Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

15. bhagnanidānam

Adhikarana 1 (1-2) · Śloka 2

अथातो भग्नानां निदानं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

अथात इत्यादि||१-२||

Adhikarana 2 (3) · Śloka 3

पतनपीडनप्रहाराक्षेपणव्यालमृगदशनप्रभृतिभिरभिघातविशेषैरनेकविधमस्थ्नां भङ्गमुपदिशन्ति ||३||

🔊 Audio coming soon

भग्नानां हेतुं निर्दिशन्नाह- पतनपीडनेत्यादि| प्रहारो मुष्टिलगुडकृपाणबाणादीनाम्, आक्षेपणमतिशयेन चालनं, व्यालमृगदशनं व्याघ्रादिभक्षणं, प्रभृतिग्रहणाद्बलवद्विग्रहादीनामवरोधः| अनेकविधं बहुप्रकारम्||३||

Adhikarana 3 (4) · Śloka 4

तत्र भङ्ग(ग्न)जातमनेकविधमनुसार्यमाणं द्विविधमेवोपपद्यते सन्धिमुक्तं, काण्डभग्नं च | तत्र षड्विधं सन्धिमुक्तं, द्वादशविधं काण्डभग्नं भवति ||४||

🔊 Audio coming soon

तेषां द्वैविध्यमाह- तत्रेत्यादि| भग्नजातमिति जातं समूहः| अनुसार्यमाणम् अनुसर्तुं प्रेर्यमाणम्| ‘अनुश्रियमाणं’ इत्येके पठन्ति| सन्धिमुक्तकाण्डभग्नयोर्लक्षणमाह- तत्र पर्वणीत्यादि; अयं पाठोऽभावान्न लिखितो न च व्याख्यातः||४||

Adhikarana 4 (5) · Śloka 5

तत्र सन्धिमुक्तम्- उत्पिष्टं, विश्लिष्टं, विवर्तितम्, अवक्षिप्तम्, अतिक्षिप्तं, तिर्यक्क्षिप्तमिति षड्विधम् ||५||

🔊 Audio coming soon

सन्धिमुक्तस्य षाड्विध्यमाह- तत्रेत्यादि| सन्धिमुक्तं षड्विधमिति सम्बन्धः||५||

Adhikarana 5 (6) · Śloka 6

तत्र प्रसारणाकुञ्चनविवर्तनाक्षेपणाशक्तिरुग्ररुजत्वं स्पर्शासहत्वं चेति सामान्यं सन्धिमुक्तलक्षणमुक्तम् ||६||

🔊 Audio coming soon

तत्र सन्धिमुक्तस्य सामान्यलक्षणमाह- तत्र प्रसारणेत्यादि| विवर्तनं विपरीतवर्तनम्, आक्षेपणमतिशयेन चालनम्||६||

Adhikarana 6 (7) · Śloka 7

वैशेषिकं तूत्पिष्टे सन्धावुभयतः शोफो वेदनाप्रादुर्भावो विशेषतश्च नानाप्रकारा वेदना रात्रौ प्रादुर्भवन्ति; विश्लिष्टेऽल्पः शोफो वेदनासातत्यं सन्धिविक्रिया च; विवर्तिते तु सन्धिपार्श्वापगमनाद्विषमाङ्गता वेदना च; अवक्षिप्ते सन्धिविश्लेषस्तीव्ररुजत्वं च; अतिक्षिप्ते द्वयोः सन्ध्यस्थ्नोरतिक्रान्तता वेदना च; तिर्यक्क्षिप्ते त्वेकास्थिपार्श्वापगमनमत्यर्थं वेदना चेति ||७||

🔊 Audio coming soon

उत्पिष्टादिलक्षणमाह- वैशेषिकं तूत्पिष्टे इत्यादि| उत्पिष्टे चूर्णिते| विश्लिष्टे घट्टिते, ‘सन्धौ’ इति शेषः| विवर्तिते विपरीतं वर्तिते, ‘सन्धौ’ इति शेषः| सन्धिविक्रिया मध्यनिम्नत्वम्| सन्धिसंश्रययोरस्थ्नोर्व्यावर्तनेन पार्श्वागमनाद्विषमाङ्गता| वेदना चेति चकाराद्वेदनाऽपि विषमेत्यर्थः| अवक्षिप्ते सन्धावधोगते| अतिक्षिप्ते दूरं गते सन्धौ| अतिक्रान्तता दूरगमनम्| अतिवेदना चेति चकारार्थः| तिर्यक्क्षिप्ते ‘सन्धौ’ इति शेषः| अत्रैकस्यैवास्थ्नः पार्श्वगमनं, विवर्तिते द्वयोरपीति विशेषः||७||

