Adhikarana 1 (1-2) · Śloka 2
अथातोऽग्रोपहरणीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथातोऽग्रोपहरणीयमिति| कर्मणोऽग्रे प्रथमतः, उपहरणं यन्त्रादिसम्भारस्य, तदधिकृत्य कृतोऽध्यायः अग्रोपहरणीयः||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातोऽग्रोपहरणीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथातोऽग्रोपहरणीयमिति| कर्मणोऽग्रे प्रथमतः, उपहरणं यन्त्रादिसम्भारस्य, तदधिकृत्य कृतोऽध्यायः अग्रोपहरणीयः||१-२||
Adhikarana 2 (3) · Śloka 3
त्रिविधं कर्म- पूर्वकर्म, प्रधानकर्म, पश्चात्कर्मेति; तद्व्याधिं प्रत्युपदेक्ष्यामः ||३||
🔊 Audio coming soon
पूर्वकर्मेत्यादि तत्रैके- “लङ्घनादि विरेकान्तं पूर्वकर्म व्रणस्य च| पाटनं रोपणं यच्च प्रधानं कर्म तत् स्मृतम्| बलवर्णाग्निकार्यं तु पश्चात्कर्म समादिशेत्’’- इति; अन्ये तु संशोध्यस्य पाचनस्नेहनस्वेदनानि पूर्वकर्म, वमनविरेचनबस्तिनस्यसिरामोक्षणानि प्रधानं कर्म, पेयाद्यन्नसंसर्जनं पश्चात्कर्म; अपरे तु चयादीनां पूर्वरूपान्तानामातङ्कोत्पत्तेः प्राग्यत् क्रियते तत् पूर्वकर्म, आतङ्कोत्पत्तौ यत् तत् प्रधानं कर्म, निवृत्तातङ्कस्यानुबन्धोपचरणाय यत् तत् पश्चात्कर्म| इदं तत् पूर्वकर्मेत्यादि इह कथं नोदाह्रियत इति प्रष्टुरुत्तरमाह- तद्व्याधिमित्यादि|- तदिति त्रिविधं कर्म व्याधिं व्याधिं प्रत्युपदेक्ष्यामः; न इह, ग्रन्थगौरवभयात्||३||
Adhikarana 3 (4) · Śloka 4
अस्य तु शास्त्रस्य शस्त्रकर्मप्राधान्याच्छस्त्रकर्मैव तावत् पूर्वमुपदेक्ष्यामस्तत्सम्भारांश्च ||४||
🔊 Audio coming soon
ननु, छेद्यादीनां कर्मणां तत्सम्भाराणामेव चात्र पूर्वमुपादानं, कुतो न स्नेहादीनां तत्कर्मणां चेत्याह- अस्य तु शास्त्रस्येत्यादि||४||
Adhikarana 4 (5) · Śloka 5
तच्च शस्त्रकर्माऽष्टविधं; तद्यथा- छेद्यं, भेद्यं, लेख्यं, वेध्यम्, एष्यम्, आहार्यं, विस्राव्यं, सीव्यमिति ||५||
🔊 Audio coming soon
तत्तु शस्त्रनिर्वर्त्यं कर्म नियताकृतिविशेषेण नानाविधप्रयोजनेन भिन्नं प्रदर्शयन्नाह- तच्च शस्त्रकर्मेत्यादि| छेद्यं निःशेषतश्छेदनीयमर्शःप्रभृति; भेद्यं भेदनीयं, विद्रध्यादि; लेख्यं लेखनीयं, रोहिण्यादि; वेध्यम् अल्पमुखैः शस्त्रैर्व्यधनीयं सिरादि; वेध्यस्थाने ‘व्यध्यं’ इत्येके पठन्ति; एष्यम् एषणीयं, नाड्यादि; आहार्यम् आहरणीयं, शर्करादि; विस्राव्यं विस्रावणीयं, तच्च विद्रधिकुष्ठादि; सीव्यं सीवनीयं, तच्च ‘‘सीव्या मेदःसमुत्थाश्च भित्त्वा सुलिखिता गदाः’’ (सू. अ.२५) इति| यद्यपि छेद्यादयः शब्दा व्याधिवाचकाः , तथाऽप्यभेदोपचाराच्छस्त्रकर्मव्यपदेशं लभन्ते| एषणाहरणे शस्त्रकर्मणि यद्यपि केचिन्न मन्यन्ते, तथाऽपि छित्त्वा भित्त्वाऽप्येषणाहरणे क्रियेते, अतोऽत्र शस्त्रकर्मणि निर्दिष्टे||५||
Adhikarana 5 (6) · Śloka 6
