Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

8. sirāvyadhavidhiśārīram

Adhikarana 1 (1-2) · Śloka 2

अथातः सिराव्यधविधिं शारीरं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

सिरावर्णविभक्त्यनन्तरं ज्ञातव्यध्याव्यध्यसिरस्य सिराव्यधविधिर्युज्यत इत्याह- अथात इत्यादि||१-२||

Adhikarana 2 (3) · Śloka 3

बालस्थविररूक्षक्षतक्षीणभीरुपरिश्रान्तमद्यपाध्वस्त्रीकर्शितवमितविरिक्तास्थापितानुवासितजागरितक्लीबकृशगर्भिणीनां कासश्वासशोषप्रवृद्धज्वराक्षेपकपक्षाघातोपवासपिपासामूर्च्छाप्रपीडितानां च सिरां न विध्येत् , याश्चाव्यध्याः, व्यध्याश्चादृष्टाः, दृष्टाश्चायन्त्रिताः, यन्त्रिताश्चानुत्थिता इति ||३||

🔊 Audio coming soon

बालेत्यादि|- बालस्थविरयोरसम्पूर्णक्षीणधातुत्वात् सिरां न विध्येत्| रूक्षक्षतक्षीणानां वातप्रकोपभयात् सिरां न विध्येत्; क्षत इति उरःक्षतयुक्तः खड्गाद्यभिहतो वा, क्षीणः क्षीणधातुः; गयी तु “क्षतेन क्षीणः क्षतक्षीणस्तस्यानिलव्याधिभयान्न विध्येत्” इति व्याख्याति| भीरोश्च तमोबहुलत्वाल्लोहितदर्शनेन मूर्च्छाभयान्न विध्येत्| परिश्रान्तस्य श्रमकुपितो वातः शोणितावसेचनेनातिप्राबल्यं प्राप्य शरीरव्यापादकः स्यात्| मद्यपस्य मदविक्षिप्तचित्तस्यातिमूर्च्छाकरत्वात्| अध्वस्त्रीकर्शितस्य वातप्रकोपभयान्न विध्येत्| वान्तविरिक्तयोरकृतसंसर्जनयोरपीतस्नेहयोर्वमनविरेकानन्तरमेव वातप्रकोपभयात् सिरां न विध्येत्| आस्थापितजागरितयोर्मरुत्प्रकोपभयान्न विध्येत्, अनुवासितस्य मन्देऽग्नौ भूयोऽग्निमान्द्यभयात्, क्लीबस्य प्रधानधातुक्षयेणाल्पसत्त्वत्वेन च निश्चितविनाशात्, कृशस्य गर्भिणीनां चोपक्षीणधातुत्वाद्देहसन्देहभयात्, कासश्वासशोषिणामप्यपचीयमानधातुत्वेन देहसन्देहभयान्न विध्येत्| प्रवृद्धज्वरस्यासृक्स्रावेण प्रलापादिभयात् सिरां न विध्येत्| याश्चाव्यध्या इति अशेषाव्यध्यप्रसङ्गेनोक्तमिति न पुनरुक्तम्||३||

Adhikarana 3 (4) · Śloka 4

शोणितावसेकसाध्याश्च ये विकाराः प्रागभिहितास्तेषु चापक्वेष्वन्येषु चानुक्तेषु यथाभ्यासं यथान्यायं च सिरां विध्येत् ||४||

🔊 Audio coming soon

शोणितावसेकसाध्या इति “त्वग्दोषा ग्रन्थयः शोफा” (सू.१४) इत्यादिना शोणितवर्णनीये उक्ताः| तेषु चापक्वेष्विति यद्यपि रक्ताभावात् पक्वानां रक्तस्रुतिर्न क्रियत इत्यर्थादेवापक्वग्रहणं लभ्यते, तथाऽपि बाह्योपक्रमेषु मध्ये शोणितावसेकस्य प्राधान्यख्यापनायापक्वग्रहणं कृतम्| अन्येषु चानुक्तेष्विति ये विपाकाभिमुखाः शोणितावसेकसाध्येष्वनभिहितास्तेष्वित्यर्थः| यथाभ्यासमिति यथासमीपमित्यर्थः| यथान्यायमिति न्यायस्य स्नेहस्वेदादिकस्यानतिक्रमेणेति यथान्यायम्||४||

Adhikarana 4 (5) · Śloka 5

प्रतिषिद्धानामपि च विषोपसर्गे आत्ययिके च सिराव्यधनमप्रतिषिद्धम् ||५||

🔊 Audio coming soon

इदानीं कारणवशान्निषिद्धानामपि शोणितावसेकं दर्शयन्नाह- प्रतिषिद्धानामित्यादि| प्रतिषिद्धानामपीति बालस्थविरादीनाम्| आत्ययिके इति अत्ययो विनाशो भवत्यस्मादित्यात्ययिको विद्रध्यादिरनन्यसाध्यः||५||

