Adhikarana 1 (1-2) · Śloka 2
अथातः प्रभाषणीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अधीतशास्त्रस्य पुनरर्थतो व्याख्यानं प्रभाषणं, तदधिकृत्य कृतोऽध्यायः प्रभाषणीयः||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातः प्रभाषणीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अधीतशास्त्रस्य पुनरर्थतो व्याख्यानं प्रभाषणं, तदधिकृत्य कृतोऽध्यायः प्रभाषणीयः||१-२||
Adhikarana 2 (3-4) · Śloka 4
अधिगतमप्यध्ययनमप्रभाषितमर्थतः खरस्य चन्दनभार इव केवलं परिश्रमकरं भवति ||३|| भवति चात्र- यथा खरश्चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य | एवं हि शास्त्राणि बहून्यधीत्य चार्थेषु मूढाः खरवद्वहन्ति ||४||
🔊 Audio coming soon
इदानीं प्रभाषणस्य प्रयोजनं दर्शयितुमाह- अधिगतमित्यादि| एतेनैतदुक्तं- सगुणमपि चन्दनं वोढुर्गर्दभस्य तद्गुणानजानतः केवलं यथा भारो भवति, तद्वदधीतमपि शास्त्रमर्थद्वारेणाप्रभाषितं तदध्येतुः पुरुषस्य केवलं परिश्रमकरं भवतीत्यर्थः| अन्ये तु ‘अप्रभाषितं’ इत्यत्र ‘अननुभाषितं’ इति पठन्ति, व्याख्यानयन्ति च- अनुशब्दः पश्चादर्थः; तेनाध्ययनस्यानु पश्चादर्थतः प्रकर्षेण भाषणमनुभाषणं, न कथमपि प्रथमम्| अर्थेषु मूढा अज्ञानाद् गर्दभवच्छास्त्रं वहन्ति||३-४||
Adhikarana 3 (5) · Śloka 5
तस्मात् सविंशमध्यायशतमनुपदपादश्लोकमनुवर्णयितव्यमनुश्रोतव्यं च; कस्मात्? सूक्ष्मा हि द्रव्यरसगुणवीर्यविपाकदोषधातुमलाशयमर्मसिरास्नायुसन्ध्यस्थिगर्भसम्भवद्रव्यसमूहविभागास्तथा प्रनष्टशल्योद्धरणव्रणविनिश्चयभग्नविकल्पाः साध्ययाप्यप्रत्याख्येयता च विकाराणामेवमादयश्चान्ये विशेषाः सहस्रशो ये विचिन्त्यमाना विमलविपुलबुद्धेरपि बुद्धिमाकुलीकुर्युः किं पुनरल्पबुद्धेः, तस्मादवश्यमनुपदपादश्लोकमनुवर्णयितव्यमनुश्रोतव्यं च ||५||
🔊 Audio coming soon
तस्मादित्यादि| सविंशमध्यायशतं सहोत्तरतन्त्रेण विंशत्यधिकमध्यायशतम्| अनुपदपादश्लोकम् अनुशब्दो वीप्सार्थः, तेनायमर्थः- पदं पदं पादं पादं श्लोकं श्लोकमनुवर्णयितव्यमाचार्येण व्याख्यातव्यमित्यर्थः| हिशब्दो यस्मादर्थे, यस्मात् सूक्ष्मा द्रव्यादिविभागास्तस्मादनुवर्णयितव्यमिति पिण्डार्थः| तत्र, द्रव्यं स्थावरादि; रसाः षण्मधुरादयः; गुणा गुर्वादयः; वीर्यं शीतोष्णं द्विविधमष्टविधं वा; द्वौ विपाकौ मधुरकटू; दोषा वातादयः; धातवो रसादयः, धातुग्रहणात् स्तन्यार्तवलसीकावसादयश्चोपधातवो गृह्यन्ते; द्वौ मलौ शकृन्मूत्रे, अन्ये तु सप्त मलानाचक्षते, तत्र द्वौ पूर्वोक्तौ, पञ्चानां चेन्द्रियाधिष्ठानानां