Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

6. pratyēkamarmanirdēśaśārīram

Adhikarana 1 (1-2) · Śloka 2

अथातः प्रत्येकमर्मनिर्देशं शारीरं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

शरीरसङ्ख्याव्याकरणे हि मांससिरादिव्याकरणमभिहितं, मर्माणि च मांससिरादिसंश्रितानि, अतस्तदनन्तरं मर्मणां निर्देशो युज्यत इत्याह- अथात इत्यादि| प्रत्येकशब्दादग्रे मांसादिशब्दो लुप्तो द्रष्टव्यः, तेन प्रत्येकं मांसादिमर्मणां निर्देशो विवरणं यस्मिन् तं तथा||१-२||

Adhikarana 2 (3) · Śloka 3

सप्तोत्तरं मर्मशतम् | तानि मर्माणि पञ्चात्मकानि भवन्ति; तद्यथा- मांसमर्माणि, सिरामर्माणि, स्नायुमर्माणि, अस्थिमर्माणि, सन्धिमर्माणि चेति | न खलु मांससिरास्नाय्वस्थिसन्धिव्यतिरेकेणान्यानि मर्माणि भवन्ति, यस्मान्नोपलभ्यन्ते ||३||

🔊 Audio coming soon

तेषां सङ्ख्यामाह- सप्तोत्तरमित्यादि| पञ्चात्मकानि पञ्चप्रकाराणि| तान्येव पञ्चप्रकाराण्याह- तद्यथेत्यादि| ननु, कथं मांसादीनि पञ्चैव मर्माणि नाधिकानीति दर्शयन्नाह- न खल्वित्यादि| ननु, स्रोतःप्रभृतीनामपि मारणात्मकत्वान्मर्मत्वमस्त्येव, तत् कथं मांसादिव्यतिरेकेणान्यानि मर्माणि नोपलभ्यन्त इत्युक्तम्? उच्यते- मारयन्तीति मर्माण्युच्यन्ते, स्रोतसि च क्षतेऽपि नावश्यतया मरणं; यतो वक्ष्यति- “स्रोतोविद्धं तु प्रत्याख्यायोपचरेत्” (शा.९) इति| यद्येवं तर्हि रुक्करवैकल्यकरणाममारणात्मकत्वान्मर्मत्वं न स्यादिति चेत्? तन्न, रुक्करवैकल्यकरेष्वप्यग्नीषोमादिप्राणानां मध्ये कस्यचित् प्राणस्य हानेः; अथवा स्रोतःप्रभृतीनि मांसादीन्यव्यतिरिच्य वर्तन्ते, यतो मांसादिष्वेव स्रोतःप्रभृतीनि सन्ति, तस्मान्मांसादीनि पञ्चैव मर्माणीति||३||

Adhikarana 3 (4) · Śloka 4

तत्रैकादश मांसमर्माणि, एकचत्वारिंशत् सिरामर्माणि, सप्तविंशतिः स्नायुमर्माणि, अष्टावस्थिमर्माणि, विंशतिः सन्धिमर्माणि चेति | तदेतत् सप्तोत्तरं मर्मशतम् ||४||

🔊 Audio coming soon

इदानीं मांसादिभेदेन मर्मसङ्ख्यां निर्दिशन्नाह- तत्रेत्यादि| एकादशेति चत्वारि तलहृदयानि, तावन्त्येवेन्द्रबस्तीनि, गुदमेकं, द्वे स्तनरोहिते, एवमेकादश मांसमर्माणि| एकचत्वारिंशदिति चतस्रो धमन्यः, अष्टौ मातृकाः, चत्वारि शृङ्गाटकानि, द्वे अपाङ्गे, एका स्थपनी, द्वे फणे , द्वे स्तनमूले, द्वावपस्तम्भौ , द्वावपलापौ, एकं हृदयं, एका नाभिः, द्वौ पार्श्वसन्धी, द्वे बृहत्यौ, चत्वारि लोहिताक्षाणि, चतस्र उर्व्यः, एवमेकचत्वारिंशत् सिरामर्माणि| सप्तविंशतिरिति चतस्र आण्यः , द्वौ विटपौ, द्वौ कक्षधरौ, चत्वारः कूर्चाः, चत्वारि कूर्चशिरांसि, एको बस्तिः, चत्वारि क्षिप्राणि, द्वावंसौ, द्वे विधुरे, द्वावुत्क्षेपौ, एवं सप्तविंशतिः स्नायुमर्माणि| अष्टाविति द्वे कटीकतरुणे, द्वौ नितम्बौ, द्वे अंसफलके, द्वौ शङ्खौ, एवमष्टावस्थिमर्माणि| विंशतिरिति द्वे जानुनी, द्वौ कूर्परौ, पञ्च सीमन्ताः, एकोऽधिपतिः, द्वौ गुल्फौ, द्वौ मणिबन्धौ, द्वे कुकुन्दरे, द्वावावर्तौ, द्वे कृकाटिके, एवं विंशतिः सन्धिमर्माणि| पुनः सप्तोत्तरं मर्मशतमिति वचनमुपसंहारे प्रयुक्तमतो न पौनरुक्त्यम्||४||

Adhikarana 4 (5) · Śloka 5

तेषामेकादशैकस्मिन् सक्थ्नि भवन्ति, एतेनेतरसक्थि बाहू च व्याख्यातौ, उदरोरसोर्द्वादश, चतुर्दश पृष्ठे, ग्रीवां प्रत्यूर्ध्वं सप्तत्रिंशत् ||५||

🔊 Audio coming soon

मांसादिमर्मणां सप्तोत्तरशतसङ्ख्याकानां प्रदेशविशेषज्ञापनार्थं सङ्ख्यया विभज्य शाखाद्याश्रयं निर्दिशन्नाह- तेषामित्यादि||५||

Adhikarana 5 (6) · Śloka 6

तत्र सक्थिमर्माणि क्षिप्रतलहृदयकूर्चकूर्चशिरोगुल्फेन्द्रबस्तिजान्वाण्युर्विलोहिताक्षाणि विटपं चेति, एतेनेतरत्सक्थि व्याख्यातम् | उदरोरसोस्तु गुदबस्तिनाभिहृदयस्तनमूलस्तनरोहितापलापान्यपस्तम्भौ चेति | पृष्ठमर्माणि तु कटीकतरुणकुकुन्दरनितम्बपार्श्वसन्धिबृहत्यंसफलकान्यंसौ चेति | बाहुमर्माणि तु शिप्रतलहृदयकूर्चकूर्चशिरोमणिबन्धेन्द्रबस्तिकूर्पराण्युर्वीलोहिताक्षाणि कक्षधरं चेति; एतेनेतरो बाहुर्व्याख्यातः | जत्रुण ऊर्ध्वं चतस्रो धमन्योऽष्टौ मातृका द्वे कृकाटिके द्वे विधुरे द्वे फणे द्वावपाङ्गौ द्वावावर्तौ द्वावुत्क्षेपौ द्वौ शङ्खावेका स्थपनी पञ्च सीमन्ताश्चत्वारि शृङ्गाटकान्येकोऽधिपतिरिति ||६||

