Adhikarana 1 (1-2) · Śloka 2
अथातोऽन्नपानविधिमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अन्नं शाल्यादि, पानमनुपानादि, विधिर्विधानं कल्पनं प्रकारो वा||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातोऽन्नपानविधिमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अन्नं शाल्यादि, पानमनुपानादि, विधिर्विधानं कल्पनं प्रकारो वा||१-२||
Adhikarana 2 (3) · Śloka 3
धन्वन्तरिमभिवाद्य सुश्रुत उवाच- प्रागभिहितः ‘प्राणिनां पुनर्मूलमाहारो बलवर्णौजसां च, स षट्सु रसेष्वायत्तः, रसाः पुनर्द्रव्याश्रयिणः,’ द्रव्यरसगुणवीर्यविपाकनिमित्ते च क्षयवृद्धी दोषाणां साम्यं च, ब्रह्मादेरपि च लोकस्याहारः स्थित्युत्पत्तिविनाशहेतुः, आहारादेवाभिवृद्धिर्बलमारोग्यं वर्णेन्द्रियप्रसादश्च, तथा ह्याहारवैषम्यादस्वास्थ्यं; तस्याशितपीतलीढखादितस्य नानाद्रव्यात्मकस्यानेकविधविकल्पस्यानेकविधप्रभावस्य पृथक् पृथग्द्रव्यरसगुणवीर्यविपाककर्माणीच्छामि ज्ञातुं, न ह्यनवबुद्धस्वभावा भिषजः स्वस्थानुवृत्तिं रोगनिग्रहणं च कर्तुं समर्थाः; आहारायत्ताश्च सर्वप्राणिनो यस्मात्तस्मादन्नपानविधिमुपदिशतु मे भगवानित्युक्तः प्रोवाच भगवान् धन्वन्तरिः- अथ खलु वत्स सुश्रुत! यथाप्रश्नमुच्यमानमुपधारयस्व- ||३||
🔊 Audio coming soon
अथ शिष्यो गुरुं प्रति प्रश्नं कुर्वन्नाह- धन्वन्तरिमित्यादि| अभिवाद्य नमस्कृत्य| उवाच उक्तवान्| किमुक्तवानित्याह- प्रागभिहित इत्यादि| मूलं कारणम्| स इति आहारः| निमित्ते चेति चकारादिन्द्रियार्थाः कालो विहारश्चेति त्रयं समुच्चीयते| दोषाणामित्युपलक्षणं, तेन दोषधात्वादीनामित्यर्थः| आहारस्य सर्वापेक्षणीयतामाह- ब्रह्मादेरित्यादि| स्थितिः अवस्थानम्, उत्पत्तिः जन्म, विनाशः प्रलयः; उत्पत्तिहेतुरपि सम्यगुपयोगात् प्रधानधातूत्पत्तेः, विनाशहेतुश्च मिथ्योपयोगात्; देवानां स्थितिहेतुरेव, जरायुजानां स्थित्युत्पत्तिविनाशानां त्रयाणामपि हेतुः; ध्यानाहारत्वेऽपि ब्रह्मादेर्योगादिद्वारेण तृप्तिसम्भवादमृतप्राशार्थमाहारः| स्थितिहेतुतामेव विवृण्वन्नाह- आहारादेवेत्यादि| अभिवृद्धिः शरीरस्य| बलमुत्साहोपचयलक्षणम्| आरोग्यं स्वास्थ्यलक्षणम्| वर्णो गौरादिः; इन्द्रियाणां प्रसादः स्वस्वविषयग्रहणसामर्थ्यम्| वैषम्यम् अन्यथोपयोगः| अस्वास्थ्यं दोषादिवैषम्यम्| तस्य चातुर्विध्यमाह- अशितेत्यादि; अशितं भोज्यमोदनादि, पीतं पेयं क्षीरादि, लीढं लेह्यं मध्वादि, खादितं भक्ष्यं मोदकादि| नानाद्रव्यात्मकस्येति बहुविधपृथिव्यादिद्रव्यारब्धस्य| अनेकविधविकल्पस्य अनेकविधा मण्डपेयाविलेपीभक्तादयो विकल्पाः प्रकारा यस्य स तथा| अनेकविधप्रभावस्य नानाप्रकारशक्तिकस्य| न हीति हि यस्मादर्थे| अनवबुद्धस्वभावा आहारस्याज्ञातस्वरूपाः| भिषजो वैद्याः| मे ममेत्यर्थः| भगवानिति धन्वन्तरिं प्रति पूजावचनम्| उत्तरमाह- इत्युक्त इति|- उक्तः पूर्वोक्तवचनैः प्रेरितः| प्रोवाच उक्तवान्| अथेति मङ्गले| खलु वाक्यालङ्कारे||३||
Adhikarana 3 (4) · Śloka 4
तत्र, लोहितशालिकलमकर्दमकपाण्डुकसुगन्धकशकुनाहृतपुष्पाण्डकपुण्डरीकमहाशालिशीतभीरुकरोध्रपुष्पक- दीर्घशूककाञ्चनकमहिषमहाशूकहायनकदूषकमहादूषकप्रभृतयः शालयः ||४||
🔊 Audio coming soon
तत्रेत्यादि| लोहितशाली रक्तशालिः; कलमोऽन्तर्वेद्यां `कलविः’ इति लोके; कर्दमक इति सातिशये पङ्के निष्पद्यत इति कर्दमको लोकतोऽवगन्तव्यः; पाण्डुक इति पाण्डुतुषः पाण्डुशूकश्च पाण्डुकः; सुगन्धको देवशालिः पाञ्चाले; शकुनाहृत उत्तरकुरोः सकाशाद्धंसैरानीतः, अवन्त्यां नगर्यां स एव वक्रनाम्ना प्रसिद्धः, मगधदेशे तु ‘पाशक’ इति, वृद्धवैद्यास्तु “द्वीपान्तरात् समानीतो गरुडेन महात्मना| शकुनाहृतः सशालिः स्याद्गरुडापरनामकः” इत्याहुः, पुष्पाणीव सुगन्धानि सुकुमाराण्यण्डानि तण्डुलानि यस्य सः पुष्पाण्डको लोकतोऽवगन्तव्यः; पुण्डरीकं श्वेतपद्मं तत्सदृशः सौकुमार्यवर्णसौरभैर्यः सः पुण्डरीको देवग्रहादेव बहुपोषनामा; महातण्डुलको महाशालिः; शीताद्बिभेतीत्येवं शीतभीरुको लोकादवगन्तव्यः; रोध्रपुष्पाकाराः शूका यस्य स रोध्रपुष्पकः; दीर्घाः शूका यस्य स दीर्घशूकः; काञ्चनकः स्वर्णशालिः; महिषशूको मध्यदेशे ‘तिलवासी’ इति प्रसिद्धः; हायनकः ‘शङ्गुवाक’ इति लोके, जेज्झटस्तु ‘घोटकपुच्छ’ इत्याह; दूषकमहादूषकौ लोकादवगन्तव्यौ| प्रभृतिग्रहणाद्यवकनैषधादयः| शालय इति अकण्डितशुक्ला हैमन्ताः, अन्ये तु ‘कण्डितशुक्ला अकण्डितशुक्लाश्च हैमन्ताः शालयः, ग्रैष्माः षष्टिकाः; ‘प्रायेण गर्भपाकाः षष्टिकाः’ इत्यन्ये; वार्षिकास्तु व्रीहयः, ‘कण्डितशुक्लास्तु व्रीहयः’ इत्यन्ये| अत्र लोहितशाल्यादयस्तेषु तेषु देशेषु तैस्तैर्नामभिः प्रसिद्धाः; एकमेव हि द्रव्यं नानादेशेषु नानाशब्दैरभिधीयते; यथा- बहवोऽन्नं भक्तमाहुः, दाक्षिणात्यास्तु कूरमिति; तत्र दाक्षिणात्येषु भक्तसञ्ज्ञयैव प्रसिद्धस्तदितरेषु पुनः कूरसञ्ज्ञेति(?); तस्मात्तु शूकशमीकुधान्यानि नानादेशजकृषीवलेभ्यो ज्ञेयानि, मृगास्तु नानादेशीयव्याधेभ्यः, शाकुनिकेभ्यः पक्षिणः, कन्दमूलफलाशिभ्यो वनेचरतपस्विभ्यः कन्दमूलफलानि, शाकानि तु ग्राम्यारण्यवासिभ्यः, कृतान्नानि तु सूदेभ्यः, भेषजद्रव्याणि पुनः क्रय्याणि वणिग्भ्यः, अक्रेयाणि पुनर्मूलादीनि तापसवनेचरेभ्य इति||४||
Adhikarana 4 (5) · Śloka 5
मधुरा वीर्यतः शीता लघुपाका बलावहाः | पित्तघ्नाल्पानिलकफाः स्निग्धा बद्धाल्पवर्चसः ||५||
🔊 Audio coming soon
तत्र शालीनां सामान्यगुणमाह- मधुरा इत्यादि| पूर्वं हि `द्रव्यरसगुणवीर्यविपाककर्माणीच्छामि ज्ञातुं’ इत्युक्तं, तदेव दर्शयति- तत्र लोहितशालीत्यादि यावत् दूषकमहादूषकप्रभृतयः शालय इति द्रव्यनिर्देशः, `मधुरा’ इति रसनिर्देशः, `वीर्यतः शीता’ इति वीर्यनिर्देशः, `लघुपाका’ इति पाकनिर्देशः, स्निग्धा’ इत्यादि गुणनिर्देशः, `पित्तघ्ना’ इत्यादि स्वकर्मनिर्देशः| अल्पानिलकफाः अल्पं वातं श्लेष्माणं च कुर्वन्तीत्यर्थः||५||
Adhikarana 5 (6) · Śloka 7
तेषां लोहितकः श्रेष्ठो दोषघ्नः शुक्रमूत्रलः | चक्षुष्यो वर्णबलकृत् स्वर्यो हृद्यस्तृषापहः ||६|| व्रण्यो ज्वरहरश्चैव सर्वदोषविषापहः |७|
🔊 Audio coming soon
लोहितशालिगुणमाह- तेषामित्यादि| दोषघ्नस्त्रिदोषघ्नः| सर्वदोषेत्यादि अत्र दोषशब्दो व्याधिषु वर्तते||६||-
Adhikarana 6 (7) · Śloka 7
तस्मादल्पान्तरगुणाः क्रमशः शालयोऽवराः ||७||
🔊 Audio coming soon
शालीनां तारतम्यमाह- तस्मादित्यादि| तस्मात् लोहितशालेः| अल्पान्तरगुणा इति अल्पमन्तरं भेदः क्रमेणावरत्वेन येषां ते तथोक्ताः| गुणशब्दः कर्मवाची| क्रमशोऽवरा इति क्रमात् क्रमाद्धीना इत्यर्थः||७||
Adhikarana 7 (8-9) · Śloka 9
षष्टिककाङ्गुकमुकुन्दकपीतकप्रमोदककाकलकासनपुष्पकमहाषष्टिकचूर्णककुरवककेदारप्रभृतयः षष्टिकाः ||८|| रसे पाके च मधुराः शमना वातपित्तयोः | शालीनां च गुणैस्तुल्या बृंहणाः कफशुक्रलाः ||९||
🔊 Audio coming soon
षष्टिकानाह- षष्टिकेत्यादि| अन्ते षष्टिकाभिधानं सर्वेषां षष्टिकत्वसूचनार्थम्| षष्टिको गौरषष्टिकः, मुकुन्दककाकलकासनपुष्पककुरबककेदाराः कृष्णषष्टिकाः, शेषा गौरकृष्णा इति| प्रभृतिग्रहणाच्चीनदुर्दरशारदादयः| षष्टिको व्रीहिभेद एव, ‘षष्टिको व्रीहिषु श्रेष्ठ’ इत्युक्तत्वात्; किन्तु व्रीहिश्चिरपाकी, षष्टिकस्तु शीघ्रपाकी||८-९||
Adhikarana 8 (10) · Śloka 11
षष्टिकः प्रवरस्तेषां कषायानुरसो लघुः | मृदुः स्निग्धस्त्रिदोषघ्नः स्थैर्यकृद्बलवर्धनः ||१०|| विपाके मधुरो ग्राही तुल्यो लोहितशालिभिः |११|
🔊 Audio coming soon
गौरषष्टिकगुणमाह- षष्टिक इत्यादि| स्थैर्यकृत् देहदार्ढ्यकृत्, तारुण्यस्थापको वा||१०||
Adhikarana 9 (11) · Śloka 11
शेषास्त्वल्पान्तरास्तस्मात् षष्टिकाः क्रमशो गुणैः ||११||
🔊 Audio coming soon
शेषास्त्वित्यादि| अल्पान्तराः स्तोकभेदा गुणैः कृत्वा| तस्मात् गौरषष्टिकात्||११||
Adhikarana 10 (12) · Śloka 12
कृष्णव्रीहिशालामुखजतुमुखनन्दीमुखलावाक्षकत्वरितककुक्कुटाण्डकपारावतकपाटलप्रभृतयो व्रीहयः ||१२||
🔊 Audio coming soon
व्रीहिविशेषानाह- कृष्णव्रीहीत्यादि| कृष्णव्रीहिः कृष्णतुषतण्डुलः , शालामुखः कृष्णशुक्लाकारतण्डुलः, जतु लाक्षा तदाकृति मुखं यस्यासौ जतुमुखः, नन्दीमुखः आडीचञ्चुसदृशमुखतण्डुलः, लावाक्षिसदृशतण्डुलो लावाक्षः, षष्टिकवत्त्वरितं पच्यत इति त्वरितकः, कुक्कुटाण्डानीव वर्णेन वर्तुलतया च तण्डुला यस्य सः कुक्कुटाण्डकः, पारावतवच्छुक्लतण्डुलः पारावतः, पाटलापुष्पवर्णव्रीहिः पाटलः; प्रभृतिग्रहणात् खञ्जरीटखञ्जनकक्षौमकादयो गृह्यन्ते||१२||
Adhikarana 11 (13) · Śloka 13
कषायमधुराः पाकेऽमधुरा वीर्यतोऽहिमाः | अल्पाभिष्यन्दिनस्तुल्याः षष्टिकैर्बद्धवर्चसः ||१३||
🔊 Audio coming soon
कषायमधुरा रसे| अमधुराः पाके कटुका इत्यर्थः| वीर्यतोऽहिमा उष्णा इत्यर्थः| अल्पाभिष्यन्दिन इति पूर्ववत्| तुल्याः षष्टिकैरिति एतेन कुधान्येभ्य एषामुत्कर्षः सूच्यते, न तु षष्टिकानां गुणकारिता, चरकाद्यैस्त्रिदोषकारित्वेन पाटलस्योक्तत्वात्| ‘अनार्षोऽयं पाठः’ इति जेज्झटः| ‘पाटलाशब्दो व्रीहौ सामान्ये विशेषे च वर्तत इति विशेषवाचिनस्त्रिदोषकर्तृत्वं, सामान्येन व्रोहेस्तूक्त एव गुणः’ इति गयी| ‘यस्त्रिदोषकारी पाटलस्तत्र जात्यन्तरम्, अयं तु यथोक्तगुणः’ इति ब्रह्मदेवः||१३||
Adhikarana 12 (14) · Śloka 14
कृष्णव्रीहिर्वरस्तेषां कषायानुरसो लघुः | तस्मादल्पान्तरगुणाः क्रमशो व्रीहयोऽपरे ||१४||
🔊 Audio coming soon
अथ कृष्णव्रीहिगुणमाह- कृष्णव्रीहिरित्यादि||१४||
Adhikarana 13 (15) · Śloka 15
दग्धायामवनौ जाताः शालयो लघुपाकिनः | कषाया बद्धविण्मूत्रा रूक्षाः श्लेष्मापकर्षणाः ||१५||
🔊 Audio coming soon
अथ भूमिद्वारेण गुणमाह- दग्धायामित्यादि| दग्धायामवनौ जाता इति दग्धभूमावुत्पन्नाः||१५||
Adhikarana 14 (16) · Śloka 16
स्थलजाः कफपित्तघ्नाः कषायाः कटुकान्वयाः | किञ्चित्सतिक्तमधुराः पवनानलवर्धनाः ||१६||
🔊 Audio coming soon
स्थलजा इत्यादि| स्थलजा जाङ्गलभूमिसम्भवाः| सतिक्तमधुरा ईषत्तिक्तमधुराः| पवनानलवर्धना इति अत्र किञ्चिच्छब्दः सम्बध्यते||१६||
Adhikarana 15 (17) · Śloka 17
कैदारा मधुरा वृष्या बल्याः पित्तनिबर्हणाः | ईषत्कषायाल्पमला गुरवः कफशुक्रलाः ||१७||
🔊 Audio coming soon
कैदारा इत्यादि| कैदारा अनूपजा इत्यर्थः| वृष्याः शुक्रवैरेचनिकाः| शुक्रलाः शुक्रवृद्धिकराः||१७||
Adhikarana 16 (18) · Śloka 18
रोप्यातिरोप्या लघवः शीघ्रपाका गुणोत्तराः | अदाहिनो दोषहरा बल्या मूत्रविवर्धनाः ||१८||
🔊 Audio coming soon
रोप्यातिरोप्यगुणमाह- रोप्येत्यादि| ये शालय एकवारमुत्पाट्याश्वन्यत्र रोप्यन्ते ते रोप्याः, ये तु द्विस्त्रिर्वाऽन्यत्र रोप्यन्ते तेऽतिरोप्याः| मूत्रविवर्धना इति अदाहित्वात्, ‘मूत्रला’ इत्येके, अन्ये तु ‘मूत्रविवर्धना मुत्रापकर्षणाः प्रमेहिणां हिता इत्यर्थः’||१८||
Adhikarana 17 (19) · Śloka 19
शालयश्छिन्नरूढा ये रूक्षास्ते बद्धवर्चसः | तिक्ताः कषायाः पित्तघ्ना लघुपाकाः कफापहाः ||१९||
🔊 Audio coming soon
छिन्नरूढशालिगुणमाह- शालय इत्यादि| छिन्नरूढा इति पूर्वं छिन्नाः पश्चाद्रूढा इत्यर्थः||१९||
Adhikarana 18 (20) · Śloka 20
विस्तरेणायमुद्दिष्टः शालिवर्गो हिताहितः |२०| इति शालिवर्गः |
🔊 Audio coming soon
उपसंहारमाह- विस्तरेणेत्यादि| उद्दिष्टः सङ्क्षेपेणे कथितः| अयं शालिवर्गः, किंविशिष्टः शालिवर्गः? विस्तरेण सह सविस्तर इत्यर्थः| सविस्तरता च वक्ष्यमाणश्लोकेन दर्शिता| तद्यथा ‘धान्येन मांसेषु फलेषु चैव शाकेषु चानुक्तमिहाप्रमेयात्’ इति| अत्र हि अप्रमेयादिति आनन्त्यादित्यर्थः|२०|
Adhikarana 19 (20) · Śloka 20
अथ कुधान्यवर्गः | तद्वत् कुधान्यमुद्गादिमाषादीनां च वक्ष्यते ||२०||
🔊 Audio coming soon
तद्वदित्यादि| तद्वदिति सविस्तराणामपि कुधान्यानां मुद्गादीनां माषादीनां चोद्देशेमात्रमेव भविष्यतीत्यर्थः| माषादीनां चेति चकारेण मांसफलशाकवर्गेषु चोद्देशमात्रमेव भविष्यतीत्यनुक्तं समुच्चीयते| अनेन पाठेन मुद्गादीनां धान्यत्वं सूच्यते, तेन मुद्गादयः शिम्बीधान्येषु पठ्यन्ते| कुधान्येति कुत्सितानि कुधान्यानि||२०||
Adhikarana 20 (21) · Śloka 21
कोरदूषकश्यामाकनीवारशान्तनुवरकोद्दालकप्रियङ्गुमधूलिकानन्दीमुखी- कुरुविन्दगवेधुकसरबरुकतोद(य)पर्णीमुकुन्दकवेणुयवप्रभृतयः कुधान्यविशेषाः ||२१||
🔊 Audio coming soon
कुधान्यान्याह- कोरदूषकेत्यादि| कोरदूषकः कोद्रवः; श्यामाकस्त्रिविधः- श्यामाकः, उष्ट्रश्यामाकः, हस्तिश्यामाकश्चेति; श्यामाकशब्देन तोयश्यामाक उच्यते, उष्ट्रश्यामाकः स्थूलश्यामाकः , हस्तिश्यामाकः श्यामिकेति लोके; नीवार उलिकाधान्यं, तद्द्विविधम्- एकं धान्यसदृशविटपं धान्यक्षेत्रजं, द्वितीयं महादलकाण्डं तु सलिलजं; तत्र सलिलजं सलिलवृद्धिमात्रस्तम्बप्ररोहं रक्तशूकं च, तदेव ‘प्रशान्तिका’ इति तन्त्रान्तरेऽपि पठ्यते; वरको वरटिका शाकम्भरीभूमौ प्रायशः; उद्दालको वनकोद्रवः; प्रियङ्गुः `कङ्गुनिका’ इति लोके; मधूलिका मर्कटहस्ततृणं; तद्भेदो नन्दीमुखी; कुरुविन्दको व्रीहिगुरुः; गवेधुकस्तृणविशेषः; ‘गलगोधूम’ इति लोके, देशान्तरे तु `गरल’ इति लोके, अन्ये तु प्रभृतिग्रहणाद्गवेधुकशब्दं गृह्णन्ति; सरः सरकर्णिका; बरुकः ‘बरु’ इति लोके, अन्ये तु बरुकशब्दं प्रभृतिग्रहणाद्गृह्णन्ति; तोदपर्णी तोयपर्णी स्वनामप्रसिद्धा; मुकुन्दो मुलुन्दः; वेणुयवो वंशफलम्| शेषाणि तु वनचारिभ्यो ज्ञेयानि| प्रभृतिग्रहणेन झण्टीघर्मूटीजोन्नलिकादयः||२१||
Adhikarana 21 (22-23) · Śloka 23
उष्णाः कषायमधुरा रूक्षाः कटुविपाकिनः | श्लेष्मघ्ना बद्धनिस्यन्दा वातपित्तप्रकोपणाः ||२२|| कषायमधुरस्तेषां शीतः पित्तापहः स्मृतः | कोद्रवश्च सनीवारः श्यामाकश्च सशान्तनुः ||२३||
🔊 Audio coming soon
उष्णा इत्यादि| बद्धनिस्यन्दा बद्धमूत्राः| तेषामेव केषाञ्चिद्वैशेषिकं गुणमाह- कषायमधुरा इत्यादि| ‘सकोरदूषाः श्यामाका नीवारश्च’ इति केचित् पठन्ति| तत्र बहुवचनं श्यामाकानां त्रिविधत्वात्||२२-२३||
Adhikarana 22 (24) · Śloka 24
कृष्णा रक्ताश्च पीताश्च श्वेताश्चैव प्रियङ्गवः | यथोत्तरं प्रधानाः स्यू रूक्षाः कफहराः स्मृताः ||२४||
🔊 Audio coming soon
कङ्गुनीगुणमाह- कुष्णा इत्यादि| प्राधान्यं कफहरत्वादिगुणापेक्षम्||२४||
Adhikarana 23 (25) · Śloka 25
मधूली मधुरा शीता स्निग्धा नन्दीमुखी तथा |२५|
🔊 Audio coming soon
मधूलिकानन्दीमुखीगुणमाह- मधूलीत्यादि| तथा मधुर शीतलस्निग्धेत्यर्थः|२५|
Adhikarana 24 (25) · Śloka 25
विशोषी तत्र भूयिष्ठं वरुकः समुकुन्दकः ||२५||
🔊 Audio coming soon
वरुकमुकुन्दकयोर्गुणमाह- विशोषीत्यादि| विशोषी द्रवधातोः| भूयिष्ठमतिशयेन||२५||
Adhikarana 25 (26) · Śloka 26
रूक्षा वेणुयवा ज्ञेया वीर्योष्णा कटुपाकिनः | बद्धमूत्राः कफहराः कषाया वातकोपनाः ||२६||
🔊 Audio coming soon
वेणुयवगुणमाह- रूक्षा इत्यादि| कुधान्यानां वार्गिकगुणप्रस्तावे ‘बद्धनिस्यन्दा’ इत्युक्तेऽपि वेणुयवा बद्धमूत्रा इति पृथक्कृत्य यदुक्तं तदतिश्यप्रतिपादनार्थम्||२६||
Adhikarana 26 (27) · Śloka 27
मुद्गवनमुद्गकलायमकुष्ठमसूरमङ्गल्यचणकसतीनत्रिपुटकहरेण्वाढकीप्रभृतयो वैदलाः ||२७||
🔊 Audio coming soon
शमीधान्यानि गुणकर्मभ्यां निर्दिशन्नाह- मुद्गेत्यादि| मुद्गा नानाविधा हरितपीतकृष्णरक्तभेदेन; वनमुद्गस्तु वने जायते कृष्णमुद्ग इति प्रसिद्धः, `मुद्गिका’ इति लोके; कलायास्त्रिपुटाः; मकुष्ठको मोठः; मसूरा द्विविधाः- कृष्णाः पाण्डुराश्च, तत्र कृष्णवर्णा मसूराभिधानाः, पाण्डुवर्णा मङ्गल्यकाभिधानाः; चणकः प्रसिद्धः; सतीनो वर्तुलकः; स्वल्पास्त्रिपुटाः; हरेणुः स्वल्पवर्तुलः; आढकी तुवरी| वैदला इति एषां `वैदला’ इति सञ्ज्ञा, न पुनरन्वयार्थेन वैदलसञ्ज्ञा; एवं हि विदलानामिति वैदला इति माषकुलत्थादिष्वपि वैदलत्वं स्यात्; तेन “वल्लूरं मूलकं मत्स्यान् शुष्कशाकानि वैदलम्| वर्जयेच्चालुकं गुल्मी मधुराणि फलानि च” इत्यादिषु वैदलत्वेन मुद्गादिषु निषेधः, तेन गुल्मेषु माषकुलत्थादयो न निषिध्यन्ते, न हि ते वैदलाः||२७||
Adhikarana 27 (28) · Śloka 28
कषायमधुराः शीताः कटुपाका मरुत्कराः | बद्धमूत्रपुरीषाश्च पित्तश्लेष्महरास्तथा ||२८||
🔊 Audio coming soon
वैदलानां सामान्यगुणमाह- कषायेत्यादि||२८||
Adhikarana 28 (29) · Śloka 29
नात्यर्थं वातलास्तेषु मुद्गा दृष्टिप्रसादनाः | प्रधाना हरितास्तत्र वन्या मुद्गसमाः स्मृताः ||२९||
🔊 Audio coming soon
मुद्गगुणमाह- नात्यर्थमित्यादि||२९||
Adhikarana 29 (30) · Śloka 30
विपाके मधुराः प्रोक्ता मसूरा बद्धवर्चसः |३०|
🔊 Audio coming soon
मसूरगुणमाह- विपाक इत्यादि|३०|
Adhikarana 30 (30) · Śloka 30
मकुष्ठकाः कृमिकराः... |३०|
🔊 Audio coming soon
मकुष्ठगुणमाह- मकुष्ठका इत्यादि|३०|
Adhikarana 31 (30) · Śloka 30
... कलायाः प्रचुरानिलाः ||३०||
🔊 Audio coming soon
कलायगुणमाह- कलाया इत्यादि||३०||
Adhikarana 32 (31) · Śloka 31
आढकी कफपित्तघ्नी नातिवातप्रकोपणी |३१|
🔊 Audio coming soon
आढकीगुणमाह- आढकीत्यादि|३१|
Adhikarana 33 (31-32) · Śloka 32
वातलाः शीतमधुराः सकषाया विरूक्षणाः ||३१|| कफशोणितपित्तघ्नाश्चणकाः पुंस्त्वनाशनाः | त एव घृतसंयुक्तास्त्रिदोषशमनाः परम् ||३२||
🔊 Audio coming soon
चणकगुणमाह- वातला इत्यादि||३१-३२||
Adhikarana 34 (33) · Śloka 33
हरेणवः सतीनाश्च विज्ञेया बद्धवर्चसः |३३|
🔊 Audio coming soon
हरेणुसतीनावाह- हरेणव इत्यादि|३३|
Adhikarana 35 (33) · Śloka 33
ऋते मुद्गमसूराभ्यामन्ये त्वाध्मानकारकाः ||३३||
🔊 Audio coming soon
ऋते मुद्गमसूरयोराध्मानकरत्वमाह- ऋत इत्यादि| ऋते विना| मुद्गमसूरयोः स्वजात्यपेक्षया आध्माननिषेधः, न पुनः सर्वथाऽऽध्माननिषेधः||३३||
