Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

7. sirāvarṇavibhaktiśārīram

Adhikarana 1 (1-2) · Śloka 2

अथातः सिरावर्णविभक्तिशारीरं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

“मर्मसिरास्नायुसन्ध्यस्थिधमनीः परिहरन्” (सू.५) इत्यादौ मर्मानन्तरं सिराणां निर्देशात् प्रत्येकमर्मनिर्देशशारीरानन्तरं सिरावर्णविभागशारीरारम्भो युज्यत इत्याह- अथेत्यादि| विभक्तिर्विभागः समुदायात् पृथक्करणमित्यर्थः| सिराणां वातादिवहानां तद्वर्णानां चारुणनीलशुक्ललोहितानां विभक्तिर्यस्मिन् शारीरे तत्तथाविधम्||१-२||

Adhikarana 2 (3) · Śloka 3

सप्त सिराशतानि भवन्ति; याभिरिदं शरीरमाराम इव जलहारिणीभिः केदार इव च कुल्याभिरुपस्निह्यतेऽनुगृह्यते चाकुञ्चनप्रसारणादिभिर्विशेषैः; द्रुमपत्रसेवनीनामिव तासां प्रतानाः; तासां नाभिर्मूलं, ततश्च प्रसरन्त्यूर्ध्वमधस्तिर्यक् च ||३||

🔊 Audio coming soon

तासामणुशोऽपरिसङ्ख्यातानामपि भूयस्त्वाश्रयां समुदायसङ्ख्यां निर्दिशन्नाह- सप्तेत्यादि| तासां सर्वासामपि सामान्यं कर्म निर्दिशन्नाह- याभिरित्यादि| याभिः सिराभिः| आरामो नानावृक्षसमुदायविशेषः| जलहारिणीभिः प्रणालीभिः, कुल्याभिः कृत्रिमाल्पसरिद्भिः; एतद्दृष्टान्तद्वयं स्थूलसूक्ष्मसिराप्रापणार्थम्| उपस्निह्यते पुष्टिं नीयते तरुणानां शरीरं, वृद्धानां शरीरपरिणामात्तेनोपस्नेहेन शरीरं याप्यते; उक्तं च- “स एवान्नरसो वृद्धानां जरापरिपक्वशरीरत्वादप्रीणनो भवति” (सू.१४) इति| अनुगृह्यते परिपाल्यते| आकुञ्चनादिभिरित्यत्रादिशब्दाद्भाषणस्वप्नावबोधादयो गृह्यन्ते| सिराणां सूक्ष्मविशेषप्रदर्शनाय दृष्टान्तमाह- द्रुमेत्यादि| प्रताना विस्ताराः| तत इति नाभित इत्यर्थः||३||

Adhikarana 3 (4) · Śloka 4

भवतश्चात्र श्लोकौ- यावत्यस्तु सिराः काये सम्भवन्ति शरीरिणाम् | नाभ्यां सर्वा निबद्धास्ताः प्रतन्वन्ति समन्ततः ||४||

🔊 Audio coming soon

प्रतन्वन्ति ऊर्ध्वमधस्तिर्यक् च काये इति सम्बध्यते||४||

Adhikarana 4 (5) · Śloka 5

नाभिस्थाः प्राणिनां प्राणाः प्राणान्नाभिर्व्युपाश्रिता | सिराभिरावृता नाभिश्चक्रनाभिरिवारकैः ||५||

🔊 Audio coming soon

इदानीं सिराणां प्राणानां चाधाराधेयत्वं प्रतिपादयन्नाह- नाभिस्था इत्यादि| नाभिस्था इत्यनेन नाभ्यावरकासु सिरास्ववस्थिताः| प्राणा इति सिराणां प्राणाधारत्वं प्रतिपादितम्||५||

Adhikarana 5 (6) · Śloka 6

तासां मूलसिराश्चत्वारिंशत्; तासां वातवाहिन्यो दश, पित्तवाहिन्यो दश, कफवाहिन्यो दश, दश रक्तवाहिन्यः | तासां तु वातवाहिनीनां वातस्थानगतानां पञ्चसप्ततिशतं भवति, तावत्य एव पित्तवाहिन्यः पित्तस्थाने, कफवाहिन्यश्च कफस्थाने, रक्तवाहिन्यश्च यकृत्प्लीह्नोः; एवमेतानि सप्त सिराशतानि ||६||