🔊 Audio coming soon

शाखादिषु सङ्ख्यया विभक्तानां मर्मणां नामान्याह- तत्रेत्यादि| अत्र क्षिप्राद्येकैकं गणयितव्यम्, एवमेकादश| क्षिप्रादीनां लक्षणमाचार्यः स्वयमेवाग्रे करिष्यति, अतोऽत्रेमानि न व्याख्यातानि| उदरेत्यादि गुदादिहृदयान्तमेकैकं गणयितव्यं, स्तनमूलादीनि द्वे द्वे, एवं द्वादश| पृष्ठेत्यादि कटीकतरुणादीनि द्वे द्वे, एवं चतुर्दश| बाह्वित्यादि अत्रापि क्षिप्रादिकमेकैकं गणयितव्यम्||६||

Adhikarana 6 (7) · Śloka 7

तत्र तलहृदयेन्द्रबस्तिगुदस्तनरोहितानि मांसमर्माणि, नीलधमनीमातृकाशृङ्गाटकापाङ्गस्थपनीफणस्तनमूलापलापापस्तम्भहृदयनाभिपार्श्वसन्धिबृहतीलोहिताक्षोर्व्यः सिरामर्माणि, आणी(णि)विटपकक्षधरकूर्चकूर्चशिरोबस्तिक्षिप्रांसविधुरोत्क्षेपाः स्नायुमर्माणि, कटीकतरुणनितम्बांसफलकशङ्खास्त्वस्थिमर्माणि, जानुकूर्परसीमन्ताधिपतिगुल्फमणिबन्धकुकुन्दरावर्तकृकाटिकाश्चेति सन्धिमर्माणि ||७||

🔊 Audio coming soon

तत्रैकादश मांसमर्माणीत्यादिवाक्यैः प्रागुद्दिष्टानां मांसादिमर्मणां नामान्याह- तत्रेत्यादि| एतेषां मांसादिमर्मणां सङ्ख्या प्रागत्रैवाध्याये व्याख्याता, तेनात्र न व्याख्यायते||७||

Adhikarana 7 (8-14) · Śloka 14

तान्येतानि पञ्चविकल्पानि भवन्ति; तद्यथा- सद्यःप्राणहराणि, कालान्तरप्राणहराणि, विशल्यघ्नानि, वैकल्यकराणि, रुजाकराणि चेति | तत्र सद्यःप्राणहराण्येकोनविंशतिः, कालान्तरप्राणहराणि त्रयस्त्रिंशत्, त्रीणि विशल्यघ्नानि, चतुश्चत्वारिंशद्वैकल्यकराणि, अष्टौ रुजाकराणीति ||८|| भवन्ति चात्र- शृङ्गाटकान्यधिपतिः शङ्खौ कण्ठसिरा गुदम् | हृदयं बस्तिनाभ्यौ(भी) च घ्नन्ति सद्यो हतानि तु ||९|| वक्षोमर्माणि सीमन्ततलक्षिप्रेन्द्रबस्तयः | कटीकतरुणे सन्धी पार्श्वजौ बृहती च या ||१०|| नितम्बाविति चैतानि कालान्तरहराणि तु | उत्क्षेपौ स्थपनी चैव विशल्यघ्नानि निर्दिशेत् ||११|| लोहिताक्षाणि जानूर्वीकूर्चविटपकूर्पराः | कुकुन्दरे कक्षधरे विधुरे सकृकाटिके ||१२|| अंसांसफलकापाङ्गा नीले मन्ये फणौ तथा | वैकल्यकरणान्याहुरावर्तौ द्वौ तथैव च ||१३|| गुल्फौ द्वौ मणिबन्धौ द्वौ द्वे द्वे कूर्चशिरांसि च | रुजाकराणि जानीयादष्टावेतानि बुद्धिमान् | क्षिप्राणि विद्धमात्राणि घ्नन्ति कालान्तरेण च ||१४||

🔊 Audio coming soon

तान्येव सुखपाठार्थं श्लोकैर्दर्शयन्नाह,- भवन्तीत्यादि| चत्वारि शृङ्गाटकानि, एकोऽधिपतिः; शङ्खौ द्वौ, कण्ठसिरा अष्टौ मातृकाः, गुदं हृदयं बस्तिर्नाभी चेत्येकैकम्, एवमेकोनविंशतिः सद्योघ्नानि| वक्षोमर्माणीति स्तनमूले द्वे, स्तनरोहिते द्वे, अपलापौ द्वौ, अपस्तम्भौ द्वौ, एवमष्टौ वक्षोमर्माणि; सीमन्ताः पञ्च, तलानि चत्वारि, क्षिप्राणि चत्वारि, इन्द्रबस्तयश्चत्वारः, द्वे कटीकतरुणे, द्वौ पार्श्वसन्धी, द्वे बृहत्यौ, द्वौ नितम्बौ, एवं त्रयस्त्रिंशत् कालान्तरप्राणहराणि| उत्क्षेपाविति उत्क्षेपौ द्वौ, एका स्थपनी, एवं त्रीणि विशल्यघ्नानि| लोहितेत्यादि चत्वारि लोहिताक्षनामधेयानि, आणयश्चतस्रः, जानुनी द्वे, चतस्र उर्व्यः, चत्वारः कूर्चाः, विटपादीनामावर्तान्तानां त्रयोदशानां प्रत्येकं द्वौ द्वौ, इति चतुश्चत्वारिंशद्वैकल्यकरणानि| गुल्फावित्यादि द्वौ गुल्फौ, द्वौ मणिबन्धौ; द्वे द्वे कूर्चशिरांसि चेति द्वे कूर्चशिरसी हस्तयोः, द्वे कूर्चशिरसी पादयोः, एवं चत्वारि कूर्चशिरांसि, इत्यष्टौ रुजाकराणि| भेदेन यत् पञ्चप्रकारत्वमुक्तं तद्यद्यपि वक्ष्यमाणेन ‘मर्माणि शल्यविषयार्धमुदाहरन्ति’ इत्यादिश्लोकप्रतिपादितेन प्राणहरवैकल्यकरेति द्वित्वेन बाध्यते, तथाऽपि न दोषो भिषजामादरख्यापनार्थत्वाद्द्वित्वस्येति||८-१४||

Adhikarana 8 (15) · Śloka 15

मर्माणि मांससिरास्नाय्वस्थिसन्धिसन्निपाताः; तेषु स्वभावत एव विशेषेण प्राणास्तिष्ठन्ति; तस्मान्मर्मस्वभिहतास्तांस्तान् भावानापद्यन्ते ||१५||