Adhikarana 36 (34) · Śloka 34
माषो गुरुर्भिन्नपुरीषमूत्रः स्निग्धोष्णवृष्यो मधुरोऽनिलघ्नः | सन्तर्पणः स्तन्यकरो विशेषाद्बलप्रदः शुक्रकफावहश्च ||३४||
🔊 Audio coming soon
वैदलत्वेनाग्राह्यान् माषादीनाह- माष इत्यादि| भिन्नपुरीषमूत्रो द्रवपुरीषमूत्रः| सन्तर्पणस्तृप्तिकरः| बलप्रदः बलमुपचयशक्तिलक्षणम्| वृष्यत्वशुक्रलत्वे स्रुतिवृद्धिकरत्वेन| `पित्तकफावहश्च’ इति क्वचित्||३४||
Adhikarana 37 (35) · Śloka 35
कषायभावान्न पुरीषभेदी न मूत्रलो नैव कफस्य कर्ता | स्वादुर्विपाके मधुरोऽलसान्द्रः सन्तर्पणः स्तन्यरुचिप्रदश्च ||३५||
🔊 Audio coming soon
राजमाषानाह- कषायेत्यादि| अलसान्द्रो राजमाषः| कषायरसप्रभावात् कफहारित्वमवृष्यत्वं च ज्ञेयम्| स्वादुरिति रसे||३५||
Adhikarana 38 (36) · Śloka 36
माषैः समानं फलमात्मगुप्तमुक्तं च काकाण्डफलं तथैव |३६|
🔊 Audio coming soon
आत्मगुप्तकाकाण्डयोर्गुणमाह- माषैरित्यादि| आत्मगुप्ता कपिकच्छुः, तस्याः फलमात्मगुप्तम्| काकाण्डफलमश्वकः; कपिकच्छुसदृशशिम्बः काकाण्डः `शूकरशिम्बी’ इति लोके|३६|
Adhikarana 39 (36) · Śloka 36
आरण्यमाषा गुणतः प्रदिष्टा रूक्षाः कषाया अविदाहिनश्च ||३६||
🔊 Audio coming soon
आरण्यमाषगुणमाह- आरण्यमाषा इत्यादि| आरण्यमाषाणां रूक्षत्वाविदाहित्वे स्वजात्यपेक्षया||३६||
Adhikarana 40 (37) · Śloka 37
उष्णः कुलत्थो रसतः कषायः कटुर्विपाके कफमारुतघ्नः | शुक्राश्मरीगुल्मनिषूदनश्च साङ्ग्राहिकः पीनसकासहन्ता ||३७||
🔊 Audio coming soon
कुलत्थानाह- उष्ण इत्यादि| उष्णो वीर्येण| कफमारुतघ्न इति कफमारुतौ भिन्नौ मिलितौ च हन्तीत्यर्थः||३७||
Adhikarana 41 (38) · Śloka 38
आनाहमेदोगुदकीलहिक्काश्वासापहः शोणितपित्तकृच्च | कफस्य हन्ता नयनामयघ्नो विशेषतो वन्यकुलत्थ उक्तः ||३८||
🔊 Audio coming soon
वन्यकुलत्थमाह- आनाहेत्यादि| गुदकीला अर्शांसि||३८||
Adhikarana 42 (39) · Śloka 40
ईषत्कषायो मधुरः सतिक्तः साङ्ग्राहिकः पित्तकरस्तथोष्णः | तिलो विपाके मधुरो बलिष्ठः स्निग्धो व्रणे लेपन एव पथ्यः ||३९|| दन्त्योऽग्निमेधाजननोऽल्पमूत्रस्त्वच्योऽथ केश्योऽनिलहा गुरुश्च |४०|
🔊 Audio coming soon
तिलमाह- ईषदित्यादि| ईषत्कषायोऽनुरसत्वेन, मधुरो मुख्यरसत्वेन, ईषत्तिक्तोऽनुरसत्वेनैव| व्रणे लेपन एव पथ्य इति एतेन तिलानामालेपन एव व्रणे पथ्यत्वम्, अभ्यवहारे पुनरपथ्यत्वमेव; अन्ये पुनः ‘स्निग्धो व्रणे सर्वत एव पथ्यः’ इति पठन्ति, सर्वत इति पञ्चदशधा प्रसरप्रदुष्टेष्वित्यर्थः, अन्ये तु ‘द्विव्रणीयोक्तभ्यो दोषहन्तृभ्यो लेपेभ्यः सर्वेभ्यः पथ्यतम इत्यर्थः| दन्तेभ्यो हितो दन्त्यः| त्वचे हितस्त्वच्यः| केशेभ्यो हितः केश्यः||३९||-
Adhikarana 43 (40) · Śloka 40
तिलेषु सर्वेष्वसितः प्रधानो मध्यः सितो हीनतरास्तथाऽन्ये ||४०||
🔊 Audio coming soon
तिलानामुत्तममध्यमाधमत्वमाह- तिलेष्वित्यादि| असितः कृष्णः| सितः श्वेतः| अन्ये इति पीतहरितलोहिताः||४०||
Adhikarana 44 (41-42) · Śloka 42
यवः कषायो मधुरो हिमश्च कटुर्विपाके कफपित्तहारी | व्रणेषु पथ्यस्तिलवच्च नित्यं प्रबद्धमूत्रो बहुवातवर्चाः ||४१|| स्थैर्याग्निमेधास्वरवर्णकृच्च सपिच्छिलः स्थूलविलेखनश्च | मेदोमरुत्तृड्हरणोऽतिरूक्षः प्रसादनः शोणितपित्तयोश्च ||४२||
🔊 Audio coming soon
यवमाह- यव इत्यादि| हिमश्चेति चकारः कषायानन्तरं बोद्धव्यः; तेन मधुररसाच्चकारसमुच्चितं कषायत्वं हीनमिति ज्ञेयम्| व्रणेषु पथ्यस्तिलवदिति तिलो यथा व्रणे लेपे वातपित्तकफेषु च शस्यते, तथा यवोऽपि| नित्यमिति वचनेनाविदग्धविदग्धाभिन्नाशुद्धत्वाद्यवस्थास्वित्यर्थः; अन्ये तु नित्यग्रहणेन व्रणे यवमभ्यवहारेणापि हितमिच्छन्ति| प्रबद्धमूत्रः अल्पमूत्रः, अत एव प्रमेहिणां हितः| बहुवातवर्चा इति वातोऽत्र कुक्षिवातोऽभिप्रेतः, अन्यथा मेदोमरुत्तृड्हरण इति विरुध्यते| स्थैर्यं वयःस्थापनकारित्वम्| मेदोमरुत्तृड्हरण इति मेदोवातं तृष्णां च हन्तीत्यर्थः; यदि वा मेदसाऽऽवृतो मरुन्मेदोमरुत्तं सावरणं हन्ति, स्रोतःशोधकत्वात्; निरावरणे तु रूक्षशीतकषायकटुपाकैर्नातिवर्धको नातिप्रत्यनीकः| ‘यवोऽकषायः’ इति केचित्; तत्रेषत्कषाय इत्यर्थः||४१-४२||
Adhikarana 45 (43) · Śloka 43
एभिर्गुणैर्हीनतरैस्तु किञ्चिद्विद्याद्यवेभ्योऽतियवानशेषैः |४३|
🔊 Audio coming soon
अतियवगुणमाह- एभिरित्यादि| अतियवा निःशूकाः कृष्णारुणयवा एव| अशेषैर्गुणैरतियवान् विद्यादित्यर्थः| अन्ये तु पठन्ति- ‘यवेभ्योऽपि यवानशेषान्’ इति| तत्रातियवयविकादयोऽशेषशब्दवाच्याः| तत्र यविका निःशूकाः स्वल्पाः|४३|
Adhikarana 46 (43) · Śloka 44
गोधूम उक्तो मधुरो गुरुश्च बल्यः स्थिरः शुक्ररुचिप्रदश्च ||४३|| स्निग्धोऽतिशीतोऽनिलपित्तहन्ता सन्धानकृच्छ्लेष्मकरः सरश्च |४४|
🔊 Audio coming soon
गोधूमगुणमाह- गोधूम इत्यादि| स्थिरो वयःस्थापनकारी| स्निग्धोऽतिशीत इत्यतिशब्दः काकाक्षिगोलकवदुभयत्रापि सम्बध्यते| श्लेष्मकर इति नवगोधूमः, पुराणगोधूमस्तु वसन्तेऽप्युपयोगार्हत्वान्न श्लेष्मकरः||४३||-
Adhikarana 47 (44) · Śloka 45
रूक्षः कषायो विषशोषशुक्रबलासदृष्टिक्षयकृद्विदाही ||४४|| कटुर्विपाके मधुरस्तु शिम्बः प्रभिन्नविण्मारुतपित्तलश्च |४५|
🔊 Audio coming soon
सामान्यशिम्बिगुणमाह- रूक्ष इत्यादि| `विषशोथमेह’ इति केचित् पठन्ति||४४||-
Adhikarana 48 (45) · Śloka 46
सितासिताः पीतकरक्तवर्णा भवन्ति येऽनेकविधास्तु शिम्बाः ||४५|| यथादितस्ते गुणतः प्रधाना ज्ञेयाः कटूष्णा रसपाकयोश्च |४६|
🔊 Audio coming soon
वर्णविशेषेण शिम्बानां गुणमाह- सितेत्यादि| सिताः शुक्लाः, असिताः कृष्णाः| यथादितस्ते गुणतः प्रधाना इति असितात् कृष्णात् सितः प्रधानः, पीतादसितः प्रधानः, रक्तादपि पीतः| गुणै रसवीर्यविपाकलक्षणैः, प्रधानाः श्रेष्ठाः| अन्ये तु ‘यथोदितास्ते गुणतस्तथाऽऽर्द्राः’ इति पठन्ति| अत्रायमर्थः- ये शिम्बा येन प्रकारेण रसपाकयोरुदितास्ते तथैवार्द्रा ज्ञेयाः, न तु शुष्काः||४५||-
Adhikarana 49 (46) · Śloka 47
सहाद्वयं मूलकजाश्च शिम्बाः कुशिम्बिवल्लीप्रभवास्तु शिम्बाः ||४६|| ज्ञेया विपाके मधुरा रसे च बलप्रदाः पित्तनिबर्हणाश्च |४७|
🔊 Audio coming soon
सहाद्वयमिति सहाद्वयं मुद्गपर्णीमाषपर्ण्यौ| मूलकजाश्च शिम्बा इति मूलकशिम्बी| कुशिम्बीवल्ली शुकशिम्बी| अन्ये तु `मूलकपर्णिकाश्च’ इति पठन्ति; तत्र मूलकपर्णी शोभाञ्जनकः||४६||
Adhikarana 50 (47) · Śloka 48
विदाहवन्तश्च भृशं विरूक्षा विष्टभ्य जीर्यन्त्यनिलप्रदाश्च ||४७|| रुचिप्रदाश्चैव सुदुर्जराश्च सर्वे स्मृता वैदलिकास्तु शिम्बाः |४८|
🔊 Audio coming soon
इदानीं वैदलानां मुद्गादीनां सतीनान्तानामार्द्रशिम्बीगुणमाह- विदाहवन्तश्चेत्यादि| विष्टभ्य जीर्यन्ति गुडगुडाशब्दं कृत्वा पाकं गच्छन्तीत्यर्थः; अन्ये `सवाततोदशूलां मलस्याप्रवृत्तिं कृत्वा पाकं गच्छन्तीत्यर्थः’| वैदलिकास्तु शिम्बा मुद्गादीनामार्द्रफलिकाः| शुष्कनिर्गतत्वचां तु प्रागुक्त एव गुणः||४७||-
Adhikarana 51 (48-49) · Śloka 50
कटुर्विपाके कटुकः कफघ्नो विदाहिभावादहितः कुसुम्भः ||४८|| उष्णाऽतसी स्वादुरसाऽनिलघ्नी पित्तोल्बणा स्यात् कटुका विपाके | पाके रसे चापि कटुः प्रदिष्टः सिद्धार्थकः शोणितपित्तकोपी ||४९|| तीक्ष्णोष्णरूक्षः कफमारुतघ्नस्तथागुणश्चासितसर्षपोऽपि |५०|
🔊 Audio coming soon
शमीधान्यसामान्यादेव कुसुम्भातसीसर्षपगुणमाह- कटुर्विपाके इत्यादि|- रसे च पाके च कटुक इत्यर्थः| `मधुरोऽनिलघ्नः’ इत्यन्ये पठन्ति| सिद्धार्थकः श्वेतसर्षपः| रक्तसर्षपगुणमाह- तथेत्यादि| असितसर्षपो रक्तसर्षपः||४८-४९||-
Adhikarana 52 (50) · Śloka 50
अनार्तवं व्याधिहतमपर्यागतमेव च | अभूमिजं नवं चापि न धान्यं गुणवत् स्मृतम् ||५०||
🔊 Audio coming soon
त्याज्यमाह- अनार्तवमित्यादि| अनार्तवम् अन्यर्तुजातम्| व्याधिहतं कुङ्कुमादिना हतम्| अपर्यागतम् अपक्वम्| अभूमिजम् ऊषरोपलकादिसविषभूमिजं; ‘यस्य धान्यस्य या उचिता भूमिस्ततोऽन्यत्र भूमौ जातम्’ इत्यपरे| नवं चापीति चकारेण नवस्यानतिदोषकारिता सूच्यते| धान्यशब्देन शूकशमीधान्यानि गृह्यन्ते||५०||
Adhikarana 53 (51) · Śloka 51
नवं धान्यमभिष्यन्दि लघु संवत्सरोषितम् |५१|
🔊 Audio coming soon
नवादीनां गुणमाह- नवमित्यादि| नवमिति वर्षं यावत्| अभिष्यन्दि दोषधातुमलस्रोतसां क्लेदप्राप्तिजननम्| लघु संवत्सरोषितमिति लघु पुराणमिति वाच्येऽत्र ‘संवत्सरोषितम्’ इति यत् करोति तज्ज्ञापयति- प्रथमवर्षादूर्ध्वं द्वितीयं वर्षं यावत् पुराणं गुणवच्च भवति, तदूर्ध्वं तु नीरसत्वान्न गुणकरमिति| उक्तं च- “वर्षोषितं सर्वधान्यं परित्यजति गौरवम्| न तु त्यजति तद्वीर्यं क्रमशो विजहाति तत्” इति; ‘माषचणकादयस्तु नूतना एव स्वकार्यकरणसमर्थाः’ इत्येके|५१|
Adhikarana 54 (51) · Śloka 51
विदाहि गुरु विष्टम्भि विरूढं दृष्टिदूषणम् ||५१||
🔊 Audio coming soon
विरूढमाह- विदाहीत्यादि| विरूढम् अङ्कुरजननशक्तिरहितमित्यर्थः, अन्ये `विरूढमङ्कुरितम्’ इत्याहुः, ईषद्भृष्टं चणकमुद्गादिविरूढमाहुरपरे||५१||
Adhikarana 55 (52) · Śloka 52
शाल्यादेः सर्षपान्तस्य विविधस्यास्य भागशः | कालप्रमाणसंस्कारमात्राः सम्परिकीर्तिताः ||५२|| इति कुधान्यवर्गः |
🔊 Audio coming soon
उपसंहारमाह- शाल्यादेरित्यादि| भागशः कालप्रमाणं संवत्सरोषितमित्यनेनोक्तम्| संस्कारो यथा- गुरोरपि व्रीहेः संस्कारवशाल्लाजा लघवः, मात्रा पुनरग्निबलापेक्षिणी हीना मध्यमोत्तमा चेति| ``लघु पथ्यतमं प्रोक्तं गुर्वपथ्यतमं स्मृतम्| यद्यदागच्छति क्षिप्रं तत्तल्लघुतरं स्मृतम्’’- इति| कुधान्यवर्गः||५२||
Adhikarana 56 (53) · Śloka 53
अथ मांसवर्गः | अत ऊर्ध्वं मांसवर्गानुपदेक्ष्यामः; तद्यथा- जलेशया, आनूपा, ग्राम्याः, क्रव्यभुज, एकशफा, जाङ्गलाश्चेति षण्मांसवर्गा भवन्ति | एतेषां वर्गाणामुत्तरोत्तरा प्रधानतमाः | ते पुनर्द्विविधा जाङ्गला आनूपाश्चेति | तत्र जाङ्गलवर्गोऽष्टविधः | तद्यथा- जङ्घाला, विष्किराः, प्रतुदा, गुहाशयाः, प्रसहाः, पर्णमृगा, बिलेशया, ग्राम्याश्चेति | तेषां जङ्घालविष्किरौ प्रधानतमौ ||५३||
🔊 Audio coming soon
अन्नं भक्तरूपं चोक्तं, प्रधानव्यञ्जनं मांसमाह- तद्यथेत्यादि| जलेशयाः कोशस्थाः पादिनो मत्स्याश्च; आनूपाः कूलचराः प्लवाश्च; ग्राम्यशब्देनैकशफशब्देन च ग्राम्याः, शफः खुरः; क्रव्यभुक्शब्देन च गुहाशयाः प्रसहाश्च, क्रव्यं मांसं; जाङ्गलशब्देन जङ्घालविष्किरप्रतुदपर्णमृगबिलेशया इति त्रयोदश भेदाः षट्स्वेवान्तर्भूताः| सङ्ख्येयनिर्देशादेव षट्सङ्ख्यायां लब्धायां षड्ग्रहणं प्रतुदादिभेदा एतेष्वेवावरुध्यन्ते, तेन षड्वर्गा इति नियमार्थम्; `अन्येऽपि जङ्घालादिभेदा भविष्यन्तीति सूचनार्थम्’ इत्यपरे| अयं षोढा भेदः सङ्क्षेपेणोत्तरोत्तरप्राधान्यज्ञापनाय| वर्गाणामुत्तरोत्तरप्राधान्यमाह- एतेषामित्यादि| पुनर्द्वैविध्यमाह- ते पुनरित्यादि| द्वैविध्यकथनं जाङ्गलत्वेनानूपत्वेन च वक्ष्यमाणभेदानां गुणानुगमाय| जाङ्गलस्याष्टविधत्वमाह- तत्रेत्यादि| ते सर्वेऽत्रैव वक्ष्यन्ते| तेषां मध्ये कस्य प्राधान्यमित्याह- तेषामित्यादि| `जाङ्गलविष्किरौ’ इति क्वचित्||५३||
Adhikarana 57 (54) · Śloka 54
तावेणहरिणर्क्षकुरङ्गकरालकृतमालशरभश्वदंष्ट्रापृषतचारुष्करमृगमातृकाप्रभृतयो जङ्घाला मृगाः कषाया मधुरा लघवो वातपित्तहरास्तीक्ष्णा हृद्या बस्तिशोधनाश्च ||५४||
🔊 Audio coming soon
जङ्घालविष्किरावाह- तावेणेत्यादिना| ताविति यौ जङ्घालविष्किरौ कथ्येते इत्यर्थः| एणः कृष्णहरिणः, हरिणो गौरहरिणः, ऋक्षो नीलाण्डः `रोरु’ इति प्रसिद्धः, कुरङ्गश्चतुरगतिः `चतुरङ्ग’ इति लोके, करालोऽधोनिष्क्रान्तदन्तो हिमवदादिपर्वतेषु `कस्तूरीमृग’ इति लोके, कृतमाला बहवः सङ्घातचारिणो मृगा देशान्तरे लोकादवगन्तव्याः, शरभोऽष्टापद उष्ट्रप्रमाणो महाशृङ्गः पृष्ठगतचतुष्पादः काश्मीरे प्रसिद्धः, श्वदंष्ट्रश्चतुर्दष्ट्रोऽतिदुष्टः `कर्कटक’ इति कार्तिकपुरे, पृषतो बिन्दुचित्रितः `चित्तल’ इति लोके, चारुष्कश्चारुशरीरः, स्वल्पतनुर्मृगभेद एव, मृगमातृका अल्पा पृथूदरा चतुरङ्गस्त्री `मेदली’ इति लोके| प्रभृतिग्रहणात् कोट्टकारकरामादयः| जङ्घाला इति प्रशस्तजङ्घावन्तः| तेषां सामान्यगुणमाह- कषाया इत्यादि| तीक्ष्णा इति तीक्ष्णगुणकर्मकरत्वात्| बस्तिशोधना इति अश्मरीशर्करामूत्रकृच्छ्रमूत्राघातादिषु पथ्याः, मूत्रविरेककारिण इत्यर्थः||५४||
Adhikarana 58 (55) · Śloka 55
कषायमधुरो हृद्यः पित्तासृक्कफरोगहा | सङ्ग्राही रोचनो बल्यस्तेषामेणो ज्वरापहः ||५५||
🔊 Audio coming soon
तेषां मध्ये कृष्णहरिणगुणमाह- कषायेत्यादि| एणस्य षड्रसत्वेऽपि कषायमधुरोत्कटत्वात् कषायमधुर इत्युक्तम्||५५||
Adhikarana 59 (56) · Śloka 56
मधुरो मधुरः पाके दोषघ्नोऽनलदीपनः | शीतलो बद्धविण्मूत्र सुगन्धिर्हरिणो लघुः ||५६||
🔊 Audio coming soon
गौरहरिणगुणमाह- मधुर इत्यादि| बद्धविण्मूत्र इति एतेनातीसारिणां प्रमेहिणां च हित इत्युक्तम्; एणस्तु प्रमेहिणामहितः बस्तिशोधनत्वात्||५६||
Adhikarana 60 (57) · Śloka 57
एणः कृष्णस्तयोर्ज्ञेयो हरिणस्ताम्र उच्यते | यो न कृष्णो न ताम्रश्च कुरङ्गः सोऽभिधीयते ||५७||
🔊 Audio coming soon
सूत्रेणैणहरिणयोर्भेदमाह- एण इत्यादि||५७||
Adhikarana 61 (58) · Śloka 58
शीताऽसृक्पित्तशमनी विज्ञेया मृगमातृका | सन्निपातक्षयश्वासकासहिक्कारुचिप्रणुत् ||५८||
🔊 Audio coming soon
मृगमातृकामाह- शीतेत्यादि||५८||
Adhikarana 62 (59) · Śloka 60
लावतित्तिरिकपिञ्जलवर्तीरवर्तिकावर्तकनप्तृकावार्तीकचकोरकलविङ्कमयूरक्रकरोपचक्र- कुक्कुटसारङ्गशतपत्रकुतित्तिरिकुरुवाहकयवालकप्रभृतयस्त्र्याहला विष्किराः ||५९|| लघवः शीतमधुराः कषाया दोषनाशनाः |६०|
🔊 Audio coming soon
लावः प्रसिद्धः; तित्तिरिः कृष्णतित्तिरिश्चित्रपक्षः; कपिञ्जलो गौरतित्तिरिः; वर्तीरः कपिञ्जलानूकः कपिञ्जलादल्पो वर्तिकातः किञ्चिन्महान् वर्तिकासदृश एव, `घर्घरा’ इति लोके; वर्तिकावर्तिकौ तद्भेदौ; नप्तृका लोके घुडुरुकाभिधा हूङ्कारकारिण्यल्पा पाण्डुरोदरा; वार्तीका वर्तिचटकाः स्वल्पाः सङ्घातचारिणः `वगेडा’ इति लोके; चकोरो रक्ताक्षो विषसूचकः स्वनाम्ना ख्यातः; कलविङ्कः कालचटको भृङ्गराजाद्भिन्नः, अपरे भृङ्गराजमाहुः, अन्ये तु रक्तशिरसं कृष्णग्रीवं ग्रामचटकाकारं कलविङ्कमाहुः; मयूरः प्रसिद्धः; क्रकरो लावान्तको कपिञ्जलात् स्थूलः, `कयर’ इति लोके; उपचक्रः क्रकरभेदः कृशचञ्चुर्मदाविलः; कुक्कुटः प्रसिद्धः; सारङ्गश्चातकः, अन्ये कृष्णकर्बुरश्चातकाकारो विष्किरः; शतपत्रो दार्वाघाटः, `काष्ठकुट्टक’ इति लोके; कुतित्तिरिस्तित्तिरिभेदः पाण्डुः कपिलः; कुरुवाहकः कुरुकुरुकः; यवालको यवगुडुरुकः| प्रभृतिग्रहणेनैवञ्जातीयाः| विकीर्य भक्षयन्तीति विष्किराः; त्रिभिश्चरणयुगलचञ्चुभिराहलन्ति विलिखन्तीति त्र्याहलाः| एतेषां सामान्यगुणमाह- लघवः शीतमधुरा इत्यादि| अन्ये लावादिवर्तिकादिवर्गयोर्गुणाञ् श्लोकेन पठन्ति- “वर्गौ स्वादुरसावेतौ कषायानुरसौ लघू| वातपित्तहरौ नातिशीतलौ बस्तिशोधनौ” इति; अत्रापि स एवार्थः||५९||-
Adhikarana 63 (60) · Śloka 60
सङ्ग्राही दीपनश्चैव कषायमधुरो लघुः | लावः कटुविपाकश्च सन्निपाते तु पूजितः ||६०||
🔊 Audio coming soon
तेषां मध्ये लावकगुणमाह- सङ्ग्राहीत्यादि| सन्निपाते तु पूजित इति पूजितः प्रशस्त इत्यर्थः| सामान्यगुणकथने दोषशमन इति वचनादत्र सन्निपातवचनाच्च वातादीन् व्यस्तान् समस्तानपि हन्तीत्यर्थः; अथवा सन्निपातज्वरे निवृत्ते पुनरागमननिवृत्तये प्रयोज्य इत्यर्थः| अत्र केचित् पठन्ति- “गैरिकःपांशुलश्चैव पौण्ड्रको दर्भरस्तथा| लावश्चतुर्विधः प्रोक्तस्तित्तिरिर्द्विविधः स्मृतः”- इति; गैरिकपांशुलौ प्रासिद्धौ, पौण्ड्रकदर्भरौ देशान्तरे लोकादवगन्तव्यौ| तित्तिरिर्व्याख्यातः| अस्याग्रे केचिद् गैरिकपांशुलपौण्ड्रकदर्भरभेदेन गुणान् पृथग्भिन्नान् पठन्ति; एतच्च न बहुसम्मतं, तस्मान्न पठनीयम्||६०||
Adhikarana 64 (61-62) · Śloka 63
ईषद्गुरूष्णमधुरो वृष्यो मेधाग्निवर्धनः | तित्तिरिः सर्वदोषघ्नो ग्राही वर्णप्रसादनः ||६१|| रक्तपित्तहरः शीतो लघुश्चापि कपिञ्जलः | कफोत्थेषु च रोगेषु मन्दवाते च शस्यते ||६२|| हिक्काश्वासानिलहरो विशेषाद्गौरतित्तिरिः |६३|
🔊 Audio coming soon
कृष्णतित्तिरिगुणमाह- ईषदित्यादि| ईषद्गुरुत्वं लावकापेक्षया| सर्वग्रहणं रक्तदुष्टिघ्नत्वप्राप्तये| गौरतित्तिरिगुणमाह- रक्तेत्यादि||६१-६२||-
Adhikarana 65 (63) · Śloka 64
वातपित्तहरा वृष्या मेधाग्निबलवर्धनाः ||६३|| लघवः क्रकरा हृद्यास्तथा चैवोपचक्रकाः |६४|
🔊 Audio coming soon
क्रकरगुणमाह- वातपित्तेत्यादि| उपचक्रगुणमाह- तथेत्यादि| तथेति क्रकरसदृशगुणा इत्यर्थः||६३|| -
Adhikarana 66 (64) · Śloka 65
कषायः स्वादुलवणस्त्वच्यः केश्योऽरुचौ हितः ||६४|| मयूरः स्वरमेधाग्निदृक्श्रोत्रेन्द्रियदार्ढ्यकृत् |६५|
🔊 Audio coming soon
मयूरगुणमाह- कषाय इत्यादि| दृक्श्रोत्रेन्द्रियदार्ढ्यकृदिति चक्षुःश्रवणेन्द्रियदार्ढ्यकारीत्यर्थः||६४||-
Adhikarana 67 (65-66) · Śloka 66
स्निग्धोष्णोऽनिलहा वृष्यः स्वेदस्वरबलावहः ||६५|| बृंहणः कुक्कुटो वन्यस्तद्वद्ग्राम्यो गुरुस्तु सः | वातरोगक्षयवमीविषमज्वरनाशनः ||६६||
🔊 Audio coming soon
वनकुक्कुटमाह- स्निग्धेत्यादि| वन्यो वनजातः| ग्राम्यकुक्कुटमाह- तद्वदित्यादि| तद्वदिति वनकुक्कुटवदित्यर्थः| गुरुस्त्विति वन्योऽपि गुरुः, ग्राम्यस्तु गुरुतर इत्यर्थः||६५-६६||
Adhikarana 68 (67) · Śloka 67
कपोतपारावतभृङ्गराजपरभृतकोयष्टिककुलिङ्गगृहकुलिङ्गगोक्ष्वेडकडिण्डिमाणवकशतपत्रक- मातृनिन्दकभेदाशिशुकसारिकावल्गुलीगिरिशालट्वालट्टूषकसुगृहाखञ्जरीटहारीतदात्यूहप्रभृतयः , प्रतुदाः ||६७||