अतोऽन्यतमं कर्म चिकीर्षता वैद्येन पूर्वमेवोपकल्पयितव्यानि भवन्ति, तद्यथा- यन्त्रशस्त्रक्षाराग्निशलाकाशृङ्गजलौकालाबूजाम्बवौष्ठपिचुप्रोतसूत्रपत्रपट्टमधुघृतवसापयस्तैल- तर्पणकषायालेपनकल्कव्यजनशीतोष्णोदककटाहादीनि, परिकर्मिणश्च स्निग्धाः स्थिरा बलवन्तः ||६||
🔊 Audio coming soon
अतोऽन्यतममित्यादि| -अतः एषां मध्ये, अन्यतमम् एकतमं, कर्म छेद्यादिकं, चिकीर्षता कर्तुमिच्छता, पूर्वमेवोपकल्पयितव्यानि समीपमानेतव्यानि| जाम्बवौष्ठं जम्बुफलसदृशमुखाग्रा कृष्णपाषाणरचिता वर्तिः, पिचुः ‘तुलं’ इति लोके, प्रोतं कर्पटं, पट्टः व्रणबन्धनद्रव्यं, तर्पणं जलप्लुतं शक्तुक्षीरादि, कषायः औषधक्वथितमुदकं, व्यजनं वंशादिरचितं, कटाहो लौहादिनिर्मितः; आदिशब्दात् कवलिकामृत्कपालकलसस्थालीशयनासनादि| यन्त्रादिषु मध्ये कानिचिदुपकरणानि कर्माङ्गानि, कानिचिद् व्यापत्प्रशमनानि| परिकर्मिणश्चेति न केवलं यन्त्रादीन्येवोपकल्पयितव्यानि किन्तु परिकर्मिणश्च सर्वकर्मणां कर्तारः परिचारकाः; किंविशिष्टास्ते? स्निग्धा अनुरक्ताः, स्थिराः अचलाः, बलवन्तः सर्वकार्येषु समर्थाः||६||
Adhikarana 6 (7) · Śloka 7
ततः प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेषु दध्यक्षतान्नपानरत्नैरग्निं विप्रान् भिषजश्चार्चयित्वा, कृतबलिमङ्गलस्वस्तिवाचनं लघुभुक्तवन्तं प्राङ्मुखमातुरमुपवेश्य , यन्त्रयित्वा , प्रत्यङ्मुखो वैद्यो मर्मसिरास्नायुसन्ध्यस्थिधमनीः परिहरन्, अनुलोमं शस्त्रं निदध्यादापूयदर्शनात् , सकृदेवापहरेच्छस्त्रमाशु च; महत्स्वपि च पाकेषु द्व्यङ्गुलान्तरं त्र्यङ्गुलान्तरं वा शस्त्रपदमुक्तम् ||७||
🔊 Audio coming soon
ततः प्रशस्तेष्वित्यादि|- ततः यन्त्रादिसम्भारोपकल्पनानन्तरम्| तिथयः प्रतिपदादयः, करणानि बवादीनि, मुहूर्ताः त्रिंशच्छिवाद्याः, नक्षत्राणि अश्विनीप्रभृतीनि; प्रशस्तत्वं चैषां ज्योतिःशास्त्रविदां वचनाज्ज्ञेयम्| अक्षतानि यवधान्यानि, रत्नानि माणिक्यमौक्तिकादीनि| कृतबलिमङ्गलस्वस्तिवाचनमिति बलिः पूजोपहारः, मङ्गलं गीतादि, स्वस्तिवाचनमाशीर्वादोच्चारणं, कृतशब्दो बलिप्रभृतिभिः सह प्रत्येकं सम्बध्यते| मर्माणि सप्तोत्तरशतभेदभिन्नानि, सिराः सप्तशतभेदभिन्नाः, नवशतभेदभिन्नाः स्नायवः, सन्धयः दशोत्तरद्विशतभेदभिन्नाः, अस्थीनि शतत्रयभेदभिन्नानि, धमन्यः नाभिप्रभवाश्चतुर्विंशतिभेदभिन्नाः; एताः परित्यजन्| अनुलोममिति लोमानुकूल्येन, येनैवावर्तेन लोमानि सन्ति तेनैवावर्तेनेत्यर्थः; प्रतिलोमं तु लोमभिरेव प्रतिहतधारं शस्त्रं कुण्ठीभवति व्यथां चोत्पादयति| निदध्यात् प्रवेशयेत्| कियद्दूरं शस्त्रं निदध्यादित्याह- आपूयदर्शनादिति| सकृत् एकवारं, न पुनः पुनरित्यर्थः| आशु चेति चशब्द एवार्थः, तेनोभयत्रापि नियमः; एतेन सकृदेव शस्त्रमपहरेत्, आश्वेव शस्त्रमपहरेदित्युक्तम्| शस्त्रं प्रणिदध्यादित्यत्र शस्त्रप्रणिधानमात्रमुक्तम्, अपहरेच्छस्त्रमाशु चेत्यत्र शस्त्रशब्द आश्वपहरणक्रियया सम्बध्यत इति न पौनरुक्त्यम्| इदानीं सुदूरशस्त्रपातेऽनर्थं सम्भावयन्नवधिमाह- महत्स्वपि च पाकेष्वित्यादि| अन्तरशब्दोऽयमवकाशवाची; तेन शस्त्रपदं शस्त्रस्थानं द्व्यङ्गुलावकाशं त्र्यङ्गुलावकाशं वेत्युक्तं; तत्र द्व्यङ्गुलावकाशं नात्यवगाढे, त्र्यङ्गुलावकाशमवगाढे इति| केचिदन्तरशब्दं न पठन्ति||७||