Adhikarana 5 (6) · Śloka 6

तत्र स्निग्धस्विन्नमातुरं यथादोषप्रत्यनीकं द्रवप्रायमन्नं भुक्तवन्तं यवागूं पीतवन्तं वा यथाकालमुपस्थाप्यासीनं स्थितं वा प्राणानबाधमानो वस्त्रपट्टचर्मान्तर्वल्कललतानामन्यतमेन यन्त्रयित्वा नातिगाढं नातिशिथिलं शरीरप्रदेशमासाद्य प्राप्तं शस्त्रमादाय सिरां विध्येत् ||६||

🔊 Audio coming soon

तत्र सिराव्यधस्य पूर्वकर्मविधिं प्रदर्श्य प्रधानकर्मविधिं दर्शयन्नाह- तत्रेत्यादि| तत्रेति वाक्योपक्रमे| आतुरमिति अत्रातुरग्रहणं स्वस्थस्य रक्तं न स्रावयेदिति बोधनार्थम्| द्रवप्रायमिति रक्तोत्क्लेशनार्थं द्रवाधिकमन्नं भुक्तवन्तम्| यवागूं पीतवन्तं वेति सात्म्यापेक्षया| यथाकालमिति वर्षादिषु व्यभ्रादिकालानतिक्रमेण| उपस्थाप्य सन्निधाने स्थापयित्वा| आसीनम् उपविष्टं, स्थितम् ऊर्ध्वीभूतम्| नातिगाढं नातिशिथिलमिति नातिगाढमुत्तमाङ्गे, नातिशिथिलं शाखासु| शरीरप्रदेशमासाद्येति मर्मरहितं शरीरप्रदेशं गृहीत्वेत्यर्थः| प्राप्तं शस्त्रमिति उपयुक्तं शस्त्रमित्यर्थः||६||

Adhikarana 6 (7) · Śloka 7

नैवातिशीते नात्युष्णे न प्रवाते न चाभ्रिते | सिराणां व्यधनं कार्यमरोगे वा कदाचन ||७||

🔊 Audio coming soon

नैवेत्यादि| अभ्रित इति अभ्राणि सञ्जातानि यत्र दिने तदभ्रितं दिनं, तस्मिन्नित्यर्थः||७||

Adhikarana 7 (8) · Śloka 8

तत्र व्यध्यसिरं पुरुषं प्रत्यादित्यमुखमरत्निमात्रोच्छ्रिते उपवेश्यासने सक्थ्नोराकुञ्चितयोर्निवेश्य कूर्परे सन्धिद्वयस्योपरि हस्तावन्तर्गूढाङ्गुष्ठकृतमुष्टी मन्ययोः स्थापयित्वा यन्त्रणशाटकं ग्रीवामुष्ट्योरुपरि परिक्षिप्यान्येन पुरुषेण पश्चात्स्थितेन वामहस्तेनोत्तानेन शाटकान्तद्वयं ग्राहयित्वा ततो ब्रूयात्- दक्षिणहस्तेन सिरोत्थापनार्थं नात्यायतशिथिलं यन्त्रमावेष्टयेति, असृक्स्रावणार्थं च यन्त्रं पृष्ठमध्ये पीडयेति, कर्मपुरुषं च वायुपूर्णमुखं स्थापयेत् ; एष उत्तमाङ्गगतानामन्तर्मुखवर्जानां सिराणां व्यधने यन्त्रणविधिः | पादव्यध्यसिरस्य पादं समे स्थाने सुस्थितं स्थापयित्वाऽन्यं पादमीषत्सङ्कुचितमुच्चैः कृत्वा व्यध्यसिरं पादं जानुसन्धेरधः शाटकेनावेष्ट्य हस्ताभ्यां प्रपीड्य गुल्फं व्यध्यप्रदेशस्योपरि चतुरङ्गुले प्लोतादीनामन्यतमेन बद्ध्वा वा पादसिरां विध्येत् | अथोपरिष्ठाद्धस्तौ गूढाङ्गुष्ठकृतमुष्टी सम्यगासने स्थापयित्वा सुखोपविष्टस्य पूर्ववद्यन्त्रं बद्ध्वा हस्तसिरां विध्येत् | गृध्रसीविश्वाच्योः सङ्कुचितजानुकूर्परस्य | श्रोणीपृष्ठस्कन्धेषून्नामितपृष्ठस्यावाक्शिरस्कस्योपविष्टस्य | विस्फूर्जितपृष्ठस्य विध्येत् | उदरोरसोः प्रसारितोरस्कस्योन्नामितशिरस्कस्य विस्फूर्जितदेहस्य | बाहुभ्यामवलम्बमानदेहस्य पार्श्वयोः | अनामितमेढ्रस्य मेढ्रे | उन्नमितविदष्टजिह्वाग्रस्याधोजिह्वायाम् | अतिव्यात्ताननस्य तालुनि दन्तमूलेषु च | एवं यन्त्रोपायानन्यांश्च सिरोत्थापनहेतून् बुद्ध्याऽवेक्ष्य शरीरवशेन व्याधिवशेन च विदध्यात् ||८||