🔊 Audio coming soon
प्रतुदानाह- कपोतेत्यादि| कपोतो वनवासी `पाण्डुक’ इति लोके, स च नानाविधः; पारावतो गृहदेवकुलालयः; भृङ्गराजो भ्रमरको धूम्याटसदृशः `पक्षिराज’ इति लोके; परभृतः कोकिलः; कोयष्टिः कोयङ्गका दीर्घजङ्घा `कोयङ्ग’ इति लोके; कुलिङ्गो वन्यचटको ग्राम्यचटकाकारः; गृहकुलिङ्गः पुण्ड्रचटकः ‘ग्रामचटक’ इति लोके; गोक्ष्वेडो गोनर्दः; डिण्डिमाणवकः डिण्डिमोत्कटध्वनिः; शतपत्रो राजशूकः; भातृनिन्दकः प्रियात्मकः `पुत्ररञ्जक’ इति लोके; भेदाशी पुत्रशुकः, भेकाशीति केचित्, तत्रापि स एवार्थः; शुकसारिके प्रसिद्धे; वल्गुली `गदुलिका’ इति लोके; गिरिशा गिरिवर्तिका, `पर्वतवाही’ इत्येके; लट्वा फेञ्जातको रक्तपुच्छाधोभागः, अन्ये भरद्वाजभेदमाहुः, `लाट’ इति लोके; लट्टूषको द्वितीयफेञ्जातकः , अन्ये सञ्चानचञ्च्वाकृतिचञ्चुभागं दीर्घपुच्छादिलक्षणेन प्रतुदं विहङ्गमाहुः; सुगृहा पीतमस्तका `वया’ इति लोके; खञ्जरीटः सितासितवर्णो द्रुतललितगतिः `कवडिया’ इति लोके; हारीतो हरितपीतवर्णः `हरिताल’ इति लोके; दात्यूहः कालकण्टकः `रायुक’ इति लोके| प्रभृतिग्रहणाद् गोपापुत्रसारपदेन्द्रादयश्चरकोक्ताः| प्रतुदा इति प्रतुद्य भक्षयन्तीति हेतोः||६७||
Adhikarana 69 (68) · Śloka 68
कषायमधुरा रूक्षाः फलाहारा मरुत्कराः | पित्तश्लेष्महराः शीता बद्धमूत्राल्पवर्चसः ||६८||
🔊 Audio coming soon
एषां सामान्यगुणमाह- कषायेत्यादि| फलाहारा मरुत्करा इति फलाहारत्वेन वातकराः, फलाहारत्वं स्वभावकथनं वा; वातकरत्वं न कलायादिवत्, किन्तु मांसान्तरापेक्षया न वातं घ्नन्तीत्यर्थः||६८||
Adhikarana 70 (69) · Śloka 69
सर्वदोषकरस्तेषां भेदाशी मलदूषकः |६९|
🔊 Audio coming soon
तेषां मध्ये भेदाशिगुणमाह- सर्वदोषकर इत्यादि| मलदूषक इति वातादिदोषजननो मूत्रादिमलदूषकश्चेति, स्वभावेन दोषाणां मलानां च दूषयितेत्यर्थः| केचित् सर्वदोषकरस्थाने `सर्वदोषहर’ इति प्रमादपाठं दृष्ट्वा सर्वदोषहरस्य च मलदूषकत्वासम्भवेन मलदूषकस्थाने `गलदूषक’ इति पठन्ति; तच्च प्रमादजत्वान्नादेयम्|६९|
Adhikarana 71 (69) · Śloka 69
कषायस्वादुलवणो गुरुः काणकपोतकः ||६९||
🔊 Audio coming soon
काणकपोतगुणमाह- कषायेत्यादि| चकारोऽत्र लुप्तनिर्दिष्टो द्रष्टव्यः, तेन काणकपोतोऽपि त्रिदोषकोपनो मलदूषयितेति चकारेण पूर्वानुवृत्तं समुच्चीयते| काणकपोतो वनवासी पाण्डुकपोतः, अन्येऽरुणवर्णकमपि कपोतमाहुः||६९||
Adhikarana 72 (70) · Śloka 70
रक्तपित्तप्रशमनः कषायविशदोऽपि च | विपाके मधुरश्चापि गुरुः पारावतः स्मृतः ||७०||
🔊 Audio coming soon
पारावतगुणमाह- रक्तेत्यादि| विशदः पिच्छिलविपरीतः||७०||
Adhikarana 73 (71) · Śloka 71
कुलिङ्गो मधुरः स्निग्धः कफशुक्रविवर्धनः |७१|
🔊 Audio coming soon
वन्यकुलिङ्गगुणमाह- कुलिङ्ग इत्यादि|७१|
Adhikarana 74 (71) · Śloka 71
रक्तपित्तहरो वेश्मकुलिङ्गस्त्वतिशुक्रलः ||७१||
🔊 Audio coming soon
गृहकुलिङ्गगुणमाह- रक्तेत्यादि| वेश्म गृहम्||७१||
Adhikarana 75 (72) · Śloka 72
सिंहव्याघ्रवृकतरक्ष्वृक्षद्वीपिमार्जारशृगालमृगेर्वारुकप्रभृतयो गुहाशयाः ||७२||
🔊 Audio coming soon
गुहाशयानाह- सिंहेत्यादि| सिंहः पराक्रमी निद्रालुः; व्याघ्रो विकृतमुखो निद्रालुर्हिंस्रः; वृकः कुक्कुरसदृशः पशुः क्षुद्रः ; तरक्षुर्मृगशत्रुर्व्याघ्रविशेषः `जरख’ इति लोके; ऋक्षो भल्लूकोऽतिलोमशः `रिञ्छ’ इति लोके; द्वीपी व्याघ्रभेदश्चित्रव्याघ्रः `चित्रक’ इति लोके; मार्जारो बिडालः, अत्र च मार्जारो गुहाशयत्वादरण्यबिडालो बोद्धव्यः; शृगालः प्रसिद्धः; मृगेर्वारुर्मृगभक्षः शृगालाकृतिः `हरिणडु(द्र)व’ इति लोके| प्रभृतिग्रहणाद्वान्तादबभ्रुप्रभृतयः| गुहासु पर्वतविवरेषु शेरत इति गुहाशयाः||७२||
Adhikarana 76 (73) · Śloka 73
मधुरा गुरवः स्निग्धा बल्या मारुतनाशनाः | उष्णवीर्या हिता नित्यं नेत्रगुह्यविकारिणाम् ||७३||
🔊 Audio coming soon
तेषां सामान्यगुणमाह- मधुरा इत्यादि||७३||
Adhikarana 77 (74) · Śloka 74
काककङ्ककुररचाषभासशशघात्युलूकचिल्लिश्येनगृध्रप्रभृतयः प्रसहाः ||७४||
🔊 Audio coming soon
प्रसहानाह- काकेत्यादि| काकः प्रसिद्धः; कङ्को दीर्घचञ्चुर्महाप्रमाणः, उक्तं च- “कङ्कः स्यात् कङ्कमल्लाख्यो बाणपत्रार्हपक्षकः| लोहपृष्ठो दीर्घपादः पक्षाधः पाण्डुवर्णभाक्’’- इति; कुररश्चिल्ल्याकारो नादोत्थापितमत्स्यो हस्तमत्स्यग्राही `कुरल’ इति लोके प्रसिद्धः; चाष इन्द्रनीलमणिसदृशपक्षः शस्तदर्शनः `करटाशन’ इति लोके प्रसिद्धः; भासो गोकुलचारी गृध्रविशेषः श्वेतशिखावान्; शशघाती चिल्ल्याकारो महाचरणनखः प्रहारेण शशकाहरणशीलः `शशाग्नि’ इति लोके प्रसिद्धः, अन्ये `पाजी’ इत्याहुः; उलूकः कौशिकः; चिल्लिः चिल्हः; श्येनः सिञ्चानो गरुडान्वयः; गृध्रो मांसाशी योजनदृष्टिः; प्रभृतिग्रहणेन धूमपिकाकरपत्रिकादयो गृह्यन्ते| प्रसह्य भक्षयन्तीति प्रसहाः||७४||
Adhikarana 78 (75) · Śloka 75
एते सिंहादिभिः सर्वे समाना वायसादयः | रसवीर्यविपाकेषु विशेषाच्छोषिणे हिताः ||७५||
🔊 Audio coming soon
तेषां सामान्यं गुणमाह- एते इत्यादि| एते वायसादयः सिंहादिभिः समानास्तुल्या इति सम्बन्धः| वायसः काकः| ते केषु समाना इत्याह- रसवीर्यविपाकेषु| विशेषादतिशयेन| शोषिणे राजयक्ष्मिणे||७५||
Adhikarana 79 (76) · Śloka 76
मद्गुमूषिकवृक्षशायिकावकुशपूतिघासवानरप्रभृतयः पर्णमृगाः ||७६||
🔊 Audio coming soon
पर्णमृगानाह- मद्ग्वित्यादि| मद्गुमूषिको मालुयासर्पः; अन्ये तु मद्गुमूषिकौ भिन्नावाचक्षेते; तत्र मद्गुः पूर्वार्थ एव, मूषिको वृक्षमूषिकः वृक्षशायिका वृक्षमर्कटिका `गिली’ इति लोके; अवकुशो गोलाङ्गुलो वानरविशेषः; पूतिघासो वृक्षबिडालः सुगन्धिवृषणः `कर्पूरक’ इति लोके; वानरो मर्कटः| प्रभृतिग्रहणादेवञ्जातीया अन्येऽपि| प्रायेण वृक्षस्थायित्वात् पर्णमृगाः||७६||
Adhikarana 80 (77) · Śloka 77
मधुरा गुरवो वृष्याश्चक्षुष्याः शोषिणे हिताः | सृष्टमूत्रपुरीषाश्च कासार्शःश्वासनाशनाः ||७७||
🔊 Audio coming soon
एतेषां सामान्यगुणमाह- मधुरा इत्यादि||७७||
Adhikarana 81 (78) · Śloka 78
श्वाविच्छल्यकगोधाशशवृषदंशलोपाकलोमशकर्णकदलीमृगप्रियकाजगरसर्पमूषिकनकुलमहाबभ्रुप्रभृतयो बिलेशयाः ||७८||
🔊 Audio coming soon
बिलेशयानाह- श्वाविदित्यादि| श्वावित् सूचिसदृशरोमयुक्ता `सिहै' इति लोके; शल्यको वज्रशकलो बृहद्गोधानुकारी `साला' इति लोके; गोधाशशौ प्रसिद्धौ; वृषदंशो ग्राममार्जारः, अन्ये वनमार्जारमाहुः; लोपाकः शृगालभेदः, `लाङ्गलक' इति लोके; लोमशकर्णो नलत्करः; कदली महाबिडालसमो व्याघ्राकारः `कदलीहण्ड' इति पौण्ड्रे प्रसिद्धः, अन्ये सर्पविशेषमाहुः, अपरे `कदलीमृग' इति समस्तं पठन्ति, तत्रापि स एवार्थः; मृगप्रियको गोनसः; अजगरो महासर्पः, सर्पः पुनरल्पो राजिलमण्डलिदर्वीकरभेदात्त्रिविधः; मूषिको भूमिमूषिकः; नकुलो भुजङ्गशत्रुः; तद्भेदो महाबभ्रुः; प्रभृतिग्रहणाद्गण्डकजाहकप्रभृतयोऽपि द्रष्टव्याः| बिलशायित्वाद्बिलेशयाः||७८||
Adhikarana 82 (79) · Śloka 79
वर्चोमूत्रं संहतं कुर्युरेते वीर्ये चोष्णाः पूर्ववत् स्वादुपाकाः | वातं हन्युः श्लेष्मपित्ते च कुर्युः स्निग्धाः कासश्वासकार्श्यापहाश्च ||७९||
🔊 Audio coming soon
एतेषां सामान्यगुणमाह- वर्च इत्यादि| संहतं सान्द्रम्| अन्ये तु `साङ्ग्राहिका बद्धमूत्रास्तथैते' इति पठन्ति||७९||
Adhikarana 83 (80) · Śloka 80
कषायमधुरस्तेषां शशः पित्तकफापहः | नातिशीतलवीर्यत्वाद्वातसाधारणो मतः ||८०||
🔊 Audio coming soon
तेषामेव केषाञ्चिद्गुणविशेषमाह- कषायेत्यादि| वाते साधारणो मध्यस्थः, साधारणदेशवत्; न चायं वातं कोपयति न च वातशमं करोति; माधुर्याद्वातशमहेतुः, कषायात् सशैत्याच्चाहेतुरिति साधारणत्वम्||८०||
Adhikarana 84 (81-84) · Śloka 84
गोधा विपाके मधुरा कषायकटुका स्मृता | वातपित्तप्रशमनी बृंहणी बलवर्धनी ||८१|| शल्यकः स्वादुपित्तघ्नो लघुः शीतो विषापहः | प्रियको मारुते पथ्योऽजगरस्त्वर्शसां हितः ||८२|| दुर्नामानिलदोषघ्नाः कृमिदूषीविषापहाः | चक्षुष्या मधुराः पाके सर्पा मेधाग्निवर्धनाः ||८३|| दर्वीकरा दीपकाश्च तेषूक्ताः कटुपाकिनः | मधुराश्चातिचक्षुष्याः सृष्टविण्मूत्रमारुताः ||८४||
🔊 Audio coming soon
गोधेत्यादि| दूषीविषापहा इति विषमेव दावाग्निवातातपाद्यभिभवेन मन्दतां गतं विषपीतस्य वा विषं दूषीविषम्| सर्पाः सामान्यसर्पाः| दर्वीकराः फणाकरा इत्यर्थः| दीपका राजिमन्तः||८१-८४||
Adhikarana 85 (85) · Śloka 85
अश्वाश्वतरगोखरोष्ट्रबस्तोरभ्रमेदःपुच्छकप्रभृतयो ग्राम्याः ||८५||
🔊 Audio coming soon
ग्राम्यानाह- अश्वाश्वतरेत्यादि| अश्वो घोटकः; अश्वायां गर्दभेन जनितोऽश्वतरः `वेसर’ इति लोके; गौः प्रसिद्धा; खरो गर्दभः; उष्ट्रः करभः; बस्तश्छगलः, उरभ्रो मेषः; मेदःपुच्छको दुम्बकः, अन्ये एडकमाहुः, प्रभृतिग्रहणाद्वेक्कप्रभृतयः| प्रायो ग्रामवासित्वाद्ग्राम्याः||८५||
Adhikarana 86 (86) · Śloka 86
ग्राम्या वातहराः सर्वे बृंहणाः कफपित्तलाः | मधुरा रसपाकाभ्यां दीपना बलवर्धनाः ||८६||
🔊 Audio coming soon
तेषां सामान्यं गुणमाह- ग्राम्या इत्यादि||८६||
Adhikarana 87 (87) · Śloka 87
नातिशीतो गुरुः स्निग्धो मन्दपित्तकफः स्मृतः | छगलस्त्वनभिष्यन्दी तेषां पीनसनाशनः ||८७||
🔊 Audio coming soon
अथ छगलगुणमाह- नातिशीत इत्यादि| अल्पस्नेहगौरवाभ्यामल्पकफः, उष्णानुबन्धादल्पशैत्यादल्पपित्तः, कटुतिक्तव्यायामाल्पाम्बुसेवनादनभिष्यन्दी अल्पाभिष्यन्दी दोषधातुमलस्रोतसामल्पक्लेदप्राप्तिजनन इत्यर्थः||८७||
Adhikarana 88 (88) · Śloka 88
बृंहणं मांसमौरभ्रं पित्तश्लेष्मावहं गुरु |८८|
🔊 Audio coming soon
मेषगुणमाह- बृंहणमित्यादि| औरभ्रं मांसं यद्यपि पित्तश्लेष्मकरमत्रोक्तं, तथाऽपि सातिशयं पित्तं श्लेष्माणं च न करोतीति व्याप्यचन्द्राचार्यमतम्|८८|
Adhikarana 89 (88) · Śloka 88
मेदःपुच्छोद्भवं वृष्यमौरभ्रसदृशं गुणैः ||८८||
🔊 Audio coming soon
मेदःपुच्छगुणमाह- मेद इत्यादि||८८||
Adhikarana 90 (89) · Śloka 89
श्वासकासप्रतिश्यायविषमज्वरनाशनम् | श्रमात्यग्निहितं गव्यं पवित्रमनिलापहम् ||८९||
🔊 Audio coming soon
गव्यगुणमाह- श्वासकासेत्यादि||८९||
Adhikarana 91 (90) · Śloka 90
औरभ्रवत्सलवणं मांसमेकशफोद्भवम् |९०|
🔊 Audio coming soon
सलवणमीषल्लवणम्| शफः खुरः|९०|
Adhikarana 92 (90) · Śloka 90
अल्पाभिष्यन्द्ययं वर्गो जाङ्गलः समुदाहृतः ||९०||
🔊 Audio coming soon
अल्पेत्यादि||९०||
Adhikarana 93 (91-92) · Śloka 92
दूरे जनान्तनिलया दूरे पानीयगोचराः | ये मृगाश्च विहङ्गाश्च तेऽल्पाभिष्यन्दिनो मताः ||९१|| अतीवासन्ननिलयाः समीपोदकगोचराः | ये मृगाश्च विहङ्गाश्च महाभिष्यन्दिनस्तु ते ||९२||
🔊 Audio coming soon
सर्वेषामेव जाङ्गलानामल्पाभिष्यन्दित्वं माभूदित्याह- दूर इत्यादि| जनशब्दोऽत्र ग्रामवाची, तेन दूरे ग्रामाद्गृहा इत्यर्थः; अन्ये ‘दूरे जनात्तनिलयाः’ इति पठित्वा व्याख्यानयन्ति- दूरे जनानामात्तो गृहीतो निलयो यैर्मृगैर्विहङ्गैश्च ते तथा| दूरे पानीयगोचरा इति दूरे पानीयविषयाः पानीयाद्दूरनिवासिन इत्यर्थः| ये मृगाश्चेति चकारात् सर्पादयः| अतीवासन्ननिलया इति अतिशयेन ग्रामासन्नगृहा इत्यर्थः| समीपोदकगोचरा इति पानीयसमीपभूमिचारिण इत्यर्थः| अत्रापि चकाराद्धन्वानूपचारिणामजावितित्तिरीणां जाङ्गलपठितानामपि मिश्रगोचरत्वान्नात्यभिष्यन्दित्वम्||९१-९२||
Adhikarana 94 (93) · Śloka 93
आनूपवर्गस्तु पञ्चविधः | तद्यथा- कूलचराः, प्लवाः, कोषस्थाः, पादिनो, मत्स्याश्चेति ||९३||
🔊 Audio coming soon
आनूपवर्गप्रकारानाह- आनूपवर्गस्त्वित्यादि| अनुगता आपोऽस्मिन्निति सजलस्थलात्मको देशः, तद्भवा आनूपाः| कूलं नद्यादितटं, तत्र चरन्ति भक्षयन्ति भ्रमन्ति च ये ते कूलचराः| प्लवन्ते पानीये तरन्ति ये ते प्लवाः| कोशः शङ्खादीनां सम्पुटः, तत्र तिष्ठन्तीति कोशस्थाः| पादिनः पादवन्तः| मत्स्याः प्रसिद्धाः||९३||
Adhikarana 95 (94) · Śloka 94
तत्र गजगवयमहिषरुरुचमरसृमररोहितवराहखड्गिगोकर्णकालपुच्छकोद्रन्यङ्क्वरण्यगवयप्रभृतयः कूलचराः पशवः ||९४||
🔊 Audio coming soon
तत्र कूलचरानाह- तत्रेत्यादि| गजो हस्ती; गवयो गोसदृशः; महिषः प्रसिद्धः; रुरुः शरदि शृङ्गत्यागी, तल्लक्षणं उच्यते- “विकटबहुविषाणः शम्बराकारदेहः सलिलतटचरत्वाच्छम्बरेभ्यो विचित्रः| त्यजति शरदि शृङ्गं रौत्यतोऽसौ रुरुः स्यात् पृथुलमृगविशेषः प्रायशश्चेदिदेशे’’ इति; चमरः केशमृत्युर्गोसदृशः; सृमरो महाशूकरः, अन्ये तु महाश्वाकारश्चमरान्तकः; रोहितो लोहितवर्णो मृगजातिः, अन्ये तु `रोहिष’ इति पठन्ति व्याख्यानयन्ति च- कच्छशूकर इत्यर्थः, अपरे फलशूकरमाहुः; वराहः शूकरः; खड्गी गण्डकः; गोकर्णो गोसदृशकर्णः `गोन’ इति प्रसिद्धः; कालपुच्छको ललत्कृष्णपुच्छकः; ओद्रः पानीयबिडालः, `ओदन’ इति लोके; न्यङ्कुः `न्यङ्गुण’ इति लोके; अरण्यगवयो वन्यगवयः||९४||
Adhikarana 96 (95) · Śloka 95
वातपित्तहरा वृष्या मधुरा रसपाकयोः | शीतला बलिनः स्निग्धा मूत्रलाः कफवर्धनः ||९५||
🔊 Audio coming soon
तेषां सामान्यगुणमाह- वातेत्यादि| शीतला इति अत्र चकारो लुप्तनिर्दिष्टो द्रष्टव्यः, तेनौष्ण्यमपि केषाञ्चिद्द्रष्टव्यम्||९५||
Adhikarana 97 (96-97) · Śloka 97
विरूक्षणो लेखनश्च वीर्योष्णः पित्तदूषणः | स्वाद्वम्ललवणस्तेषां गजः श्लेष्मानिलापहः ||९६|| गवयस्य तु मांसं हि स्निग्धं मधुरकासजित् | विपाके मधुरं चापि व्यवायस्य तु वर्धनम् ||९७||
🔊 Audio coming soon
तेषां केषाञ्चिदेव गुणविशेषमाह- विरूक्षण इत्यादि| समुदितौ कफवातौ हन्ति, केवलं तु कफं करोत्येव; गजादिषु विरूक्षणकफघ्नत्वादि स्वजात्यपेक्षं परिणतिविशेषात्||९६-९७||
Adhikarana 98 (98) · Śloka 98
स्निग्धोष्णमधुरो वृष्यो महिषस्तर्पणो गुरुः | निद्रापुंस्त्वबलस्तन्यवर्धनो मांसदार्ढ्यकृत् ||९८||
🔊 Audio coming soon
स्निग्धोष्णेत्यादि| वृष्यः पुंस्त्ववर्धन इति च द्वयं स्रुतिवृद्धिप्राप्तये||९८||
Adhikarana 99 (99-104) · Śloka 104
रुरोर्मांसं समधुरं कषायानुरसं स्मृतम् | वातपित्तोपशमनं गुरु शुक्रविवर्धनम् ||९९|| तथा चमरमांसं तु स्निग्धं मधुरकासजित् | विपाके मधुरं चापि वातपित्तप्रणाशनम् ||१००|| सृमरस्य तु मांसं च कषायानुरसं स्मृतम् | वातपित्तोपशमनं गुरु शुक्रविवर्धनम् ||१०१|| स्वेदनं बृंहणं वृष्यं शीतलं तर्पणं गुरु | श्रमानिलहरं स्निग्धं वाराहं बलवर्धनम् ||१०२|| कफघ्नं खड्गिपिशितं कषायमनिलापहम् | पित्र्यं पवित्रमायुष्यं बद्धमूत्रं विरूक्षणम् ||१०३|| गोकर्णमांसं मधुरं स्निग्धं मृदु कफावहम् | विपाके मधुरं चापि रक्तपित्तविनाशनम् ||१०४||
🔊 Audio coming soon
रुरोर्मांसमित्यादि| स्वेदनं स्वेदजनकम्| बृंहणमिति बृंहणं देहवृद्धिकरम्| वृष्यं शुक्रलम्| तर्पणं तृप्तिजनकम्| पित्र्यमिति पितृभ्यो हितम्||९९-१०४||
Adhikarana 100 (105) · Śloka 105
हंससारसक्रौञ्चचक्रवाककुररकादम्बकारण्डवजीवञ्जीवकबकबलाकापुण्डरीकप्लवशरारीमुख- नन्दीमुखमद्गूत्क्रोशकाचाक्षमल्लिकाक्षशुक्लाक्षपुष्करशायिकाकोनालकाम्बुकुक्कुटिकामेघरावश्वेतवारलप्रभृतयः प्लवाः सङ्घातचारिणः ||१०५||
🔊 Audio coming soon
प्लवानाह- हंसेत्यादि| हंसः कलस्वरो ललितगतिः प्रसिद्धः; सारसो लक्ष्मणो रक्तशिराः प्रसिद्ध एव; क्रौञ्चः क्रौचिरः; चक्रवाको द्वन्द्वचरो निशावियोगी; कुररः अस्य प्रसहेष्वपि पाठः, तेनोभयेषामपि गुणा बोद्धव्याः, अन्ये तु कङ्कमल्लसदृशजलचरं कुररमाहुः; कादम्बः कलहंसोऽतिधूसरपक्षः, अन्ये तु रक्तचञ्चुशिरःकृष्णपान्दादीनां लक्षणेन कृत्वा `कयम्ब’ इति पठन्ति; कारण्डवः शुक्लहंसभेदोऽल्पः, अन्ये करह(ई)वमाहुः, उक्तं च- `कारण्डवः काकवक्त्रो दीर्घाङ्घ्रिः कृष्णवर्णभाक्’’- इति; जीवञ्जीवको विषदर्शनमृत्युः; बकः पाण्डुरपक्षः प्रसिद्धः; बलाका बकभेदः ‘बगुली’ इति लोके; पुण्डरीको नलिननयनः, प्लवो महाप्रमाणः प्रसेवकगलः `सगड’ इति लोके; शरारीमुखः खदिरवर्णो `गिर्गराटी’ इति लोके; नन्दीमुखः पत्राटी आटीभेदः; मद्गुर्जलकाकः; उत्कोशः कुररभेदो मत्स्याशी; काचाक्षः कपर्दियाकः `बहुडी’ इति लोके; मल्लिकाक्षः शुक्लशबलः; शुक्लाक्षस्तद्भेदः, अन्ये तु मलिनचञ्चुचरणो हंसभेद एवेत्याहुः; पुष्करशायिका पद्मपत्रशायिका; कोनालकः श्यामपृष्ठश्वेतोदरः `पानीयवर्तिका’ इति लोके; अम्बुकुक्कुटिका जलकुक्कुटी कृष्णवर्णा, `बुडियाक’ इति लोके; मेघरावश्चातकः, अन्ये तु चातकं विष्किरेष्वामनन्ति; श्वेतवारलः शुक्लपक्षः प्रसेवकगलः `ज्येष्ठबलाका’ इति लोके| प्रभृतिग्रहणादारामण्डितुण्डिकामृणालकण्ठादयः||१०५||
Adhikarana 101 (106) · Śloka 106
रक्तपित्तहराः शीताः स्निग्धा वृष्या मरुज्जितः | सृष्टमूत्रपुरीषाश्च मधुरा रसपाकयोः ||१०६||
🔊 Audio coming soon
तेषां सामान्यगुणमाह- रक्तेत्यादि||१०६||
Adhikarana 102 (107) · Śloka 107
गुरूष्णमधुरः स्निग्धः स्वरवर्णबलप्रदः | बृंहणः शुक्रलस्तेषां हंसो वातविकारनुत् ||१०७||
🔊 Audio coming soon
केषाञ्चिद्विशेषगुणमाह- गुरूष्णेत्यादि| अन्ये पुनरत्र सारसक्रौञ्चकुररकारण्डवकादम्बकजीवञ्जीवकानामपि विशिष्ठं गुणं पठन्ति, तन्नातिप्रसिद्धमिति न लिखितम्||१०७||
Adhikarana 103 (108) · Śloka 108
शङ्खशङ्खनकशुक्तिशम्बूकभल्लूकप्रभृतयः कोशस्थाः ||१०८||
🔊 Audio coming soon
कोशस्थानाह- शङ्खेत्यादि| शङ्गः प्रसिद्धः; शङ्खनकः क्षुद्रशङ्खः शङ्खभेद एव; शुक्तिः समुद्रजा शिम्पिः; शम्बूक आवर्तकोशः, `साङ्खुला’ इति लोके; भल्लूकः कपर्दकः, अन्ये शम्बूकभेदमाहुः| प्रभृतिग्रहणात् वोडिकजलशुक्तिशम्बूकभेदा बहुविधा गृह्यन्ते||१०८||
Adhikarana 104 (109) · Śloka 109
कूर्मकुम्भीरकर्कटककृष्णकर्कटकशिशुमारप्रभृतयः पादिनः ||१०९||