Adhikarana 7 (8) · Śloka 8
तत्रायतो विशालः समः सुविभक्तो निराश्रय इति व्रणगुणाः ||८||
🔊 Audio coming soon
व्रणकर्मणि प्रशस्तमाकृतिविशेषैराह - तत्रेत्यादि|- तत्रेति शस्त्रकर्मणि, एते आयतत्वादयो व्रणगुणाः| आयतो दीर्घः; विशालो विस्तीर्णः; सम इति समपाकः, असमपाको हि किञ्चित्पक्वः किञ्चिदपक्वः शस्त्रपातनाय सुखो न भवति| अन्ये तु विशालशब्देन चतुरस्रमाचक्षते, समशब्देन वृत्तम्| तदुक्तम्- “आयतश्चतुरस्रो वृत्तस्त्रिपुटक इति व्रणाकृतिसमासः” (सू. अ.२२)- इति; इह चतस्रो व्रणाकृतयो व्रणगुणत्वेन कर्मणि निर्दिष्टाः| अन्ये तु समो गोमूत्रसर्पणवन्न विषमगतिः| स च आयते व्रणे सम इति विशेषणम्| सुविभक्तः सुव्यक्तः, सुष्ठु पृथग्भूतसकलावयवः| निराश्रयः जिह्वादन्तसन्ध्याद्यप्राप्यदेशमनाश्रितः| अन्ये त्वन्यथा व्याख्यानयन्ति- वैद्यकृतव्रणगुणानाह- तत्रायत इत्यादि|- समो निम्नोन्नतत्वरहितः| सुविभक्तो हीनातिदोषत्यक्तः| इत्थम्भूते वैद्यकृते व्रणे कल्ककषायाद्यवचारणं सुखं क्रियते| अतो विपरीता व्रणदोषाः| शेषं सुगमम्||८||
Adhikarana 8 (9) · Śloka 9
भवतश्चात्र- आयतश्च विशालश्च सुविभक्तो निराश्रयः | प्राप्तकालकृतश्चापि व्रणः कर्मणि शस्यते ||९||
🔊 Audio coming soon
अमुमेवार्थं श्लोकेन स्फुटीकुर्वन्नाह- आयतश्चेत्यादि| एवं विधो व्रणः शस्त्रकर्मणि प्रशस्यते| आयतश्च विशालश्चेति द्विचकारेण आयतोऽपि विशालोऽपि आयतविशल इति प्रतिपाद यति| निराश्रयो मर्माद्यनाश्रितः; ‘निराशय’ इत्यन्ये, तत्राननुषङ्गीत्यर्थः| प्राप्तकालकृतश्चापीति युक्ते काले कृतः; एतेन शस्त्रक्षाराग्निसाध्यो बालवृद्धयोरप्राप्तकालः, तयोर्व्रणे शस्त्रादिनिषेधात्; अथवा शीतकालेऽग्निसाध्यो व्रणः, ग्रीष्मे स एवा प्राप्तकालः| अन्ये तु ‘युक्तकालकृतः’ इति पठन्ति; तत्र समपाक इत्याचक्षते, युक्तकालकृतः सम्यक्पाककृतप्रतिक्रिय इत्यपरे| आयतश्च विशालश्चेत्यादिश्लोकं केचिन्न पठन्ति||९||
Adhikarana 9 (10) · Śloka 10
शौर्यमाशुक्रिया शस्त्रतैक्ष्ण्यमस्वेदवेपथु | असम्मोहश्च वैद्यस्य शस्त्रकर्मणि शस्यते ||१०||
🔊 Audio coming soon
अथ ये वैद्यगुणाः शस्त्रकर्मणि तानाह- शौर्यमित्यादि| एते शौर्यादयो गुणा वैद्यस्य शस्त्रकर्मणि श्लाघ्यन्ते| शौर्यं निर्भयत्वं, भयभीतो हि साध्यमपि व्रणमवगाढमूलं नारभते, आरब्धं वा अवशेषयति| आशुक्रिया लघुहस्तता शीघ्रं शस्त्रकर्मकरणम्, आशुक्रिययाऽऽतुरस्य चिरं क्लमो न भवति| शस्त्रतैक्ष्ण्यं सुनिशितत्वं सुधारत्वं च, तेन रुजा न भवति| असम्मोहः असम्मूढता, स चामपक्वव्रणपरिज्ञाने तथा प्राप्तानुष्ठाने च; व्रणच्छेदादिषु रक्तादिदर्शनेऽसम्मोह इत्यन्ये| अमुमपि श्लोकं केचिन्न पठन्ति||१०||