🔊 Audio coming soon

इदानीमुत्तमाङ्गसक्थिपाणिद्वयपृष्ठोदरवक्षोमेढ्रजिह्वादिषु सिराणां येन प्रकारेणोत्थापनं तं दर्शयन्नाह- तत्रेत्यादि| अरत्निमात्रोच्छ्रिते इति कनिष्ठाङ्गुलिप्रमितहस्तमात्रोच्छ्रित इत्यर्थः| सन्धिद्वयस्योपरीति जानुसन्धिद्वयस्योपरि कूर्परे निवेश्येत्यर्थः| कर्मपुरुषमिति यस्य सिराव्यधनं कर्म क्रियते स कर्मपुरुषः| अन्तर्मुखवर्जानामिति मुखान्तर्गतवर्जितानामित्यर्थः| तत्र पादव्यध्येत्यादि| प्लोतादीनामिति प्लोतं वस्त्रम्, आदिशब्दाद्वल्कलादीनां ग्रहणम्| अथोपरिष्ठादित्यादि| पूर्ववदिति व्यध्यप्रदेशस्योपरि चतुरङ्गुल इत्यर्थः| गृध्रसीत्यादि गृध्रस्यां सङ्कुचितजानोः, विश्वाच्यां सङ्कुचितकूर्परस्य, सिरां विध्येदिति पूर्ववाक्यात् सम्बध्यते| श्रोणीपृष्ठस्कन्धेष्विति सिरामिति पूर्वतरवाक्यात् सम्बध्यते| कीदृशस्य पुरुषस्येत्याशङ्क्य विशेषणत्रयमाह - उन्नामितपृष्ठस्येत्यादि| विस्फूर्जितमायामितं पृष्ठं येन सः, तथा| उदरोरसोः प्रसारितोरस्कस्योन्नमितशिरस्कस्य विस्फूर्जितदेहस्य ‘सिरां विध्येत्’ इति शेषः| विस्फूर्जितदेहस्येति आयामितमध्यशरीरस्येत्यर्थः| अवनामितमेढ्रस्येति स्तब्धमेवावनामितं मेढ्रं यस्य स तथा, तस्य मेढ्रे ‘सिरां विध्येत्’ इति शेषः| अनुक्तानामपि यन्त्रणप्रकाराणां बुद्ध्या वीक्षणेन करणीयतां दर्शयन्नाह- एवमित्यादि||८||

Adhikarana 8 (9) · Śloka 9

मांसलेष्ववकाशेषु यवमात्रं शस्त्रं निदध्यात्, अतोऽन्यथाऽर्धयवमात्रं व्रीहिमात्रं वा व्रीहिमुखेन, अस्थ्नामुपरि कुठारिकया विध्येदर्धयवमात्रम् ||९||

🔊 Audio coming soon

इदानीं प्रदेशविशेषेण शस्त्रप्रणिधानप्रमाणं शस्त्रविशेषं च दर्शयन्नाह- मांसलेष्वित्यादि| मांसलेषु जठरस्फिगादिषु, यवमात्रं यवप्रमाणम्| व्रीहिरत्र प्रधानकल्पनया शूकधान्यं, तत्रापि रक्तशालिरेव||९||

Adhikarana 9 (10) · Śloka 10

व्यभ्रे वर्षासु विध्येत्तु ग्रीष्मकाले तु शीतले | हेमन्तकाले मध्याह्ने शस्त्रकालास्त्रयः स्मृताः ||१०||

🔊 Audio coming soon

नित्यगस्य कालस्य शीतोष्णवर्षाभेदेन त्रिविधत्वान्त्रिष्वपि कालेषु विशेषमाह- व्यभ्रे इत्यादि| विगतानि अभ्राणि यस्मिन् दिने तद् व्यभ्रं दिनं तस्मिन् व्यभ्रे दिने, वर्षासु वर्षाकाले, सिरां विध्येदित्यर्थः| ग्रीष्मकाले तु शीतले इति तृतीयप्रहरानन्तरमित्यर्थः| हेमन्तकाल इति हेमन्तग्रहणं शीतकालोपलक्षणम्| एतच्चात्यन्तिकव्याधिवशेन, न पुनः स्वस्थस्य; तस्य हि शरदादिसाधारण एवैकः काल इति||१०||