🔊 Audio coming soon
पादिन आह- कूर्मेत्यादि| कूर्मः कच्छपः, स तु नानाविधो वर्तुलदीर्घमहदादिभेदेन; कुम्भीरोऽपि नानाभेदो घडियालगोधादिभेदेन; कर्कटोऽपि द्विविधः कृष्णशुक्लभेदेन; शिशुमारो दृत्याकारोऽन्तर्वक्रो बहिर्निःश्वासमुक्, सोऽपि द्विविधो वर्तुलदीर्घभेदेन, दीर्घं `फाणित’ इति लोकाः प्राहुः, स एवात्र गृह्यते पादित्वात्| प्रभृतिग्रहणाद्ग्राहादयः||१०९||
Adhikarana 105 (110) · Śloka 110
शङ्खकूर्मादयः स्वादुरसपाका मरुन्नुदः | शीताः स्निग्धा हिताः पित्ते वर्चस्याः श्लेष्मवर्धनाः ||११०||
🔊 Audio coming soon
तेषां कोशस्थानां पादिनां चैकगुणत्वादुभयोर्वर्गयोर्गुणमेकीकृत्याह- शङ्खकूर्मादय इत्यादि||११०||
Adhikarana 106 (111) · Śloka 111
कृष्णकर्कटकस्तेषां बल्यः कोष्णोऽनिलापहः | शुक्लः सन्धानकृत् सृष्टविण्मूत्रोऽनिलपित्तहा ||१११||
🔊 Audio coming soon
तेषां मध्ये कस्यचिद्गुणमाह- कृष्णेत्यादि||१११||
Adhikarana 107 (112) · Śloka 112
मत्स्यास्तु द्विविधा नादेयाः सामुद्राश्च ||११२||
🔊 Audio coming soon
मत्स्यानाह- मत्स्यास्त्वित्यादि||११२||
Adhikarana 108 (113) · Śloka 113
तत्र नादेयाः- रोहितपाठीनपाटलाराजीववर्मिगोमत्स्यकृष्णमत्स्यवागुञ्जारमुरलसहस्रदंष्ट्रप्रभृतयः ||११३||
🔊 Audio coming soon
तत्र नादेयानाह- तत्रेत्यादि| रोहितो घनशकलः प्रसिद्धः; पाठिनः पुनरशकल एव दीर्घो निर्मलः सोऽपि `वोयाल ’ इति लोके प्रसिद्ध एव; वर्मिः सर्पाकारो मत्स्यः; गोमत्स्यः स्वनामप्रसिद्धः, ``कृष्णमत्स्यस्तु शकली बहुकण्टकसंयुतः| कषायवर्णो रक्ताक्षः, कथितो मत्स्यवेदिभिः’’- इति; वागुञ्जारः `वाहस’ इति लोके; सहस्रदंष्ट्रो महापाठिनः; शेषास्तु कैवर्तेभ्यो ज्ञेयाः; प्रभृतिग्रहणाच्छफरादयः||११३||
Adhikarana 109 (114) · Śloka 114
नादेया मधुरा मत्स्या गुरवो मारुतापहाः | रक्तपित्तकराश्चोष्णा वृष्याः स्निग्धाल्पवर्चसः ||११४||
🔊 Audio coming soon
तेषां सामान्यगुणमाह- नादेया इत्यादि||११४||
Adhikarana 110 (115) · Śloka 115
कषायानुरसस्तेषां शष्पशैवालभोजनः | रोहितो मारुतहरो नात्यर्थं पित्तकोपनः ||११५||
🔊 Audio coming soon
नादेयानामेव केषाञ्चिद्गुणविशेषमाह- कषायेत्यादि| शष्पं बालतृणं, शैवालं शैवलम्||११५||
Adhikarana 111 (116) · Śloka 116
पाठीनः श्लेष्मलो वृष्यो निद्रालुः पिशिताशनः | दूषयेद्रक्तपित्तं तु कुष्ठरोगं करोत्यसौ | मुरलो बृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा ||११६||
🔊 Audio coming soon
पाठीनमाह- पाठीन इत्यादि| पिशिताशनो मांसभक्षकः||११६||
Adhikarana 112 (117) · Śloka 117
सरस्तडागसम्भूताः स्निग्धाः स्वादुरसाः स्मृताः | महाह्रदेषु बलिनः, स्वल्पेऽम्भस्यबलाः स्मृताः ||११७||
🔊 Audio coming soon
सरस्तडागादिजान् मत्स्यानाह- सर इत्यादि| ह्रदः `द्रहः’ इति लोके||११७||
Adhikarana 113 (118) · Śloka 118
तिमितिमिङ्गिलकुलिशपाकमत्स्यनिरुलनन्दिवार(रु)लकमकरगर्गरचन्द्रकमहामीनराजीवप्रभृतयः सामुद्राः ||११८||
🔊 Audio coming soon
सामुद्रानाह- तिमीत्यादि| तिमिर्महत्तमो मत्स्यः; तिमिङ्गिलस्ततोऽपि महत्तमः; कुलिशः `कुडिश’ इति लोके; नन्दिवारलकः ‘समुद्रशिम्बाक’ इति लोके; मकरो हिंस्रदंष्ट्रकः ; गर्गरः स्वनाम्ना प्रसिद्धः; चन्द्रकः पार्श्वेषु कण्टकवलयितो वर्तुलो मत्स्यः; राजीवो वज्राभो बह्वायतः स्वनामप्रसिद्धः; शेषास्तु समुद्रतीरवासिभ्यो ज्ञेयाः| प्रभृतिग्रहणादन्येऽपि तेभ्य एव ज्ञेयाः||११८||
Adhikarana 114 (119) · Śloka 120
सामुद्रा गुरवः स्निग्धा मधुरा नातिपित्तलाः | उष्णा वातहरा वृष्या वर्चस्याः श्लेष्मवर्धनाः ||११९|| बलावहा विशेषेण मांसाशित्वात् समुद्रजाः |१२०|
🔊 Audio coming soon
सामुद्रमत्स्यानां सामान्यगुणमाह- सामुद्रा इत्यादि||११९||
Adhikarana 115 (120-121) · Śloka 121
समुद्रजेभ्यो नादेया बृंहणत्वाद्गुणोत्तराः ||१२०|| तेषामप्यनिलघ्नत्वाच्चौण्ट्यकौप्यौ गुणोत्तरौ | स्निग्धत्वात् स्वादुपाकत्वात्तयोर्वाप्या गुणाधिकाः ||१२१||
🔊 Audio coming soon
सामुद्रादीनां सारतरत्वमाह- समुद्रजेभ्य इत्यादि| गुणोत्तराः गुणोत्कृष्टाः| तेषां नादेयमत्स्यानाम्||१२०-१२१||
Adhikarana 116 (122-125) · Śloka 125
नादेया गुरवो मध्ये यस्मात् पुच्छास्यचारिणः | सरस्तडागजानां तु विशेषेण शिरो लघु ||१२२|| अदूरगोचरा यस्मात्तस्मादुत्सोदपानजाः | किञ्चिन्मुक्त्वा शिरोदेशमत्यर्थं गुरवस्तु ते ||१२३|| अधस्ताद्गुरवो ज्ञेया मत्स्याः सागरसम्भवाः | उरोविचरणात्तेषां पूर्वमङ्गं लघु स्मृतम् ||१२४|| इत्यानूपो महाष्यन्दी मांसवर्ग उदीरितः ||१२५||
🔊 Audio coming soon
नादेयादिमत्स्यावयवानां गुरुलाघवमाह- नादेया गुरवो मध्ये इत्यादि| आस्यं मुखम्| अदूरगोचरा अदूरविषया अल्पव्यायामा इत्यर्थः| उत्सोदपानजा गिरिप्रस्रवणजाः| महाभिष्यन्दीति दोषधातुमलस्रोतसामतिशयक्लेदकारीत्यर्थः; अन्ये त्वन्यथा कृत्वा पठन्ति, तदुच्यते- ``हृदयस्थान्ननिर्यासवाहिस्रोतोमुखानि यत्| भुक्तं लिम्पति पैच्छिल्यादभिष्यन्दि तदुच्यते|| वैशद्यात् कफहन्तृत्वात्तान्येव विवृणोति यत्| तदुक्तमनभिष्यन्दि द्रव्यं द्रव्यविशारदैः’’- इति||१२२-१२५||
Adhikarana 117 (126) · Śloka 126
तत्र शुष्कपूतिव्याधिविषसर्पहतदिग्धविद्धजीर्णकृशबालानामसात्म्यचारिणां च मांसान्यभक्ष्याणि, यस्माद्विगतव्यापन्नापहतपरिणताल्पासम्पूर्णवीर्यत्वाद्दोषकराणि भवन्ति; एभ्योऽन्येषामुपादेयं मांसमिति ||१२६||
🔊 Audio coming soon
मांसमनुपादेयमाह- तत्रेत्यादि| पूतिः शटितः; हतशब्दो व्याधिविषसर्पैः प्रत्येकं सम्बध्यते; दिग्धविद्धः विषादिलिप्तशस्रादिविद्धः, जीर्णो वृद्धः, कृशो दुर्बलः, असात्म्यचारिणाम् अनुचिताहारभक्षिणाम्| कस्मादनुपादेयानित्याह- यस्मादित्यादि| बालानामसम्पूर्णवीर्यत्वादित्यर्थः| असात्म्यचारिणामनुपादेयत्वे हेतुः सूत्रकारेण निबन्धकारैश्चानुक्तोऽपि स्वयमूह्यः| मांसमुपादेयमाह- एभ्य इत्यादि| दोषरहितं गुणवत्, ग्राह्यमित्यर्थः||१२६||
Adhikarana 118 (127-128) · Śloka 128
अरोचकं प्रतिश्यायं गुरु शुष्कं प्रकीर्तितम् | विषव्याधिहतं मृत्युं बालं छर्दिं च कोपयेत् ||१२७|| कासश्वासकरं वृद्धं त्रिदोषं व्याधिदूषितम् | क्लिन्नमुत्क्लेशजननं कृशं वातप्रकोपणम् ||१२८||
🔊 Audio coming soon
शुष्कादीनां दोषमाह- अरोचकमित्यादि| शुष्कं मांसमरोचकं प्रतिश्यायं च `करोति’ इत्यध्याहारः| मृत्युमिति अत्रापि `करोति’ इत्यध्याहारः| क्लिन्नं शटितम्| उत्क्लेशः थूत्करणम्| असात्म्यचारिणां दोषः स्वयमप्यूह्यः||१२७-१२८||
Adhikarana 119 (129) · Śloka 129
स्त्रियश्चतुष्पात्सु, पुमांसो विहङ्गेषु, महाशरीरेष्वल्पशरीराः, अल्पशरीरेषु महाशरीराः, प्रधानतमाः; एवमेकजातीयानां महाशरीरेभ्यः कृशशरीराःप्रधानतमाः ||१२९||
🔊 Audio coming soon
गुणवन्मांसप्रसङ्गेन लिङ्गाद्यधिकृत्याह- स्त्रिय इत्यादि| चतुष्पदां मध्ये स्त्रियः प्रधानतमाः, विहङ्गानां मध्ये पुमांसः पुरुषाः प्रधानतमाः| महाशरीरेष्वित्यादि महाशरीरेषु खड्गिमहिषादिषु, अल्पशरीरा आनूपा एव रुरुप्रभृतयः प्रधानतमाः| अल्पशरीरेष्विति अल्पशरीरा विष्किरा लावादयः, तेषु महाशरीराः; कृशमांसस्य निषिद्धत्वात्||१२९||
Adhikarana 120 (130-133) · Śloka 133
स्थानादिकृतं मांसस्य गुरुलाघवमुपदेक्ष्यामः | तद्यथा- रक्तादिषु शुक्रान्तेषु धातुषूत्तरोत्तरा गुरुतराः, तथा सक्थिस्कन्धक्रोडशिरःपादकरकटीपृष्ठचर्मकालेयकयकृदन्त्राणि ||१३०|| शिरःस्कन्धं कटी पृष्ठं सक्थिनी चात्मपक्षयोः | गुरु पूर्वं विजानीयाद्धातवस्तु यथोत्तरम् ||१३१|| सर्वस्य प्राणिनो देहे मध्यो गुरुरुदाहृतः | पूर्वभागो गुरुः पुंसामधोभागस्तु योषिताम् ||१३२|| उरोग्रीवं विहङ्गानां विशेषेण गुरु स्मृतम् | पक्षोत्क्षेपात्समो दृष्टो मध्यभागस्तु पक्षिणाम् ||१३३||
🔊 Audio coming soon
स्थानादिकृतमित्यादि| रक्तादिधातूनां गुरुलाघवमुक्त्वेतरावयवानाह- तथेत्यादि| तथेति यथोत्तरं गुरवः| सक्थिनी ऊरू, स्कन्धो बाहुशिरः, क्रोडो हृदयस्थानं, पश्चाद्भागस्थितौ पादौ, अग्रिमभागस्थितौ करौ, कालेयकं वृक्कं, यकृत् कालखण्डं दक्षिणभागस्थितम्| द्वयं द्वयमधिकृत्याह- शिर इत्यादि| स्कन्धाच्छिरो गुरु, पृष्ठात् कटिः| सक्थिनी चात्मपक्षयोरिति सक्थिनी द्वे, ते चात्मपक्षयोः स्वांशयोर्यथापूर्वं गुरुणी ज्ञेये; तेन सक्थ्न उत्तरभागापेक्षया पूर्वो भागो गुरुरित्यर्थः | अन्ये तु `आमपक्वयोः’ इति पठन्ति, `पक्वादाममांसं गुरु’ इति व्याख्यानयन्ति; तन्न, पञ्जिकाकाराभ्यां दूषितत्वात्| जेज्जटस्तु शिर इत्यादि सङ्ग्रहश्लोकत्वेन पठति, तदपि पञ्जिकाकारौ न मन्येते| सर्वस्यापि शरीरस्य मध्ये को भागो गुरुरित्याह- सर्वस्येत्यादि| स्त्रीपुरुषविभागेनाह- पूर्वभाग इत्यादि| पूर्वभाग उपरिष्टाद्भागः| पक्षिणामाह- उरोग्रीवमित्यादि| सम इति नातिगुरुर्नातिलघुरित्यर्थः||१३०-१३३||
Adhikarana 121 (134) · Śloka 135
अतीव रूक्षं मांसं तु विहङ्गानां फलाशिनाम् | बृंहणं मांसमत्यर्थं खगानां पिशिताशिनाम् ||१३४|| मत्स्याशिनां पित्तकरं वातघ्नं धान्यचारिनाम् |१३५|
🔊 Audio coming soon
आहारविशेषेणापि मांसेषु रौक्ष्यादिविशेषमाह- अतीवेत्यादि| फलाशिनां मांसमितरमांसापेक्षया रूक्षम्||१३४||-
Adhikarana 122 (135-136) · Śloka 136
जलजानूपजा ग्राम्या क्रच्यादैकशफास्तथा ||१३५|| प्रसहा बिलवासाश्च ये च जङ्घालसञ्ज्ञिताः | प्रतुदा विष्किराश्चैव लघवः स्युर्यथोत्तरम् | अल्पाभिष्यन्दिनश्चैव यथापूर्वमतोऽन्यथा ||१३६||
🔊 Audio coming soon
उक्तवर्गाणां गुरुलाघवमाह- जलजेत्यादि| अतोऽस्माल्लघुत्वादल्पाभिष्यन्दित्वाच्च| अन्यथेति महाभिष्यन्दिनो गुरवश्चेत्यर्थः||१३५-१३६||
Adhikarana 123 (137) · Śloka 137
प्रामाणाधिकास्तु स्वजातावल्पसारा गुरवश्च | सर्वप्राणिनां सर्वशरीरेभ्यः प्रधानतमा भवन्ति यकृत्प्रदेशवर्तिनस्तानाददीत; प्रधानालाभे मध्यमवयस्कं सद्यस्कमक्लिष्टमुपादेयं मांसमिति ||१३७||
🔊 Audio coming soon
प्रमाणेत्यादि| स्वजातौ आत्मीयजातौ| अल्पसाराः तुच्छबला इत्यर्थः| सत्यां कृत्स्नशरीरप्राप्तौ गुणवच्छरीरावयवग्रहणं निर्दिशन्नाह- सर्वेत्यादि| यकृत्प्रदेशवर्तिशब्देन यकृत्प्रदेशे या दीर्घाकारा मांसवर्तयो भवन्ति ता इह गृह्यन्ते; एतेन समस्तशरीरप्राप्तावपि विशिष्टशरीरावयवग्रहणमुक्तम्| अन्ये तु `सर्वप्राणिनां सर्वशरीरेभ्यः प्रधानतमा या वर्तिर्भवति तामाददीत’ इति पठन्ति; `मांसलेष्ववकाशेषु या वर्तयो भवन्ति ता ग्राह्या’ इति व्याख्यानयन्ति| तदलाभे मध्यमवयःस्थं सामान्यदेशजमपि ग्राह्यमित्याह- प्रधानालाभे इत्यादि| मध्यमवयस्थं मांसमिति मध्यमवयःस्थस्य प्राणिन इत्यर्थः| अन्ये `मध्यं वयःस्थं’ इति पठन्ति, व्याख्यानयन्ति च- मध्यं ग्राह्यमिति तद्वयःस्थस्य तरुणस्येत्यर्थः| सद्यस्कं सद्योहतमांसम्| अक्लिष्टं मनोऽनुकूलम्||१३७||
Adhikarana 124 (138) · Śloka 138
भवति चात्र- चरः शरीरावयवाः स्वभावो धातवः क्रिया | लिङ्गं प्रमाणं संस्कारो मात्रा चास्मिन् परीक्ष्यते ||१३८|| इति मांसवर्गः |
🔊 Audio coming soon
इदानीमुक्तं सर्वं गुरुलाघवहेतुं सुखस्मरणार्थमेकीकृत्य श्लोकेन निर्दिशन्नाह- चर इत्यादि| परीक्ष्यत इति चरादिभिः सर्वैः प्रत्येकं सम्बध्यते| चरशब्दोऽत्राहारविहारयोर्वर्तते; तद्यथा- कस्मिन् देशेऽयं विहरति धन्वनि अनूपे वा जले वा वियति वा; किं पुनरयमाहरति अतिगुर्वतिलघु वा, शीतमुष्णं वा, स्निग्धं रूक्षं वा; तत्तदाहारविहारगुणभावितशरीरधातोर्मृगस्य पक्षिणो वा तत्तद्गुणमेव मांसमिति भावः| आहारो यथा- `शष्पशैवालभोजना’ इत्यादि| विहारो यथा- `अतीवासन्ननिलया’ इत्यादि| शरीरावयवाः परीक्ष्यन्ते; तद्यथा- `उरोग्रीवं विहङ्गानां विशेषेण गुरु स्मृतम्’ इत्यादि| स्वभावो यथा- `स्वभावाल्लघवो मुद्गास्तथा लावकपिञ्जलाः’ इति| स्वभावोऽत्राचार्येण नोक्तः, सर्वत्रैव चरादिष्वष्टास्वपि स्वभावस्यानुषङ्गात्| `धातवस्तु यथोत्तरम्’ इत्यादि धातुपरीक्षा| क्रिया यथा- `उरोविचरणात्तेषां पूर्वमङ्गं लघु स्मृतम्’ इत्यादि| लिङ्गं यथा- `स्त्रियश्चतुष्पादेषु, पुमांसो विहङ्गेषु’ इति| प्रमाणमिति `महाशरीरेष्वल्पशरीरा’ इत्यादि| संस्कारो यथा- `स्नेहगोरसधान्याम्लफलाम्लैरम्लितं च यत्| यथोत्तरं लघु’ इत्यादि| मात्रा चास्मिन्निति `गुरूणामर्धसौहित्यं लघूनां तृप्तिरिष्यते’; मात्रा चेति चकारादग्निरपि परीक्ष्यते, तेनाग्निबलापेक्षिणी द्रव्यगुरुलाघवापेक्षिणी च मात्रा| तदेवं चरादीन् परीक्ष्य मांसेषु गुरुलाघवं वाच्यमित्यर्थः| इति मांसवर्गः||१३८||
Adhikarana 125 (139) · Śloka 139
अथ फलवर्गः | अत ऊर्ध्वं फलान्युपदेक्ष्यामः | तद्यथा- दाडिमामलकबदरकोलकर्कन्धुसौवीरसिञ्चितिकाफलकपित्थमातुलुङ्गाम्राम्रातककरमर्दप्रियालनारङ्ग- जम्बीरलकुचभव्यपारावतवेत्रफलप्राचीनामलकतिन्तिडीकनीपकोशाम्राम्लीकाप्रभृतीनि ||१३९||
🔊 Audio coming soon
दाडिमेत्यादि| दाडिमामलके प्रसिद्धे; वदरं महत्; कोलं मध्यप्रमाणं बदरं; कर्कन्धु अल्पं; सौवीरं महत्तममामपक्वावस्थासु मधुरं मरुदेशजं; सिञ्चितिकाफलं तद्भेद एवातिमधुरो मुष्ठिप्रमाण उत्तरापथजः; कपित्थं स्वनामप्रसिद्धं; मातुलुङ्गं बीजपूरकं; आम्रं प्रसिद्धम्; आम्रातकमाम्रफलसदृशम् ‘अम्राटकं’ इति लोके; करमर्दः स्वनामप्रसिद्धः; प्रियालश्चारो मधुराम्लफलः प्रायशो मगधेषु; नारङ्गजम्बीरलकुचानि प्रसिद्धानि; भव्यमारुकं कार्तिकेयपुरे प्रसिद्धम्, अन्ये तु कर्मरङ्गफलं भव्यमाहुः, `भव्यं तालफलोपमं केवलवल्कलसंहतिमात्रम्’ इत्यपरे; पारावतः कामरूपे फलं पाककाले धवललोहितं मधुराम्लं च; वेत्रफलं पद्मबीजसमं; प्राचीनामलकं प्राग्देशोद्भवं `पानीयामलकं’ इति लोके; तिन्तिडीकं वृक्षाम्लं; नीपं कदम्बफलं; कोशाम्रं ‘कौसिम्ब’ इति प्रसिद्धं; अम्लिका प्रसिद्धा चिञ्चा वक्रफला; प्रभृतिग्रहणादेवञ्जातीयान्यन्यान्यपि||१३९||
Adhikarana 126 (140) · Śloka 140
अम्लानि रसतः पाके गुरूण्युष्णानि वीर्यतः | पित्तलान्यनिलघ्नानि कफोत्क्लेशकराणि च ||१४०||
🔊 Audio coming soon
तेषां सामान्यगुणमाह- अम्लानीत्यादि| अम्लानि अम्लरसोत्कटानि||१४०||
Adhikarana 127 (141-142) · Śloka 142
कषायानुरसं तेषां दाडिमं नातिपित्तलम् | दीपनीयं रुचिकरं हृद्यं वर्चोविबन्धनम् ||१४१|| द्विविधं तत्तु विज्ञेयं मधुरं चाम्लमेव च | त्रिदोषघ्नं तु मधुरमम्लं वातकफापहम् ||१४२||
🔊 Audio coming soon
एषां केषाञ्चिद्गुणविशेषमाह- कषायानुरसमित्यादि| नातिपित्तलमिति अम्लदाडिमफलविशेषणम्, ईषत् पित्तकरमित्यर्थः| चरकेऽपि `सर्वं पित्तलमम्लमन्यत्र दाडिमामलकात्’ (च. सू. अ. २७) इत्यत्र भट्टारहरिचन्द्रेण दाडिमग्रहणं निरस्य `अन्यत्रामलकात्’ इत्येष एव पाठः पुरस्कृत इति पञ्जिकाकारौ, जेज्झटस्तु `अम्लं दाडिमं पित्तं न करोति न शमयति’ इति व्याख्यानयति, ईषत्पित्तलपाठं च युक्तं मन्यते| सर्वमपि मधुराम्लं; मधुररसोत्कटं मधुरमित्युच्यते, अम्लरसोत्कटमम्लमित्युच्यत इति द्विविधम्||१४१-१४२||
Adhikarana 128 (143-148) · Śloka 148
अम्लं समधुरं तिक्तं कषायं कटुकं सरम् | चक्षुष्यं सर्वदोषघ्नं वृष्यमामलकीफलम् ||१४३|| हन्ति वातं तदम्लत्वात् पित्तं माधुर्यशैत्यतः | कफं रूक्षकषायत्वात् फलेभ्योऽभ्यधिकं च तत् ||१४४|| कर्कन्धुकोलबदरमामं पित्तकफावहम् | पक्वं पित्तानिलहरं स्निग्धं समधुरं सरम् ||१४५|| पुरातनं तृट्शमनं श्रमघ्नं दीपनं लघु | सौवीरं बदरं स्निग्धं मधुरं वातपित्तजित् ||१४६|| कषायं स्वादु सङ्ग्राहि शीतं सिञ्चितिकाफलम् | आमं कपित्थमस्वर्यं कफघ्नं ग्राहि वातलम् ||१४७|| कफानिलहरं पक्वं मधुराम्लरसं गुरु | श्वासकासारुचिहरं तृष्णाघ्नं कण्ठशोधनम् ||१४८||
🔊 Audio coming soon
अम्लमित्यादि| फलेभ्योऽभ्यधिकं च तदिति अपरेभ्यः फलेभ्यो यदामलकीफलं तद्गुणेन कृत्वाऽधिकमित्यर्थः| आमलके प्रभावान्न समानगुणैः कोपः||१४३-१४८||
Adhikarana 130 (149-151) · Śloka 152
लघ्वम्लं दीपनं हृद्यं मातुलुङ्गमुदाहृतम् | त्वक् तिक्ता दुर्जरा तस्य वातक्रिमिकफापहा ||१४९|| स्वादु शीतं गुरु स्निग्धं मांसं मारुतपित्तजित् | मेध्यं शूलानिलच्छर्दिकफारोचकनाशनम् ||१५०|| दीपनं लघु सङ्ग्राहि गुल्मार्शोघ्नं तु केसरम् | शूलाजीर्णविबन्धेषु मन्देऽग्नौ कफमारुते ||१५१|| अरुचौ च विशेषेण रसस्तस्योपदिश्यते |१५२|
🔊 Audio coming soon
मांसं कटाहमित्यर्थः| मेध्यं मेधायै हितम्| केशरं बीजपूरान्तर्गतं तन्तुजालं ‘चडुडी’ इति लोके||१४९-१५१||-
Adhikarana 131 (152-154) · Śloka 155
पित्तानिलकरं बालं पित्तलं बद्धकेसरम् ||१५२|| हृद्यं वर्णकरं रुच्यं रक्तमांसबलप्रदम् | कषायानुरसं स्वादु वातघ्नं बृंहणं गुरु ||१५३|| पित्ताविरोधि सम्पक्वमाम्रं शुक्रविवर्धनम् | बृंहणं मधुरं बल्यं गुरु विष्टभ्य जीर्यति ||१५४|| आम्रातकफलं वृष्यं सस्नेहं श्लेष्मवर्धनम् |१५५|
🔊 Audio coming soon
पित्तेत्यादि| बद्धकेशरं बद्धतन्तुजालम्| पित्ताविरोधीति ईषत् पित्तविरोधि ईषत् पित्तशमनमित्यर्थः; अन्ये पित्तलं भवतीत्याहुः||१५२-१५४||-
Adhikarana 132 (155) · Śloka 155
त्रिदोषविष्टम्भकरं लकुचं शुक्रनाशनम् ||१५५||
🔊 Audio coming soon
त्रिदोषेत्यादि| सवाततोदशूला मलस्याप्रवृत्तिर्विष्टम्भः, अन्ये गुडगुडाशब्दमाहुः||१५५||
Adhikarana 133 (156-162) · Śloka 162
अम्लं तृषापहं रुच्यं पित्तकृत् करमर्दकम् | वातपित्तहरं वृष्यं प्रियालं गुरु शीतलम् ||१५६|| हृद्यं स्वादु कषायाम्लं भव्यमास्यविशोधनम् | पित्तश्लेष्महरं ग्राहि गुरु विष्टम्भि शीतलम् ||१५७|| पारावतं समधुरं रुच्यमत्यग्निवातनुत् | गरदोषहरं नीपं प्राचीनामलकं तथा ||१५८|| वातापहं तिन्तिडीकमामं पित्तबलासकृत् | ग्राह्युष्णं दीपनं रुच्यं सम्पक्वं कफवातनुत् ||१५९|| तस्मादल्पान्तरगुणं कोशाम्रफलमुच्यते | अम्लीकायाः फलं पक्वं तद्वद्भेदि तु केवलम् ||१६०|| अम्लं समधुरं हृद्यं विशदं भक्तरोचनम् | वातघ्नं दुर्जरं प्रोक्तं नारङ्गस्य फलं गुरु ||१६१|| तृष्णाशूलकफोत्क्लेशच्छर्दिश्वासनिवारणम् | वातश्लेष्मविबन्धघ्नं जम्बीरं गुरु पित्तकृत् | ऐरावतं दन्तशठमम्लं शोणितपित्तकृत् ||१६२||
