अपाकी ईषत्पाकी| बलासक्षतजप्रसूतः श्लेष्मरक्तजातः| भेदेन वृन्दत्वं प्रतिपाद्यते| एतेन एकवृन्दो वृन्दश्च द्वावप्येकात्मकौ मतौ| एवं चैते कण्ठरोगाः सप्तदशेति| पञ्जिकायां पुनरादावेव ‘एकवृन्द’ इति पाठः||५५-५६||

Adhikarana 17 (57) · Śloka 57

वर्तिर्घना कण्ठनिरोधिनी या चिताऽतिमात्रं पिशितप्ररोहैः | नानारुजोच्छ्रायकरी त्रिदोषाज्ज्ञेया शतघ्नीव शतघ्न्यसाध्या ||५७||

🔊 Audio coming soon

वर्तिरित्यादि| “अयःकण्टकसञ्च्छन्ना शतघ्नी महती शिला”||५७||

Adhikarana 18 (58) · Śloka 58

ग्रन्थिर्गले त्वामलकास्थिमात्रः स्थिरोऽल्परुक् स्यात् कफरक्तमूर्तिः | संलक्ष्यते सक्तमिवाशनं च स शस्त्रसाध्यस्तु गिलायुसञ्ज्ञः ||५८||

🔊 Audio coming soon

ग्रन्थिरित्यादि| कफरक्तमूर्तिः कफरक्तकारणः| सक्तमिव लग्नमिव| अशनं भोजनम्||५८||

Adhikarana 19 (59) · Śloka 59

सर्वं गलं व्याप्य समुत्थितो यः शोफो रुजो यत्र च सन्ति सर्वाः | स सर्वदोषो गलविद्रधिस्तु तस्यैव तुल्यः खलु सर्वजस्य ||५९||

🔊 Audio coming soon

सर्वमित्यादि| तस्यैव तुल्यः खलु सर्वजस्येति तस्यैव सान्निपातिकविद्रधेः सदृश इत्यर्थः||५९||

Adhikarana 20 (60-61) · Śloka 61

शोफो महानन्नजलावरोधी तीव्रज्वरो वातगतेर्निहन्ता | कफेन जातो रुधिरान्वितेन गले गलौघः परिकीर्त्यतेऽसौ ||६०|| योऽतिप्रताम्यन् श्वसिति प्रसक्तं भिन्नस्वरः शुष्कविमुक्तकण्ठः | कफोपदिग्धेष्वनिलायनेषु ज्ञेयः स रोगः श्वसनात् स्वरघ्नः ||६१||

🔊 Audio coming soon

शोफ इत्यादि| अतिप्रताम्यन् अत्यर्थं प्रकर्षेण ताम्यन् तमः प्रपश्यन्| श्वसिति निःश्वसितीत्यर्थः| प्रसक्तं निरन्तरम्| कफोपदिग्धेषु श्लेष्मरुद्धेषु| अनिलायनेषु वायुमार्गेषु| श्वसनात् वातात्||६०-६१||

Adhikarana 21 (62) · Śloka 62

प्रतानवान् यः श्वयथुः सुकष्टो गलोपरोधं कुरुते क्रमेण | स मांसतानः कथितोऽवलम्बी प्राणप्रणुत् सर्वकृतो विकारः ||६२||

🔊 Audio coming soon

प्रतानवानित्यादि| प्रतानवान् विस्तारवान्| अवलम्बी लम्बनशीलः| प्राणनुत् प्राणप्रेरकः||६२||

Adhikarana 22 (63) · Śloka 63

सदाहतोदं श्वयथुं सरक्तमन्तर्गले पूतिविशीर्णमांसम् | पित्तेन विद्याद्वदने विदारीं पार्श्वे विशेषात् स तु येन शेते ||६३||

🔊 Audio coming soon

सदाहेत्यादि| पूतिविशीर्णमांसं दुर्गन्धिशटितमांसम्| पार्श्वे विशेषात् स तु येन शेते इति येनैव पार्श्वेन विशेषाच्छेते तेनैव पार्श्वेन विदारी विशेषेण भवति| अन्यत्राप्यस्याः सम्भवना सामान्यतो न निवार्यते||६३||

Adhikarana 23 (64) · Śloka 64

सर्वसरास्तु वातपित्तकफशोणितनिमित्ताः ||६४||

🔊 Audio coming soon

सर्वसरास्त्वित्यादि| पित्तनिमित्तो रक्तनिमित्तश्चैक एवेति वातादिनिमित्तास्त्रय एव सर्वसराः| सर्वस्मिन् मुखे ये भवन्ति ते सर्वसराः||६४||

Adhikarana 24 (65-66) · Śloka 66

स्फोटैः सतोदैर्वदनं समन्ताद्यस्याचितं सर्वसरः स वातात् | रक्तैः सदाहैस्तनुभिः सपीतैर्यस्याचितं चापि स पित्तकोपात् ||६५|| कण्डूयुतैरल्परुजैः सवर्णैर्यस्याचितं चापि स वै कफेन | रक्तेन पित्तोदित एक एव कैश्चित् प्रदिष्टो मुखपाकसञ्ज्ञः ||६६||

🔊 Audio coming soon

स्फोटैरित्यादि| रक्तैः ‘स्फोटैः’ इति शेषः| कण्डूयुतैरित्यादि ‘स्फोटैः’ इति शेषः| रक्तेनेत्यादि रक्तेन कृत्वा योऽसौ सर्वसरः कैश्चिदाचार्यैः मुखपाकसञ्ज्ञः प्रदिष्टः कथितः, स च पित्तोदित एक एव; न चत्वारः सर्वसराः, किन्तु त्रय एव| एवमेते पञ्चषष्टिर्मुखरोगाः स्वप्तस्वायतनेष्विति||६५-६६||

Adhikarana puShpikA · Śloka 16

इति सुश्रुतसंहितायां निदानस्थाने मुखरोगनिदानं नाम षोडशोऽध्यायः ||१६|| इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां द्वितीयं निदानस्थानं समाप्तम् |

🔊 Audio coming soon

निबन्धान् बहुशो वीक्ष्य वैद्येशभरतात्मजः| निदानस्थानमकरोत् सुस्पष्टं डल्ह(ह्ल)णो भिषक्| इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां समस्तनिबन्धार्थज्ञापिकायां सुश्रुतटीकायां निदानस्थाने षोडशोऽध्यायः||१६||