Adhikarana 7 (8) · Śloka 8

काण्डभग्नमत ऊर्ध्वं वक्ष्यामः- कर्कटकम्, अश्वकर्णं, चूर्णितं, पिच्चितम्, अस्थिच्छल्लितं, काण्डभग्नं, मज्जानुगतम्, अतिपातितं, वक्रं, छिन्नं, पाटितं, स्फुटितमिति द्वादशविधम् ||८||

🔊 Audio coming soon

काण्डभग्नमित्यादि||८||

Adhikarana 8 (9) · Śloka 9

श्वयथुबाहुल्यं स्पन्दनविवर्तनस्पर्शासहिष्णुत्वमवपीड्यमाने शब्दः स्रस्ताङ्गता विविधवेदनाप्रादुर्भावः सर्वास्ववस्थासु न शर्मलाभ इति समासेन काण्डभग्नलक्षणमुक्तम् ||९||

🔊 Audio coming soon

तेषां सामान्यलक्षणमाह- श्वयथुबाहुल्यमित्यादि| शर्म सुखम्||९||

Adhikarana 9 (10) · Śloka 10

विशेषस्तु सम्मूढमुभयतोऽस्थि मध्ये भ(ल)ग्नं ग्रन्थिरिवोन्नतं कर्कटकम्, अश्वकर्णवदुद्गतमश्वकर्णकं, स्पृश्यमानं शब्दवच्चूर्णितमवगच्छेत्, पिच्चितं पृथुतां गतमनल्पशोफं , पार्श्वयोरस्थि हीनोद्गतमस्थिच्छलितं, वेल्लते प्रकम्पमानं काण्डभग्नम्, अस्थ्यवयवोऽस्थिमध्यमनुप्रविश्य मज्जानमुन्नह्यतीति मज्जानुगतम्, अस्थि निःशेषतश्छिन्नमतिपातितम्, आभुग्नमविमुक्तास्थि वक्रम्, अन्यतरपार्श्वावशिष्टं छिन्नं, पाटितमणुबहुविदारितं वेदनावच्च, शूकपूर्णमिवाध्मातं विपुलं विस्फुटितं स्फुटितमिति ||१०||

🔊 Audio coming soon

तेषां प्रत्येकं विशिष्टलक्षणमाह- विशेषतस्त्वित्यादि| विशेषतः सम्मूढमिति अतिशयेन स्पर्शं जानातीत्यर्थः| गयदासाचार्यस्तु उभयतः सम्मूढमिति उभयोः पार्श्वयोर्निपीडनेनाततावनतं मध्ये ग्रन्थिरिवोन्न(द्ग)तमिति व्याख्यानयति| कर्कटकं कर्कटसदृशम्| अश्वकर्णमश्वकर्णसदृशमित्यर्थः| चूर्णितं चूर्णीकृतम्| अवगच्छेत् जानीयात्| पिच्चितमित्यादि पिच्चितं पीडितसदृशं, पृथुतां गतं विस्तीर्णतां गतम्| अस्थि छल्लमिव विद्यते यस्मिन् तदस्थिच्छल्लितम्| अस्थिच्छल्लिकमित्यन्ये| वेल्लते चलति| यद्यपि काण्डभग्नव्यपदेशो द्वादशानामपि, तथाऽपि विशेषतः कस्यचिद्व्यपदेशः; यथा सर्वेषामेव मृगपक्षिणां विद्यमानजङ्घत्वेऽपि विशिष्टजङ्घायोगेन एणादीनामेव जङ्घालत्वम्| आभुग्नमीषज्जिह्मम्| अन्यतरपार्श्वेण एकपार्श्वेणेत्यर्थः| अणूनि बहूनि विदारितानि यस्य तत्तथा| गयी तु स्फुटितलक्षणमेतत् पठति, अग्रेतनं पाटितलक्षणमिति| शूकपूर्णमिति शूको यवादीनामग्रभागः, तत्पूर्णमिव वेदनाविशेषः| आध्मातं शूनम्| विस्फुटितं विपुलस्फुटितं, गयी तु ‘विपुलैकदारि’ इति पठति||१०||

Adhikarana 10 (11) · Śloka 11

तेषु चूर्णितच्छिन्नातिपातितमज्जानुगतानि कृच्छ्रसाध्यानि, कृशवृद्धबालानां क्षतक्षीणकुष्ठिश्वासिनां सन्ध्युपगतं चेति ||११||