🔊 Audio coming soon
अम्लमित्यादि| गरदोषहरमिति गरहरं त्रिदोषहरं च| दुर्जरं दुःखमुत्पाद्य पाकं गच्छति| गुरु चिरपाकि| तृष्णेत्यादि| इमं जम्बीरगुणपाठं पञ्जिकाकारो न मन्यते, ‘ऐरावतं दन्तशठमम्लं शोणितपित्तकृत्’ इति दन्तशठशब्देन जम्बीरस्य वक्ष्यमाणत्वात्; ‘जम्बीरनानाविधत्वादुभयपाठ’ इत्यन्ये||१५६-१६२||
Adhikarana 134 (163) · Śloka 163
क्षीरवृक्षफलजाम्बवराजादनतोदनशीतफलतिन्दुकबकुलधन्वनाश्मन्तकाश्वकर्णफल्गु- परूषकगाङ्गेरुकीपुष्करवर्तिबिल्वबिम्बीप्रभृतीनि ||१६३||
🔊 Audio coming soon
कषायरसप्रायमाह- क्षीरवृक्षेत्यादि| क्षीरवृक्षा न्यग्रोधोदुम्बराश्वत्थप्लक्षादयः; जाम्बवं जम्बूः; राजादनं क्षीरिका; तोदनं राजप्रियं; शीतफलं ‘रावणाम्लिका’ इति प्रसिद्धं,. ‘काश्मीराम्लिका’ इत्येके; तिन्दुकः कालसारो वृक्षः; बकुलः स्वनामप्रसिद्धः; धन्वनं धनुर्वृक्षफलं `धामण’ इति लोके; अश्मन्तको यमलपत्रकः `आसन्त’ इति लोके; अश्वकर्णः पूर्वदेशे गन्धमुण्डोऽश्वत्थसदृशः; फल्गुः काकोदुम्बरिका, `कदुम्बरी’ इति लोके| परूषकोऽल्पास्थिमृदुफलः `फालसा ’ इति लोके; गाङ्गेरुकी नागबला; पुष्करवर्तिः `आमोदं’ इत्युत्तरापथे; बिल्वः प्रसिद्धः; बिम्बी कुन्दरिका | प्रभृतिग्रहणात् टङ्कादयः||१६३||
Adhikarana 135 (164) · Śloka 164
फलान्येतानि शीतानि कफपित्तहराणि च | सङ्ग्राहकाणि रूक्षाणि कषायमधुराणि च ||१६४||
🔊 Audio coming soon
एषां सामान्यगुणमाह- फलान्येतानीत्यादि||१६४||
Adhikarana 136 (164-176) · Śloka 176
क्षीरवृक्षफलं तेषां गुरु विष्टम्भि शीतलम् | कषायं मधुरं साम्लं नातिमारुतकोपनम् ||१६५|| अत्यर्थं वातलं ग्राहि जाम्बवं कफपित्तजित् | स्निग्धं स्वादु कषायं च राजादनफलं गुरु ||१६६|| कषायं मधुरं रूक्षं तोदनं कफवातजित् | अम्लोष्णं लघु सङ्ग्राहि स्निग्धं पित्ताग्निवर्धनम् ||१६७|| आमं कषायं सङ्ग्राहि तिन्दुकं वातकोपनम् | विपाके गुरु सम्पक्वं मधुरं कफपित्तजित् ||१६८|| मधुरं च कषायं च स्निग्धं सङ्ग्राहि बाकुलम् | स्थिरीकरं च दन्तानां विशदं फलमुच्यते ||१६९|| सकषायं हिमं स्वादु धान्वनं कफवातजित् | तद्वद्गाङ्गेरुकं विद्यादश्मन्तकफलानि च ||१७०|| विष्टम्भि मधुरं स्निग्धं फल्गुजं तर्पणं गुरु | अत्यम्लमीषन्मधुरं कषायानुरसं लघु ||१७१|| वातघ्नं पित्तजनमामं विद्यात् परुषकम् | तदेव पक्वं मधुरं वातपित्तनिबर्हणम् ||१७२|| विपाके मधुरं शीतं रक्तपित्तप्रसादनम् | पौष्करं स्वादु विष्टम्भि बल्यं कफकरं फलम् ||१७३|| कफानिलहरं तीक्ष्णं स्निग्धं सङ्ग्राहि दीपनम् | कटुतिक्तकषायोष्णं बालं बिल्वमुदाहृतम् ||१७४|| विद्यात्तदेव सम्पक्वं मधुरानुरसं गुरु | विदाहि विष्टम्भकरं दोषकृत् पूतिमारुतम् ||१७५|| बिम्बीफलं साश्वकर्णं स्तन्यकृत् कफपित्तजित् | तृड्दाहज्वरपित्तासृक्कासश्वासक्षयापहम् ||१७६||
🔊 Audio coming soon
तेषां केषाञ्चिद्गुणविशेषमाह- क्षीरवृक्षफलमित्यादि| पूतिमारुतमिति पूतिः सुगन्धिर्मारुतो यस्येति तत् पूतिमारुतम्| पूतिशब्दोऽयं सुगन्धिवाची; यथा- पूतिः खट्वाशः, वनजा मधुकर्कटी पूतिपुष्पेति सुगन्धिपुष्पेत्यर्थः; एतेन पूतिमारुतं सुगन्धिगन्धं पक्वं भवतीत्यर्थः| केचिद्विगन्धिकुक्षिमारुतकरमित्याहुः, तन्नेच्छति गयी बालपक्वयोर्मध्ये केचित् पठन्ति- ‘तद्वद्विद्यादसम्पक्वं मधुरानुरसं गुरु’ इति मध्यावस्थगुणम्| केचिद् ‘बालं बिल्वमुदाहृतम्’ इत्यस्य स्थाने ‘आमं बिल्वमुदाहृतम्’ इति पठन्ति; तन्नेच्छति गयी||१६४-१७६||
Adhikarana 137 (177) · Śloka 177
तालनालिकेरपनसमोचप्रभृतीनि ||१७७||
🔊 Audio coming soon
मधुरफलान्याह- तालेत्यादि| ताडः(लः) ताडी; नालिकेरः स्वनामप्रसिद्धाः; पनसो बहिःकण्टकी महाफलः `कटीहल’ इति लोके; मोचः कदलीफलम्|प्रभृतिग्रहणादेवञ्जातीयान्यन्यानि||१७७||
Adhikarana 138 (178) · Śloka 178
स्वादुपाकरसान्याहुर्वातपित्तहराणि च | बलप्रदानि स्निग्धानि बृंहणानि हिमानि च ||१७८||
🔊 Audio coming soon
तेषां सामान्यगुणमाह- स्वाद्वित्यादि||१७८||
Adhikarana 139 (179-181) · Śloka 181
फलं स्वादुरसं तेषां तालजं गुरु पित्तजित् | तद्बीजं स्वादुपाकं तु मूत्रलं वातपित्तजित् ||१७९|| नालिकेरं गुरु स्निग्धं पित्तघ्नं स्वादु शीतलम् | बलमांसप्रदं हृद्यं बृंहणं बस्तिशोधनम् ||१८०|| पनसं सकषायं तु स्निग्धं स्वादुरसं गुरु | मौचं स्वादुरसं प्रोक्तं कषायं नातिशीतलम् | रक्तपित्तहरं वृष्यं रुच्यं श्लेष्मकरं गुरु ||१८१||
🔊 Audio coming soon
तेषां कस्यचिद्गुणविशेषमाह- फलमित्यादि||१७९-१८१||
Adhikarana 140 (182) · Śloka 182
द्राक्षाकाश्मर्यमधूकपुष्पखर्जूरप्रभृतीनि ||१८२||
🔊 Audio coming soon
अपराण्यपि मधुराण्याह- द्राक्षेत्यादि| द्राक्षा प्रसिद्धा; काश्मर्यं गम्भारीफलं; मधूकं प्रसिद्धं; खर्जूरं द्विविधं वृक्षविटपभेदेन, त्रिविधमित्यपरे, त्रैविध्यं च वृक्षखर्जूरं द्विविधमिति कृत्वा, तत्र पारसीकेषु देशेषु महत्प्रमाणं स्वादु भिन्नं पिण्डखर्जूरमित्यतो हेतोः||१८२||
Adhikarana 141 (183) · Śloka 183
रक्तपित्तहराण्याहुर्गुरूणि मधुराणि च |१८३|
🔊 Audio coming soon
तेषां सामान्यगुणमाह- रक्तेत्यादि|१८३|
Adhikarana 142 (183-186) · Śloka 186
तेषां द्राक्षा सरा स्वर्या मधुरा स्निग्धशीतला ||१८३|| रक्तपित्तज्वरश्वासतृष्णादाहक्षयापहा | हृद्यं मूत्रविबन्धघ्नं पित्तासृग्वातनाशनम् ||१८४|| केश्यं रसायनं मेध्यं काश्मर्यं फलमुच्यते | क्षतक्षयापहं हृद्यं शीतलं तर्पणं गुरु ||१८५|| रसे पाके च मधुरं खार्जूरं रक्तपित्तनुत् | बृंहणीयमहृद्यं च मधूककुसुमं गुरु | वातपित्तोपशमनं फलं तस्योपदिश्यते ||१८६||
🔊 Audio coming soon
तेषां केषाञ्चिद्गुणविशेषमाह- तेषामित्यादि||१८३-१८६||
Adhikarana 143 (187) · Śloka 187
वातामाक्षोडाभिषुकनिचुलपिचुनिकोचकोरुमाणप्रभृतीनि ||१८७||
🔊 Audio coming soon
अपरानपि मधुरफलविशेषानेकजातीयानाह- वातामेत्यादि| वातामादीन्युरुमाणान्तान्युत्तरापथे जातानि, तत्रैव प्रसिद्धानि| केचिद्व्याख्यानयन्ति- तत्र वातामो मज्जमधुरस्निग्धो दीर्घाकारः; अक्षोडो मदनफलाकारफलो मध्ये किञ्चिदुन्नतरेखान्वितः पर्वतपिलुः `अख्रोट्’ इति लोके; अभिषुकः `अभिषुः’ इति लोके, निकोचकमौत्तरापथिकं कोल्लकफलमुत्तरापथादवगन्तव्यम्| प्रभृतिग्रहणाल्लवलीफलानि||१८७||
Adhikarana 144 (188) · Śloka 188
पित्तश्लेष्महराण्याहुः स्निग्धोष्णानि गुरूणि च | बृंहणान्यनिलघ्नानि बल्यानि मधुराणि च ||१८८||
🔊 Audio coming soon
तेषां सामान्यगुणमाह- पित्तश्लेष्महराण्याहुरित्यादि||१८८||
Adhikarana 145 (189) · Śloka 189
कषायं कफपित्तघ्नं किञ्चित्तिक्तं रुचिप्रदम् | हृद्यं सुगन्धि विशदं लवलीफलमुच्यते ||१८९||
🔊 Audio coming soon
तेषां मध्ये केषाञ्चिद्गुणविशेषमाह- कषायमित्यादि| लवलीफलं सुगन्धिफलं स्वनामप्रसिद्धम्| तल्लक्षणमुच्यते- ‘घनस्निग्धा हरितांशुः प्रपुन्नाटसदृक्च्छदा| सुगन्धिमूला लवली पाण्डुकोमलवल्कला’ इति||१८९||
Adhikarana 146 (190) · Śloka 191
वसिरं शीतपाक्यं च सारुष्करनिबन्धनम् | विष्टम्भि दुर्जरं रूक्षं शीतलं वातकोपनम् ||१९०|| विपाके मधुरं चापि रक्तपित्तप्रसादनन् |१९१|
🔊 Audio coming soon
वसिरादीनां गुणमाह- वसिरमित्यादि| वसिरं सूर्यावर्तफलं देशान्तरे ज्ञेयमित्यर्थः| शीतपाक्यं बलाफलम्| अरुष्करनिबन्धनं भल्लातकवृन्तम्||१९०||-
Adhikarana 147 (191-193) · Śloka 193
ऐरावतं दन्तशठमम्लं शोणितपित्तकृत् ||१९१|| शीतं कषायं मधुरं टङ्कं मारुतकृद्गुरु | स्निग्धोष्णं तिक्तमधुरं वातश्लेष्मघ्नमैङ्गुदम् ||१९२|| शमीफलं गुरु स्वादु रूक्षोष्णं केशनाशनम् | गुरु श्लेष्मातकफलं कफकृन्मधुरं हिमम् ||१९३||
🔊 Audio coming soon
ऐरावतदन्तशठयोर्गुणमाह- ऐरावतमित्यादि| ऐरावतमैरावणिका कृष्णलोहिताल्पफला| दन्तशठं जम्बीरफलम्, अन्ये जम्बीरभेदमाहुः| टङ्कं काश्मीरे स्वनामप्रसिद्धं बहुप्रकारम्| ऐङ्गुदमिङ्गुदीफलम्, अन्ये पुत्रञ्जीवकमाहुः| शमीफलमिति शमीफलं सङ्गरमुच्यते||१९१-१९३||
Adhikarana 148 (194) · Śloka 194
करीराक्षिकपीलूनि तृणशून्यफलानि च | स्वादुतिक्तकटूष्णानि कफवातहराणि च ||१९४||
🔊 Audio coming soon
करीरादिगुणमाह- करीरेत्यादि| करीरो मरुजद्रुमः स्वनामख्यातः; आक्षिकमक्षिकीफलं; पीलु पीलुफलम्| तृणशून्यं मल्लिका, केतकीफलमित्यन्ये| तेषां सामान्यगुणमाह- स्वादुतिक्तमित्यादि||१९४||
Adhikarana 149 (195) · Śloka 195
तिक्तं पिन्त्तकरं तेषां सरं कटुविपाकि च | तीक्ष्णोष्णं कटुकं पीलु सस्नेहं कफवातजित् ||१९५||
🔊 Audio coming soon
तेषां मध्ये पीलुगुणमाह- तिक्तमित्यादि||१९५||
Adhikarana 150 (196) · Śloka 196
आरुष्करं तौवरकं कषायं कटुपाकि च | उष्णं कृमिज्वरानाहमेहोदावर्तनाशनम् | कुष्ठगुल्मोदरार्शोघ्नं कटुपाकि तथैव च ||१९६||
🔊 Audio coming soon
आरुष्करतौवरफलगुणमाह- आरुष्करमित्यादि| तुवरकः पश्चिमोदधितीरे||१९६||
Adhikarana 151 (197-198) · Śloka 198
करञ्जकिंशुकारिष्टफलं जन्तुप्रमेहनुत् | अङ्कोलस्य फलं विस्रं गुरु श्लेष्महरं हिमम् ||१९७|| रूक्षोष्णं कटुकं पाके लघु वातकफापहम् | तिक्तमीषद्विषहितं विडङ्गं कृमिनाशनम् ||१९८||
🔊 Audio coming soon
करञ्जादीनाह- करञ्जेत्यादि| करञ्जो वृक्षकरञ्जः; किंशुकः पलाशः; अरिष्टो निम्बः| अत्र जन्तुशब्दो विंशतिकृमिवाची| विडङ्गमाह- रूक्षोष्णमित्यादि||१९७-१९८||
Adhikarana 152 (199) · Śloka 199
व्रण्यमुष्णं सरं मेध्यं दोषघ्नं शोफकुष्ठनुत् | कषायं दीपनं चाम्लं चक्षुष्यं चाभयाफलम् ||१९९||
🔊 Audio coming soon
हरीतकीमाह- व्रण्यमित्यादि| व्रणेभ्यो हितं व्रण्यम्| चक्षुषे हितं चक्षुष्यम्||१९९||
Adhikarana 153 (200) · Śloka 200
भेदनं लघु रूक्षोष्णं वैस्वर्यक्रिमिनाशनम् | चक्षुष्यं स्वादुपाक्याक्षं कषायं कफपित्तजित् ||२००||
🔊 Audio coming soon
बिभीतकफलगुणमाह- भेदनमित्यादि| स्वादुपाक्याक्षमिति आक्षं बिभीतकफलं; कीदृक्? स्वादुपाकि||२००||
Adhikarana 154 (201) · Śloka 201
कफपित्तहरं रूक्षं वक्त्रक्लेदमलापहम् | कषायमीषन्मधुरं किञ्चित् पूगफलं सरम् ||२०१||
🔊 Audio coming soon
पूगफलमाह- कफपित्तहरमित्यादि||२०१||
Adhikarana 155 (202) · Śloka 203
जातीकोशोऽथ कर्पूरं जातीकटुकयोः फलम् | कक्को(ङ्को)लकं लवङ्गं च तिक्तं कटु कफापहम् ||२०२|| लघु तृष्णापहं वक्त्रक्लेददौर्गन्ध्यनाशनम् |२०३|
🔊 Audio coming soon
जातीकोशादीन्याह- जातीकोश इत्यादि| जातीकोशो जातीपत्रिका ‘जातिवनी’ इति लोके| कर्पूरं प्रसिद्धम्| जातीकटुकयोः फलमिति जातीफलं प्रसिद्धं; कटुकाफलं लताकस्तूरिकेति पञ्जिकाकारौ, श्रीब्रह्मदेवस्तु लघुकक्को(ङ्को)लकमाह; कक्को(ङ्को)लकं बृहत्कक्को(ङ्को)लम्| लवङ्गं श्रीचन्दनपुष्पम्||२०२||-
Adhikarana 156 (203) · Śloka 204
सतिक्तः सुरभिः शीतः कर्पूरो लघु लेखनः ||२०३|| तृष्णायां मुखशोषे च वैरस्ये चापि पूजितः |२०४|
🔊 Audio coming soon
तेषां मध्ये कर्पूरगुणमाह- सतिक्त इत्यादि||२०३||-
Adhikarana 157 (204) · Śloka 204
लताकस्तूरिका तद्वच्छीता बस्तिविशोधनी ||२०४||
🔊 Audio coming soon
लताकस्तूरिकामाह- लताकस्तूरिकेत्यादि| लताकस्तूरिका दक्षिणापथे विटपः, शकुनापितुल्यः | बस्तिविशोधनी बस्तिविबन्धघ्नी||२०४||
Adhikarana 158 (205-207) · Śloka 207
प्रियालमज्जा मधुरो वृष्यः पित्तानिलापहः | बैभीतको मदकरः कफमारुतनाशनः ||२०५|| कषायमधुरो मज्जा कोलानां पित्तनाशनः | तृष्णाच्छर्द्यनिलघ्नश्च तद्वदामलकस्य च ||२०६|| बीजपूरकशम्याकमज्जा कोशाम्रसम्भवः | स्वादुपाकोऽग्निबलदः स्निग्धः पित्तानिलापहः ||२०७||
🔊 Audio coming soon
फलानां मज्जानमाह- प्रियालेत्यादि| प्रियालमज्जा ‘चारुली’ इति लोके प्रसिद्धः| शम्पाकः किरमालकः||२०५-२०७||
Adhikarana 159 (208) · Śloka 208
यस्य यस्य फलस्येह वीर्यं भवति यादृशम् | तस्य तस्यैव वीर्येण मज्जानमपि निर्दिशेत् ||२०८||
🔊 Audio coming soon
अनुक्तफलमज्जानमाह- यस्येत्यादि| यस्य यस्य फलस्य ये गुणा यानि कर्माणि चोक्तानि तस्य मज्ज्ञोऽपि तान्येव गुणकर्माणि वदेदित्यर्थः, येन कुर्वन्ति तद्वीर्यम्||२०८||
Adhikarana 160 (209) · Śloka 209
फलेषु परिपक्वं यद्गुणवत्तदुदाहृतम् | बिल्वादन्यत्र विज्ञेयमामं तद्धि गुणोत्तरम् | ग्राह्युष्णं दीपनं तद्धि कषायकटुतिक्तकम् ||२०९||
🔊 Audio coming soon
किञ्चिच्छेषमाह- फलेष्वित्यादि| हि यस्मादर्थे| गुणोत्तरं गुणोत्कृष्टम्| तद्धीति तद् बिल्बं, हि यस्मादर्थे, गुणोत्तरं गुणोत्कृष्टम्| ग्राह्युष्णं दीपनं तद्धीति तत् बिल्वं, हि स्फुटम्||२०९||
Adhikarana 161 (210) · Śloka 210
व्याधितं कृमिजुष्टं च पाकातीतमकालजम् | वर्जनीयं फलं सर्वमपर्यागतमेव च ||२१०|| इति फलवर्गः |
🔊 Audio coming soon
फलेषु हेयादिदोषज्ञापनार्थमाह- व्याधितमित्यादि| जुष्टं सेवितं; केचित् ‘जग्धं’ इति पठन्ति, तत्र जग्धं भक्षितमित्यर्थः| पाकातीतं पाकादतीतमतिगतमतीतपाककालमित्यर्थः| अकालजम् अनुचितकालोत्पन्नम्| अपर्यागतम् अपक्वम्| इति फलवर्गः||२१०||
Adhikarana 162 (211) · Śloka 211
अथ शाकवर्गः | शाकान्यत ऊर्ध्वं वक्ष्यामः | तत्र पुष्पफलालाबुकालिन्दकप्रभृतीनि ||२११||
🔊 Audio coming soon
तत्रेत्यादि| पुष्पफलं कूष्माण्डकः; अलाबूः तुम्बिनी, सा च दीर्घवर्तुलादिभेदादनेकधा; कालिन्दं कृष्णबीजं कूष्माण्डसदृशं ‘कलिन्द’ इति लोके| प्रभृतिग्रहणादेवंविधान्यपराण्यपि||२११||
Adhikarana 163 (212) · Śloka 212
पित्तघ्नान्यनिलं कुर्युस्तथा मन्दकफानि च | सृष्टमूत्रपुरीषाणि स्वादुपाकरसानि च ||२१२||
🔊 Audio coming soon
एषां सामान्यगुणमाह- पित्तघ्नानीत्यादि| सृष्टमूत्रपुरीषाणि मूत्रपुरीषप्रवृत्तिकराणि||२१२||
Adhikarana 164 (213-215) · Śloka 215
पित्तघ्नं तेषु कूष्माण्डं बालं मध्यं कफावहम् | शुक्लं लघूष्णं सक्षारं दीपनं बस्तिशोधनम् ||२१३|| सर्वदोषहरं हृद्यं पथ्यं चेतोविकारिणाम् | दृष्टिशुक्रक्षयकरं कालिन्दं कफवातकृत् ||२१४|| अलाबुर्भिन्नविट्का तु रूक्षा गुर्व्यतिशीतला | तिक्तालाबुरहृद्या तु वामिनी वातपित्तजित् ||२१५||
🔊 Audio coming soon
तेषां विशिष्टमपि गुणमाह- पित्तघ्नमित्यादि| कफमावहति करोतीति कफावहम्| शुक्लं कार्पासवर्णं परिपक्वमित्यर्थः| सक्षारमीषत्क्षारम्| बस्तिशोधनं बस्तिविबन्धघ्नम्| सर्वदोषहरमिति सर्वग्रहणं रक्तोपसङ्ग्रहार्थं; ‘सर्वदोषसहं’ इत्यन्ये पठन्ति, तत्रायमर्थः- न करोति न शमयतीत्यर्थः| हृद्यं हृदयाय हितम्| चेतोविकारिणामिति चेतोविकारा उन्मादापस्मारमूर्च्छामदादयः| भिन्नविट्का द्रवमला||२१३-२१५||
Adhikarana 165 (216) · Śloka 216
त्रपुसैर्वारुकर्कारुकशीर्णवृन्तप्रभृतीनि ||२१६||
🔊 Audio coming soon
अपराण्यपि फलशाकान्याह- त्रपुसेत्यादि| त्रपुसं सुधावासः, ‘तेवसा’ इति लोके; एर्वारुर्लोमशा कर्कटी; कर्कारुर्वाडवं त्रपुषं ‘खरवारू’ इति लोके; शीर्णवृन्तं सुवासकं त्रपुसभेदः, अन्ये तु शीर्णवृन्तं कर्बुरमाहुः, एके तु शीर्णवृन्तं पाकावस्थायां यस्य वृन्तं शटितं भवतीत्यर्थः, अपरे तु कर्बुरभेदं खुदपुत्रकमाहुः; प्रभृतिग्रहणाद् बालपाण्ड्ववस्थायां गृह्यते||२१६||
Adhikarana 166 (217) · Śloka 217
स्वादुतिक्तरसान्याहुः कफवातकराणि च | सृष्टमूत्रपुरीषाणि रक्तपित्तहराणि च ||२१७||
🔊 Audio coming soon
तेषां सामान्यगुणमाह- स्वाद्वित्यादि||२१७||
Adhikarana 167 (218-219) · Śloka 219
बालं सनीलं त्रपुसं तेषां पित्तहरं स्मृतम् | तत्पाण्डु कफकृज्जीर्णमम्लं वातकफापहम् ||२१८|| एर्वारुकं सकर्कारु सम्पक्वं कफवातकृत् | सक्षारं मधुरं रुच्यं दीपनं नातिपित्तलम् ||२१९||
🔊 Audio coming soon
तेषां केषाञ्चिद्गुणविशेषमाह- बालमित्यादि| अयं परिपक्वस्य गुणः, अपक्वस्य तु सामान्यगुणाः||२१८-२१९||
Adhikarana 168 (220) · Śloka 220
सक्षारं मधुरं चैव शीर्णवृन्तं कफापहम् | भेदनं दीपनं हृद्यमानाहाष्ठीलनुल्लघु ||२२०||
🔊 Audio coming soon
शीर्णवृन्तस्यावस्थात्रयेण गुणमाह- सक्षारमित्यादि| सक्षारमित्यादयो बालस्य गुणाः, भेदनादयो मध्यस्य, आनाहेत्यादि जीर्णस्य| आनाह आमपक्वाशयजो द्विविधः; अष्ठीला मूत्राष्ठीला न पुनरनिलाष्ठीला, शीर्णवृन्तस्य मूत्रविकारहारित्वादवस्थात्रयेऽपि; आनाहश्चाष्ठीला चानाहाष्ठीलं, तन्नुदतीति||२२०||
Adhikarana 169 (221) · Śloka 221
पिप्पलीमरिचशृङ्गवेरार्द्रकहिङ्गुजीरककुस्तुम्बुरुजम्बीरसुमुखसुरसार्जकभूस्तृणसुगन्धक- कासमर्दककालमालकुठेरकक्षवकखरपुष्पशिग्रुमधुशिग्रुफणिज्झकसर्षपराजिकाकुलाहलावगुत्थगण्डीरतिलपर्णिका- वर्षाभूचित्रकमूलकलशुनकलायपलाण्डुप्रभृतीनि ||२२१||
🔊 Audio coming soon
वृद्धाः पिप्पल्यादीनि वर्गीकृत्य पठन्ति; तत्र किञ्चित् संस्कारकं, किञ्चिच्छाकं, किञ्चिद्भेषजं, किञ्चिदाहारयोगीति, तान्येवाह- पिप्पलीत्यादि|- पिप्पलीमरिचे द्वे प्रसिद्धे; शृङ्गवेरकं शुण्ठी; आर्द्रकहिङ्गुजीरकाः प्रसिद्धाः; कुस्तुम्बुरुकं धान्यकं; जम्बीरो हरितशाकमुत्तरापथे जम्बीरगन्धि किञ्चिदम्लं; सुमुखो वनबर्बरिका; सुरसा सुरभिपर्णी ‘तुलसी’ इति लोके; अर्जकः श्वेतकुठेरकः; भूस्तृणं रोहिषः, तुम्बाकमन्ये; सुगन्धको गन्धतृणमल्पं भूस्तृणं, सुगन्धितृणमिति केचित्, तत्रापि नार्थभेदः; कासमर्दः प्रसिद्धः; कालमालो बर्बरिका; कुठेरकस्तद्भेद एव; क्षवकश्छिक्काकरः ‘छिङ्कणी’ इति लोके; खरपुष्पो मरुवकः, अन्ये क्षवकभेदमाहुः, केचित् ‘बोडयिका’ इत्याहुः; शिग्रुः शोभाञ्जनकः, सुवासमित्यन्ये; मधुशिग्रुर्लोहितकुसुमोऽल्पविटपः शोभाञ्जनकभेदः; ‘शुण्ठ’ इत्यत्र क्वचित् (पठ्यते), स च स्वनामख्यातः; फणिज्झकः ‘फाणिज’ इति लोके, अन्ये मरुबकमाहुः; सर्षपराजिके प्रसिद्धे; कुलाहलो मुण्डितिका; अवगुत्थं वेगनामा, काकादनीत्यर्थः; गण्डीरोऽपि द्विविधः स्थलजो जलश्चेति, तत्र स्थलजो हरितशाकं; तिलपर्णिका चोरकः, श्रीहस्तिनीत्यपरे; वर्षाभूः पुनर्नवा; चित्रकमूलकलशुनाः प्रसिद्धाः; कलायोऽत्र त्रिपुटकभेदः; त्रिपुटकस्याग्रे वक्ष्यमाणत्वात्, केचित् पुनरुक्तभयादग्रेतनं पाठं न मन्यन्ते, तेषां मतेऽत्र कलायस्त्रिपुटकः; पलाण्डुर्लशुनभेदः| प्रभृतिग्रहणादेवञ्जातीयान्यपराणि||२२१||