Adhikarana 10 (11-12) · Śloka 12
एकेन वा व्रणेनाशुध्यमाने नाऽन्तरा बुद्ध्याऽवेक्ष्यापरान् व्रणान् कुर्यात् ||११|| भवति चात्र- यतो यतो गतिं विद्यादुत्सङ्गो यत्र यत्र च | तत्र तत्र व्रणं कुर्याद्यथा दोषो न तिष्ठति ||१२||
🔊 Audio coming soon
अशुद्धावन्येऽपि व्रणाः कार्या इत्याह- एकेन वा व्रणेनेत्यादि| ना पुरुषः| अन्तरा मध्ये| भवति चात्रेत्यादि| गतिं नाडीम्| उत्सङ्ग इवोत्सङ्गः व्रणाशये हि चिरकालपूयावस्थानेनाममवदारितमन्तःप्रदेशान्तरं निम्नमुत्सङ्गतुल्यत्वादुत्सङ्ग इत्युच्यते; उत् ऊर्ध्वं पूयस्य सङ्ग उत्सङ्ग इत्यन्ये| यथा दोषो न तिष्ठतीति| दोषोऽत्र पूयः; पूयावस्थानाद् वातादयो दोषा अनुबध्नन्तीति पूय एव दोषशब्देनोच्यते, कारणे कार्योपचारात्||११-१२||
Adhikarana 11 (13-15) · Śloka 15
तत्र भ्रूगण्डशङ्खललाटाक्षिपुटौष्ठदन्तवेष्टकक्षाकुक्षिवङ्क्षणेषु तिर्यक् छेद उक्तः ||१३|| (चन्द्रमण्डलवच्छेदान् पाणिपादेषु कारयेत् | अर्धचन्द्राकृतींश्चापि गुदे मेढ्रे च बुद्धिमान्) ||१४|| अन्यथा तु सिरास्नायुच्छेदनम्, अतिमात्रं वेदना, चिराद्व्रणसंरोहो, मांसकन्दीप्रादुर्भावश्चेति ||१५||
🔊 Audio coming soon
तिर्यक्छेदो व्यापत्सूक्तः (सू. अ.२५), तस्य विशिष्टविषये प्रतिप्रसवं कुर्वन्नाह- तत्र भ्रूगण्डेत्यादि|- गण्डः कपोलः, अक्षिपुटः अक्षिवर्त्म, दन्तवेष्टको दन्तवेष्टनमांसं, कक्षा बाहुमूलं, कुक्षिः उदरं, वङ्क्षणम् ऊरुसन्धिः| (चन्द्रमण्डलवच्छेदानित्यादि सुगमम्|) अन्यथा त्वित्यादि| मांसकन्दीप्रादुर्भावः कन्दाकारमांसाङ्कुरसम्भवः, कन्द एव कन्दी, अल्पत्वात्| ‘अन्यथा तु’ इत्यत्र ‘अन्यत्र तु’ इति केचित् पठन्ति व्याख्यानयन्ति च- अन्यत्र यदि छेदनं क्रियते इत्यर्थः| ‘छेदनं’ इत्यत्र च ‘क्षणनं’ इति पठन्ति, क्षणनं हिंसनम्||१३-१५||
Adhikarana 12 (16) · Śloka 16
मूढगर्भोदरार्शोऽश्मरीभगन्दरमुखरोगेष्वभुक्तवतः कर्म कुर्वीत ||१६||
🔊 Audio coming soon
भुक्तवतः कर्म कुर्वीतेत्युक्तं, तस्य विषयान्तरे प्रतिषेधं दर्शयन्नाह- मूढगर्भेत्यादि|- मूढगर्भादिषु षट्स्वन्नपूर्णकोष्ठत्वाद्यन्त्रदानादिभिः कष्टं मरणं वा प्राप्नोत्यातुरः, अनिलश्च प्रकोपमेति; मुखरोगेष्वाहारोऽङ्गुल्यादिपीडनेन घृणया च निष्काशितः कर्मघातं करोति||१६||
Adhikarana 13 (17) · Śloka 17
ततः शस्त्रमवचार्य,शीताभिरद्भिरातुरमाश्वास्य, समन्तात् परिपीड्याङ्गुल्या, व्रणमभिमृद्य(ज्य), प्रक्षाल्य कषायेण प्रोतेनोदकमादाय , तिलकल्कमधुसर्पिःप्रगाढामौषधयुक्तां नातिस्निग्धां नातिरूक्षां वर्तिं प्रणिदध्यात्; ततः कल्केनाच्छाद्य, घनां कवलिकां दत्त्वा, वस्त्रपट्टेन बध्नीयात्; वेदनारक्षोघ्नैर्धूपैर्धूपयेत्, रक्षोघ्नैश्च मन्त्रै रक्षां कुर्वीत ||१७||