🔊 Audio coming soon

इदानीं प्राणहरादिकं कर्म मर्मणां सयुक्तिकं दर्शयन्नाह- मर्माणीत्यादि| सन्निपातः संश्लेषोऽत्यन्तमिश्रीभाव इति यावत्| सर्वेषां सर्वत्र मर्मणि संश्लेषेऽपि मांसमर्म सिरामर्मादिव्यवहार आधिक्यमाश्रित्य, पार्थिवादिव्यवहारवत्| स्वभावत इति हेत्वन्तरनिरपेक्षतया| प्राणा अग्न्यादयः| तांस्तानिति ‘इन्द्रियार्थेष्वसम्प्राप्तिर्मनोबुद्धिविपर्यय’ इत्यादिकानत्रैवोक्तान्| अन्ये तु “भ्रमः प्रलापः पतनं प्रमोह” (सू.२५) इत्यादिकान् सूत्रस्थानोक्तानाहुः||१५||

Adhikarana 9 (16) · Śloka 16

तत्र सद्यःप्राणहराण्याग्नेयानि, अग्निगुणेष्वाशु क्षीणेषु क्षपयन्ति; कालान्तरप्राणहराणि सौम्याग्नेयानि, अग्निगुणेष्वाशु क्षीणेषु क्रमेण च सोमगुणेषु कालान्तरेण क्षपयन्ति; विशल्यप्राणहराणि वायव्यानि, शल्यमुखावरुद्धो यावदन्तर्वायुस्तिष्ठति तावज्जीवति, उद्धृतमात्रे तु शल्ये मर्मस्थानाश्रितो वायुर्निष्क्रामति, तस्मात् सशल्यो जीवत्युद्धृतशल्यो म्रियते (पाकात्पतितशल्यो वा जीवति); वैकल्यकराणि सौम्यानि, सोमो हि स्थिरत्वाच्छैत्याच्च प्राणावलम्बनं करोति; रुजाकराण्यग्निवायुगुणभूयिष्ठानि, विशेषतश्च तौ रुजाकरौ; पाञ्चभौतिकीं च रुजामाहुरेके ||१६||

🔊 Audio coming soon

कस्मात् पुनरत्र समानेऽपि प्राणोपघाते सद्यःप्राणहरकालान्तरप्राणहरादिविशेष इत्याह- तत्रेत्यादि| आग्नेयानीति यद्यपि “सोममारुततेजांसि रजःसत्त्वतमांसि च| मर्मसु प्रायशः पुंसां भूतात्मा चावतिष्ठते” इत्युक्तं, तथाऽप्याग्नेयेषु मर्मस्वधिकं तेजः, सौम्येषु सोम इत्यादि ज्ञेयम्| अग्निगुणेष्वाशुक्षीणेष्विति अग्नेराशुकारित्वादित्यर्थः| ताविति अग्निवायू विशेषेण रुजाकरौ; सामान्येन पुनः सोमोऽपि, कफव्रणे वेदनासम्भवात्| रुजायामेव द्वितीयमेकीयमतं दर्शयन्नाह- पाञ्चभौतिकीमित्यादि||१६||

Adhikarana 10 (17) · Śloka 17

केचिदाहुर्मांसादीनां पञ्चानामपि समस्तानां विवृद्धानां समवायात् सद्यःप्राणहराणि, एकहीनानामल्पानां वा कालान्तरप्राणहराणि, द्विहीनानां विशल्यप्राणहराणि , त्रिहीनानां वैकल्यकराणि, एकस्मिन्नेव रुजाकराणीति | नैवं, यतोऽस्थिमर्मस्वप्यभिहतेषु शोणितागमनं भवति ||१७||

🔊 Audio coming soon

सद्यःप्राणहरादिविशेषस्य द्वितीयदर्शने व्यवस्थां दर्शयन्नाह- केचिदित्यादि| यद्यपि गुदबस्तिनाभिहृदयेषु सद्यःप्राणहरमर्मस्वस्थीनि न व्यक्तानि तथाऽप्यव्यक्तानामस्थ्नां शक्तिरूपेणावस्थानात् पञ्चानां समवाय उत्पद्यत एव | एकहीनानामित्यत्र हीनशब्दोऽत्यन्ताभावे वर्तते, न तु न्यूनत्वे| एकहीनानि पुनः स्तनमूलापलापापस्तम्भस्रीमन्तकटीकतरुणपार्श्वसन्धिबृहतीनितम्बानि मांसहीनानि, स्तनरोहिततलहृदयक्षिप्रेन्द्रबस्तयोऽस्थिहीनाः; द्विहीनानि पुनरुत्क्षेपौ मांससन्धिहीनौ; त्रिहीनानि पुनर्लोहिताक्षाणि स्नायुसन्ध्यस्थिहीनानि, स्थपनी मांससिरास्नायुहीना, जानुनी मांससिरास्नायुहीने, उर्व्योऽस्थिमांसस्नायुहीनाः, विटपे मांससिरास्थिहीने, कूर्परौ मांससिरास्नायुहीनौ, कुकुन्दरे मांसस्नायुसिराहीने , कक्षधरे सिरास्थिसन्धिहीने, विधुरे मांससिरासन्धिहीने, कृकाटिके मांससिरास्नायुहीने, अंसौ मांससिरासन्धिहीनौ, अंसफलके मांसस्नायुसन्धिहीने, नीले मन्ये फणे च मांससन्ध्यस्थिहीने, आवर्तौ मांससिरास्नायुहीनौ, अपाङ्गौ मांसस्नायुसन्धिहीनौ| एकस्मिन्निति मांसादिसन्ध्यन्तादेकस्मिन्नवशिष्टे रुजाकराणि भवन्ति, गुल्फमणिबन्धास्तथा कूर्चशिरांसि मांससिरास्नाय्वस्थिहीनानि| नैवमिति स्वदर्शने सर्वमर्मणां मांससिरास्नाय्वस्थिसन्धिसन्निपातत्वादेव द्वित्र्यादिहीनमसम्यगित्यर्थः| कुतः स्वदर्शने सर्वाणि सर्वत्र सन्तीत्याह- यत इत्यादि| यतश्चास्थिविद्धेष्वपि शोणितदर्शनं भवत्यतः प्रत्यक्षात् प्रमाणात् सर्वाणि मांसादीनि सर्वत्र मर्मणि भवन्तीति ज्ञातव्यम्||१७||

Adhikarana 11 (18) · Śloka 18

चतुर्विधा यास्तु सिराः शरीरे प्रायेण ता मर्मसु सन्निविष्टाः | स्नाय्वस्थिमांसानि तथैव सन्धीन् सन्तर्प्य देहं प्रतियापयन्ति ||१८||

🔊 Audio coming soon

एतदेव दर्शयन्नाह- चतुरित्यादि| चतुर्विधा इति वातपित्तश्लेष्मरक्तवहाः| मर्मस्वित्यादि| एतेन सिराणां स्नाय्वस्थिमांससन्धिगतत्वं बोधितम्, अत एवास्थिविद्धेऽपि शोणितागमनमित्यर्थः||१८||

Adhikarana 12 (19-20) · Śloka 20

ततः क्षते मर्मणि ताः प्रवृद्धः समन्ततो वायुरभिस्तृणोति | विवर्धमानस्तु स मातरिश्वा रुजः सुतीव्राः प्रतनोति काये ||१९|| रुजाभिभूतं तु ततः शरीरं प्रलीयते नश्यति चास्य सञ्ज्ञा | अतो हि शल्यं विनिहर्तुमिच्छन्मर्माणि यत्नेन परीक्ष्य कर्षेत् ||२०||