Adhikarana 170 (222) · Śloka 222
कटून्युष्णानि रुच्यानि वातश्लेष्महराणि च | कृतान्नेषूपयुज्यन्ते संस्कारार्थमनेकधा ||२२२||
🔊 Audio coming soon
एषां सामान्यगुणमाह- कटूनीत्यादि| कृतान्नेषु मुद्गयूषादिषु||२२२||
Adhikarana 171 (223) · Śloka 223
तेषां गुर्वी स्वादुशीता पिप्पल्यार्द्रा कफावहा | शुष्का कफानिलघ्नी सा वृष्या पित्ताविरोधिनी ||२२३||
🔊 Audio coming soon
तेषां मध्ये केषाञ्चिद्गुणविशेषमाह- तेषामित्यादि| कफावहा स्ववर्गापेक्षया| पित्ताविरोधिनी ईषत्पित्तविरोधिनी, ईषत्पित्तशमनीत्यर्थः; ‘पित्तप्रकोपणी’ इति केचित् पठन्ति, व्याख्यानयन्ति च “सा पित्तशमनी पूर्वं दर्शिता वीर्यवादिना| शास्त्रकारेण निर्दिष्टा सा सत्यं पित्तकोपनी| यद्वाऽऽर्द्रा पित्तशमनी शुष्का पित्तप्रकोपणी”- इति||२२३||
Adhikarana 172 (224-225) · Śloka 225
स्वादुपाक्यार्द्रमरिचं गुरु श्लेष्मप्रसेकि च | कटूष्णं लघु तच्छुष्कमवृष्यं कफवातजित् ||२२४|| नात्युष्णं नातिशीतं च वीर्यतो मरिचं सितम् | गुणवन्मरिचेभ्यश्च चक्षुष्यं च विशेषतः ||२२५||
🔊 Audio coming soon
नातीत्यादि| सितं मरिचं शोभाञ्जनकबीजं, ‘शुक्लमपि मरिचमस्ति’ इत्येके| गुणवन्मरिचेभ्यश्चेति मरिचेभ्यः सकाशादतिशयगुणकारीत्यर्थः||२२४-२२५||
Adhikarana 173 (226-228) · Śloka 228
नागरं कफवातघ्नं विपाके मधुरं कटु | वृष्योष्णं रोचनं हृद्यं सस्नेहं लघु दीपनम् ||२२६|| कफानिलहरं स्वर्यं विबन्धानाहशूलनुत् | कटूष्णं रोचनं हृद्यं वृष्यं चैवार्द्रकं स्मृतम् ||२२७|| लघूष्णं पाचनं हिङ्गु दीपनं कफवातजित् | कटु स्निग्धं सरं तीक्ष्णं शूलाजीर्णविबन्धनुत् ||२२८||
🔊 Audio coming soon
नागरमित्यादि| सस्नेहमीषत्स्नेहम्| लघु आर्द्रकादिति बोद्धव्यम्| विबन्धानाहशूलनुदिति विबन्धो वाताद्यप्रवृत्तिः, आनाह उदरापूरः||२२६-२२८||
Adhikarana 174 (229) · Śloka 230
तीक्ष्णोष्णं कटुकं पाके रुच्यं पित्ताग्निवर्धनम् | कटु श्लेष्मानिलहरं गन्धाढ्यं जीरकद्वयम् ||२२९|| कारवी करवी तद्वद्विज्ञेया सोपकुञ्चिका |२३०|
🔊 Audio coming soon
तीक्ष्णेत्यादि| जीरकद्वयं शुक्लपीतभेदेन| कारवी कृष्णजीरक उत्तरापथे प्रसिद्धः; करवी यवानीत्येके, अजमोदेत्यपरे, अन्ये राजिकामाहुः| उपकुञ्चिका स्थूलजीरक ईषत्कृष्णो ‘बृहज्जीरक’ इति लोके||२२९||-
Adhikarana 175 (230-231) · Śloka 232
भक्ष्यव्यञ्जनभोज्येषु विविधेष्ववचारिता ||२३०|| आर्द्रा कुस्तुम्बरी कुर्यात् स्वादुसौगन्ध्यहृद्यताम् | सा शुष्का मधुरा पाके स्निग्धा तृड्दाहनाशनी ||२३१|| दोषघ्नी कटुका किञ्चित् तिक्ता स्रोतोविशोधनी |२३२|
🔊 Audio coming soon
भक्ष्याणि वटकादीनि, व्यञ्जनानि शाकादीनि संस्कृतानि, भोज्यानि अन्नयवाग्वादीनि, अवचारिता प्रक्षिप्ता| आर्द्रा कुस्तुम्बरीति पुष्पफलोपेतो हरितधान्यविटप आर्द्रा कुस्तुम्बरीत्युच्यते, अल्लेति लोके||२३०-२३१||-
Adhikarana 176 (232-237) · Śloka 237
जम्बीरः पाचनस्तीक्ष्णः कृमिवातकफापहः ||२३२|| सुराभिर्दीपनो रुच्यो मुखवैशद्यकारकः | कफानिलविषश्वासकासदौर्गन्ध्यनाशनः ||२३३|| पित्तकृत् पार्श्वशूलघ्नः सुरसः समुदाहृतः | तद्वत्तु सुमुखो ज्ञेयो विशेषाद्गरनाशनः ||२३४|| कफघ्ना लघवो रूक्षास्तीक्ष्णोष्णाः पित्तवर्धनाः | कटुपाकरसाश्चैव सुरसार्जकभूस्तृणाः ||२३५|| मधुरः कफवातघ्नः पाचनः कण्ठशोधनः | विशेषतः पित्तहरः सतिक्तः कासमर्दकः ||२३६|| कटुः सक्षारमधुरः शिग्रुस्तिक्तोऽथ पिच्छिलः | मधुशिग्रुः सरस्तिक्तः शोफघ्नो दीपनः कटुः ||२३७||
🔊 Audio coming soon
जम्बीर इत्यादि| सुरसे द्वे श्वेतकृष्णकुसुमे| प्रथमा श्वेता, इयं तु कृष्णेति न पौनरुक्त्यप्रसङ्गः||२३२-२३७||
Adhikarana 177 (238-239) · Śloka 239
विदाहि बद्धविण्मूत्रं रूक्षं तीक्ष्णोष्णमेव च | त्रिदोषं सार्षपं शाकं गाण्डीरं वेगनाम च ||२३८|| चित्रकस्तिलपर्णी च कफशोफहरे लघू | वर्षाभूः कफवातघ्नी हिता शोफोदरार्शसाम् ||२३९||
🔊 Audio coming soon
विदाहीत्यादि| त्रिदोषं सार्षपमिति ‘कफघ्नं सार्षपं शाकमासुरं शाकमेव च’ इति क्वचित्| तत्र आसुरी राजिका||२३८-२३९||
Adhikarana 178 (240-242) · Śloka 242
कटुतिक्तरसा हृद्या रोचनी वह्निदीपनी | सर्वदोषहरा लघ्वी कण्ठ्या मूलकपोतिका ||२४०|| महत्तद्गुरु विष्टम्भि तीक्ष्णमामं त्रिदोषकृत् | तदेव स्नेहसिद्धं तु पित्तनुत् कफवातजित् ||२४१|| त्रिदोषशमनं शुष्कं विषदोषहरं लघु | विष्टम्भि वातलं शाकं शुष्कमन्यत्र मूलकात् ||२४२||
🔊 Audio coming soon
कण्ठाय हिता कण्ठ्या| मूलकपोतिका बालमूलकम्| आमम् अनग्निपक्वं, स्नेहसिद्धं घृततैलादिपक्वं, मूलकस्य बालमहदामस्नेहसिद्धशुष्कभेदेनात्र गुणोक्तिः| विष्टम्भीत्यादि अमुं केचिदनार्षमाचक्षते, अन्ये तु मन्यन्ते||२४०-२४२||
Adhikarana 179 (243) · Śloka 243
पुष्पं च पत्रं च फलं तथैव यथोत्तरं ते गुरवः प्रदिष्टाः | तेषां तु पुष्पं कफपित्तहन्तृ फलं निहन्यात् कफमारुतौ तु ||२४३||
🔊 Audio coming soon
पुष्पमित्यादि| मूलकविषयोऽयं, यद्वन्मूलककन्देषु बालमध्यवृद्धस्निग्धसिद्धशुष्केषु फलनिर्देशस्तद्वत् पुष्पपत्रफलेष्वपि वाच्यः||२४३||
Adhikarana 180 (244-248) · Śloka 248
स्निग्धोष्णतीक्ष्णः कटुपिच्छिलश्च गुरुः सरः स्वादुरसश्च बल्यः | वृष्यश्च मेधास्वरवर्णचक्षुर्भग्नास्थिसन्धानकरो रसोनः ||२४४|| हृद्रोगजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकासशोफान् | दुर्नामकुष्ठानलसादजन्तुसमीरणश्वासकफांश्च हन्ति ||२४५|| नात्युष्णवीर्योऽनिलहा कटुश्च तीक्ष्णो गुरुर्नातिकफावहश्च | बलावहः पित्तकरोऽथ किञ्चित् पलाण्डुरग्निं च विवर्धयेत्तु ||२४६|| स्निग्धो रुचिष्यः स्थिरधातुकारी बल्योऽथ मेधाकफपुष्टिदश्च | स्वादुर्गुरुः शोणितपित्तशस्तः सपिच्छिलः क्षीरपलाण्डुरुक्तः ||२४७|| कलायशाकं पित्तघ्नं कफघ्नं वातलं गुरु | कषायानुरसं चैव विपाके मधुरं च तत् ||२४८||
🔊 Audio coming soon
रसोनभेदानाह- स्निग्धेत्यादि| रसोनः पञ्चरसः स्वल्पकन्दो लशुन इत्यर्थः| अनलसादोऽग्निमान्द्यम्| जन्तवः कृमयः| नात्युष्णेत्यादि| पलाण्डुः स्थूलनालाग्रपत्रो गुन्द्रालिकाभेदः, स एव सक्षीरो मधुररसः क्षीरपलाण्डुरित्युच्यते||२४४-२४८||
Adhikarana 181 (249) · Śloka 249
चुच्चूयूथिकातरुणीजीवन्तीबिम्बीतिकानदी(न्दी)भल्लातकच्छगलान्त्री- वृक्षादनीफञ्जीशाल्मलीशेलुवनस्पतिप्रसवशणकर्बुदारकोविदारप्रभृतीनि ||२४९||
🔊 Audio coming soon
कषायमधुरशाकमाह- चुच्च्वित्यादि| चुच्चूर्नाडिकाकारपत्रः, ‘चुचु’ इति लोके; यूथिका वृक्षविशेषः, सा त्रिधा ईषच्छ्वेतपुष्पा, अतिश्वेतपुष्पा, पीतपुष्पा च; तरुणी स्वनामप्रसिद्धा, अन्ये ‘वरुण’ इति पठन्ति, वरुणकस्तिक्तशाको जलकूलजः; जीवन्ती जीवा ‘तण्डुलीयकसदृशी’ इत्यन्ये, ‘डोडिका’ इत्यपरे; बिम्बीतिका कुन्दुरिका तस्याः पत्राण्यत्र गृह्यन्ते; नदीभल्लातकः ली(लो)जनकः, अन्ये ‘अनन्ताभल्लातक’ इति पठन्ति, तत्र अनन्ता लाङ्गलिका ‘कलिहारी’ इति लोके, भल्लातकवृक्षस्य फलान्यामानि पल्लवाश्च शाकत्वेनाभिप्रेताः; छगलान्त्री वृद्धदारकः, तस्य पत्राणि, बुह्नेत्यपरे; वृक्षादनी बन्दाकः, वृक्षकलिम्बुकेत्यन्ये; फञ्जीशाको ‘वाड’ इति प्रसिद्धः, भार्गीमेके मन्यन्ते; शाल्मली प्रसिद्धः; शेलुः श्लेष्मातकः ‘लिसाड’ इति लोके; वनस्पतिप्रसवाः वनस्पतिरुदुम्बरादिः; तस्य प्रसवाः पल्लवाः; शणः प्रसिद्धः; कर्बुदारः श्लेष्मातकभेदः; कोविदारः काञ्चनारः| प्रभृतिग्रहणादेवञ्जातीयान्यन्यान्यपि शाकानि||२४९||
Adhikarana 182 (250) · Śloka 250
कषायस्वादुतिक्तानि रक्तपित्तहराणि च | कफघ्नान्यनिलं कुर्युः सङ्ग्राहीणि लघूनि च ||२५०||
🔊 Audio coming soon
तेषां सामान्यगुणमाह- कषायेत्यादि||२५०||
Adhikarana 183 (251-253) · Śloka 253
लघुः पाके च जन्तुघ्नः पिच्छिलो व्रणिनां हितः | कषायमधुरो ग्राही चुच्चूस्तेषां त्रिदोषहा ||२५१|| चक्षुष्या सर्वदोषघ्नी जीवन्ती समुदाहृता | वृक्षादनी वातहरा, फञ्जी त्वल्पबला मता ||२५२|| क्षीरवृक्षोत्पलादीनां कषायाः पल्लवाः स्मृताः | शीताः सङ्ग्राहिणः शस्ता रक्तपित्तातिसारिणाम् ||२५३||
🔊 Audio coming soon
तेषां केषाञ्चिद्गुणविशेषमाह- लघुरित्यादि| क्षीरवृक्षा अश्वत्थादयः ; उत्पलानि नीलोत्पलप्रभृतीनि, तेषां पल्लवाः||२५१-२५३||
Adhikarana 184 (254) · Śloka 255
पुनर्नवावरुणतर्कार्युरुबूकवत्सादनीबिल्वशाकप्रभृतीनि ||२५४|| उष्णानि स्वादुतिक्तानि वातप्रशमनानि च |२५५|
🔊 Audio coming soon
पुनर्नवेत्यादि| पुनर्नवा श्वेतपुनर्नवा; वरुणो वृक्षविशेषः स्वनामप्रसिद्धः; तर्कारी अरणिका; उरुबूकः शुक्लैरण्डः; वत्सादनी वत्सपुत्रकः ‘वत्सवतिया’ इति लोके, गुडूचीत्यपरे; बिल्वशाकं बिल्वजं; प्रभृतिग्रहणादन्यान्यपि| तेषां सामान्यगुणमाह- उष्णानीत्यादि||२५४||-
Adhikarana 185 (255) · Śloka 255
तेषु पौनर्नवं शाकं विशेषाच्छोफनाशनम् ||२५५||
🔊 Audio coming soon
विशेषगुणमाह- तेष्वित्यादि||२५५||
Adhikarana 186 (256) · Śloka 256
तण्डुलीयकोपोदकाऽश्वबलाचिल्लीपालङ्क्यावास्तूकप्रभृतीनि ||२५६||
🔊 Audio coming soon
तण्डुलीयकः ‘चुलाइ’ इति लोके; उपोदिका पोइ; अश्वबला तुरुष्कदेशे बृहत्पत्रा मेथिकाभेद एव ‘हिस्फित्थ’ इति लोके, तन्त्रान्तरे मेथिकाहिस्फित्थयोः पृथग्गुणनिर्देशः कृतः- “वातपित्तहरा तिक्ता लघ्वी श्लेष्माविरोधिनी| मेथिका तत्समं किञ्चिद्धिस्फित्थं पुष्टिदं गुरु”- इति| चिल्ली क्षेत्रवास्तुकः, ‘गौडवास्तुक’ इत्यन्ये, यवशाकमाहुरेके, अन्ये तु यवशाकान्तरमाहुः; पालङ्क्या ‘पालक् ’ इति लोके; वास्तूकष्टङ्कवास्तूकः ‘टङ्कचुच्चू’ इति लोके; प्रभृतिग्रहणादपराण्यपि||२५६||
Adhikarana 187 (257) · Śloka 257
सृष्टमूत्रपुरीषाणि सक्षारमधुराणि च | मन्दवातकफान्याहू रक्तपित्तहराणि च ||२५७||
🔊 Audio coming soon
तेषां सामान्यगुणमाह- सृष्टमूत्रेत्यादि||२५७||
Adhikarana 188 (258-261) · Śloka 261
मधुरो रसपाकाभ्यां रक्तपित्तमदापहः | तेषां शीततमो रूक्षस्तण्डुलीयो विषापहः ||२५८|| स्वादुपाकरसा वृष्या वातपित्तमदापहा | उपोदका सरा स्निग्धा बल्या श्लेष्मकरी हिमा ||२५९|| कटुर्विपाके कृमिहा मेधाग्निबलवर्धनः | सक्षारः सर्वदोषघ्नो वास्तूको रोचनः सरः ||२६०|| चिल्ली वास्तूकवज्ज्ञेया पालङ्क्या तण्डुलीयवत् | वातकृद्बद्धविण्मूत्रा रूक्षा पित्तकफे हिता | शाकमाश्वबलं रूक्षं बद्धविण्मूत्रमारुतम् ||२६१||
🔊 Audio coming soon
तेषां विशेषगुणमाह- मधुर इत्यादि| मदापह इति मदो विषमद्यशोणितोत्थो विकारः||२५८-२६१||
Adhikarana 189 (262) · Śloka 262
मण्डूकपर्णीसप्तलासुनिषण्णकसुवर्चलापिप्पलीगुडूचीगोजिह्वा- काकमाचीप्रपुन्नाडावल्गुजसतीनबृहतीकण्टकारिकाफल- पटोलवार्ताककारवेल्लककटुकिकाकेबु(म्बु)कोरुबूकपर्पटककिराततिक्त- कर्कोटकारिष्टकोशातकीवेत्रकरीराटरूषकार्कपुष्पीप्रभृतीनि ||२६२||
🔊 Audio coming soon
तिक्तप्रायाण्याह- मण्डूकपर्णीत्यादि| मण्डूकपर्णी ब्राह्मी; सप्तला सेहुण्डः, जेज्झटस्तु सप्तलां यवतिक्ताभेदमाह; सुनिषण्णकः ‘सिरिबालिका’ इति लोके, श्रीब्रह्मदेवस्तु चतुर्दलमाह, तल्लक्षणं कथ्यते- “चाङ्गेरीसदृशैः पत्रैः सुनिषण्णश्चतुर्दलः| शाको जलान्विते देशे चतुष्पत्रीति कथ्यते”- इति; सुवर्चला सूर्यावर्तः, केचिन्मारिषसदृशदण्डमार्तगलसदृशपत्रं लप्पसमाहुः; पिप्पलीगुडूच्यौ प्रसिद्धे, पूर्वं पिप्पलीफलमुक्तम्, अत्र तु पत्रं; गोजिह्वा दार्विपत्रिका कर्कशा दीर्घपत्रा ‘गोजीभी’ इति लोके; काकमाचीप्रपुन्नाडौ प्रसिद्धौ; अवल्गुजः ‘बाकुची’ इति लोके; सतीनो वर्तुलकलायः; बृहतीफलं सामान्याद्बृहतीद्वयस्य फलम्, अन्ये तु कण्टकारिकामपि पठन्ति; पटोलस्य फलं पत्रं च; वार्ताको वृन्ताको वर्तुलफलः ‘बंइगण’ इति लोके; कारवेल्लकः स्वनामप्रसिद्धः; कटुकिका अरण्यकासमर्दिका, अन्ये तिक्तारिकामाहुः, अपरे तु कटुतिक्तपुष्पामर्कफलाकारफलां प्रसिद्धामाहुः; केबु(म्बु)को ग्राम्यो वन्यश्च स्वनामप्रसिद्धः; उरुबूको रक्तैरण्डः, अन्ये तूरुबूकस्य पत्रमत्र गृह्यते; पर्पटकः प्रसिद्धः; किराततिक्तको भूनिम्बः; कर्कोटकः प्रसिद्धः; अरिष्टो निम्बः; कोशातकी घोषकः ‘तोरयि’ इति लोके; वेत्रकरीरं वेत्राग्रं; आटरूषको वासकः; अर्कपुष्पी अर्कपत्रसदृशी लता, अन्ये अर्कपर्णमाहुः| प्रभृतिग्रहणादन्यतिक्तशाकानि ज्ञेयानि||२६२||
Adhikarana 190 (263) · Śloka 263
रक्तपित्तहराण्याहुर्हृद्यानि सुलघूनि च | कुष्ठमेहज्वरश्वासकासारुचिहराणि च ||२६३||
🔊 Audio coming soon
तेषां सामान्यगुणमाह- रक्तपित्तेत्यादि||२६३||
Adhikarana 191 (264-271) · Śloka 271
कषाया तु हिता पित्ते स्वादुपाकरसा हिमा | लघ्वी मण्डूकपर्णी तु तद्वद्गोजिह्विका मता ||२६४|| अविदाही त्रिदोषघ्नः सङ्ग्राही सुनिषण्णकः | अवल्गुजः कटुः पाके तिक्तः पित्तकफापहः ||२६५|| ईषत्तिक्तं त्रिदोषघ्नं शाकं कटु सतीनजम् | नात्युष्णशीतं कुष्ठघ्नं काकमाच्यास्तु तद्विधम् ||२६६|| कण्डूकुष्ठकृमिघ्नानि कफवातहराणि च | फलानि बृहतीनां तु कटुतिक्तलघूनि च ||२६७|| कफपित्तहरं व्रण्यमुष्णं तिक्तमवातलम् | पटोलं कटुकं पाके वृष्यं रोचनदीपनम् ||२६८|| कफवातहरं तिक्तं रोचनं कटुकं लघु | वार्ताकं दीपनं प्रोक्तं जीर्णं सक्षारपित्तलम् | तद्वत् कर्कोटकं विद्यात् कारवेल्लकमेव च ||२६९|| आटरूषकवेत्राग्रगुडूचीनिम्बपर्पटाः | किराततिक्तसहितास्तिक्ताः पित्तकफापहाः ||२७०|| कफापहं शाकमुक्तं वरुणप्रपुनाड(ट)योः | रूक्षं लघु च शीतं च वातपित्तप्रकोपणम् ||२७१||
🔊 Audio coming soon
विशेषगुणमाह- कषायेत्यादि| तद्विधमिति त्रिदोषघ्नम्| जीर्णं पक्वम्| गुडूचीह कफपित्तहरा, चरके च ‘वायुं वत्सादनी हन्यात्’ (च. सू. अ. २७) इति स्निग्धोष्णवीर्यत्वात्, तस्मात्त्रिदोषघ्नी| पूर्ववर्गपठितोऽपि वरुणः प्रपुन्नाडसामान्यगुणत्वादत्र पठितः| शीतं चेति चकारान्नात्युष्णशीतं, तेन संयुक्तवातपित्तकर्तृत्वं; यदि वा शीतमपि पित्तकृत् प्रभावात्||२६४-२७१||
Adhikarana 192 (272-273) · Śloka 273
दीपनं कालशाकं तु गरदोषहरं कटु | कौसुम्भं मधुरं रूक्षमुष्णं श्लेष्महरं लघु ||२७२|| वातलं नालिकाशाकं पित्तघ्नं मधुरं च तत् | ग्रहण्यर्शोविकारघ्नी साम्ला वातकफे हिता | उष्णा कषायमधुरा चाङ्गेरी चाग्निदीपनी ||२७३||
🔊 Audio coming soon
प्रभृतिशब्दगृहीतान्याह- दीपनमित्यादि| कालशाकं कालियाशाकं श्राद्धार्हम्| कौसुम्भं प्रसिद्धम्| नाडिका ‘नाली’ इति लोके| चाङ्गेरी ‘अम्लचाङ्गेरी’ इति लोके||२७२-२७३||
Adhikarana 193 (274) · Śloka 274
लोणिकाजातुकत्रिपर्णिकापत्तूरजीवकसुवर्चलाडुडुरककुतुम्बककुठिञ्जरकुन्तलिकाकुरण्टिकाप्रभृतयः ||२७४||
🔊 Audio coming soon
लोणिकेत्यादि| लोणिका लोणिया; जातुकं शुक्लशालपर्णी; त्रिपर्णिका दुग्धिका, वनकार्पासीत्यपरे; पत्तूरः शिरबालिकाभेदो महापत्रः; जीवको जीवनामा स्वनामप्रसिद्धः; सुवर्चला सूर्यावर्तभेदः, डुडुरकः स्वनामप्रसिद्धः; कुतुम्बको द्रोणपुष्पः; कुठिञ्जरः कुरहञ्जनकः ‘कोल्हसुआ’ इति लोके; कुनाडिकेति क्वचित्, तत्र कुनाडिका गोनाडीकः; कुन्तलिका चुच्चूसदृशा दीर्घपत्रा; कुरुण्टिका अम्लानसदृशपत्रकुसुमा हरितपुष्पा, अन्ये ‘कुनालिकाकुरण्टिके उत्तरापथजे’ इत्याहुः, केचित्त्रिपर्ण्यादीनां श्लोकेन निर्देशं कुर्वन्ति||२७४||
Adhikarana 194 (275) · Śloka 275
स्वादुपाकरसाः शीताः कफघ्ना नातिपित्तलाः | लवणानुरसा रूक्षाः सक्षारा वातलाः सराः ||२७५||
🔊 Audio coming soon
तेषां सामान्यं गुणमाह- स्वादुपाकेत्यादि||२७५||
Adhikarana 195 (276) · Śloka 276
स्वादुतिक्ता कुन्तलिका कषाया सकुरण्टिका |२७६|
🔊 Audio coming soon
विशेषगुणमाह- स्वाद्वित्यादि|२७६|
Adhikarana 196 (276) · Śloka 276
सङ्ग्राहि शीतलं चापि लघु दोषापहं तथा | राजक्षवकशाकं तु शटीशाकं च तद्विधम् ||२७६||
🔊 Audio coming soon
प्रभृतिगृहीतमाह- सङ्ग्राहीत्यादि ‘दोषापहं तथा’ इत्यत्र ‘दोषविरोधि च’ इति केचित् पठन्ति, तन्नेच्छति जेज्झटः| राजक्षवकशाकं कृष्णराजिका, अन्ये तु ‘राजक्षवको बृहत्पत्रः क्षवथुकाकर’ इत्याहुः| शटी स्वनामप्रसिद्धा| तद्विधमिति राजक्षवकसदृशम्||२७६||
Adhikarana 197 (277) · Śloka 277
स्वादुपाकरसं शाकं दुर्जरं हरिमन्थजम् |२७७|
🔊 Audio coming soon
स्वाद्वित्यादि| हरिमन्थश्चणकः|२७७|
Adhikarana 198 (277) · Śloka 277
भेदनं मधुरं रूक्षं कालायमतिवातलम् ||२७७||
🔊 Audio coming soon
भेदनमित्यादि| पूर्वं सतीनो वर्तुलकलायः, इह तु त्रिपुटककलायः||२७७||
Adhikarana 199 (278) · Śloka 278
स्रंसनं कटुकं पाके लघु वातकफापहम् | शोफघ्नमुष्णवीर्यं च पत्रं पूतिकरञ्जजम् ||२७८||
🔊 Audio coming soon
स्रंसनमित्यादि| पूतिकरञ्जः कण्टकिकरञ्जः, अन्ये तु पूतिकश्चिरबिल्वः, करञ्जो नक्तमालः||२७८||
Adhikarana 200 (279-280) · Śloka 280
ताम्बूलपत्रं तीक्ष्णोष्णं कटु पित्तप्रकोपणम् | सुगन्धि विशदं तिक्तं स्वर्यं वातकफापहम् ||२७९|| स्रंसनं कटुकं पाके कषायं वह्निदीपनम् | वक्त्रकण्डूमलक्लेददौर्गन्ध्यादिविशोधनम् ||२८०||
🔊 Audio coming soon