🔊 Audio coming soon
इदानीं व्रणक्रमविधानमाह- ततः शस्त्रमित्यादि| ततः अनन्तरं शस्त्रकर्म कृत्वा; आश्वास्य शस्त्रकर्मजनितखेदमपनीय, मूर्च्छादिप्रतिबन्धार्थं; समन्तात् परिपीड्य सर्वत्र परिपीडयित्वा, स्रावनिर्गमनार्थं; व्रणमभिमृद्य व्रणमर्दनं कृत्वा, शस्त्रपदसमीकरणार्थं; ‘व्रणमभिमृज्य’- इति केचित् पठन्ति, बालास्थिगत्युत्सङ्गादिविज्ञानार्थमिति च व्याख्यानयन्ति; प्रक्षाल्य कषायेण सप्तरात्रं सद्योव्रणविहितेन, तदूर्ध्वं यथास्वदोषहरौषधसिद्धेन कषायेण; वस्त्रेणोदकमादाय व्रणान्तर्गतं; तिलकल्कमधुसर्पिःप्रगाढां तिलकल्कादिभिरत्यर्थलिप्ताम्; औषधयुक्तां मिश्रकोक्ता ‘(अ)जगन्धाऽजशृङ्गी च’ (सू. अ.३७) इत्यादिसंशोधनौषधयुक्तां; वर्तिं प्रणिदध्यात् प्रवेशयेत्; कल्केन सद्योव्रणौषधपिण्डेन; कवलिका व्रणकल्कौषधाच्छादनद्रव्यं, सा चौषधस्वरसनिःसरणनिवारणार्थं भग्नोक्तपलाशोदुम्बरादीनां त्वक्पत्रादिकृता, अन्ये द्विगुणचतुर्गुणमृदुकर्पटविरचितां कवलिकामाहुः, भृष्टयवशक्तुभिर्घृताक्तां घनां कवलिकां दद्यादित्यपरे| वेदनारक्षोघ्नैरिति वेदनाघ्नानि रुजाघ्नानि हिङ्गुलवणादीनि, रक्षोघ्नानि राक्षसघ्नानि वचादीनि, तैः||१७||
Adhikarana 14 (18) · Śloka 18
ततो गुग्गुल्वगुरुसर्जरसवचागौरसर्षपचूर्णैर्लवणनिम्बपत्रविमिश्रैराज्ययुक्तैर्धूपयेत् | आज्यशेषेण चास्य प्राणान् समालभेत ||१८||
🔊 Audio coming soon
धूपनद्रव्याण्याह- ततो गुग्गुल्वित्यादि| न केवलं व्रणं धूपयेत् शयनाद्यपि व्रणदौर्गन्ध्यापगमार्थं नीलमक्षिकादिपरिहारार्थं च; अन्यथा नीलमक्षिकोपसर्पणाद्व्रणे क्रिमयः पतन्ति| आज्यशेषेणेत्यादि|- आज्यशेषेण धूपनद्रव्येभ्य आज्यमिश्रेभ्यः परिशिष्टेन घृतेन| प्राणशब्देनात्र हृदयादय उच्यन्ते, प्राणाधिष्ठानत्वात्; तान् समालभेत म्रक्षयेदभ्यञ्जयेदित्यर्थः, प्राणाप्यायनार्थम्||१८||
Adhikarana 15 (19-33) · Śloka 33
उदकुम्भाच्चापो गृहीत्वा प्रोक्षयन् रक्षाकर्म कुर्यात्; तद्वक्ष्यामः- ||१९|| कृत्यानां प्रतिघातार्थं तथा रक्षोभयस्य च | रक्षाकर्म करिष्यामि ब्रह्मा तदनुमन्यताम् ||२०|| नागाः पिशाचा गन्धर्वाः पितरो यक्षराक्षसाः | अभिद्रवन्ति ये ये त्वां ब्रह्माद्या घ्नन्तु तान् सदा ||२१|| पृथिव्यामन्तरीक्षे च ये चरन्ति निशाचराः | दिक्षु वास्तुनिवासाश्च पान्तु त्वां ते नमस्कृताः ||२२|| पान्तु त्वां मुनयो ब्राह्मया दिव्या राजर्षयस्तथा | पर्वताश्चैव नद्यश्च सर्वाः सर्वे च सागराः ||२३|| अग्नी रक्षतु ते जिह्वां प्राणान् वायुस्तथैव च | सोमो व्यानमपानं ते पर्जन्यः परिरक्षतु ||२४|| उदानं विद्युतः पान्तु समानं स्तनयित्नवः | बलमिन्द्रो बलपतिर्मनुर्मन्ये मतिं तथा ||२५|| कामांस्ते पान्तु गन्धर्वाः