Adhikarana 10 (11) · Śloka 11

सम्यक्शस्त्रनिपातेन धारया या स्रवेदसृक् | मुहूर्तं रुद्धा तिष्ठेच्च सुविद्धां तां विनिर्दिशेत् ||११||

🔊 Audio coming soon

सुविद्धसिरालक्षणमाह- सम्यगित्यादि| मुहूर्तमिति मुहूर्तशब्दः स्रवेदसृगित्यत्र च सम्बध्यते||११||

Adhikarana 11 (12) · Śloka 12

यथा कुसुम्भपुष्पेभ्यः पूर्वं स्रवति पीतिका | तथा सिरासु विद्धासु दुष्टमग्रे प्रवर्तते ||१२||

🔊 Audio coming soon

इदानीं सिरायां विद्धायां सत्यां पूर्वं दुष्टमेव रक्तं प्रवर्तत इति दर्शयन्नाह- यथेत्यादि||१२||

Adhikarana 12 (13) · Śloka 13

मूर्च्छितस्यातिभीतस्य श्रान्तस्य तृषितस्य च | न वहन्ति सिरा विद्धास्तथाऽनुत्थितयन्त्रिताः ||१३||

🔊 Audio coming soon

सिराणां सम्यग्विद्धानामप्यस्रवणे कारणं दर्शयन्नाह- मूर्च्छितस्येत्यादि| अतिभीतादिष्वतिभयादिजनितवातेन सिरामुखनिरोधात्, अनुत्थितयन्त्रितानां शोणितस्य प्रवृत्तावभिमुखीभावाभावान्न वहन्तीति| यद्यपि “मदमूर्च्छाश्रमार्तानां” (सू.१४) इत्यादिना| सूत्रस्थानोदितेनायमर्थ उक्तस्तथाऽपि प्रकरणान्तरत्वान्न पौनरुक्त्यम्||१३||

Adhikarana 13 (14) · Śloka 14

क्षीणस्य बहुदोषस्य मूर्च्छयाऽभिहतस्य च | भूयोऽपराह्णे विस्राव्या साऽपरेद्युस्त्र्यहेऽपि वा ||१४||

🔊 Audio coming soon

क्षीणस्यावश्यस्रावणीये शोणिते क्रमस्रावणं दर्शयन्नाह- क्षीणस्येत्यादि| मूर्च्छयाऽभिहितस्येति अक्षीणस्यापीत्यर्थः||१४||

Adhikarana 14 (15) · Śloka 15

रक्तं सशेषदोषं तु कुर्यादपि विचक्षणः | न चातिनिःस्रुतं कुर्याच्छेषं संशमनैर्जयेत् ||१५||

🔊 Audio coming soon

क्षीणेऽतिस्रावणस्य बहुदोषकरत्वान्निषेधं कुर्वन्नाह- रक्तमित्यादि||१५||

Adhikarana 15 (16) · Śloka 16

बलिनो बहुदोषस्य वयःस्थस्य शरीरिणः | परं प्रमाणमिच्छन्ति प्रस्थं शोणितमोक्षणे ||१६||

🔊 Audio coming soon

प्रस्थं सार्धत्रयोदशपलानि| तथा चोक्तं- “वमने च विरेके च तथा शोणितमोक्षणे| सार्धत्रयोदशपलं प्रस्थमाहुर्मनीषिणः”- इति||१६||