🔊 Audio coming soon

इदानीं सिरापिण्डमभिधाय विभजन्नाह- तासामित्यादि||६||

Adhikarana 6 (7) · Śloka 7

तत्र वातवाहिन्यः सिरा एकस्मिन् सक्थ्नि पञ्चविंशतिः; एतेनेतरसक्थि बाहू च व्याख्यातौ | विशेषतस्तु कोष्ठे चतुस्त्रिंशत्; तासां गुदमेढ्राश्रिताः श्रोण्यामष्टौ, द्वे द्वे पार्श्वयोः, षट् पृष्ठे, तावत्य एवोदरे, दश वक्षसि | एकचत्वारिंशज्जत्रुण ऊर्ध्वं; तासां चतुर्दश ग्रीवायां, कर्णयोश्चतस्रः, नव जिह्वायां, षण् नासिकायां, अष्टौ नेत्रयोः, एवमेतत् पञ्चसप्ततिशतं वातवाहिनीनां सिराणां व्याख्यातं भवति | एष एव विभागः शेषाणामपि | विशेषतस्तु पित्तवाहिन्यो नेत्रयोर्दश, कर्णयोर्द्वे; एवं रक्तवहाः कफवहाश्च | एवमेतानि सप्त सिराशतानि सविभागानि व्याख्यातानि ||७||

🔊 Audio coming soon

वातादिवहाः सिराः सामान्यतः सङ्ख्ययाऽभिधाय प्रत्यङ्गविभागेन ता एव प्रतिपादयितुमाह- तत्र वातवाहिन्य इत्यादि| कोष्ठे चतुस्त्रिंशदिति याः प्रतिपादितास्तासां विवरणमाह- तासामित्यादि| एकचत्वारिंशज्जत्रुण ऊर्ध्वमित्युद्दिष्टानां विवरणमाह- तासां चतुर्दशेत्यादि| पञ्चसप्ततिशतमिति पञ्चसप्तत्यधिकं शतमित्यर्थः| एष इत्यादि| एष एव विभागः पूर्वोक्तो वातवाहिसिराविभाग इत्यर्थः| शेषाणामिति पित्तश्लेष्मरक्तवहानामित्यर्थः| एतेन पित्तादिवाहिनीनामपि सिराणां प्रत्येकं पञ्चसप्तत्यधिकं शतं भवतीत्युक्तम्| उपसंहारमाह- एवमित्यादि||७||

Adhikarana 7 (8-15) · Śloka 15

भवन्ति चात्र- क्रियाणामप्रतीघातममोहं बुद्धिकर्मणाम् | करोत्यन्यान् गुणांश्चापि स्वाः सिराः पवनश्चरन् ||८|| यदा तु कुपितो वायुः स्वाः सिराः प्रतिपद्यते | तदाऽस्य विविधा रोगा जायन्ते वातसम्भवाः ||९|| भ्राजिष्णुतामन्नरुचिमग्निदीप्तिमरोगताम् | संसर्पत् स्वाः सिराः पित्तं कुर्याच्चान्यान् गुणानपि ||१०|| यदा प्रकुपितं पित्तं सेवते स्ववहाः सिराः | तदाऽस्य विविधा रोगा जायन्ते पित्तसम्भवाः ||११|| स्नेहमङ्गेषु सन्धीनां स्थैर्यं बलमुदीर्णताम् | करोत्यन्यान् गुणांश्चापि बलासः स्वाः सिराश्चरन् ||१२|| यदा तु कुपितः श्लेष्मा स्वाः सिराः प्रतिपद्यते | तदाऽस्य विविधा रोगा जायन्ते श्लेष्मसम्भवाः ||१३|| धातूनां पूरणं वर्णं स्पर्शज्ञानमसंशयम् | स्वाः सिराः सञ्चरद्रक्तं कुर्याच्चान्यान् गुणानपि ||१४|| यदा तु कुपितं रक्तं सेवते स्ववहाः सिराः | तदाऽस्य विविधा रोगा जायन्ते रक्तसम्भवाः ||१५||

🔊 Audio coming soon

इदानीं वातादिवहसिरासु वातादीनां प्रकृतिभूतानां प्राकृतं कर्म विकृतिभूतानां वैकृतं च कर्म निर्दिशन्नाह- क्रियाणामित्यादि| क्रियाणां कायक्रियाणां प्रसारणाकुञ्चनादीनां, वाक्क्रियाणां भाषितादीनाम्| अप्रतीघातम् अप्रतिहननम्| बुद्धिकर्मणामिति पञ्चानां बुद्धीन्द्रियाणां, मनसो बुद्धेश्च स्वे स्वे विषये प्राकृतायां प्रवृत्तौ मोहस्याभावं करोति| अन्यान् गुणान् “तत्र प्रस्पन्दनोद्वहनपूरण” (सू.१५) इत्यादिकान्| भ्राजिष्णुतां दीप्तिमत्त्वम्| संसर्पत् गच्छत्| अन्यान् गुणान् “रागपक्त्योज” (सू.१५) इत्यादिकान्| यदेत्यादि| अन्यान् गुणान् सन्धिश्लेषणादिकान्| यदा त्वित्यादि| अन्यान् गुणान् “रक्तं वर्णप्रसादं” (सू.१५) इत्याद्युक्तान्||८-१५||