सत्त्वमिन्द्रोऽभिरक्षतु | प्रज्ञां ते वरुणो राजा समुद्रो नाभिमण्डलम् ||२६|| चक्षुः सूर्यो दिशः श्रोत्रे चन्द्रमाः पातु ते मनः | नक्षत्राणि सदा रूपं छायां पान्तु निशास्तव ||२७|| रेतस्त्वाप्याययन्त्वापो रोमाण्योषधयस्तथा | आकाशं खानि ते पान्तु देहं तव वसुन्धरा ||२८|| वैश्वानरः शिरः पातु विष्णुस्तव पराक्रमम् | पौरुषं पुरुषश्रेष्ठो ब्रह्माऽऽत्मानं ध्रुवो भ्रुवौ ||२९|| एता देहे विशेषेण तव नित्या हि देवताः | एतास्त्वां सततं पान्तु दीर्घमायुरवाप्नुहि ||३०|| स्वस्ति ते भगवान् ब्रह्मा स्वस्ति देवाश्च कुर्वताम् | (स्वस्ति ते चन्द्रसूर्यौ च स्वस्ति नारदपर्वतौ) | स्वस्त्यग्निश्चौव वायुश्च स्वस्ति देवाः सहेन्द्रगाः ||३१|| पितामहकृता रक्षा स्वस्त्यायुर्वर्धतां तव | ईतयस्ते प्रशाम्यन्तु सदा भव गतव्यथः ||३२|| इति स्वाहा | एतैर्वेदात्मकैर्मन्त्रैः कृत्याव्याधिविनाशनैः | मयैवं कृतरक्षस्त्वं दीर्घमायुरवाप्नुहि ||३३||
🔊 Audio coming soon
इदानीं व्रणितस्य शोणितपूयादिसम्भवाद्रक्षोभयपरिहारार्थं रक्षाकर्म निदर्शयन्नाह- उदकुम्भाच्चेत्यादि|- उदकुम्भात् पानीयकुम्भात्, आपः जलं, गृहीत्वा आदाय, प्रोक्षयन् प्रमार्जयन्| रक्षाकर्मनिर्दिष्टपदानां मन्त्रत्वाद्विवरणं न करणीयमिति केचित्; अन्ये तु व्याख्यानयन्ति|- कृत्यानामिति कुपितमन्त्रिणोऽभिचारकर्मजनिता राक्षसी ‘कृत्या’ इत्युच्यते| प्रतिघातार्थं निवारणार्थम्, अत्र ‘परिरक्षार्थं’ इति केचित् पठन्ति| तथा रक्षोभयस्य चेति राक्षसभयस्य च प्रतिघातार्थमित्यर्थः| ब्रह्मा तदनुमन्यतामिति तद्रक्षाकर्म ब्रह्मा अङ्गीकरोतु| नागा इत्यादि| ये ये नागादयस्त्वामभिद्रवन्ति पीडयन्ति तान् ब्रह्माद्या देवा घ्नन्त्विति पिण्डार्थः| तत्र नागाः वासुक्यादयः, पिशाचाः पिशिताशनाः, गन्धर्वाः देवगायना हाहाहूहूप्रभृतयः, पितरः अग्निष्वात्तादयः, यक्षाः धनदादयः, रक्षसाः रावणप्रभृतयः| दिक्ष्वित्यत्र ये चरन्तीति सम्बध्यते| वास्तुनिवासाः गृहभूमिनिवासिनः| प्राणानिति अग्निः सोमो वायुः सत्त्वं रजस्तमः पञ्चेन्द्रियाणि भूतात्मेति प्राणाः, अत्र द्वादशप्राणेषु मध्ये सामान्यवातवाच्योऽपि वातशब्दः प्राणाख्ये वातविशेषे वर्तते; कुतः? चतुर्णां व्यानादीनामग्रे वक्ष्यमाणत्वात्| सोमः चन्द्रमाः| ते तव| पर्जन्यः वृष्टिमान् मेघः, इन्द्र इत्यन्ये| स्तनयित्नवः मेघाः| बलपतिरिति इन्द्रस्य विशेषणम्| मनुः प्रजापतिः, मन्ये ग्रीवापश्चिमभागाश्रिते द्वे सिरे ‘मन्ये’ इत्युच्येते, मतिं तथा स एव मनुर्मतिं रक्षत्विति सम्बन्धः; ‘तथा मनुर्मतिं रक्षतु’ इत्यहं मन्ये, इति व्याख्यानयन्ति केचित्| सत्त्वं गुणविशेषः| मनः चित्तम्| रूपमिह लावण्यं विवक्षितं, यत्पर्यायः सौन्दर्यम्| छाया प्रभाभेदः; तदुक्तम्- “आसन्ना लक्ष्यते छाया प्रभा दूरात् प्रकाशते” (च. इ. अ. ७)- इति| रेतः शुक्रम्, आपः पानीयानि, आप्याययन्तु