ताम्बूलेत्यादि| ताम्बूलपत्रं नागवल्लीपत्रं ‘पर्णम्’ इति लोके| स्रंसनं कटुकं पाके इत्यन्तं पर्णमुक्त्वा कषायमित्यादि पूगफलं, तस्य फलवर्ग एव पठितत्वान्न पठनीयमित्येके, अन्ये फलवर्गे पक्वमित्युक्तं शाकेषु त्वपक्वमार्द्रं चेत्याहुः||२७९-२८०||
Adhikarana 201 (281) · Śloka 281
अथ पुष्पवर्गः | कोविदारशणशाल्मलीपुष्पाणि मधुराणि मधुरविपाकानि रक्तपित्तहराणि च; वृषागस्त्ययोः पुष्पाणि तिक्तानि कटुविपाकानि क्षयकासापहानि च ||२८१||
🔊 Audio coming soon
अथ पुष्पशाकान्याह- कोविदारेत्यादि| कोविदारः काञ्चनारस्तद्भेदो वा; शणो बन्धनार्हत्वक् प्रसिद्धः| तेषां सामान्यगुणमाह- मधुराणीत्यादि| वृषेत्यादि| वृषो वासकः, अगस्त्यः ‘अगथीया’ इति लोके||२८१||
Adhikarana 202 (282) · Śloka 282
आगस्त्यं नातिशीतोष्णं नक्तान्धानां प्रशस्यते ||२८२||
🔊 Audio coming soon
तयोरगस्त्यपुष्पस्य गुणविशेषमाह- आगस्त्यमित्यादि||२८२||
Adhikarana 203 (283) · Śloka 283
करीरकुसुमानि कटुविपाकानि वातहराणि सृष्टमूत्रपुरीषाणि च ||२८३||
🔊 Audio coming soon
करीरेत्यादि| अत्रापि रसवीर्यविपाकप्रभावितं कार्यं योजनीयम्||२८३||
Adhikarana 204 (284) · Śloka 284
रक्तवृक्षस्य निम्बस्य मुष्ककार्कासनस्य च | कफपित्तहरं पुष्पं कुष्ठघ्नं कुटजस्य च ||२८४||
🔊 Audio coming soon
रक्तवृक्षस्येत्यादि| रक्तवृक्षस्य रक्तचन्दनस्य| मुष्ककस्य क्षारवृक्षस्य ‘मोख-उ’ इति लोके, असनो बीजकः| शेषं प्रसिद्धम्||२८४||
Adhikarana 205 (285) · Śloka 285
सतिक्तं मधुरं शीतं पद्मं पित्तकफापहम् | मधुरं पिच्छिलं स्निग्धं कुमुदं ह्लादि शीतलम् | तस्मादल्पान्तरगुणे विद्यात् कुवलयोत्पले ||२८५||
🔊 Audio coming soon
सतिक्तमित्यादि| पद्मं पद्मपुष्पं सूर्योदयविकासि| कुमुदं चन्द्रोदयविकासि| कुवलयं कुमुदभेदः, उत्पलं स्वनामप्रसिद्धम्||२८५||
Adhikarana 206 (286) · Śloka 286
सिन्धुवारं विजानीयाद्धिमं पित्तविनाशनम् |२८६|
🔊 Audio coming soon
सिन्धुवारमित्यादि| सिन्धुवारं निर्गुण्डीपुष्पम्|२८६|
Adhikarana 207 (286) · Śloka 286
मालतीमल्लिके तिक्ते सौरभ्यात् पित्तनाशने ||२८६||
🔊 Audio coming soon
मालतीत्यादि| मालती जाती; मल्लिका प्रसिद्धा| सौरभ्यात् सौगन्ध्यात्||२८६||
Adhikarana 208 (287) · Śloka 287
सुगन्धि विशदं हृद्यं बाकुलं पाटलानि च | श्लेष्मपित्तविषघ्नं तु नागं तद्वच्च कुङ्कुमम् ||२८७||
🔊 Audio coming soon
सुगन्धीत्यादि| नागं नागकेशरम्| तद्वन्नागवत्| कुङ्कुमं प्रसिद्धम्||२८७||
Adhikarana 209 (288) · Śloka 288
चम्पकं रक्तपित्तघ्नं शीतोष्णं कफनाशनम् | किंशुकं कफपित्तघ्नं तद्वदेव कुरण्टकम् ||२८८||
🔊 Audio coming soon
किंशुकं पलाशपुष्पं, कुरण्टकं सहचरपुष्पम्||२८८||
Adhikarana 210 (289) · Śloka 289
यथावृक्षं विजानीयात् पुष्पं वृक्षोचितं तथा |२८९|
🔊 Audio coming soon
उपसंहारमाह- यथेन्यादि| वृक्षोचितं वृक्षानुसारेणेत्यर्थः|२८९|
Adhikarana 211 (289) · Śloka 289
मधुशिग्रुकरीराणि कटूनि श्लेष्महराणि च ||२८९||
🔊 Audio coming soon
मध्वित्यादि| मधुशिग्रू रक्तशोभाञ्जनकः, तस्य करीराणि कोमला नालाः; अन्ये तु ‘मधुशिग्रूकरीराणि’ इत्यत्र ‘मधुशिग्रुकरीरयोः पुष्पाणि’ इति व्याचक्षते, ते तु ‘करीरकुसुमानि’ इति पूर्वपाठं न मन्यन्ते||२८९||
Adhikarana 212 (290) · Śloka 290
क्षवककुलेवरवंशकरीरप्रभृतीनि कफकराणि सृष्टमूत्रपुरीषाणि च ||२९०||
🔊 Audio coming soon
उद्भिदशाकान्याह- क्षवकेत्यादि| क्षवकश्छत्रकः, कुलेवरं खुखुण्डकः , वंशकरीरो वंशाङ्कुरः; अन्ये तु क्षवकं द्रोणपुष्पीसदृशं विटपमाहुः, तन्न, तस्यानुद्भिदत्वात्| प्रभृतिग्रहणादन्यान्यप्युद्भिदानि| तेषां सामान्यगुणमाह- कफहराणीत्यादि||२९०||
Adhikarana 213 (291-292) · Śloka 292
क्षवकं कृमिलं तेषु स्वादुपाकं सपिच्छलम् | विस्यन्दि वातलं नातिपित्तश्लेष्मकरं च तत् ||२९१|| वेणोः करीराः कफला मधुरा रसपाकतः | विदाहिनो वातकराः सकषाया विरूक्षणाः ||२९२||
🔊 Audio coming soon
तेषां कस्यचिद्विशेषगुणमाह- क्षवकमित्यादि| विस्यन्दि श्लेष्मस्रावि, एतेन श्लेष्मणो जनकप्रवर्तकत्वमुक्तम्| वेणोः करीरा इति केचिन्मधुररसपाकित्वविदाहित्वयोर्विरोधमाहुः, तन्न प्रभावात्||२९१-२९२||
Adhikarana 214 (293) · Śloka 293
उद्भिदानि पलालेक्षुकरीषवेणुक्षितिजानि | तत्र पलालजातं मधुरं मधुरविपाकं रूक्षं दोषप्रशमनं च | इक्षुजं मधुरं कषायानुरसं कटुपाकं शीतलं च | तद्वदेवोष्णं कारीषं कषायं वातकोपनं च, (वेणुजातं कषायं वातकोपनं च,) भूमिजं गुरु नातिवातलं भूमितश्चास्यानुरसः ||२९३||
🔊 Audio coming soon
आधारविशेषेणाप्युद्भिदानां गुणविशेषमाह- उद्भिदानीत्यादि| उद्भिदानि छत्रकादीनि| तद्वदिति इक्षुजसदृशम्| भूमितश्चास्यानुरस इति भूमिसदृशगुणमित्यर्थः| यद्यपि वेणुजस्य गुणा नोक्ताः, तथाऽपि तदाधारसदृशगुणमूह्यम्||२९३||
Adhikarana 215 (294) · Śloka 294
पिण्याकतिलकल्कस्थूणिकाशुष्कशाकानि सर्वदोषप्रकोपणानि ||२९४||
🔊 Audio coming soon
शुष्कशाकविशेषगुणमाह- पिण्याकेत्यादि| उमासर्षपादीनां यन्त्रादिपीडितानां निःस्नेहकल्कः पिण्याकः| तिलकल्कस्तिलपिण्याकः, सोऽपि यन्त्रादिपीडितः| स्थूणिकाशुष्कशाकानि नानाशाकैः कृता वटकाः; न तु शुष्कशाकमिति भिन्नं, तस्योक्तगुणत्वात्; स्थूणिकारूपाणि शुष्कशाकानीति वाऽर्थः, तत्रापि स्थूणिका वटकाः; अन्ये तु ‘पिण्याकीतिलपत्रस्थूणिकाशुष्कशाकानि’ इति पठन्ति व्याख्यानयन्ति च- पिण्याकीशाकं कच्छविषये प्रायशः , तिलपत्रं तिलविपटशाकं, स्थूणिका अतरुणशुष्कशाकं मूलकशाकं विहायान्यत् सर्वं, तन्नेच्छति गयी||२९४||
Adhikarana 216 (295) · Śloka 295
विष्टम्भिनः स्मृताः सर्वे वटका वातकोपनाः |२९५|
🔊 Audio coming soon
स्थूणिकाशुष्कशाकानां गुणकर्माह- विष्टम्भिन इत्यादि| वटकाः पिष्टकासमर्दककूष्माण्डकमूलकादिकृता मुद्गादिकृताश्च| सवाततोदशूला मलाप्रवृत्तिर्विष्टम्भः|२९५|
Adhikarana 217 (295) · Śloka 295
सिण्डाकी वातला सार्द्रा रुचिष्याऽनलदीपनी ||२९५||
🔊 Audio coming soon
शुष्कशाकप्रकरणाच्छुष्कशाकविशेषस्य गुणमाह- सिण्डाकीत्यादि| मूलकादिशाकमेव किञ्चित् स्विन्नं क्षुण्णं सुगन्धिकटुद्रव्यान्वितं वटकीकृतं सूदेषु ‘सिण्डाकी’ इत्युच्यते; सा द्विविधा- आर्द्रा, शुष्का च; शुष्का वटकान्तर्गता, आर्द्रायास्त्वयमेव गुणनिर्देशः||२९५||
Adhikarana 218 (296) · Śloka 296
विड्भेदि गुरु रूक्षं च प्रायो विष्टम्भि दुर्जरम् | सकषायं च सर्वं हि स्वादु शाकमुदाहृतम् | पुष्पं पत्रं फलं नालं कन्दाश्च गुरवः क्रमात् ||२९६||
🔊 Audio coming soon
स्वादुशाकविषयां परिभाषामाह- विड्भेदीत्यादि| स्वादु यच्छाकं तत्सर्वमेवैवङ्गुणमित्यर्थः| पुष्पमित्यादि क्वचित् पाठः||२९६||
Adhikarana 219 (297) · Śloka 297
कर्कशं परिजीर्णं च कृमिजुष्टमदेशजम् | वर्जयेत् पत्रशाकं तद्यदकालविरोहि च ||२९७|| इति शाकवर्गः |
🔊 Audio coming soon
वर्जनीयपत्रशाकविषयां परिभाषामाह- कर्कशमित्यादि| कर्कशं खरस्पर्शम्| परिजीर्णं पुरातनम्, कृमिजुष्टं कृमिभक्षितम्| अदेशजमनुचितदेशोत्पन्नम्| अकालविरोहि अकालजम्||२९७||
Adhikarana 220 (298) · Śloka 298
अथ कन्दवर्गः | कन्दानात ऊर्ध्वं वक्ष्यामः- विदारीकन्दशतावरीबिसमृणालशृङ्गाटककशेरुकपिण्डालुकमध्वालुक- हस्त्यालुककाष्ठालुकशङ्खालुकरक्तालुकेन्दीवरोत्पलकन्दप्रभृतीनि ||२९८||
🔊 Audio coming soon
केचित् फलवदुपयुज्यमानत्वात् फलवर्गादनन्तरं कन्दान् पठन्ति, शाकविषयत्वादन्ये शाकानन्तरमिति कन्दानाह- कन्दानत इत्यादि| विदारी विदारीकन्दः; शतावरी शतमूली स्वानामप्रसिद्धा; बिसं पद्ममूलम्, अन्ये स्थूलपद्मनालं बिसमाहुः; मृणालं पद्ममूलात् स्थूलप्ररोहः, अन्ये तु सूक्ष्मं नालमाहुः; शृङ्गाटकं जलमध्ये त्रिकण्टकं ‘सिङ्घाडा’ इति लोके; कशेरुकपिण्डालूप्रसिद्धौ; मध्वालुकं रोमशं मधुरास्वादमेव; हस्त्यालुकं महत्काष्ठालुकमित्येके; काष्ठालुकशङ्खालुकरक्तालुकोत्पलकन्दाः स्वनामप्रसिद्धाः| प्रभृतिग्रहणात् केलूटमुञ्जातकादयः||२९८||
Adhikarana 221 (299) · Śloka 299
रक्तपित्तहराण्याहुः शीतानि मधुराणि च | गुरूणि बहुशुक्राणि स्तन्यवृद्धिकराणि च ||२९९||
🔊 Audio coming soon
तेषां सामान्यगुणमाह- रक्तपित्तेत्यादि||२९९||
Adhikarana 222 (300-302) · Śloka 302
मधुरो बृंहणो वृष्यः शीतः स्वर्योऽतिमूत्रलः | विदारीकन्दो बल्यश्च पित्तवातहरश्च सः ||३००|| वातपित्तहरी वृष्या स्वादुतिक्ता शतावरी | महती चैव हृद्या च मेधाग्निबलवर्धिनी ||३०१|| ग्रहण्यर्शोविकारघ्नी वृष्या शीता रसायनी | कफपित्तहरास्तिक्तास्तस्या एवाङ्कुराः स्मृताः ||३०२||
🔊 Audio coming soon
तेषां विशेषगुणमाह- मधुर इत्यादि| महदल्पभेदेन शतावरी द्विविधा| तस्या एवाङ्कुराः शतावर्यङ्कुरा इत्यर्थः||३००-३०२||
Adhikarana 223 (303-304) · Śloka 305
अविदाहि बिसं प्रोक्तं रक्तपित्तप्रसादनम् | विष्टम्भि दुर्जरं रूक्षं विरसं मारुतावहम् ||३०३|| गुरू विष्टम्भिशीतौ च शृङ्गाटककशेरुकौ | पिण्डालुकं कफकरं गुरु वातप्रकोपणम् ||३०४|| सुरेन्द्रकन्दः श्लेष्मघ्नो विपाके कटु पित्तकृत् |३०५|
🔊 Audio coming soon
सुरेन्द्रकन्दो वज्रकन्दः||३०३-३०४||-
Adhikarana 224 (305) · Śloka 305
वेणोः करीरा गुरवः कफमारुतकोपनाः ||३०५||
🔊 Audio coming soon
वेणोरित्यादि| वेणोः करीरा वंशमूलाङ्कुराः||३०५||
Adhikarana 225 (306) · Śloka 306
स्थूलसूरणमाणकप्रभृतयः कन्दा ईषत्कषायाः कटुका रूक्षा विष्टम्भिनो गुरवः कफवातलाः पित्तहराश्च ||३०६||
🔊 Audio coming soon
अन्यानपि कन्दानेकगुणान् वर्गीकृत्याह- स्थूलेत्यादि| स्थूलकन्दो ग्राम्यकन्दः; केचित् ‘सकलकन्द’ इति पठन्ति, तत्रापि स एवार्थः; शूरणः स्वनामप्रसिद्धः; माणकं महापत्रं यथापूर्वमधःपत्रपरित्यागि| प्रभृतिशब्दात् केवदादिकन्दाः| तेषां सामान्यगुणमाह- ईषत्कषाया इत्यादि||३०६||
Adhikarana 226 (307) · Śloka 307
मान(ण)कं स्वादु शीतं च गुरु चापि प्रकीर्तितम् | स्थूलकन्दस्तु नात्युष्णः सूरणो गुदकीलहा ||३०७||
🔊 Audio coming soon
विशेषणगुणमाह- मानकमित्यादि||३०७||
Adhikarana 227 (308-309) · Śloka 309
कुमुदोत्पलपद्मानां कन्दा मारुतकोपनाः | कषायाः पित्तशमना विपाके मधुरा हिमाः ||३०८|| वाराहकन्दः श्लेष्मघ्नः कटुको रसपाकतः | मेहकुष्ठकृमिहरो बल्यो वृष्यो रसायनः ||३०९||
🔊 Audio coming soon
तदन्यकन्दानाह- कुमुदेत्यादि| कुमुदं श्वेतोत्पलम्, उत्पलं नीलोत्पलम्| तेषां सामान्यगुणमाह- मारुतकोपना इत्यादि| वराहकन्द इति वराहकन्दो ‘बकालुक’ इति प्रसिद्धः, अन्ये तु ‘वाराही’ इति पठन्ति, वाराही गृष्टिकोच्यते||३०८-३०९||
Adhikarana 228 (310) · Śloka 310
तालनारिकेलखर्जूरप्रभृतीनां मस्तकमज्जानः ||३१०||
🔊 Audio coming soon
मूलप्रसङ्गेनाग्रगुणमपि केषाञ्चिदाह- तालेत्यादि| तालादयः प्रसिद्धाः| मस्तकमज्जानस्तालादिवृक्षाग्रमज्जानः||३१०||
Adhikarana 229 (311) · Śloka 311
स्वादुपाकरसानाहू रक्तपित्तहरांस्तथा | शुक्रलाननिलघ्नांश्च कफवृद्धिकरानपि ||३११||
🔊 Audio coming soon
सामान्यगुणमाह- स्वादुपाकेत्यादि||३११||
Adhikarana 230 (312) · Śloka 312
बालं ह्यनार्तवं जीर्णं व्याधितं क्रिमिभक्षितम् | कन्दं विवर्जयेत् सर्वं यो वा सम्यङ्न रोहति ||३१२||
🔊 Audio coming soon
हेयमाह- बालमित्यादि| इति कन्दवर्गः||३१२||
Adhikarana 231 (313) · Śloka 313
अथ लवणवर्गः | अथ लवणानि- सैन्धवसामुद्रविडसौवर्चलरोमकौद्भिदप्रभृतीनि यथोत्तरमुष्णानि वातहराणि कफपित्तकराणि कटुपाकीनि यथापूर्वं स्निग्धानि स्वादूनि सृष्टमूत्रपुरीषाणि चेति ||३१३||
🔊 Audio coming soon
अथेत्यादि| सैन्धवं प्रसिद्धं; दक्षिणसमुद्रसमीपभवं सामुद्रं; विडं कृत्रिमं स्वनाम्ना ख्यातं, तच्च प्रसारणीकल्कभक्तलवणसंयोगादग्निदाहेन निर्वृत्तं; सौवर्चलं प्रसिद्धं; तदेव निर्गन्धं काललवणमित्युच्यते; रोमकं शाकम्भरीदेशोत्थं, ‘रुमासरःसम्भवम्’ इत्यन्ये; भूमिमुद्भिद्योत्पन्नस्य क्षारोदकस्य सूर्यरश्मिभिर्वह्निना वा क्वथनाद्यल्लवणमुत्पद्यते तदौद्भिदं; प्रभृतिग्रहणादूषरप्रसवादीनि| तेषां सामान्यगुणमाह- यथोत्तरमित्यादि| जेज्झटश्चरकमतानुसारेण सैन्धवानन्तरं सौवर्चलं पठति; ‘तदसम्यक्, सामुद्रात् सौवर्चलस्योष्णत्वात्; उत्तरोत्तरमुष्णानीति वचनात्’ इति गयी||३१३||
Adhikarana 232 (314-320) · Śloka 320
चक्षुष्यं सैन्धवं हृद्यं रुच्यं लघ्वग्निदीपनम् | स्निग्धं समधुरं वृष्यं शीतं दोषघ्नमुत्तमम् ||३१४|| सामुद्रं मधुरं पाके नात्युष्णमविदाहि च | भेदन स्निग्धमीषच्च शूलघ्नं नातिपित्तलम् ||३१५|| सक्षारं दीपनं सूक्ष्मं शूलहृद्रोगनाशनम् | रोचनं तीक्ष्णमुष्णं च विडं वातानुलोमनम् ||३१६|| लघु सौवर्चलं पाके वीर्योष्णं विशदं कटु | गुल्मशूलविबन्धघ्नं हृद्यं सुरभि रोचनम् ||३१७|| रोमकं तीक्ष्णमत्युष्णं व्यवायि कटुपाकि च | वातघ्नं लघु विस्यन्दि सूक्ष्मं विड्भेदि मूत्रलम् ||३१८|| लघु तीक्ष्णोष्णमुत्क्लेदि सूक्ष्मं वातानुलोमनम् | सतिक्तं कटु सक्षारं विद्याल्लवणमौद्भिदम् ||३१९|| कफवातक्रिमिघ्नं च लेखनं पित्तकोपनम् | दीपनं पाचनं भेदि लवणं गुटिकाह्वयम् ||३२०||
🔊 Audio coming soon
तेषां विशेषमाह- चक्षुष्यमित्यादि| वृष्यत्वं पुनरस्य जात्युत्कर्षात्, अन्येषामवृष्यत्वमाहुः| सूक्ष्मं सूक्ष्मस्रोतोऽवगाहनशीलम्| वातानुलोमनं मार्गावृतवातस्य स्रोतःशुद्धिकरत्वेन प्रवर्तनं, धातुक्षयकृतस्य तु सूक्ष्मत्वसामान्यान्नातिप्रशमनमित्यर्थः| व्यवायीति अपक्वमेव देहमखिलं व्याप्नोति पश्चाद्देहस्थमेव पाकमुपैति| लघ्वित्यादि| उत्क्लेदि आर्द्रीभावकारि, अन्ये ‘प्रकोपयति श्लेष्मपित्तादीन्’ इत्याहुः| प्रभृतिशब्दोपगृहीतं केचिद्गुडिकालवणं पठन्ति- दीपनमित्यादि| पाकाभिनिर्वृत्तत्वाद्गुडिकाभूतमेव गुडिकालवणं भवति, तच्च ‘वृक्षलवणम्’ इति ख्यातम्||३१४-३२०||
Adhikarana 233 (321) · Śloka 321
ऊषसूतं वालुकैलं शैलमूलाकरोद्भवम् | लवणं कटुकं छेदि विहितं कटु चोच्यते ||३२१||
🔊 Audio coming soon
अपरमपि प्रभृतिग्रहणोपगृहीतमाह- ऊषसूतमित्यादि| ऊषसूतमूषरप्रजातम्| वालुकैलमिति वालुकाः सिकताः, ताभिर्युक्ता इला पृथ्वी वालुकैला, तत्र सम्भवं वालुकैलम्| मूलाकरोद्भवमिति मूलभूत आकरो मूलाकरः, प्रशस्यतरतुरङ्गमोत्पत्तिभूमिः, तत्रोद्भवं मूलाकरोद्भवम्| कटु चोच्यत इति कटुलवणमिति प्रसिद्धमित्यर्थः||३२१||
Adhikarana 234 (322-325) · Śloka 325
यवक्षारस्वर्जिकाक्षारोषक्षारपाकिमटङ्कणक्षारप्रभृतयः | गुल्मार्शोग्रहणीदोषशर्कराश्मरिनाशनाः | क्षारास्तु पाचनाः सर्वे रक्तपित्तकराः सराः | ज्ञेयौ वह्निसमौ क्षारौ स्वर्जिकायावशूकजौ | शुक्रश्लेष्मविबन्धार्शोगुल्मप्लीहविनाशनौ ||३२३|| उष्णोऽनिलघ्नः प्रक्लेदी चोषक्षारो बलापहः | मेदोघ्नः पाकिमः क्षारस्तेषां बस्तिविशोधनः ||३२४|| विरूक्षणोऽनिलकरः श्लेष्मघ्नः पित्तदूषणः | अग्निदीप्तिकरस्तीक्ष्णष्टङ्कणः क्षार उच्यते ||३२५||
🔊 Audio coming soon
लवणसारूप्यादाह- यवक्षारेत्यादि| यवक्षारो यवशूकोद्भवः ‘शीतलिका’ ‘यवक्षार’ इति च लोके; स्वर्जिक्षारः ‘साजी’ इति लोके; पाकेन निर्वृत्तः पाकिमः क्षारपाकविधानोक्तः प्रतिसारणीयः पानीयश्च, ‘पाकिमं तूषरपांशुकाभिनिर्वृत्तम्’ इत्यन्ये, अपरे पाकिमाद्भिन्नमूषरक्षारमाहुः; टङ्कणक्षारः सौभाग्यापरपर्यायः ‘सुहागा’ इति लोके; प्रभृतिग्रहणादेवञ्जातीयानां क्षाराणामवरोधः| तेषां सामान्यगुणमाह- गुल्मेत्यादि| विशेषगुणमाह- ज्ञेयावित्यादि||३२२-३२५||
Adhikarana 235 (326-330) · Śloka 330
सुवर्णं स्वादु हृद्यं च बृंहणीयं रसायनम् | दोषत्रयापहं शीतं चक्षुष्यं विषसूदनम् ||३२६|| रूप्यमम्लं सरं शीतं सस्नेहं पित्तवातनुत् | ताम्रं कषायं मधुरं लेखनं शीतलं सरम् ||३२७|| सतिक्तं लेखनं कांस्यं चक्षुष्यं कफवातजित् | वातकृच्छीतलं लोहं तृष्णापित्तकफापहम् ||३२८|| कटु क्रिमिघ्नं लवणं त्रपु सीसं च लेखनम् | मुक्ताविद्रुमवज्रेन्द्रवैदूर्यस्फटिकादयः ||३२९|| चक्षुष्या मणयः शीता लेखना विषसूदनाः | पवित्रा धारणीयाश्च पाप्मालक्ष्मीमलापहाः ||३३०|| इति लवणादिवर्गः |
🔊 Audio coming soon
अत्र केचित् सुवर्णादीनामपि गुणमाहुः- सुवर्णमित्यादि||३२६-३३०||
Adhikarana 236 (331) · Śloka 331
धान्येषु मांसेषु फलेषु चैव शाकेषु चानुक्तमिहाप्रमेयात् | आस्वादतो भूतगुणैश्च मत्वा तदादिशेद्द्रव्यमनल्पबुद्धिः ||३३१||
🔊 Audio coming soon
द्रव्यानन्त्यादनुक्तद्रव्यज्ञानोपायमाह- धान्येष्वित्यादि| चकारात् कन्दलवणद्रवकृतान्नादीनां समुच्चयः| इहेति शास्त्रे| अप्रमेयात् आनन्त्यादित्यर्थः| ‘अप्रमोहात्’ इति ‘अप्रमादात्’ इति च क्वचित् पाठः; तत्राप्रमोहो ज्ञानमेव| तेष्वनुक्तद्रव्येषु परमौपयौगिकमुक्तं, न सर्वं विस्तरभयादित्यर्थः| तत्राप्रमादः सावधानत्वमेवास्माकम्| आस्वादतो रसात्| भूतगुणैरिति द्रव्यारम्भकभूतगुणैर्वीर्यपाकादिभिश्च| अन्ये तु पठन्ति(?) तेषां जडत्वेन प्रमादपाठ एवायम्||३३१||
Adhikarana 237 (332-339) · Śloka 339
षष्टिका यवगोधूमा लोहिता ये च शालयः | मुद्गाढकीमसूराश्च धान्येषु प्रवराः स्मृताः ||३३२|| लावतित्तिरिसारङ्गकुरङ्गैणकपिञ्जलाः | मयूरवर्मिकूर्माश्च श्रेष्ठा मांसगणेष्विह ||३३३|| दाडिमामलकं द्राक्षा खर्जूरं सपरूषकम् | राजादनं मातुलुङ्गं फलवर्गे प्रशस्यते ||३३४|| सतीनो वास्तुकश्चुच्चूचिल्लीमूलकपोतिकाः | मण्डूकपर्णी जीवन्ती शाकवर्गे प्रशस्यते ||३३५|| गव्यं क्षीरं घृतं श्रेष्ठं, सैन्धवं लवणेषु च | धात्रीदाडिममम्लेषु, पिप्पली नागरं कटौ ||३३६|| तिक्ते पटोलवार्ताकं, मधुरे घृतमुच्यते | क्षौद्रं, पूगफलं श्रेष्ठं कषाये सपरूषकम् ||३३७|| शर्करेक्षुविकारेषु, पाने मध्वासवौ तथा | परिसंवत्सरं धान्यं, मांसं वयसि मध्यमे ||३३८|| अपर्युषितमन्नं तु संस्कृतं मात्रया शुभम् | फलं पर्यागतं, शाकमशुष्कं तरुणं नवम् ||३३९||