Adhikarana 16 (17) · Śloka 17

तत्र पाददाहपादहर्षचिप्पविसर्पवातशोणितवातकण्टकविचर्चिकापाददारीप्रभृतिषु क्षिप्रमर्मण उपरिष्ठाद् द्व्यङ्गुले व्रीहिमुखेन सिरां विध्येत्, श्लीपदे तच्चिकित्सिते यथा वक्ष्यते, क्रोष्टुकशिरः- खञ्जपङ्गुलवातवेदनासु जङ्घायां गुल्फस्योपरि चतुरङ्गुले, अपच्यामिन्द्रबस्तेरधस्ताद् द्व्यङ्गुले, जानुसन्धेरुपर्यधो वा चतुरङ्गुले गृध्रस्यां, ऊरुमूलसंश्रितां गलगण्डे, एतेनेतरसक्थि बाहू च व्याख्यातौ; विशेषतस्तु वामबाहौ कूर्परसन्धेरभ्यन्तरतो बाहुमध्ये प्लीह्नि कनिष्ठिकानामिकयोर्मध्ये वा, एवं दक्षिणबाहौ यकृद्दाल्ये (कफोदरे च,) एतामेव च कासश्वासयोरप्यादिशन्ति, गृध्रस्यामिव विश्वाच्यां, श्रोणिं प्रति समन्ताद् द्व्यङ्गुले प्रवाहिकायां शूलिन्यां, परिवर्तिकोपदंशशूकदोषशुक्रव्यापत्सु मेढ्रमध्ये, (वृषणयोः पार्श्वे मूत्रवृद्ध्यां, नाभेरधश्चतुरङ्गुले सेवन्या वामपार्श्वे दकोदरे ,) वामपार्श्वे कक्षास्तनयोरन्तरेऽन्तर्विद्रधौ पार्श्वशूले च, बाहुशोषावबाहुकयोरप्येके वदन्त्यंसयोरन्तरे, त्रिकसन्धिमध्यगतां तृतीयके, अधःस्कन्धसन्धिगतामन्यतरपार्श्वसंस्थितां चतुर्थके, हनुसन्धिमध्यगतामपस्मारे, शङ्खकेशान्तसन्धिगतामुरोऽपाङ्गललाटेषु चोन्मादे, जिह्वारोगेष्वधोजिह्वायां दन्तव्याधिषु च, तालुनि तालव्येषु, कर्णयोरुपरि समन्तात् कर्णशूले तद्रोगेषु च, गन्धाग्रहणे नासारोगेषु च नासाग्रे, तिमिराक्षिपाकप्रभृतिष्वक्ष्यामयेषूपनासिके लालाट्यामपाङ्ग्यां वा, एता एव शिरोरोगाधिमन्थप्रभृतिषु रोगेष्विति ||१७||