वर्धयन्तु| खानि स्रोतांसि, इन्द्रियाणीत्यन्ये| पराक्रमः सामर्थ्यम्| पौरुषं मेढ्रं, पुरुषश्रेष्ठः नारायणः| आत्मानं जीवम्| ध्रुवः ताराविशेषः| एताः पूर्वोक्ता देवताः, नित्याः सततस्थिताः| स्वस्ति ते भगवान् ब्रह्मेति स्वस्ति मङ्गलं, भगवान् विशिष्टज्ञानवान्, देवाः सहेन्द्रगा इन्द्रानुयायिन इत्यर्थः| पितामहः ब्रह्मा| ईतयः अन्नादिक्षयहेतवोऽतिवृष्ट्यादयः; तदुक्तम्- “अतिवृष्टिरनावृष्टिर्मूषिकाः शलभाः खगाः| स्वचक्रं परचक्रं च सप्तैता ईतयः स्मृताः”- इति||१९-३३||
Adhikarana 16 (34) · Śloka 34
ततः कृतरक्षमातुरमागारं प्रवेश्य, आचारिकमादिशेत् ||३४||
🔊 Audio coming soon
इदानीं कृतरक्षस्येतिकर्तव्यतां दर्शयन्नाह- ततः कृतरक्षमित्यादि| आगारं गृहम्, आचारिकं द्विविधमाहारविहारलक्षणं व्रणितोपासनीयनिर्दिष्टम्||३४||
Adhikarana 17 (35) · Śloka 35
ततस्तृतीयेऽहनि विमुच्यैवमेव बध्नीयाद्वस्त्रपट्टेन; न चैनं त्वरमाणोऽपरेद्युर्मोक्षयेत् ||३५||
🔊 Audio coming soon
नचैनमिति एनं व्रणं, त्वरमाणः शीघ्रीभवन्, अपरेद्युः द्वितीयदिवसे, न मोक्षयेत्| ‘ततस्तृतीयेऽहनि विमुच्य प्रक्षाल्य कषायेणैवमेव बध्नीयाद्वस्त्रपट्टेन’ इति केचित् पठन्ति| कषायेण सद्योव्रणोक्तानां द्रव्याणां क्वाथेन, एवमेव पूर्ववत्||३५||
Adhikarana 18 (36) · Śloka 36
द्वितीयदिवसपरिमोक्षणाद्विग्रथितो व्रणश्चिरादुपसंरोहति, तीव्ररुजश्च भवति ||३६||
🔊 Audio coming soon
द्वितीये दिवसे मोक्षणाद्दोषं वक्तुमाह- द्वितीयेत्यादि| विग्रथितः ग्रन्थितः| अन्ये तु विग्रथित इत्यत्र विशब्दस्य स्थाने हिशब्दं पठन्ति व्याख्यानयन्ति च- हिशब्दो यस्मादर्थे, यस्माद् ग्रथितः सम्यगनङ्कुरितो ग्रन्थिभूतस्तस्मान्न संरोहति; उग्रवेदनश्च व्रणो भवतीत्यर्थः||३६||
Adhikarana 19 (37) · Śloka 37
अत ऊर्ध्वं दोषकालबलादीनवेक्ष्य कषायालेपनबन्धाहाराचारान् विदध्यात् ||३७||
🔊 Audio coming soon
अत ऊर्ध्वमित्यादि| अत ऊर्ध्वं तृतीयदिवसानन्तरं, दोषाः वातादयः, कालः हेमन्तादिकः, बलं हीनमध्यमोत्तमम्, आदिशब्दाद् वयःसात्म्यादीनि, अवेक्ष्य परीक्ष्य, विदध्यात् कुर्यात् यावद्व्रणसंरोहणं भवति| अन्ये त्वन्यथा पठन्ति- ‘अत ऊर्ध्वं दोषकालबलादीन्यवेक्ष्य कषायादीन् विदध्यात्’- इति, व्याख्यानयन्ति च- अत ऊर्ध्वमिति तृतीयबन्धादनन्तरं चतुर्थबन्धे दोषादीनि परीक्ष्य कषायादीन् विदध्यात्; कषायादीनित्यादिशब्दात् कल्कस्नेहादीनां ग्रहणम्||३७||
Adhikarana 20 (38) · Śloka 38
न चैनं त्वरमाणः सान्तर्दोषं रोपयेत्; स ह्यल्पेनाप्यपचारेणाभ्यन्तरमुत्सङ्गं कृत्वा भूयोऽपि विकरोति ||३८||
🔊 Audio coming soon
न चैनमित्यादि| सान्तर्दोषम् अभ्यन्तरपूयसहितम्| अल्पेनाप्यपचारेणेति स्तोकेनापि विरुद्धकर्मणा| भूयः पुनः| विकरोति विकृतिं याति||३८||
Adhikarana 21 (39) · Śloka 39