🔊 Audio coming soon

इदानीं यथैकदेशजेऽपि प्रहारे मर्मविद्धस्य क्रमेण सकलशरीरे वातादिदोषव्याप्त्या रुजावेगेन चेतनाधातोर्वियोगस्तथा दर्शयन्नाह- तत इत्यादि| ताः सिराः, प्रवृद्धो वायुः, समन्ततः सर्वतः, अभिस्तृणोति सञ्छादयति| शरीरं प्रलीयते प्रलयं गच्छति शरीरयन्त्रं विघट्टयतीत्यर्थः| तस्मिन् पाञ्चभौतिके शरीरे प्रलीने सञ्ज्ञाषष्ठश्चेतनाधातुरपि नश्यति| ‘ताः प्रवृद्ध’ इत्यत्र ‘तासु वृद्ध’ इति केचित् पठन्ति व्याख्यानयन्ति च- तासु सिरासु वृद्धो वायुः समन्ततः सकलं शरीरमभिस्तृणोति सञ्छादयतीत्यर्थः||१९-२०||

Adhikarana 13 (21) · Śloka 21

एतेन शेषं व्याख्यातम् ||२१||

🔊 Audio coming soon

एतेनेति रुगादिरूपेण वायोर्लक्षणेन, शेषमिति दाहादि स्रोतोनिरोधादि च पित्तश्लेष्मणोर्लक्षणं व्याख्यातमेवेत्यर्थः||२१||

Adhikarana 14 (22) · Śloka 22

तत्र सद्यःप्राणहरमन्ते विद्धं कालान्तरेण मारयति, कालान्तरप्राणहरमन्ते विद्धं वैकल्यमापादयति, विशल्यघ्नं वैकल्यकरं च भवति, वैकल्यकरं कालान्तरेण क्लेशयति रुजां च करोति, रुजाकरमतीव्रवेदनं भवति ||२२||

🔊 Audio coming soon

तेषां सद्यःप्राणहरादीनां स्वकर्म यन्नियतं तत्कारणविकल्पाद् व्यभिचारयन्नाह- तत्रेत्यादि| अन्ते विद्धं समीपे विद्धं, मध्ये विद्धं तु सद्य एवेत्यर्थः; एतेन पूर्वं पूर्वं मर्म कारणवैकल्यात् परस्य परस्य कार्यं करोति, एवं परं परमपि मर्मातिविद्धादिकारणवशात् पूर्वस्य पूर्वस्य कर्म करोति| अत एव तेष्वित्यादिना क्षिप्राणि कदाचिदाशु मारयन्तीत्यग्रे वक्ष्यति||२२||

Adhikarana 15 (23) · Śloka 23

तत्र सद्यःप्राणहराणि सप्तरात्राभ्यन्तरान्मारयन्ति, कालान्तरप्राणहराणि पक्षान्मासाद्वा, तेष्वपि तु क्षिप्राणि कदाचिदाशु मारयन्ति, विशल्यप्राणहराणि वैकल्यकराणि च कदाचिदत्यभिहतानि मारयन्ति ||२३||

🔊 Audio coming soon

इदानीं सद्यःप्राणहरादिमर्मणां मारणे कालावधिं दर्शयन्नाह- तत्र सद्य इत्यादि| यद्यपि सद्यःशब्दस्तत्क्षणवाची तथाऽपि सद्यःप्राणहराणीत्यत्र सद्यःशब्दः सप्ताहाभ्यन्तरपरो ज्ञातव्यः, सप्तरात्रान्मारयन्तीत्युक्तत्वात्| तेष्वपीति कालान्तरप्राणहरेष्वपीत्यर्थः| कदाचिदाशु मारयन्ति ‘अतिहतानि’ इति शेषः, अनतिहतानि तु कालान्तरेणैव मारयन्ति; एतच्चोपलक्षणं, तेन रुजाकराण्येवं वैकल्यं जनयन्ति; एवं वैकल्यादिष्वपि स्वनियतकर्मव्यभिचारः||२३||

Adhikarana 16 (24) · Śloka 24

अत ऊर्ध्वं सक्थिमर्माणि व्याख्यास्यामः- तत्र पादस्याङ्गुष्ठाङ्गुल्योर्मध्ये क्षिप्रं नाम मर्म, तत्र विद्धस्याक्षेपकेण मरणं; मध्यमाङ्गुलीमनुपूर्वेण मध्ये पादतलस्य तलहृदयं नाम , तत्र रुजाभिर्मरणं; क्षिप्रस्योपरिष्टादुभयतः कूर्चो नाम, तत्र पादस्य भ्रमणवेपने भवतः; गुल्फसन्धेरध उभयतः कूर्चशिरः, तत्र रुजाशोफौ; पादजङ्घयोः सन्धाने गुल्फः, तत्र रुजः स्तब्धपादता खञ्जता वा; पार्ष्णिं प्रति जङ्घामध्ये इन्द्रबस्तिः, तत्र शोणितक्षयेण मरणं; जङ्घोर्वोः सन्धाने जानु, तत्र खञ्जता; जानुन ऊर्ध्वमुभयतस्त्र्यङ्गुलमाणी , तत्र शोफाभिवृद्धिः स्तब्धसक्थिता च; ऊरुमध्ये उर्वी, तत्र शोणितक्षयात् सक्थिशोषः; उर्व्या ऊर्ध्वमधो वङ्क्षणसन्धेरूरुमूले लोहिताक्षं, तत्र लोहितक्षयेण मरणं पक्षाघातो वा; वङ्क्षणवृषणयोरन्तरे विटपं, तत्र षाण्ढ्यमल्पशुक्रता वा भवति; एवमेतान्येकादश सक्थिमर्माणि व्याख्यातानि | एतेनेतरसक्थि बाहू च व्याख्यातौ | विशेषतस्तु यानि सक्थ्नि गुल्फजानुविटपानि, तानि बाहौ मणिबन्धकूर्परकक्षधराणि ; यथा वङ्क्षणवृषणयोरन्तरे विटपमेवं वक्षःकक्षयोर्मध्ये कक्षधरं, तस्मिन् विद्धे त एवोपद्रवाः; विशेषतस्तु मणिबन्धे कुण्ठता, कूर्पराख्ये कुणिः, कक्षधरे पक्षाघातः | एवमेतानि चतुश्चत्वारिंशच्छाखासु मर्माणि व्याख्यातानि ||२४||