पञ्च, तथाहि- दूषिकासिंहान(सिङ्घाण)ककर्णगूथरोमकूपप्रजननमलाश्चेति, मलाः पुरीषादयो धातुमलाश्चेत्येके, आशयाः सप्त शारीरोक्ता वातादीनां, स्त्रीणामष्टमो गर्भाशयः; सप्तोत्तरं मर्मशतं; सप्त सिराशतानि; नव स्नायुशतानि; सन्धयो दशोत्तरे द्वे शते; अस्थीनि शतानि त्रीणि; आशयादीनां व्यक्तिं शारीरे वक्ष्यति; गर्भसम्भवद्रव्याणि शुक्रशोणितादीनि, आत्मपञ्चमहाभूतमनांसीत्यन्ये; समूहः सङ्घातः, एतेषां विभागा भेदाः| यस्मात् सूक्ष्मा इति हेतुपदं सर्वत्र सम्बध्यते| तथा प्रनष्टशल्योद्धरणादिविकल्पा इति प्रनष्टशल्यं त्वगादिषु निलीनं; व्रणविनिश्चयो वातादिभेदेन शुद्ध्या च षोडशविधः; भग्नं सङ्क्षेपेण द्विविधं- सन्धिमुक्तं, काण्डभग्नं च; प्रनष्टशल्योद्धरणादिभिः सह विकल्पशब्दः प्रत्येकं सम्बध्यते; विकल्पाः भेदाः| साध्ययाप्यप्रत्याख्येयता च विकाराणामिति अत्र चशब्दात् सुखसाध्यता कृच्छ्रसाध्यता च गृह्यते| किमेत एव परं सूक्ष्मा इत्यनुक्तं गृह्णन्नाह- एवमादयश्चान्ये विशेषा इति| आदिशब्दः प्रकारवाची, तेन एवम्प्रकाराश्चान्ये विशेषाः सूक्ष्मा इति प्रकारवाचिना आदिशब्देन द्योत्यन्ते , ते च शस्त्रकर्मणामष्टविधतादयो भेदाः| सहस्रशो ये विचिन्त्यमाना इति सहस्रशः सहस्रवारान्, ये इति द्रव्यादीनां भेदाः, विचिन्त्यमाना ‘गुरुं विना’ इति शेषः| विमलविपुलबुद्धेरपीति विमला बुद्धिर्मिथ्यासंशयज्ञानवर्जिता| इत्थम्भूतस्यापि पुरुषस्य बुद्धिं व्याकुलीकुर्युः, अल्पबुद्धेस्तु का कथा| ‘सहस्रशो येऽनुचिन्त्यमाना’ इत्यन्ये पठन्ति, व्याख्यानयन्ति च- श्रुतस्य पश्चादपि चिन्त्यमानाः, किं पुनरश्रुता इत्यनुशब्दार्थः| अनुपदपादेत्यादिपुनरुक्तिः शास्त्रस्य विषमत्वख्यापनाय||५||
Adhikarana 4 (6) · Śloka 6
अन्यशास्त्रोपपन्नानां चार्थानामिहोपनीतानामर्थवशात्तेषां तद्विद्येभ्य एव व्याख्यानमनुश्रोतव्यं, कस्मात्? न ह्येकस्मिन् शास्त्रे शक्यः सर्वशास्त्राणामवरोधः कर्तुम् ||६||
🔊 Audio coming soon
इदानीमन्यशास्त्रोपपन्नानामर्थानां शिष्यहितत्वेन विज्ञानोपायमाह- अन्यशास्त्रोपपन्नानामित्यादि|- अन्यशास्त्राणि व्याकरणसाङ्ख्यवैशेषिकज्योतिःशास्त्रादीनि; अन्यशास्त्राणि कायचिकित्सादीनित्यन्ये| उपपन्ना निबद्धाः| इहोपनीतानाम् अत्रानीतानाम्| अर्थवशात् प्रयोजनाधीनत्वात्| तेषामिति अर्थानाम्| तद्विद्येभ्यः व्याकरणादिविद्येभ्यः | ‘अन्यशास्त्रोपपन्नानां’- इत्यत्र ‘अन्यशास्त्रविषयोपपन्नानां’- इति केचित् पठन्ति; ‘इहोपनीतानां’- इत्यत्र च ‘इहोपपतितानां’- इति| न हीति हिशब्दो यस्मादर्थे||६||