भवन्ति चात्र- तस्मादन्तर्बहिश्चैव सुशुद्धं रोपयेद्व्रणम् | रूढेऽप्यजीर्णव्यायामव्यवायादीन् विवर्जयेत् | हर्षं क्रोधं भयं चापि यावत् स्थैर्योपसम्भवात् ||३९||
🔊 Audio coming soon
भवन्ति चात्रेत्यादि| सुशुद्धमिति बहिरभ्यन्तरं च| तत्राभ्यन्तरशुद्धिलक्षणं वातादिवेदनापगमः; बहिःशुद्धिलक्षणं विशुद्धवर्णरसस्थानगन्धाश्चत्वारः| केचित् ‘हर्षं क्रोधं भयं’ इत्यादि श्लोकं न पठन्ति, व्यवायादीनित्यादिशब्दाच्च भयहर्षादीनि गृह्णन्ति||३९||
Adhikarana 22 (40) · Śloka 40
हेमन्ते शिशिरे चैव वसन्ते चापि मोक्षयेत् | त्र्यहाद्द्व्यहाच्छरद्ग्रीष्मवर्षास्वपि च बुद्धिमान् ||४०||
🔊 Audio coming soon
ननु, किं सर्वदैव त्र्यहान्मोक्तव्योऽथ किञ्चिदन्तरेणेत्याह - हेमन्ते शिशिरे चैवेत्यादि| हेमन्तादिषु त्र्यहान्मोक्षयेत्, तेषु शीतत्वेन शीघ्रपाकभयाभावात्| शरदादिषु द्व्यहान्मोक्षयेत्, तेषामुष्णत्वेन शीघ्रपाकागमभयात्| हेमन्ते शिशिरे चैवेति एवशब्दो हेमन्तशिशिरयोस्त्र्यहे एव मोक्ष इति नियमति, चकारस्तु पैत्तिकव्रणस्य नियमं व्यभिचारयति; तेन पैत्तिकस्य हेमन्तशिशिरयोर्यथार्हं मोक्ष इति| वसन्ते चापीति अपिशब्दाद् वैशाखस्योष्णत्वात् कदाचिद् द्वयहेऽपि मोक्षः सर्वव्रणानां; तथा पैत्तिकस्य द्विरह्नो बन्ध इति च समुच्चिनोति| शरद्ग्रीष्मवर्षास्वपि चेति अपिचग्रहणं क्वचिद् द्व्यहमोक्षणविधिमपि व्यभिचारयति, तेन पैत्तिकं व्रणं ग्रीष्मे एकस्मिन्नेव दिने द्वौ वारौ बध्नीयात्| अन्ये तु शिशिरग्रहणमपास्य ‘हेमन्ते च वसन्ते च प्रावृट्काले च मोक्षयेत्’ इति पठन्ति; तन्न, पञ्जिकया दूषितत्वात्| ननु, हेमन्तादयः शरदादयश्च न समानास्तत् कथं तेषु तुल्यकालं व्रणमोक्षणम्? उच्यते, त्र्यहादेव द्व्यहादेवेति नियमो न कृतः, तेन हेमान्तादीनां शरदादीनां चोत्कर्षापकर्षान् समीक्ष्य व्रणमोक्षणं कर्तव्यमित्यदोषः||४०||
Adhikarana 23 (41) · Śloka 41
अतिपातिषु रोगेषु नेच्छेद्विधिमिमं भिषक् | प्रदीप्तागारवच्छीघ्रं तत्र कुर्यात् प्रतिक्रियाम् ||४१||
🔊 Audio coming soon
ननु, कथं सर्वत्रैव सम्भृतसम्भारस्य छेद्यादि कर्तव्यमुतान्यथाऽपीत्याह- अतिपातिष्वित्यादि| अतिपातिषु आशुकारिषु| अथवा, अतिपातिषु रोगेषु बन्धकालादिनियमव्यभिचारार्थ एवायं श्लोक इति||४१||
Adhikarana 24 (42) · Śloka 42
या वेदना शस्त्रनिपातजाता तीव्रा शरीरं प्रदुनोति जन्तोः | धृतेन सा शान्तिमुपैति सिक्ता कोष्णेन यष्टीमधुकान्वितेना ||४२||
🔊 Audio coming soon
शस्त्रपातेऽवस्थां चिकित्सितुमाह- या वेदनेत्यादि| प्रदुनोति उपतापयति; क्वचित् ‘प्रतनोति’ इति पाठः, तत्र व्याप्नोतीत्यर्थः||४२||
Adhikarana puShpikA · Śloka 5
इति सुश्रुतसंहितायां सूत्रस्थानेऽग्रोपहरणीयो नाम पञ्चमोऽध्यायः ||५||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थानेऽग्रोपहरणीयो नाम पञ्चमोऽध्यायः||५||