🔊 Audio coming soon

अत ऊर्ध्वमित्यादि| तत्र पादाङ्गुष्ठेत्यादि स्नायुमर्मेदमर्धाङ्गुलं कालान्तरप्राणहरं च| मध्यमाङ्गुलीमित्यादि मध्यमाङ्गुलिमनुलक्षीकृत्य क्रमेण पादतलस्य मध्ये तलहृदयं, मांसमर्मेदमर्धाङ्गुलं कालान्तरप्राणहरं च| उपरिष्टादित्यत्र ‘द्व्यङ्गुले’ इति शेषः, उभयत इति ऊर्ध्वमधश्च, तत्र कूर्चे, ‘विद्धे’ इति शेषः; स्नायुमर्मेदं चतुरङ्गुलं वैकल्यकरं च| गुल्फेत्यादि इदमपि स्नायुमर्म एकाङ्गुलं वैकल्यकरं च| पादेत्यादि| सन्धिमर्मेदं द्व्यङ्गुलप्रमाणं वैकल्यकरं च| पार्ष्णिमित्यादि| मांसमर्मेदमर्धाङ्गुलं पार्ष्णिं प्रति त्रयोदशाङ्गुले स्थितं कालान्तरप्राणहरं च; भोजस्तु द्व्यङ्गुलप्रमाणमाह, भोजदर्शनाद्गयदासोऽपि मर्ममानसूत्रे “द्व्यङ्गुलमिन्द्रबस्तिमर्म” इति पठित्वा व्याख्यायति| जङ्घेत्यादि सन्धिमर्मेदं त्र्यङ्गुलप्रमाणं वैकल्यकरं च| जानुन इत्यादि जानुन ऊर्ध्वं त्र्यङ्गुले उभयत ऊर्ध्वमधश्च, स्नायुमर्मेदमर्धाङ्गुलं वैकल्यकरं च, गयी तु त्र्यङ्गुलमानमेतदाह- ऊरुमध्ये इत्यादि| सिरामर्मेदमेकाङ्गुलं वैकल्यकरं च| वङ्क्षणेत्यादि स्नायुमर्मेदमेकाङ्गुलं वैकल्यकरं च| एवमित्यादि| एतेनैकादशमर्मनिर्देशेन| विशेषत इत्यादि| मणिबन्धः पाणिमूलं, कर्पूरः कफोणिः ‘कुहुणी’ इति लोके| तस्मिन्नित्यादि| तस्मिन्निति मणिबन्धादौ| त एवेति गुल्फादिवधजाताः| विशेषतस्त्वित्यादि| कुण्ठता करस्याकर्मण्यत्वम्| कुणिः सङ्कुचितबाहुमध्यः| एतेनेतरो बाहुर्व्याख्यातः| उपसंहारमाह- एवमित्यादि||२४||

Adhikarana 17 (25) · Śloka 25

अत ऊर्ध्वमुदरोरसोर्मर्माण्यनुव्याख्यास्यामः - तत्र वातवर्चोनिरसनं स्थूलान्त्रप्रतिबद्धं गुदं नाम मर्म, तत्र सद्योमरणं; अल्पमांसशोणितोऽभ्यन्तरतः कट्यां मूत्राशयो बस्तिः, तत्रापि सद्योमरणमश्मरीव्रणादृते, तत्राप्युभयतो भिन्ने न जीवति, एकतो भिन्ने मूत्रस्रावी व्रणो भवति, स तु यत्नेनोपक्रान्तो रोहति; पक्वामाशययोर्मध्ये सिराप्रभवा नाभिः, तत्रापि सद्यो मरणं; स्तनयोर्मध्यमधिष्ठायोरस्यामाशयद्वारं सत्त्वरजस्तमसामधिष्ठानं हृदयं, तत्रापि सद्य एव मरणं; स्तनयोरधस्ताद् द्व्यङ्गुलमुभयतः स्तनमूले, तत्र कफपूर्णकोष्ठतया (कासश्वासाभ्यां ) म्रियते; स्तनचूचुकयोरूर्ध्वं द्व्यङ्गुलमुभयतः स्तनरोहितौ , तत्र लोहितपूर्णकोष्ठतया कासश्वासाभ्यां च म्रियते; अंसकूटयोरधस्तात् पार्श्वोपरिभागयोरपलापौ नाम, तत्र रक्तेन पूयभावं गतेन मरणं; उभयत्रोरसो नाड्यौ वातवहे अपस्तम्भौ नाम, तत्र वातपूर्णकोष्ठतया कासश्वासाभ्यां च मरणम्; एवमेतान्युदरोरसोर्द्वादश मर्माणि व्याख्यातानि ||२५||

🔊 Audio coming soon

अत इत्यादि| निरसनं प्रेरकं, मांसमर्मेदं चतुरङ्गुलं सद्योघाति च| अल्पेत्यादि कट्यामित्युपलक्षणं, तेन नाभिपृष्ठमुष्कगुदवङ्क्षणशेफांसि गृह्यन्ते; तदुक्तं- “नाभिपृष्ठकटीमुष्कगुदवङ्क्षणशेफसाम्| एकद्वारस्तनुत्वक्को मध्ये बस्तिरधोमुखः” (नि.३) इति| सद्योमरणमश्मरीव्रणादृते भवतीति सम्बन्धः| तत्रापीति अश्मरीनिमित्ते इत्यर्थः| उभयतो भिन्ने ‘बस्तौ’ इति शेषः| स्नायुमर्मेदं चतुरङ्गुलं सद्योघाति च| पक्वेत्यादि सिरामर्मेदं चतुरङ्गुलं च| स्तनयोरित्यादि सिरामर्मेदं कमलमुकुलाकारमधोमुखं चतुरङ्गुलं च| स्तनयोरधस्तादित्यादि उभयतः स्तनयोरधस्ताद् द्व्यङ्गुलप्रदेशे स्तनमूले मर्मणी, उभयतोग्रहणात् पृथक् पृथक् स्तनस्याधः स्तनमूलं मर्मेति गम्यते, अन्यथा स्तनयोरधस्तादित्युक्ते मिलितयोरेव स्तनयोरधस्तादितीदृशेऽर्थे स्तनयुगमध्यस्याधस्तात् स्तनमूलाख्यं मर्मद्वयमित्यनिष्टं स्यात्, इमे सिरामर्मणी द्व्यङ्गुले कालान्तरप्राणहरे च| स्तनचूचुकयोरित्यादि स्तनयोश्चूचुके स्तनचूचुके; पूर्ववाक्यात् ‘द्व्यङ्गुले’ इत्यनुवर्तते, तेन स्तनचूचुकयोरूर्ध्वं द्व्यङ्गुले स्तनरोहिते द्वे मर्मणी; तदुक्तं- “स्तनचूचुकयोरूर्ध्वं द्व्यङ्गुलात् स्तनरोहिते| अर्धाङ्गुलमिते मांसमर्मणी परिकीर्तिते|| रक्तपूरितकोष्ठस्य कालान्मरणकारिणी” इति; वृद्धवाग्भटेन “स्तनचूचुकयोरूर्ध्वं द्व्यङ्गुलमुभयतः स्तनरोहिते” (अ.सं.शा.७) इत्युक्तं; मांसमर्मणी सद्योघातिनी| अंसेत्यादि सिरामर्मणी अर्धाङ्गुले कालान्तरप्राणहरे च| उभयत्रोरस इति उरसो द्वयोः पार्श्वयोरित्यर्थः, सिरामर्मणी अर्धाङ्गुलप्रमाणे कालान्तरप्राणहरे च||२५||