Adhikarana 8 (16) · Śloka 16

न हि वातं सिराः काश्चिन्न पित्तं केवलं तथा | श्लेष्माणं वा वहन्त्येता अतः सर्ववहाः स्मृताः ||१६||

🔊 Audio coming soon

प्राकृतवातादिवहानामपि सिराणां सर्वत्र सर्वकार्योपलम्भात् सर्ववहत्वं दर्शयन्नाह- न हि वातमित्यादि||१६||

Adhikarana 9 (17) · Śloka 17

प्रदुष्टानां हि दोषाणां मूर्च्छितानां प्रधावताम् | ध्रुवमुन्मार्गगमनमतः सर्ववहाः स्मृताः ||१७||

🔊 Audio coming soon

इदानीं प्रकुपितवातादिवहानामपि सिराणां सर्ववहत्वं दर्शयन्नाह- प्रदुष्टानामित्यादि| मूर्च्छितानामिति परस्परं मिश्रितानामित्यर्थः||१७||

Adhikarana 10 (18) · Śloka 18

तत्रारुणा वातवहाः पूर्यन्ते वायुना सिराः | पित्तादुष्णाश्च नीलाश्च, शीता गौर्यः स्थिराः कफात् असृग्वहास्तु रोहिण्यः सिरा नात्युष्णशीतलाः ||१८||

🔊 Audio coming soon

सिराविभक्तिं प्रतिपाद्य तद्वर्णविभक्तिं प्रतिपादयन्नाह- तत्रेत्यादि||१८||

Adhikarana 11 (19-21) · Śloka 21

अत ऊर्ध्वं प्रवक्ष्यामि न विध्येद्याः सिरा भिषक् | वैकल्यं मरणं चापि व्यधात्तासां ध्रुवं भवेत् ||१९|| सिराशतानि चत्वारि विद्याच्छाखासु बुद्धिमान् | षट्त्रिंशच्च शतं कोष्ठे चतुःषष्टं च मूर्धनि ||२०|| शाखासु षोडश सिराः कोष्ठे द्वात्रिंशदेव तु | पञ्चाशज्जत्रुणश्चोर्ध्वमव्यध्याः परिकीर्तिताः ||२१||

🔊 Audio coming soon

तत्र व्यध्याव्यध्यविभागज्ञानाय पूर्वोक्तानि सप्तसिराशतानि षडङ्गेष्वनूद्य प्रतिज्ञाता अव्यध्याः सिराः प्राह- सिराशतानीत्यादि| सिराशतानि चत्वारीति एकैकशाखागतवातादिवहानां सिराणां पञ्चविंशत्या चत्वारि शतानि भवन्ति| चतुःषष्टं चेति शतमित्यत्रापि योजनीयं, तेन चतुःषष्ट्यधिकं शतं मूर्धनि ज्ञातव्यम्||१९-२१||