🔊 Audio coming soon

इदानीं नियतदेहदेशगतरोगविशेषेण व्यध्यानां सिराणां देहदेशविशेषं नियमयन्नाह- तत्रेत्यादि| प्रभृतिग्रहणादन्येऽपि पादरोगा रक्तानुबन्धिदोषजाता गृह्यन्ते| तच्चिकित्सिते यथा वक्ष्यत इति श्लीपदचिकित्सिते येन प्रकारेण वक्ष्यते, तथा श्लीपदे सिरां विध्येदित्यर्थः| क्रोष्टुकशिर इत्यादि| क्रोष्टुकशीर्षादिषु वातवेदनासु जङ्घायां सिरां विध्येत्| तत्रापि प्रदेशविशेषज्ञानायाह- गुल्फस्योपरीत्यादि| अपच्यामिति उत्पन्नमात्रायामित्यर्थः, न तु रूढायां, तस्यां “पार्ष्णिं प्रति द्वे दश चाङ्गुलानि” (चि.१८) इत्यादिना चिकित्सितस्योक्तत्वात्| एतेनेत्यादि| यस्माद्धस्तयोरपि दाहादयो रोगा भवन्त्यतो बाहुग्रहणं कृतम्| किं सर्वत्रैव सक्थिबाह्वोः समानः सिराव्यध आहोस्वित् कुत्रचिद्भिन्न इति दर्शयन्नाह- विशेषत इत्यादि| कूर्परसन्धेरित्यत्र सन्धिशब्देन सन्धिसमीप उच्यते, सन्धौ शस्त्रप्रणिधानस्य निषिद्धत्वात्| यकृद्दाल्ये इति यकृद्दाल्युदरस्य सर्वावस्थायामित्यर्थः| एतामेव दक्षिणबाहुमध्याश्रितामित्यर्थः| कासश्वासयोरिति कफोत्ययोः कफावृतमारुतजन्ययोर्वा| गयी तु “कासश्वासयोरल्पयोर्मार्गविशुद्ध्यर्थं, नतूद्रिक्तयोः, तत्र सिराव्यधप्रतिषेधस्य प्रागेव प्रतिपादितत्वात्” इति व्याख्याति| गृध्रस्यामिव- विश्वाच्यां यथा गृध्रस्यां जानुसन्धेरुपर्यधो वा चतुरङ्गुले, एवं विश्वाच्यां कूर्परसन्धेरुपर्यधो वा चतुरङ्गुल इत्यर्थः| श्रोणिमित्यादि| शूलिन्यामिति कालेनानुबन्धभूतरक्तावृतवातकृतशूलयुक्तायामित्यर्थः| परिवर्तिका “मर्दनात् पीडनाद्वायुः” (नि.१३) इत्यादिप्रोक्तलिङ्गा| वृषणयोरित्यादि| मूत्रवृद्ध्यामिति परिपक्वायामित्यर्थः| सेवन्या वामपार्श्व इति सेवनीप्रदेशाद्वामपार्श्वे इत्यर्थः| वामपार्श्वे इत्यादि| वृद्धवाग्भटे तु “विद्रधौ पार्श्वशूले च पार्श्वकक्षास्तनान्तरस्थां” (अ.सं.सू.३६) इति सामान्येनैव पार्श्वशब्दोपादानं कृतं, तस्मादत्रापि वामपार्श्वग्रहणं दक्षिणपार्श्वोपलक्षणं, तेन दक्षिणपार्श्वे यदा शूलविद्रधी भवतस्तदा दक्षिणपार्श्वे कक्षास्तनान्तरस्थां सिरां विध्येदित्यर्थः| अस्याग्रे ‘एतामेव कफोदरे’ इति केचित् पठन्ति, स पाठो न सङ्गच्छते, यतो ‘दक्षिणबाहौ यकृद्दाल्ये कफोदरे च’ इति प्रागेव कफोदरे सिराव्यधस्य प्रतिपादितत्वात्| बाहुशोषेत्यादि| शोणितावृतवातजनितयोर्बाहुशोषावबाहुकयोरप्यंसयोः सिराव्यधः, नतु केवलवातकृतयोरित्येके वदन्ति, परमतं चाप्रतिषिद्धमनुमतमेवेति जेज्जटाचार्यः| गयी तु “बाहुमध्ये बाहुशोषावबाहुकयोरप्येके वदन्त्यंसयोरन्तरे” इति पठित्वा व्याख्याति- बाहुशोषाऽवबाहुकयोर्बाहुमध्ये कूर्परांसयोर्मध्ये इत्यर्थः; मतान्तरमाह- एके वदन्त्यंसयोरन्तर इति| ननु चान्यत्रावबाहुकादिति सिराव्यधप्रतिषेधात् कथमत्र सिराव्यधो विहितः? नैवम्, अन्यत्रावबाहुकादित्यनेन वातव्याधिचिकित्सितावेक्षणस्य प्रतिषेधो, न तु सिराव्यधस्यति तत्रैव वातव्याधिचिकित्सिते वर्णयिष्यामः| बाहुशोषे च केवलानिलजेऽप्यवस्थावशात् सिराव्यधः; तथा ह्युष्णाम्बुलवणादेर्वातहरस्योपयोगात् कुपितेन शोणितेनावृतो वातो यदा वेदनाकारी तदा सिराव्यध इति| त्रिकेत्यादि| अंसयोरन्तर इत्यत्रापि सम्बध्यते| तेनांसयोरन्तरे यस्त्रिकसन्धिस्तत्समीपगतां, न पुनस्त्रिकसन्धिमध्यगतां, त्रिकसन्धेर्मर्मत्वात्| अध इत्यादि| स्कन्धसन्धेरधोगतां वामदक्षिणपार्श्वयोरेकतरपार्श्वसंश्रितां सिरां विध्येदिति समुदायार्थः| हन्वित्यादि| हनुसन्धिमध्यगतां हनुसमीपसन्धिमध्यगतामित्यर्थः| शङ्खेत्यादि| केचिदत्र ‘उन्मादेऽपस्मारे च’ इति पठन्ति, तत्रापस्मारस्य पाठो न सङ्गच्छते, तथाच वाग्भटः- “उरोऽपाङ्गललाटस्थामुन्मादेऽपस्मृतौ पुनः| हनुसन्धौ समुद्भूतां सिरां भ्रूमध्यगामिनीम्”- (वा.सू.२७) इति| जिह्वेत्यादि| जिह्वारोगेषु कण्टकादिषु, दन्तव्याधिषु कृमिदन्तादिषु| तालु नीत्यादि| तालव्येष्विति तालुभवेषु विकारेषु| कर्णयोरित्यादि अत्रोपरिग्रहणमधोनिवृत्त्यर्थं, विधुरमर्माश्रितत्वादधोभागस्य| कर्णशूल इति रक्तावृतानिलजे इत्यर्थः| कर्णरोगद्वारेणैव कर्णशूले प्राप्ते तदुपादानं विशेषार्थम्| तद्रोगेषु कर्णरोगेषु| गन्धेत्यादि| नासारोगद्वारेणैव गन्धाग्रहणे प्राप्ते विशेषार्थमुपादानम्| तिमिरेत्यादि| पाकोऽक्षिपाकः| उपनासिके नासासमीपस्थे सिरे| अपाङ्ग्या भ्रूपुच्छान्तस्था| शिरोरोगाधिमन्थप्रभृतिषु रोगेष्विति प्रभृतिग्रहणात् क्षुद्ररोगे पठितारूंषिकादेरपि ग्रहणम्| सर्वेषु पूर्वोक्तेषु रक्तानुबन्धजेषु रक्तजेषु वा सिराव्यधो नान्यादृशेषु||१७||