🔊 Audio coming soon

कृच्छ्रसाध्यान्निर्दिशन्नाह- तेष्वित्यादि| चकारात् काण्डोपगतमिति||११||

Adhikarana 11 (12-14) · Śloka 15

भवन्ति चात्र- भिन्नं कपालं कट्यां तु सन्धिमुक्तं तथा च्युतम् | जघनं प्रति पिष्टं च वर्जयेत्तच्चिकित्सकः ||१२|| असंश्लिष्टं कपालं तु ललाटे चूर्णितं च यत् | भग्नं स्तनान्तरे शङ्खे पृष्ठे मूर्ध्नि च वर्जयेत् ||१३|| आदितो यच्च दुर्जातमस्थि सन्धिरथापि वा | सम्यग्यमितमप्यस्थि दुर्न्यासाद्दुर्निबन्धनात् ||१४|| सङ्क्षोभाद्वाऽपि यद्गच्छेद्विक्रियां तच्च वर्जयेत् |१५|

🔊 Audio coming soon

असाध्यान्निर्दिशन्नाह- भिन्नमित्यादि| भिन्नं कपालं काण्डभग्नं, सन्धिमुक्तमसाध्यं षड्विधमपि, तथा च्युतं विश्लिष्टं लम्बितमसाध्यं; सन्धिमुक्तशब्देन च्युतस्यापि सन्धिमुक्तभेदस्यासाध्यत्वे लब्धे तदुपादानं विशेषार्थम्| जघनं प्रतीति जघनस्थाने पिष्टं, सन्धिमुक्तभेदोऽयम्| असंश्लिष्टं विघट्टितसन्धि| ललाटे चूर्णितं च यदिति चूर्णितं काण्डभग्नमेतत्| भग्नं सन्धिमुक्तं काण्डभग्नं द्वयमपि बोद्धव्यम्| इदानीं द्विविधस्यापि सर्वस्थानगतस्यावस्थायामसाध्यत्वं दर्शयन्नाह- आदित इत्यादि| आदितो यच्च दुर्जातमिति आदित उत्पत्तावेव दुःसन्धानोपपादितं यत् ‘अस्थिभग्नम्’ इति शेषः, तदसाध्यम्| अस्थिसन्धिरथापि वेति सन्धिरस्थ्नोरन्तरालं, सोऽपि दुर्जातोऽसाध्यः| सम्यग्यमितमप्यस्थि सम्यक् संहितमप्यस्थि, दुर्न्यासात् दुःस्थापनात्, दुर्निबन्धनात् दुर्बन्धात्, सङ्क्षोभात् व्यवायादिना चलनात्; विक्रियां विकृतिम्||१२-१४||-

Adhikarana 12 (15) · Śloka 16

मध्यस्य वयसोऽवस्थास्तिस्रो याः परिकीर्तिताः ||१५|| तत्र स्थिरो भवेज्जन्तुरुपक्रान्तो विजानता |१६|

🔊 Audio coming soon

मध्यस्येत्यादि| तिस्रोऽवस्था इति षोडशवर्षादूर्ध्वं चत्वारिंशद्यावत् पूर्यते||१५||-

Adhikarana 13 (16) · Śloka 17

तरुणास्थीनि नम्यन्ते भज्यन्ते नलकानि तु ||१६|| कपालानि विभिद्यन्ते स्फुटन्ति रुचकानि च ||१७||

🔊 Audio coming soon

अस्थिविशेषेणापि भग्नविशेषं दर्शयन्नाह- तरुणास्थीनीत्यादि| घ्राणकर्णकण्ठाक्षिकूटेषु तरुणास्थीनि| नम्यन्ते वक्रीभवन्ति, एतेन वक्रलक्षणं भग्नमुक्तम्| नलकानि शाखास्थीनि; भज्यन्ते त्रुटन्ति| कपालानि मस्तकादिकर्पराणि; विभिद्यन्ते इत्यनेन कपालेषु विदरणलक्षणो भङ्ग उक्तः स्फुटितपाटितादिः| रुचकानीति रुचका दन्ताः, तेषु स्फुटितं भग्नमुक्तम्| चकारेण वलयेष्वपि स्फुटितं समुच्चीयते| एतेन पञ्चविधान्यस्थीनि तरुणनलककपालवलयरुचकान्युक्तानि||१६||-

Adhikarana puShpikA · Śloka 15

इति सुश्रुतसंहितायां निदानस्थाने भग्ननिदानं नाम पञ्चदशोऽध्यायः ||१५||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां निदानस्थाने पञ्चदशोऽध्यायः||१५||