Adhikarana 5 (7) · Śloka 7
भवन्ति चात्र- एकं शास्त्रमधीयानो न विद्याच्छास्त्रनिश्चयम् | तस्माद्बहुश्रुतः शास्त्रं विजानीयाच्चिकित्सकः ||७||
🔊 Audio coming soon
अमुमेवार्थं श्लोकेन स्पष्टीकर्तुमाह- एकमित्यादि| नह्यबहुश्रुतोऽत्र सङ्क्षिप्तानप्यर्थान् बीजभूतानन्यशास्त्रासंस्कारादनायासेनावगच्छति||७||
Adhikarana 6 (8) · Śloka 8
शास्त्रं गुरुमुखोद्गीर्णमादायोपास्य चासकृत् | यः कर्म कुरुते वैद्यः स वैद्योऽन्ये तु तस्कराः ||८||
🔊 Audio coming soon
न कथञ्चिदनधीतशास्त्रो बहुश्रुतमात्रेणैव वैद्यो भवति; कथं न भवतीति दर्शयन्नाह- शास्त्रं गुरुमुखोद्गीर्णमित्यादि| रोगान् शास्तीति उपवेदोऽपि शास्त्रमुच्यते, आयुरारोग्यदानेन धर्मार्थकामादीनां शासनाद्वा शास्त्रं, मरणात्त्रायत इति वा शास्त्रम्| उद्गीर्णम् उपदिष्टम्| आदाय गृहीत्वा, नह्यादानमात्रेण गृहीतं, किन्तु उपास्य च पाठतोऽर्थतश्चाभ्यस्य| असकृत् अनेकवारम्| अन्ये तु तस्करा इति अन्ये पुनर्वैद्यास्तस्कराश्चौराः; कस्मात्? व्याधितेभ्यो वैद्यच्छद्मना वित्तापहरणात्, प्राणहन्तृत्वाच्च||८||
Adhikarana 7 (9) · Śloka 9
औपधेनवमौरभ्रं सौश्रुतं पौष्कलावतम् | शेषाणां शल्यतन्त्राणां मूलान्येतानि निर्दिशेत् ||९||
🔊 Audio coming soon
अन्यशास्त्रोपपन्नार्थविज्ञानोपायमभिधाय स्वशास्त्रोपपन्नानामर्थानां मिथ्याज्ञाने सम्यग्ज्ञानार्थं समानतन्त्राणि दर्शयितुमाह- औपधेनवमित्यादि| एतैश्चतुर्भिरौपधेनवादिभिः समानतन्त्रैः स्वकीयशास्त्रार्थानां मिथ्याज्ञानसंशयज्ञानानि स्फोटनीयानि| अन्ये तु गुरोरेव प्रभाषणस्य मिथ्याज्ञानादय औपधेनवादिशास्त्रैर्निवर्तन्त इति व्याख्यानयन्ति| एतेनैतदुक्तं- औपधेनवादिशास्त्रैर्निवृत्तमिथ्याज्ञानादिना गुरुणा प्रभाषणं कर्तव्यमिति| यद्यपि गुरुमुखादेव शिष्यस्य मिथ्याज्ञानादयो निवृत्ताः तथाऽप्यागमान्तरप्रत्ययार्थमौपधेनवादिशास्त्राणि निर्दिष्टानि| एतान्येव परतन्त्राण्यागमान्तरप्रत्ययार्थं कुत इत्याह- शेषाणां शल्यतन्त्राणामित्यादि| शेषाणां करवीर्य(र)गोपुररक्षितप्रभृतिप्रणीतशल्यतन्त्राणां, प्रत्यये तु प्रत्ययो न भवति, कस्मात्? तेषां तन्त्राणामेतन्मूलत्वात्| अन्ये तु शेषाणां करवीर्यादिप्रणीतानां शल्यतन्त्राणां मध्ये औपधेनवादितन्त्राणि सुव्याख्यातत्वेन मूलानि प्रधानानीति व्याख्यानयन्ति||९||
Adhikarana puShpikA · Śloka 4
इति सुश्रुतसंहितायां सूत्रस्थाने प्रभाषणीयो नाम चतुर्थोऽध्यायः ||४||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने प्रभाषणीयो नाम चतुर्थोऽध्यायः||४||