Adhikarana 17 (18) · Śloka 18

दुष्टव्यधा विंशतिः- दुर्विद्धाऽतिविद्वा कुञ्चिता पिच्चिता कुट्टिताऽप्रस्रुताऽत्युदीर्णाऽन्ते विद्धा परिशुष्का कूणिता वेपिताऽनुत्थितविद्धा शस्त्रहता तिर्यग्विद्धाविद्धाऽव्यध्या विद्रुता धेनुका पुनः पुनर्विद्धा सिरास्नाय्वस्थिसन्धिमर्मसु चेति ||१८||

🔊 Audio coming soon

दुष्टो व्यधो यासां ता दुष्टव्यधाः| कतिसङ्ख्या इत्याह- विंशतिः| कथं विंशतिरित्याह- दुर्विद्धेत्यादि||१८||

Adhikarana 18 (19) · Śloka 19

तत्र या सूक्ष्मशस्त्रविद्धाऽव्यक्तमसृक् स्रवति रुजाशोफवती च सा दुर्विद्धा, प्रमाणातिरिक्तविद्धायामन्तः प्रविशति शोणितं शोणितातिप्रवृत्तिर्वा साऽतिविद्धा, कुञ्चितायामप्येवं, कुण्ठशस्त्रप्रमथिता पृथुलीभावमापन्ना पिच्चिता, अनासादिता पुनः पुनरन्तयोश्च बहुशः शस्त्राभिहता कुट्टिता, शीतभयमूर्च्छाभिरप्रवृत्तशोणिता अप्रस्रुता, तीक्ष्णमहामुखशस्त्रविद्धाऽत्युदीर्णा, अल्परक्तस्राविण्यन्तेविद्धा, क्षीणशोणितस्यानिलपूर्णा परिशुष्का, चतुर्भागासादिता किञ्चित्प्रवृत्तशोणिता कूणिता, दुःस्थानबन्धनाद्वेपमानायाः शोणितसम्मोहो भवति सा वेपिता, अनुत्थितविद्धायामप्येवं, छिन्नाऽतिप्रवृत्तशोणिता क्रियासङ्गकरी शस्त्रहता, तिर्यक्प्रणिहितशस्त्रा किञ्चिच्छेषा तिर्यग्विद्धा, बहुशः क्षता हीनशस्त्रप्रणिधानेनाविद्धा, अशस्त्रकृत्या अव्यध्या, अनवस्थितविद्धा विद्रुता, प्रदेशस्य बहुशोऽवघट्टनादारोहद्व्यधा मुहुर्मुहुः शोणितस्रावा धेनुका, सूक्ष्मशस्त्रव्यधनाद्बहुशो भिन्ना पुनः पुनर्विद्धा, स्नाय्वस्थिसिरासन्धिमर्मसु विद्धा रुजां शोफं वैकल्यं मरणं चापादयति ||१९||

🔊 Audio coming soon

इदानीं दुष्टव्यधानां विवरणमाह- तत्रेत्यादि| अव्यक्तमिति अल्पतया अस्पष्टम्| अन्तः प्रविशतीति शरीराभ्यन्तरं प्रविशतीत्यर्थः| कुञ्चितायामिति कुटिलीभूतायामित्यर्थः| पृथुलीभावमापन्नेति कुण्ठशस्त्राभिपातेन चिप्पटतया प्रसरं प्राप्ता| अनासादिता अप्राप्ता| चतुर्भागासादितेति चतुर्भागेन प्राप्ता| वेपमानाया इति कम्पमानायाः| शोणितसम्मोहः शोणिताप्रवृत्तिः| छिन्नेति द्विधाभूता| क्रियासङ्गकरीति गमनादिक्रियाविनाशकरी| प्रदेशस्येति सिराव्यधनप्रदेशस्य, बहुशो घट्टनादिति बहून् वारान् ताडनात्| आरोहद्व्यधा उपर्युपर्यारोपितशस्त्रपदा, अत एव तैः शस्त्रपदैर्धेनुस्तनेरिव स्रवणाद् धेनुका| बहुशो भिन्नेति ‘एकस्थाने एव’ इति शेषः| आसु व्यापत्सु प्रागेव व्यापत्कारणप्रतिषेधः, जातासु तत्कारणविपरीतगुणाचरणं, तत्कारणजेषु विकारेषु यथास्वं शमनेन प्रशमनमिति||१९||

Adhikarana 19 (20) · Śloka 20

भवन्ति चात्र- सिरासु शिक्षितो नास्ति चला ह्येताः स्वभावतः | मत्स्यवत् परिवर्तन्ते तस्माद्यत्नेन ताडयेत् ||२०||