Adhikarana 12 (22) · Śloka 22

तत्र सिराशतमेकस्मिन् सक्थ्नि भवति; तासां जालधरा त्वेका, तिस्रश्चाभ्यन्तराः- तत्रोर्वीसञ्ज्ञे द्वे, लोहिताक्षसञ्ज्ञा चैका, तास्त्वव्यध्याः; एतेनेतरसक्थि बाहू च व्याख्यातौ; एवमशस्त्रकृत्याः षोडश शाखासु | द्वात्रिंशच्छ्रोण्यां, तासामष्टावशस्त्रकृत्याः- द्वे द्वे विटपयोः , कटीकतरुणयोश्च; अष्टावष्टावेकैकस्मिन् पार्श्वे, तासामेकैकामूर्ध्वगां परिहरेत्, पार्श्वसन्धिगते च द्वे; चतस्रो विंशतिश्च पृष्ठे पृष्ठवंशमुभयतः, तासामूर्ध्वगामिन्यौ द्वे द्वे परिहरेद्बृहतीसिरे; तावत्य एवोदरे, तासां मेढ्रोपरि रोमराजीमुभयतो द्वे द्वे परिहरेत्; चत्वारिंशद्वक्षसि, तासां चतुर्दशाशस्त्रकृत्याः- हृदये द्वे, द्वे द्वे स्तनमूले, स्तनरोहितापलापस्तम्भेषूभयतोऽष्टौ; एवं द्वात्रिंशदशस्त्रकृत्याः पृष्ठोदरोरःसु भवन्ति | चतुःषष्टं सिराशतं जत्रुण ऊर्ध्वं भवति; तत्र षट्पञ्चाशच्छिरोधरायां , तासामष्टौ चतस्रश्च मर्मसञ्ज्ञाः परिहरेत्, द्वे कृकाटिकयोः, द्वे विधुरयोः, एवं ग्रीवायां षोडशाव्यध्याः; हन्वोरुभयतोऽष्टावष्टौ, तासां तु सन्धिधमन्यौ द्वे द्वे परिहरेत्; षट्त्रिंशज्जिह्वायां, तासामधः षोडशाशस्त्रकृत्याः, रसवहे द्वे, वाग्वहे च द्वे; द्विर्द्वादश नासायां, तासामौपनासिक्यश्चतस्रः परिहरेत्, तासामेव च तालुन्येकां मृदावुद्देशे; अष्टत्रिंशदुभयोर्नेत्रयोः , तासामेकैकामपाङ्गयोः परिहरेत्; कर्णयोर्दश, तासां शब्दवाहिनीमेकैकां परिहरेत्; नासानेत्रगतास्तु ललाटे षष्टिः, तासां केशान्तानुगताश्चतस्र, आवर्तयोरेकैका, स्थपन्यां चैका परिहर्तव्या; शङ्खयोर्दश, तासां शङ्खसन्धिगतामेकैकां परिहरेत्; द्वादश मूर्ध्नि, तासामुत्क्षेपयोर्द्वे परिहरेत्, सीमन्तेष्वेकैकाम्, एकामधिपताविति; एवमशस्त्रकृत्याः पञ्चाशज्जत्रुण ऊर्ध्वमिति ||२२||