Adhikarana 18 (26) · Śloka 26

अत ऊर्ध्वं पृष्ठमर्माणि व्याख्यास्यामः - तत्र पृष्ठवंशमुभयतः प्रतिश्रोणिकाण्डमस्थिनी कटीकतरुणे, तत्र शोणितक्षयात् पाण्डुर्विवर्णो हीनरूपश्च म्रियते; पार्श्वयोर्जघनबहिर्भागे पृष्ठवंशमुभयतो कुकुन्दरे, तत्र स्पर्शाज्ञानमधःकाये चेष्टोपघातश्च; श्रोणीकाण्डयोरुपर्याशयाच्छादनौ पार्श्वान्तरप्रतिबद्धौ नितम्बौ, तत्राधःकायशोषो दौर्बल्याच्च मरणं; अधःपार्श्वान्तरप्रतिबद्धौ जघनपार्श्वमध्ययोस्तिर्यगूर्ध्वं च जघनात् पार्श्वसन्धी, तत्र लोहितपूर्णकोष्ठतया म्रियते; स्तनमूलादृजूभयतः पृष्ठवंशस्य बृहती, तत्र शोणितातिप्रवृत्तिनिमित्तैरुपद्रवैर्म्रियते; पृष्ठोपरि पृष्ठवंशमुभयतस्त्रिकसम्बद्धे अंसफलके, तत्र बाह्वोः स्वापशोषौ ; बाहुमूर्धग्रीवामध्येंऽसपीठस्कन्धबन्धनावंसौ, तत्र स्तब्धबाहुता; एवमेतानि चतुर्दश पृष्ठमर्माणि व्याख्यातानि ||२६||

🔊 Audio coming soon

अत ऊर्ध्वमित्यादि| तत्र पृष्ठेत्यादि| प्रतिश्रोणिकाण्डमित्यत्र ‘प्रतिश्रोणिकर्णौ’ इति केचित् पठन्ति, तत्र श्रोणिकर्णौ लक्षीकृत्य त्रिकसन्निधाने श्रोण्यामुपरि; अस्थिमर्मणी अर्धाङ्गुले कालान्तरप्राणहरे च| पार्श्वेत्यादि| पार्श्वयोर्वामदक्षिणसञ्ज्ञकयोः, जघनबहिर्भाग इति कट्याः पश्चाद्भागे, गयी तु ‘पार्श्वजघनभागे’ इति पठित्वा पार्श्वयोर्जघनभागेऽधोभागे नितम्बे निम्ने कुकुन्दरे इति व्याख्याति, सन्धिमर्मणी अर्धाङ्गुले ईषन्निम्नाकारे वैकल्यकरे च| श्रोणीत्यादि| पूर्वोक्तयोः श्रोणिकाण्डयोरुपरि, आशयाच्छादनौ आमाशयपिधायकौ , पार्श्वान्तरप्रतिबद्धौ पार्श्वमध्ये प्रतिबद्धौ नितम्बौ; अस्थिमर्मणी अर्धाङ्गुले कालान्तरप्राणहरे च| अध इत्यादि अधःपार्श्वान्तरप्रतिबद्धाविति अधोभागे यत् पार्श्वयोरन्तरं मध्यं तत्र प्रतिबद्धौ, जघनपार्श्वमध्ययोरिति पश्चाद्भागपार्श्वभागयोर्यौ मध्यौ वामदक्षिणौ तयोः; कथं स्थितावित्याह- तिर्यगूर्ध्वं चेति, उपर्युपरि पर्शुकानां क्रमवृद्धेः सन्धेरपि तिर्यगूर्ध्वत्वं ; जघनादिति ल्यपि लुप्ते पञ्चमीयं, तेन जघनपश्चाद्भागमाश्रित्य स्थितौ पार्श्वसन्धी, सिरामर्मणि अर्धाङ्गुले कालान्तरमृत्युप्रदे च| स्तनमूलादित्यादि सिरामर्मणी अर्धाङ्गुले कालान्तरप्राणहरे च| पृष्ठोपरीत्यादि पृष्ठवंशस्यायतत्वात् प्रदेशनियमार्थं पृष्ठोपरीत्युक्तं, त्रिकसम्बद्धे इति ग्रीवाया अंसद्वयस्य च यः संयोगः स त्रिकः, तत्र सम्बद्धे अंसफलके; अस्थिमर्मणी अर्धाङ्गुले वैकल्यकारिणी च| बाह्वित्यादि| बाहुमूर्धा बाहुशिरः, ग्रीवा तु कन्धरा, तयोर्मध्ये अंसफलकभुजशिखरयोर्बन्धनौ अंसौ, स्नायुमर्मणी अर्धाङ्गुले वैकल्यकारिणी च||२६||

Adhikarana 19 (27) · Śloka 27

अत ऊर्ध्वमूर्ध्वजत्रुगतानि व्याख्यास्यामः- तत्र कण्ठनाडीमुभयतश्चतस्रो धमन्यो द्वे नीले द्वे च मन्ये व्यत्यासेन , तत्र मूकता स्वरवैकृतमरसग्राहिता च; ग्रीवायामुभयतश्चतस्रः सिरा मातृकाः, तत्र सद्योमरणं; शिरोग्रीवयोः सन्धाने कृकाटिके, तत्र चलमूर्धता; कर्णपृष्ठतोऽधःसंश्रिते विधुरे, तत्र बाधिर्यं; घ्राणमार्गमुभयतः स्रोतोमार्गप्रतिबद्धे अभ्यन्तरतः फणे, तत्र गन्धाज्ञानं; भ्रूपुच्छान्तयोरधोऽक्ष्णोर्बाह्यतोऽपाङ्गौ, तत्रान्ध्यं दृष्टयुपघातो वा; भ्रुवोरुपरि निम्नयोरावर्तौ नाम, तत्राप्यान्ध्यं दृष्टयुपघातो वा; भ्रुवोरन्तयोरुपरि कर्णललाटयोर्मध्ये शङ्खौ, तत्र सद्योमरणं; शङ्खयोरुपरि केशान्त उत्क्षेपौ, तत्र सशल्यो जीवेत् पाकात् पतितशल्यो वा नोद्धृतशल्यः; भ्रुवोर्मध्ये स्थपनी, तत्रोत्क्षेपवत्; पञ्च सन्धयः शिरसि विभक्ताः सीमन्ता नाम, तत्रोन्मादभयचित्तनाशैर्मरणं; घ्राणश्रोत्राक्षिजिह्वासन्तर्पणीनां सिराणां मध्ये सिरासन्निपातः शृङ्गाटकानि , तानि चत्वारि मर्माणि, तत्रापि सद्योमरणं ; मस्तकाभ्यन्तरोपरिष्ठात् सिरासन्धिसन्निपातो रोमावर्तोऽधिपतिः, तत्रापि सद्य एव | एवमेतानि सप्तत्रिंशदूर्ध्वजत्रुगतानि मर्माणि व्याख्यातानि ||२७||