🔊 Audio coming soon

इदानीं सिराव्यधने यत्नं दर्शयन्नाह- सिरास्वित्यादि| शिक्षितोऽभ्यासेन निपुणः सिरासु नास्ति, मत्स्यवच्चलनात्; तस्मात्तद्व्यधे यत्नो विधेय इत्यर्थः||२०||

Adhikarana 20 (21) · Śloka 21

अजानता गृहीते तु शस्त्रे कायनिपातिते | भवन्ति व्यापदश्चैता बहवश्चाप्युपद्रवाः ||२१||

🔊 Audio coming soon

इदानीं शस्त्रकर्मानिपुणवैद्याद्व्यापत्सम्भवं दर्शयन्नाह- अजानता इत्यादि||२१||

Adhikarana 21 (22) · Śloka 22

स्नेहादिभिः क्रियायोगैर्न तथा लेपनैरपि | यान्त्याशु व्याधयः शान्तिं यथा सम्यक् सिराव्यधात् ||२२||

🔊 Audio coming soon

इदानीं स्नेहादिकर्मणः सिराव्यधस्य गुणोत्कर्षं प्रतिपादयन्नाह- स्नेहादिभिरित्यादि||२२||

Adhikarana 22 (23) · Śloka 23

सिराव्यधश्चिकित्सार्धं शल्यतन्त्रे प्रकीर्तितः | यथा प्रणिहितः सम्यग्बस्तिः कायचिकित्सिते ||२३||

🔊 Audio coming soon

अधुना सिराव्यधस्य चिकित्सार्धत्वं दर्शयन्नाह- सिरेत्यादि| चिकित्सार्धमिति चिकित्सामध्ये प्रधानमित्यर्थः; अपरेऽर्धशब्दं सङ्ख्यावाचकमाहुः| (“मांसमेदोऽस्थिमज्जानः शोणितस्यावसेचनात्| धमन्यश्च विशुद्ध्यन्ति दुष्टरक्तास्त्वचश्च याः|| रसस्वेदादिनिष्यन्दाद्विशुद्ध्यन्ति न पुष्कलम् ” - इति)||२३||

Adhikarana 23 (24) · Śloka 24

तत्र स्निग्धस्विन्नवान्तविरिक्तास्थापितानुवसितसिराविद्धैः परिहर्तव्यानि- क्रोधायासमैथुनदिवास्वप्नवाग्व्यायामयानाध्ययनस्थानासनचङ्क्रमणशीतवातातपविरुद्धासात्म्याजीर्णान्याबललाभात् , मासमेके मन्यन्ते | एतेषां विस्तरमुपरिष्ठाद्वक्ष्यामः ||२४||

🔊 Audio coming soon

इदानीं स्निग्धादिभिः पुरुषैः क्रोधादीनि सामान्येन परिहर्तव्यानीति दर्शयन्नाह- तत्रेत्यादि| स्थानम् ऊर्ध्वीभवनम्, आसनम् उपवेशनम्| एतेषां क्रोधायासादीनां पञ्चदशानाम्| उपरिष्ठात् आतुरोपद्रवचिकित्सिते||२४||

Adhikarana 24 (25) · Śloka 25

सिराविषाणतुम्बैस्तु जलौकाभिः पदैस्तथा | अवगाढं यथापूर्वं निर्हरेद्दुष्टशोणितम् ||२५||

🔊 Audio coming soon

इदानीं सिराविषाणादीनां रक्तावसेचनोपायानां यथापूर्वं गुरुतां दर्शयन्नाह- सिराविषाणेत्यादि| पदैः प्रच्छन्नैः | अवगाढम् अभ्यन्तराश्रयम्| यथापूर्वं पूर्वानतिक्रमेण; एतेनोत्तानं पदैः, अवगाढं जलौकोभिः, अवगाढतरं तुम्बैः, अवगाढतमं विषाणेन; सार्वाङ्गिकमवगाढतमं च सिराभिरिति||२५||

Adhikarana 25 (26) · Śloka 26

अवगाढे जलौका स्यात् प्रच्छन्नं पिण्डिते हितम् | सिराऽङ्गव्यापके रक्ते शृङ्गालाबू त्वचि स्थिते ||२६||

🔊 Audio coming soon

तत्र सिराविषाणतुम्बजलौकःप्रच्छन्नानां विषयं कश्चिदाह- अवगाढे इत्यादि||२६||

Adhikarana puShpikA · Śloka 8

इति सुश्रुतसंहितायां शारीरस्थाने सिराव्यधविधिशारीरं नामाष्टमोऽध्यायः ||८||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां शारीरस्थानेऽष्टमोऽध्यायः||८||