🔊 Audio coming soon

कास्ता अव्यध्याः? इत्याह- तत्र सिराशतमित्यादि| जालधरा इति जालानीव जालानि मांससिरास्नाय्वस्थिसन्धिजानि कूर्चशिरोव्यापीनि तानि धारयन्ति यास्ता जालधरा इत्यर्थः| कास्तास्तिस्रोऽभ्यन्तरा इत्याह- तत्रोर्वीसञ्ज्ञे द्वे इत्यादि| द्वे अपि ते उर्वीसञ्ज्ञे अतिसान्निध्यात् प्राङ्मर्मविभागीये शारीरे उर्वीसञ्ज्ञैकमर्मतया निर्दिष्टे| कटीकतरुणयोश्चेति अत्रापि द्वे द्वे इति सम्बन्धः| पार्श्वसन्धिगते द्वे इति जघनपार्श्वमध्ययोर्ये पार्श्वसन्धिसञ्ज्ञके मर्मणी तत्सञ्ज्ञां प्राप्ते द्वे| चतस्र इत्यादि| पृष्ठगतचतुर्विंशतिसिरासु मध्ये द्वे द्वे बृहतीसिरे परिहरेदित्यर्थः| तावत्य इति चतुर्विंशतिरित्यर्थः| चत्वारिंशदित्यादि| उभयतोऽष्टाविति उभयत्रेत्यर्थे उभयत इति स्तनमूलादिषु योजनीयं, तेनोभयत्र स्तनमूले वामदक्षिणाश्रिते द्वे द्वे इति चतस्रः| तथोभयत्र स्तनरोहितापलापस्तम्भेष्वष्टौ; तत्र स्तनरोहितयोर्द्वे द्वे, अपलापयोरेकैका, अपस्तम्भयोरप्येकैका, एवमष्टावित्यर्थः| उपसंहारमाह- एवमित्यादि| पृष्ठोदरोरःस्वित्यत्र पृष्ठशब्देन श्रोणिपार्श्वानामपि ग्रहणं; तेन श्रोणिगता अष्टौ, पार्श्वगता एकैका, चतस्रः पृष्ठे, चतस्र उदरे, चतुर्दश वक्षसि, एवं द्वात्रिंशदव्यध्याः| चतुःषष्टमित्यादि| चतुःषष्टं सिराशतमिति चतुःषष्ट्यधिकं सिराशतमित्यर्थः| तत्रेति चतुःषष्ट्यधिकसिराशतमध्ये| अष्टौ चतस्रश्च मर्मसञ्ज्ञा इति तत्राष्टौ मातृकाः, द्वे नीले, द्वे च मन्ये, एता द्वादश मर्मसञ्ज्ञा इत्यर्थः; तथा द्वे कृकाटिकयोः, द्वे विधुरयोः, एवं ग्रीवायां षोडशाव्यध्याः| गयी तु वातादिवहानां चतुर्भिरष्टकैद्वात्रिंशद्ग्रीवायां, तत्र षोडशाव्यध्या इति प्रतिपादयति| सन्धिधमन्याविति हनुसन्धिधमन्यावित्यर्थः| हन्वोः षोडश सिरा ग्रीवासिरास्वेवान्तर्भवन्तीत्यतो न पृथग्गणनीयाः| गयी तु “हनुगताः पृथगेव षोडश, तत्र द्वे सन्धिबन्धनकर्मणी परिहरेत्” इत्याह| षट्त्रिंशदित्यादि| तासामधः षोडशेति तासां जिह्वागतषट्त्रिंशत्सिराणां मध्येऽधोजिह्वायाः षोडशसिरा भवन्ति, शेषा विंशतिश्च जिह्वाया ऊर्ध्वं भवन्ति| अशस्त्रकृत्या रसवहे वाग्वहे चेति रसवहे द्वे, वाग्वहे च द्वे| गयी तु “अष्टाविंशतिर्जिह्वायां, तासु रसवाहिन्यः षडशस्त्रकृत्याः” इति ब्रूते| द्विर्द्वादशेति चतुर्विंशतिरित्यर्थः| औपनासिक्यः नासासमीपवर्तिन्यः| मृदावुद्देशे इति घण्टासमीपे इत्यर्थः| गयी तु “षोडश नासायां, तासु पञ्चाव्यध्या” इत्याह| अष्टत्रिंशदिति गयी तु “चतुर्विंशतिरुभयोर्नेत्रयोः; तासामेकैकामपाङ्गयोः परिहरेत्” इत्याचष्टे| कर्णयोरित्यादि गयी तु “कर्णयोः षोडश, तासामेकैकां शब्दवहां परिहरेत्” इति ब्रूते| नासानेत्रेत्यादि याश्चतुर्विंशतिर्नासागता याश्च षट्त्रिंशन्नेत्रगतास्ता एव षष्टिर्ललाटे ज्ञातव्याः, अतो न पृथग्गणनीयाः | केशान्तानुगता इति आवर्तमर्मसमीपकेशान्तानुगता इत्यर्थः| गयी तु “ललाटस्थिताभिः सिराभिः सह नासानेत्रगताः सिरा ललाटे षष्टिः, तासु सप्ताव्यध्याः” इति ब्रूते| शङ्खयोरित्यादि| शङ्खयोर्दशेति एता अपि नासानेत्रगता बोद्धव्याः, अतो न पृथग्गणनीयाः| गयी तु शङ्खयोरष्टौ पृथगेव पठति; तासु द्वे शङ्खसन्धिगते अव्यध्ये, इति प्रतिपादयति| द्वादश मूर्ध्नीत्यादि| सीमन्तेषु पञ्चस्वेकैकां परिहरेत्, तथाऽधिपतावेकां परिहरेत्, एतासामपि नासानेत्रगतत्वात् पृथग्गणना न कर्तव्या| गयी तु मूर्ध्नि पृथगेव द्वादश पठित्वा तास्वष्टावव्यध्या इत्याह||२२||

Adhikarana 13 (23) · Śloka 23

भवति चात्र- व्याप्नुवन्त्यभितो देहं नाभितः प्रसृताः सिराः | प्रतानाः पद्मिनीकन्दाद्बिसादीनां यथा जलम् ||२३||

🔊 Audio coming soon

इदानीं सर्वत्र सिरासम्भवत्वेन व्याख्यातसङ्ख्याव्यभिचारोऽस्तीति दर्शयन्नाह- व्याप्नुवन्तीत्यादि| यथा बिसादीनां प्रताना विस्तारा पद्मिनीकन्दात् प्रसृता जलं व्याप्नुवन्ति, तथा नाभितः प्रसृताः सिराः सर्वतः शरीरं व्याप्नुवन्ति||२३||

Adhikarana puShpikA · Śloka 7

इति सुश्रुतसंहितायां शारीरस्थाने सिरावर्णविभक्तिशारीरं नाम सप्तमोऽध्यायः ||७||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां शारीरस्थाने सप्तमोऽध्यायः||७||