🔊 Audio coming soon

अत ऊर्ध्वमित्यादि| व्यत्यासेन वैपरीत्येन, एका नीला एका मन्या चैकस्मिन् पार्श्वे, अन्या नीला अन्या मन्या चापरस्मिन् पार्श्वे; सिरामर्मणी चतुरङ्गुले वैकल्यकारिणी च| ग्रीवायामित्यादि उभयतश्चतस्र इति एकस्मिन् एकस्मिन् पार्श्वे चतस्रश्चतस्र इत्यर्थः; सिरामर्माणि चतुरङ्गुलप्रमाणानि मातृकाः| शिर इत्यादि सन्धिमर्मणी अर्धाङ्गुले वैकल्यकारिणी च| कर्णेत्यादि स्नायुमर्मणी किञ्चिन्निम्नाकारे वैकल्यकारिणी च| घ्राणेत्यादि घ्राणमार्गस्य द्वयोः पार्श्वयोरभ्यन्तरविवरसम्बद्धे फणे, सिरामर्मणी अर्धाङ्गुले वैकल्यकारिणी च| भ्रूपुच्छेत्यादि सिरामर्मणी अर्धाङ्गुले वैकल्यकारिणी च| भ्रुवोरुपरीत्यादि भ्रुवोरुपरि निम्नयोरिति प्रदेशकथनं, सन्धिमर्मणी अर्धाङ्गुले वैकल्यकारिणी च| भ्रुवोरित्यादि अस्थिमर्मणी अर्धाङ्गुले| शङ्खयोरित्यादि केशान्ते केशपर्यन्ते, स्नायुमर्मणी अर्धाङ्गुले विशल्यप्राणहरे च| भ्रुवोर्मध्ये इत्यादि तत्रोत्क्षेपवदिति सशल्यः स्वयं पतितशल्यो वा जीवत्युद्धृतशल्यो म्रियत इत्यर्थः, सिरामर्म अर्धाङ्गुलं विशल्यघ्नं च| पञ्चेत्यादि पञ्च सन्धयो ये शिरसि विभक्ताः शरीरसङ्ख्याव्याकरणे ते सीमन्ता इत्यर्थः, इमानि सन्धिमर्माणी चतुरङ्गुलप्रमाणानि कालान्तरप्राणहराणि च| घ्राणश्रोत्रेत्यादि घ्राणादीन्द्रियचतुष्कतर्पणीनां सिराणां सिरामुखानां सन्निपातः संयोगस्थानं शृङ्गाटकानि, तानि चत्वारि घ्राणादितर्पणसिराणां चतुर्भेदात्; इमानि सिरामर्माणि चतुरङ्गुलप्रमाणानि| मस्तकेत्यादि मस्तकाभ्यन्तरोपरिष्ठादिति मस्तकस्याभ्यन्तरोर्ध्वमित्यर्थः, सिरासन्ध्योः सन्निपातो रोमावर्तः, बहिरस्य लक्षणमुपरिष्ठाद्रोमावर्तः; एतत् सन्धिमर्म अर्धाङ्गुलप्रमाणं च||२७||

Adhikarana 20 (28-29) · Śloka 29

भवन्ति चात्र श्लोकाः- उर्व्यः शिरांसि विटपे च सकक्षपार्श्वे एकैकमङ्गुलमितं स्तनपूर्वमूलम् | विद्ध्यङ्गुलद्वयमितं मणिबन्धगुल्फं त्रीण्येव जानु सपरं सह कूर्पराभ्याम् ||२८|| हृद्बस्तिकूर्चगुदनाभि वदन्ति मूर्ध्नि चत्वारि पञ्च च गले दश यानि च द्वे | तानि स्वपाणितलकुञ्चितसम्मितानि शेषाण्यवेहि परिविस्तरतोऽङ्गुलार्धम् ||२९||

🔊 Audio coming soon

इदानीं सर्वेषामेव मर्मणां सूत्रेण मानमाह- भवन्ति चात्रेत्यादिना| शिरांसि कूर्चशिरांसि| कक्षपार्श्वे कक्षधरे इत्यर्थः| एकैकमङ्गुलमितमिति एकैकं यथा भवति तथोर्व्यादयो मर्मविशेषा अङ्गुलमिता ज्ञेयाः| स्तनपूर्वमूलमित्यादि मणिबन्धगुल्फं स्तनमूलं चाङ्गुलद्वयमितं विद्धि जानीहीति सम्बन्धः| त्रीण्येव जानु सपरमिति सपरं द्वितीयजानुसहितं जानु त्रीणि त्र्यङ्गुलानि विद्धीत्यर्थः| मूर्ध्नि चत्वारि पञ्च चेति यानि मूर्ध्नि चत्वारि मर्माणि शृङ्गाटकसञ्ज्ञकानि, तथा तत्रैव पञ्च सीमन्तसञ्ज्ञकानि, गले दश यानि च द्वे इति गले कण्ठे यानि दश द्वे च कथितानि तत्राष्टौ मातृकाः द्वे नीले द्वे च मन्ये, एतानि मर्माणि स्वपाणितलकुञ्चितसम्मितानि चतुरङ्गुलप्रमाणानीत्यर्थः| शेषाणि षट्पञ्चाशन्मर्माणि| अवेहि जानीहि| अन्ये तु, इमानि षट्पञ्चाशन्मर्माणि तलप्रमाणान्याहुः| गयी तु, अन्यादृशं सूत्रं पठित्वा स्तनमूले द्वे गुल्फे च, इन्द्रबस्तयश्चत्वारो, द्वौ मणिबन्धाविति दश मर्माणि द्व्यङ्गुलानि भोजदर्शनाद्व्याख्याति, तथा जानु सपरमित्यत्र सह परेण परप्रदेशावस्थितेनाणिमर्मणा वर्तते यत् तत् सपरं; तेन जानुनि द्वे, आणयश्चतस्रः, कूर्परे द्वे, इत्यष्टौ त्र्यङ्गुलानि व्याख्याति| शेषं समम्||२८-२९||

Adhikarana 21 (30) · Śloka 30

एतत्प्रमाणमभिवीक्ष्य वदन्ति तज्ज्ञाः शस्त्रेण कर्मकरणं परिहृत्य कार्यम् | पार्श्वाभिघातितमपीह निहन्ति मर्म तस्माद्धि मर्मसदनं परिवर्जनीयम् ||३०||

🔊 Audio coming soon

मानकथनप्रयोजनमाह- एतदित्यादिना| मर्मसदनमिति मर्मस्थानम्||३०||

Adhikarana 22 (31-32) · Śloka 33

छिन्नेषु पाणिचरणेषु सिरा नराणां सङ्कोचमीयुरसृगल्पमतो निरेति | प्राप्यामितव्यसनमुग्रमतो मनुष्याः सञ्च्छिन्नशाखतरुवन्निधनं न यान्ति ||३१|| क्षिप्रेषु तत्र सतलेषु हतेषु रक्तं गच्छत्यतीव पवनश्च रुजं करोति | एवं विनाशमुपयान्ति हि तत्र विद्धा वृक्षा इवायुधनिपातनिकृत्तमूलाः ||३२|| तस्मात्तयोरभिहतस्य तु पाणिपादं छेत्तव्यमाशु मणिबन्धनगुल्फदेशे |३३|

🔊 Audio coming soon

करचरणच्छेदे जीवन्ति तदवयवभूतमर्मच्छेदे तु न जीवन्तीति विशेषं दर्शयन्नाह- छिन्नेष्वित्यादि| सङ्कोचमीयुः सङ्कोचं जग्मुरतोऽल्पं रुधिरं प्रवर्तते| क्षिप्रेष्वित्यादि तत्र पाण्योश्चरणयोर्वा| गयी तु, वृक्षा इवायुधनिपातेत्यादिस्थाने ‘किञ्जल्कपत्रमथनादिव पङ्कजानि’ इति पठति||३१-३२||-

Adhikarana 23 (33) · Śloka 34

मर्माणि शल्यविषयार्धमुदाहरन्ति यस्माच्च मर्मसु हता न भवन्ति सद्यः ||३३|| जीवन्ति तत्र यदि वैद्यगुणेन केचित्ते प्राप्नुवन्ति विकलत्वमसंशयं हि |३४|

🔊 Audio coming soon

मर्ममानकथनप्रयोजनं पूर्वतरवाक्ये प्रतिपाद्य मर्मस्थानविषयं निर्दिशन्नाह- मर्माणीत्यादि| शल्यस्य मनःशरीराबाधकरस्य विषयः शल्यविषयः; स च शस्त्रादिप्रणिधानान्मरणामरणकारकत्वेन द्विविधः; तत्र मरणकारकः शल्यविषयो मर्माख्यः शरीरदेशः, यस्मात्तत्र हताः सद्य एव न भवन्ति सप्ताहाभ्यन्तर एव म्रियन्त इत्यर्थः, तस्मान्मरणकारकत्वेन मर्माणि शल्यविषयार्धमुदाहरन्ति, ‘पूर्वाचार्याः’ इति शेषः| ननु, केचिन्मर्महता अपि जीवन्तो दृश्यन्ते तत् कथं मरणकारकत्वेन मर्माणि शल्यविषयार्धमित्याशङ्क्याह- जीवन्तीत्यादि||३३||-

Adhikarana 24 (34) · Śloka 35

सम्भिन्नजर्जरितकोष्ठशिरःकपाला जीवन्ति शस्त्रनिहतैश्च शरीरदेशैः ||३४|| छिन्नैश्च सक्थिभुजपादकरैरशेषैर्येषां न मर्मसु कृता विविधाः प्रहाराः |३५|

🔊 Audio coming soon

प्रसङ्गतोऽपरं शल्यविषयार्धं प्रतिपादयितुकामोऽमर्महतास्तु विविधैरपि छेदभेदादिभिर्न म्रियन्त इति दर्शयन्नाह- सम्भिन्नेत्यादि||३४||

Adhikarana 25 (35) · Śloka 36

सोममारुततेजांसि रजःसत्त्वतमांसि च | मर्मसु प्रायशः पुंसां भूतात्मा चावतिष्ठते ||३५|| मर्मस्वभिहतास्तस्मान्न जीवन्ति शरीरिणः |३६|

🔊 Audio coming soon

इदानीं मर्मणां शरीरमनोदोषनिवासभूतानां शरीरमनोदोषैरेव मर्मविद्धकुपितैर्मनः शरीरं च नश्यति, तयोराधारभूतयोर्नाशादाधेयभूतो भूतात्माऽपि नश्यतीति दर्शयितुमाह- सोमेत्यादि||३५||-

Adhikarana 26 (36-40) · Śloka 40

इन्द्रियार्थेष्वसम्प्राप्तिर्मनोबुद्धिविपर्ययः ||३६|| रुजश्च विविधास्तीव्रा भवन्त्याशुहरे हते | हते कालान्तरघ्ने तु ध्रुवं धातुक्षयो नृणाम् ||३७|| ततो धातुक्षयाज्जन्तुर्वेदनाभिश्च नश्यति | हते वैकल्यजनने केवलं वैद्यनैपुणात् ||३८|| शरीरं क्रियया युक्तं विकलत्वमवाप्नुयात् | विशल्यघ्ने तु विज्ञेयं पूर्वोक्तं यच्च कारणम् ||३९|| रुजाकराणि मर्माणि क्षतानि विविधा रुजः | कुर्वन्त्यन्ते च वैकल्यं कुवैद्यवशगो यदि ||४०||

🔊 Audio coming soon

सद्यःप्राणहरादिमर्मपञ्चकस्य लक्षणं निर्दिशन्नाह- इन्द्रियार्थेष्वित्यादि| आशुहरे सद्यःप्राणहरे| पूर्वोक्तमिति ‘शल्यमुखावरुद्धो यावदन्तर्वायुस्तिष्ठति तावज्जीवति’ इत्याद्युक्तमेव कारणं ज्ञेयं लक्षणत्वेनेत्यर्थः||३६-४०||

Adhikarana 27 (41) · Śloka 41

छेदभेदाभिघातेभ्यो दहनाद्दारणादपि | उपघातं विजानीयान्मर्मणां तुल्यलक्षणम् ||४१||

🔊 Audio coming soon

इदानीं मर्मघाततुल्यं मर्मसमीपस्यापि देशस्य घातं महानर्थकरं दर्शयन्नाह- छेदेत्यादि| उपघातं समीपघातम्||४१||

Adhikarana 28 (42) · Śloka 42

मर्माभिघातस्तु न कश्चिदस्ति योऽल्पात्ययो वाऽपि निरत्ययो वा | प्रायेण मर्मस्वभिताडितास्तु वैकल्यमृच्छन्त्यथवा म्रियन्ते ||४२||

🔊 Audio coming soon

मर्माभिघाते वैद्यस्य यत्नपरतां दर्शयन्नाह- मर्माभिघात इत्यादि| अल्पात्यय इति अल्पव्यापत्| निरत्यय इति निर्गतव्यापत्| गयी त्वेतद्वाक्यं न पठति||४२||

Adhikarana 29 (43) · Śloka 43

मर्माण्यधिष्ठाय हि ये विकारा मूर्च्छन्ति काये विविधा नराणाम् | प्रायेण ते कृच्छ्रतमा भवन्ति नरस्य यत्नैरपि साध्यमानाः ||४३||

🔊 Audio coming soon

शरीरदोषेणापि मर्मणां मर्मसमीपदेशस्यापि नियतं महानर्थं दर्शयन्नाह- मर्माण्यधिष्ठायेत्यादि| मूर्च्छन्ति समुच्छ्रायं गच्छन्ति| यस्मादेवंविधो मर्माभिघातस्तस्माद्वैद्येन यत्नः कार्य इति सूचितम्||४३||

Adhikarana puShpikA · Śloka 6

इति सुश्रुतसंहितायां शारीरस्थाने प्रत्येकमर्मनिर्देशशारीरं नाम षष्ठोऽध्यायः ||६||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां शारीरस्थाने षष्ठोऽध्यायः||६||