🔊 Audio coming soon
उक्तेषु प्रधानतममाह- षष्टिका इत्यादि| रक्तशालिषष्टिकौ शूकधान्येषु, यवगोधूमौ कुधान्येषु, मुद्गाढकीमसूराः शमीधान्येषु| लावेत्यादि- लावतित्तिरिकपिञ्जलमयूरा विष्किरेषु पक्षिषु; सारङ्गकुरङ्गैणा जाङ्गलमृगेषु, सारङ्गोऽत्र गौरहरिणः, कुरङ्गश्चतुरङ्गो, भेदुलापतिः , एणः कृष्णहरिणः; वर्मीर्मत्स्येषु, वर्मी रोहितक इत्येके, “रोहितो मत्स्यानां” (च. सू. अ. २५) इति चरकवचनात्, अन्ये सर्पाकारमत्स्यमाहुः, श्रीब्रह्मदेवस्तु ‘वर्मी महाशकलो रोहितभेदोऽत्र, न पुनः सर्पाकारमत्स्यः’ इत्याह; कूर्मः कच्छपः, स च पादिषु| दाडिमेत्यादि दाडिमामलकमातुलुङ्गानि फलेष्वम्लेषु; द्राक्षाखर्जूरराजादनानि मधुरफलेषु, खर्जूरं पिण्डखर्जूरं, राजादनं क्षीरिका; परूषकं कषायेषु, परुषकं ‘फालसा’ इति लोके, ‘परूषकमातुलुङ्गे मधुराम्लेषु’ इति केचित्| सतीन इति सतीनादयः शाकवर्गे, सतीनो वर्तुलकः, वास्तुकष्टङ्कवास्तुकः, चूचूः ‘चूच्च’ इति लोके, चिल्ली क्षेत्रवास्तुकः, मूलकपोतिका बालमूलकं, मण्डूकपर्णी ब्राह्मी, जीवन्ती ‘डोडी’ इति लोके, ‘जीवन्ती जीवा, तण्डूलीयकसदृशी’ इत्यन्ये| ‘शाकमांसफलैर्युक्ता’ इत्यादौ विशेषानुक्तावप्येषामेव प्राधान्याद्ग्रहणम्| गोरसेषु गव्यं क्षीरघृतं श्रेष्ठं; सैन्धवमिति लवणेषु सैन्धवम्| धात्रीत्यादि ‘ईषदम्लैरनम्लैर्वा’ इत्यादावम्लीकरणेऽनुक्तयोरपि धात्रीदाडिमयोरेव प्रयोगः, एवं कटुकादिष्वपि ज्ञेयं; धात्रीदाडिमेत्यादिरसद्वारेणेति न पुनरुक्तम्| पिप्पलीत्यादि| घृतं क्षौद्रं च मधुरे, कषाये पूगफलं परूषकं च| शर्करेक्षुविकारेषु अनुक्तविशेषेषु शर्करा| पाने इत्यादि मधुशब्देन मार्द्वीकम्, आसवशब्देन द्राक्षासवः| परिसंवत्सरमिति परिसंवत्सरोषितं वर्षोषितं धान्यमित्यर्थः| मांसमित्यादि मध्यमे वयस्येणादेर्मांसं प्रधानमित्यर्थः| अपर्युषितमिति अपर्युषितमन्नं तद्दिनसिद्धम्| मात्रयेति मात्रया प्रयुक्तमित्यर्थः| शुभं पथ्यम्| पर्यागतं पक्वमित्यर्थः| शाकमित्यादि अशुष्कमार्द्रं, तरुणं प्रत्यग्रं, नवं तत्कालत्रोटितम्| सलिलदध्यादितैलमाक्षिकमूत्राणां स्ववर्ग एव प्राधान्यमिति न पुनरिह कथनं कृतम्||३३२-३३९||
Adhikarana 238 (340) · Śloka 341
अथ कृतान्नवर्गः | अतः परं प्रवक्ष्यामि कृतान्नगुणविस्तरम् | लाजमण्डो विशुद्धानां पथ्यः पाचनदीपनः ||३४०|| वातानुलोमनो हृद्यः पिप्पलीनागरायुतः |३४१|
🔊 Audio coming soon
संस्कृतानां गुणमाह- अत इत्यादि| कृतान्नं संस्कृतान्नं साधितान्नमित्यर्थः| लाजेत्यादि| केचिदत्र ‘अविशुद्धानां’ इति ईषदर्थमकारमुत्पाद्य मन्दविरेचनादविशुद्धानामित्यर्थं वदन्ति; चरकाभिप्रायेण तु ‘विशुद्धानां’ इत्येव पाठः, न तु ‘अविशुद्धानां’ इति| पथ्यो हित इत्यर्थः| पाचन आमादीनां, दीपनो जठराग्नेः| हृदयाय हितो हृद्यः| आयुत ईषद्युक्तः||३४०||-
Adhikarana 239 (341) · Śloka 342
स्वेदाग्निजननी लघ्वी दीपनी बस्तिशोधनी ||३४१|| क्षुत्तृट्श्रमग्लानिहरी पेया वातानुलोमनी |३४२|
🔊 Audio coming soon
पेयामाह- स्वेदाग्निजननीत्यादि|- उष्णत्वात् स्वेदजननी| क्षुत्तृट्श्रमग्लानिहरीत्यत्र ‘क्षुधं तृषं द्रवत्वात्, श्रमग्लानी तृप्तिजनकत्वात्, हरति’ इत्येके व्याचक्षते; वृद्धवैद्यास्तु ‘क्षुत्तृट्श्रमेभ्य उत्पन्नां ग्लानिं हरति’ इति व्याख्यानयन्ति| पेया यवागूः; सा विरलद्रवा, तदुपरितनो भागो मण्डः; एतद्द्वयमपि पेयम्||३४१||-
Adhikarana 240 (342) · Śloka 343
विलेपी तर्पणी हृद्या ग्राहिणी बलवर्धनी ||३४२|| पथ्या स्यादुरसा लघ्वी दीपनी क्षुत्तृषापहा |३४३|
🔊 Audio coming soon
यवागूगुणकर्माभिधाय विलेपीगुणकर्माह- विलेपीत्यादि| विलेपी घनसिक्था, सा च लेह्या; तत्र मण्डपेयाविलेपीनां तण्डुलजलप्रमाणादिकं सूपकारा एव जानन्ति, विस्तरभयात् परिभाषाया अप्यनवस्थानाच्च न प्रमाणं लिखितम्||३४२||-
Adhikarana 241 (343) · Śloka 344
हृद्या सन्तर्पणी वृष्या बृंहणी बलवर्धनी ||३४३|| शाकमांसफलैर्युक्ता विलेप्यम्ला च दुर्जरा |३४४|
🔊 Audio coming soon
तस्या एव विलेप्या अन्यसंयोगे गुणकर्माह- हृद्येत्यादि| हृद्या हृदयाय हिता| सन्तर्पणी तृप्तिजननी| वृष्या शुक्रला| बृंहणी शरीरवृद्धिकरी| अम्ला अम्लादिभिः कृतसंस्कारा| जेज्झटस्तु हृद्या सन्तर्पणीत्यादिश्लोकार्धं विमुच्य “शाकमांसफलैर्युक्ता यवाग्वोऽम्लाश्च दुर्जराः”- इत्येवं पठति||३४३||-
Adhikarana 242 (344) · Śloka 345
सिक्थैर्विरहितो मण्डः पेया सिक्थसमन्विता ||३४४|| विलेपी बहुसिक्था स्याद्यवागूर्विरलद्रवा |३४५|
🔊 Audio coming soon
कः पुनर्मण्डादीनां भेद इत्याह- सिक्थैरित्यादि| पेया सिक्थसमन्वितेति अत्र पेया यवागूरुच्यते, सा च सिक्थसमन्विता भवति| विलेपी बहुसिक्था स्यादिति बहुसिक्था घनसिक्था पृथग्द्रवरहिता, अत एव लेह्या| प्रागुक्ता या पेया यवाग्वपरपर्याया तस्या विलेपीसकाशाद्भेदज्ञापनायाह- यवागूर्विरलद्रवेति| यवागूः पेयेत्यर्थः| एतेनासिक्थो मण्डः, पेया यवाग्वपरपर्याया सिक्थसमन्विता विरलद्रवा, विलेपी घनसिक्था लेह्या पृथग्द्रवरहितेति भेदत्रयं सिक्थैर्विरहित इत्यादिना श्लोकेनोक्तम्| केचित् “अन्नं पञ्चगुणे तोये, यवागूं षड्गुणे पचेत्| चतुर्दशगुणे मण्डं, विलेपीं तु चतुर्गुणे”- इति परिभाषादर्शनात् पेयायवाग्वोर्भेदमाहुः||३४४||-
Adhikarana 243 (345) · Śloka 345
विष्टम्भी पायसो बल्यो मेदःकफकरो गुरुः ||३४५||
🔊 Audio coming soon
विलेपीसाधर्म्यात् पायसस्यापि गुणमाह- विष्टम्भीत्यादि| पायसो दुग्धतण्डुलसिद्धः| विष्टम्भी प्रभावात्, सवाततोदशूला मलाप्रवृत्तिर्विष्टम्भः||३४५||
Adhikarana 244 (346) · Śloka 346
कफपित्तकरी बल्या कृशराऽनिलनाशनी |३४६|
🔊 Audio coming soon
कृशरागुणमाह- कफेत्यादि| कृशरा तिलतण्डुलमाषकृता यवागूः|३४६|
Adhikarana 245 (346) · Śloka 347
धौतस्तु विमलः शुद्धो मनोज्ञः सुरभिः समः ||३४६|| स्विन्नः सुप्रस्रुतस्तूष्णो विशदस्त्वोदनो लघुः |३४७|
🔊 Audio coming soon
भक्तगुणमाह- धौतस्त्वित्यादि| शुद्धः स्वयमेव धवलः, विगतमलस्तु कण्डनाद्धौतत्वेन चापगतावशिष्टमलः| मनोज्ञो मनोरमः| सुरभिः सुगन्धिः| समः स्विन्नः सर्वोऽपि स्विन्न इत्यर्थः| सुप्रस्रुतः सुष्ठुगालितः| उष्णः प्रसिद्धः| विशदः सुसिद्धः, स च सक्तत्वादिदोषरहितः| एवम्भूत ओदनो लघुः||३४६||-
Adhikarana 246 (347) · Śloka 347
अधौतोऽप्रस्रुतोऽस्विन्नः शीतश्चाप्योदनो गुरुः ||३४७||
🔊 Audio coming soon
पूर्वोक्तविपरीतगुणमाह- अधौत इत्यादि| एवम्भूत ओदनो गुरुः||३४७||
Adhikarana 247 (348) · Śloka 348
लघुः सुगन्धिः कफहा विज्ञेयो भृष्टतण्डुलः |३४८|
🔊 Audio coming soon
भृष्टतण्डुलौदनगुणमाह- लघ्वित्यादि| भृष्टतण्डुलो भृष्टतण्डुलसाधित ओदन इत्यर्थः|३४८|
Adhikarana 248 (348) · Śloka 349
स्नेहैर्मांसैः फलैः कन्दैर्विदलाम्लैश्च संयुताः ||३४८|| गुरवो बृंहणा बल्या ये च क्षीरोपसाधिताः |३४९|
🔊 Audio coming soon
ओदनविशेषेण विशिष्टद्रव्यसंयोगानां गुणमाह- स्नेहैरित्यादि| स्नेहैर्घृतादिभिः| मांसफलकन्दाः प्रसिद्धाः| विदलं शमीधान्यावयवः, चकाराच्छाकादीनामप्यवरोधः| क्षीरोपसाधिता उदकादिसंयुक्ताः पायसादन्ये||३४८||-
Adhikarana 249 (349) · Śloka 349
सुस्विन्नो निस्तुषो भृष्ट ईषत् सूपो लघुर्हितः ||३४९||
🔊 Audio coming soon
प्रहितमाह- सुस्विन्न इत्यादि| ईषत् सूप इति ईषद्भृष्ट इति सम्बन्धः| तत्र, अभर्जितापेक्षया भर्जितमुद्गादिसूपस्य लाघवं; माषसूपस्य तु भर्जितादिना लाघवमित्येके, भर्जितस्यापि न लाघवमित्यन्ये; अन्ये तु ‘ईषत्सूप’ इति न पठन्ति, किन्तु पाठान्तरं पठन्ति, तच्चादृष्टत्वान्न लिखितम्||३४९||
Adhikarana 250 (350) · Śloka 350
स्विन्नं निष्पीडितं शाकं हितं स्यात् स्नेहसंस्कृतम् | अस्विन्नं स्नेहरहितमपीडितमतोऽन्यथा ||३५०||
🔊 Audio coming soon
प्रहितमभिधायापराण्यपि व्यञ्जनान्याह- स्विन्नमित्यादि| अतः पूर्वोक्तात्, अन्यथेति अहितमित्यर्थः||३५०||
Adhikarana 251 (351) · Śloka 352
मांसं स्वभावतो वृष्यं स्नेहनं बलवर्धनम् | स्नेहगोरसधान्याम्लफलाम्लकटुकैः सह ||३५१|| सिद्धं मांसं हितं बल्यं रोचनं बृंहणं गुरु |३५२|
🔊 Audio coming soon
मांसस्य व्यञ्जनोत्तमस्य संयोगसंस्कारजं गुणकर्म निर्दिशन्नाह- मांसमित्यादि| स्नेहो घृतादिः, गोरसो दध्यादिः, धान्याम्लं काञ्जिकं, फलाम्लं दाडिमादि, कटुकं मरिचादि, प्रकृत्यनुरूपं संस्कारानुरूपं च बल्यत्वादि ज्ञेयम्, अयं तलितमांसानां गुण उक्तः||३५१||-
Adhikarana 252 (352) · Śloka 353
तदेव गोरसादानं सुरभिद्रव्यसंस्कृतम् ||३५२|| विद्यात्पित्तकफोद्रेकी बलमांसाग्निवर्धनम् |३५३|
🔊 Audio coming soon
तस्यैव मांसस्य प्रदिग्धत्वेन सिद्धस्य गुणमाह- तदेवेत्यादि| तदेवेति मांसम्| आदानं घनद्रवावापः| सुरभिद्रव्यसंस्कृतं हिङ्गुमरिचाजाजिप्रभृतिसंस्कृतम्, अयं प्रलेहमांसानां गुण उक्तः||३५२||-
Adhikarana 253 (353) · Śloka 354
परिशुष्कं स्थिरं स्निग्धं हर्षणं प्रीणनं गुरु ||३५३|| रोचनं बलमेधाग्निमांसौजःशुक्रवर्धनम् |३५४|
🔊 Audio coming soon
मांसस्य परिशुष्कत्वेन सिद्धस्य गुणमाह- परिशुष्कमित्यादि| परिशुष्कप्रदिग्धयोरयं विशेषः- “भृष्टं बहुघृते सिक्तं मुहुरुष्णाम्बुना मृदु| जीरकाद्यैर्घनं मांसं परिशुष्कं तदुच्यते|| तदेव गोरसादानं प्रदिग्धमिति विश्रुतम्”- इति| स्थिरं कठिनम्| हर्षणं हर्षोत्पादकम्| बलमुत्साहः, ओजो हृदि स्थितं धातुधाम| अयं शूल्यगुण उक्तः||३५३||-
Adhikarana 254 (354) · Śloka 354
तदेवोल्लुप्तपिष्टत्वादुल्लुप्तमिति पाचकाः ||३५४||
🔊 Audio coming soon
परिशुष्कस्य शूल्यस्य प्रसङ्गेन शूल्यविशेषाणामपि गुणमाह- तदेवेत्यादि| तदेव परिशुष्कमेव; ऊर्ध्वं निरन्तरं छेदनातिशयेनाणुशश्छिन्नत्वात् पिष्टमिवोल्लुप्तपिष्टम्; उल्लुप्तमिति पाचका इति ‘वदन्ति’ इति शेषः; पाचकाः सूपकाराः||३५४||
Adhikarana 255 (355) · Śloka 355
परिशुष्कगुणैर्युक्तं वह्नौ पक्वमतो लघु |३५५|
🔊 Audio coming soon
तस्यैवाङ्गारपक्वस्य परिशुष्कस्य गुणमाह- परिशुष्केत्यादि| वह्नाविति अङ्गारतापितत्वात्, अतः पूर्वोक्तपरिशुष्काल्लघु भवति|३५५|-
Adhikarana 256 (356) · Śloka 356
तदेव शूलिकाप्रोतमङ्गारपरिपाचितम् ||३५५|| ज्ञेयं गुरुतरं किञ्चित् प्रदिग्धं गुरुपाकतः |३५६|
🔊 Audio coming soon
उल्लुप्तपिष्टप्रदिग्धगुणमाह- तदेवेत्यादि| शूलिकाप्रोतमिति लोहादिशलाकारोपितम्| प्रदिग्धमिति स्नेहधान्याम्लतक्रादिना प्रदिग्धम्| परिशुष्काद्गुरुपाकात् किञ्चिद्गुरुतरं, स्नेहादिप्रदिग्धत्वादेव||३५६||
Adhikarana 257 (356-358) · Śloka 358
उल्लुप्तं भर्जितं पिष्टं प्रतप्तं कन्दुपाचितम् ||३५६|| परिशुष्कं प्रदिग्धं च शूल्यं यच्चान्यदीदृशम् | मांसं यत्तैलसिद्धं तद्वीर्योष्णं पित्तकृद्गुरु ||३५७|| लघ्वग्निदीपनं हृद्यं रुच्यं दृष्टिप्रसादनम् | अनुष्णवीर्यं पित्तघ्नं मनोज्ञं घृतसाधितम् ||३५८||
🔊 Audio coming soon
उक्तानुक्तशूल्यान्याह- उल्लुप्तमित्यादि| उल्लुप्तं पूर्ववत्| भर्जितादीनि व्याख्यानयन्ति- “भर्जितं स्याद्घृतादौ तु पिष्ट्वा यत् साधितं पुनः| अपूपादिकृतं पिष्टं दधिदाडिमसौरभैः|| सिद्धं साज्यैस्तथाऽजाजीसामुद्रमरिचैरपि| अङ्गारादिषु यत् पक्वं प्रतप्तं तदुदाहृतम्|| पिशितं सौरभैर्लिप्तं कन्दुपक्वं मधुप्रभम्| राजिकाकल्कलिप्तं च कन्दुपाचितमुच्यते”- इति| परिशुष्कप्रदिग्धे पूर्ववत्| “हिङ्गूदके परिक्षिप्तं शूले निष्पीडितं ततः| सिक्त्वा सिक्त्वाऽम्बुधाराभिर्विधूमेऽग्नौ प्रतापयेत्|| फलाम्लेनापि यत् पक्वं शूल्यं तत् सौरभान्वितम्”- इति| यच्चान्यदीदृशमिति यदेवंविधं मांसं तैलसाधितं भवति तदुष्णादिगुणकं ज्ञेयम्| घृतसाधितमाह- लघ्वित्यादि||३५६-३५८||
Adhikarana 258 (359-360) · Śloka 361
प्रीणनः प्राणजननः श्वासकासक्षयापहः | वातपित्तश्रमहरो हृद्यो मांसरसः स्मृतः ||३५९|| स्मृत्योजःस्वरहीनानां ज्वरक्षीणक्षतोरसाम् | भग्नविश्लिष्टसन्धीनां कृशानामल्परेतसाम् ||३६०|| आप्यायनः संहननः शुक्रदो बलवर्धनः |३६१|
🔊 Audio coming soon
शूल्यं मांसमुक्तं प्रदिग्धपरिशुष्कभेदाभ्यां द्विभेदमेव, तदभिधाय द्रवमभिधातुमाह- प्रीणन इत्यादि| आप्यायन इति स्मृतिस्वरहीनज्वरक्षीणकृशाल्परेतसां स्वास्थ्यकरः, संहनन इति क्षतोरसां तथा भग्नविश्लिष्टसन्धीनां सन्धानकरः, शुक्रद इति अल्परेतसां, बलवर्धन ओजोहीनस्य| एणादिप्रकृत्यनुविधानेन रसस्योत्कर्षापकर्षावूह्यौ, अन्यथा प्रकृतिगुणाभिधानं व्यर्थं स्यात्||३५९-३६०||-
Adhikarana 259 (361) · Śloka 361
स दाडिमयुतो वृष्यः संस्कृतो दोषनाशनः ||३६१||
🔊 Audio coming soon
तस्यैव रसस्य संयोगजं गुणमाह- स दाडिमेत्यादि| स इति मांसरसः| संस्कृतः कटुकादिना| दोषशमनस्त्रिदोषहरः||३६१||
Adhikarana 260 (362) · Śloka 362
प्रीणनः सर्वभूतानां विशेषान्मुखशोषिणाम् | क्षुत्तृष्णापहरः श्रेष्ठः सौरावः स्वादुशीतलः ||३६२||
🔊 Audio coming soon
सौरावगुणमाह- प्रीणन इत्यादि| सौरावो रसस्योपरितनोऽच्छो भागः| शीतलः सुशीतः||३६२||
Adhikarana 260 (363) · Śloka 363
यन्मांसमुद्धृतरसं न तत् पुष्टिबलावहम् | विष्टम्भि दुर्जरं रूक्षं विरसं मारुतावहम् ||३६३||
🔊 Audio coming soon
मांसरसप्रसङ्गेनोद्धृतरसस्य मांसस्य गुणमाह- यदित्यादि| यतः पिष्टक्वथितगालितमांसाद्रसो गृहीतः स निःसारत्वादुक्तगुणः||३६३||
Adhikarana 262 (364) · Śloka 364
दीप्ताग्नीनां सदा पथ्यः खानिष्कस्तु परं गुरुः |३६४|
🔊 Audio coming soon
केचिदत्र खानिष्कगुणं पठन्ति- दीप्ताग्नीनामित्यादि| तमन्ये परिशुष्कभेदं मन्यन्ते, अन्ये वेसवारभेदं खानिष्कमाहुः|३६४|
Adhikarana 263 (364-365) · Śloka 366
मांसं निरस्थि सुस्विन्नं पुनर्दृषदि पेषितम् ||३६४|| पिप्पलीशुण्ठिमरिचगुडसर्पिःसमन्वितम् | ऐकध्यं पाचयेत् सम्यग्वेसवार इति स्मृतः ||३६५|| वेसवारो गुरुः स्निग्धो बल्यो वातरुजापहः |३६६|
🔊 Audio coming soon
वेसवारगुणमाह- मांसमित्यादि| अत्र गुडं विहाय ‘हिङ्गुसर्पिःसमन्वितम्’ इति केचित् पठन्ति, तन्न सर्वैराचार्यैर्निषिद्धत्वात्| वेसवारमप्यन्ये परिशुष्कं मन्यन्ते||३६४-३६५||-
Adhikarana 264 (366) · Śloka 367
कफघ्नो दीपनो हृद्यः शुद्धानां व्रणिनामपि ||३६६|| ज्ञेयः पथ्यतमश्चैव मुद्गयूषः कृताकृतः |३६७|
🔊 Audio coming soon
रसस्य प्रसङ्गेन मुद्गयूषस्य गुणमाह- कफघ्न इत्यादि| कृतयूषस्य व्यवहारार्थं स्वयमेव लक्षणं वक्ष्यति, कफघ्नस्थाने केचिद् ‘ज्वरघ्न’ इति पठन्ति||३६६||-
Adhikarana 265 (367) · Śloka 368
स तु दाडिममृद्वीकायुक्तः स्याद्रागषाडवः ||३६७|| रुचिष्यो लघुपाकश्च दोषाणां चाविरोधकृत् |३६८|
🔊 Audio coming soon
मुद्गयूषस्य संयोगान्तरेण नामान्तरं दर्शयन्नाह- स त्वित्यादि| स इति मुद्गयूषः| दोषाणां चाविरोधकृदिति वातादीनामीषद्विरोधकृद्वातादीनामीषच्छमन इत्यर्थः||३६७||-
Adhikarana 266 (368) · Śloka 369
मसूरमुद्गगोधूमकुलत्थलवणैः कृतः ||३६८|| कफपित्ताविरोधी स्याद्वातव्याधौ च शस्यते |३६९|
🔊 Audio coming soon
मसूरादिपञ्चकयूषमाह- मसुरेत्यादि| वातव्याधौ च शस्यत इति कथं मुद्गमसूरयोर्यूषो वाते शस्तः, कथं कुलत्थलवणयोर्योगे पित्ताविरोधीति? उच्यते- मसूरादित्रयाणां शैत्यात् कुलत्थलवणयोरौष्ण्येऽपि पित्ताविरोधित्वं; कुलत्थलवणयोगादेव च वाते शस्तः; संयोगशक्तेर्वाऽचिन्त्यत्वात्||३६८||-
Adhikarana 267 (369) · Śloka 370
मृद्वीकादाडिमैर्युक्तः स चाप्युक्तोऽनिलार्दिते ||३६९|| रोचनो दीपनो हृद्यो लघुपाक्युपदिश्यते |३७०|
🔊 Audio coming soon
तस्य पञ्चकयूषस्य संयोगान्तरेण गुणान्तरमाह- मृद्वीकेत्यादि| मसूरादियूषो मृद्वीकादाडिमाभ्यां संयुक्तोऽतीव वातहरः||३६९||-
Adhikarana 268 (370) · Śloka 371
पटोलनिम्बयूषौ तु कफमेदोविशोषिणौ ||३७०|| पित्तघ्नौ दीपनौ हृद्यौ कृमिकुष्ठज्वरापहौ |३७१|
🔊 Audio coming soon
अन्ययूषानाह- पटोलेत्यादि| पटोलादिषु च यूषस्य सूपयोनित्वान्मुद्गादिकं त्रिगुणमिच्छन्ति| इमौ द्वावपि यूषौ भिन्नौ ज्ञेयौ, न तु द्वयोरप्येकः||३७०||-
Adhikarana 269 (371-372) · Śloka 373
श्वासकासप्रतिश्यायप्रसेकारोचकज्वरान् ||३७१|| हन्ति मूलकयूषस्तु कफमेदोगलग्रहान् | कुलत्थयूषोऽनिलहा श्वासपीनसनाशनः ||३७२|| तूणीप्रतूणीकासाश्मगुल्ममेदःकफावहः |३७३|
🔊 Audio coming soon
कासेत्यादि| मूलकयूषो बालशुष्कमूलकयूषः, जेज्झटस्त ‘यद्यपि बालमूलकं त्रिदोषघ्नं तथापि तस्य न यूषकरणे श्रुतिरस्ति” इत्याह| अयमपि मुद्गादिसहितो ज्ञेयः||३७१-३७२||-
Adhikarana 270 (373) · Śloka 374
दाडिमामलकैर्यूषो हृद्यः संशमनो लघुः ||३७३|| प्राणाग्निजननो मूर्च्छामेदोघ्नो वातपित्तजित् |३७४|
🔊 Audio coming soon
दाडिमेत्यादि| अयमेक एव समुद्गश्च| न विरेकं करोति नापि वमनं किन्तु तत्स्थमेव दोषं शमयतीति संशमनः| प्राणो भारहरणादिशक्तिः||३७३||-
Adhikarana 271 (374) · Śloka 374
मुद्गामलकयूषस्तु ग्राही पित्तकफे हितः ||३७४||
🔊 Audio coming soon
मुद्गेत्यादि| ग्राही अतिसारादीनां सङ्ग्राही| अयमप्येकः||३७४||
Adhikarana 272 (375) · Śloka 375
यवकोलकुलत्थानां यूषः कण्ठ्योऽनिलापहः |३७५|
🔊 Audio coming soon
यवकोलेत्यादि| अयमप्येकः|३७५|-
Adhikarana 273 (375) · Śloka 375
सर्वधान्यकृतस्तद्वद्बृंहणः प्राणवर्धनः ||३७५||
🔊 Audio coming soon
सर्वधान्येत्यादि| सर्वधान्यकृत अयूषयोनित्वाच्छूकधान्यकुधान्ये विहाय मुद्गादिशमीधान्यानामपथ्यवर्ज्यं यूषः| अयं तन्त्रान्तरे नवमुष्टिनाम्नाऽभिहितः||३७५||
Adhikarana 274 (376) · Śloka 376
खडकाम्बलिकौ हृद्यौ तथा वातकफे हितौ |३७६|
🔊 Audio coming soon
खडेत्यादि| खडकाम्बलिकौ यूषविशेषौ| तत्र खडो द्विविधः- सतक्रशमीधान्यः, सतक्रशाकश्च| तथाहि- “सतक्राणि शमीधान्यानि स्निग्धानि सङ्ग्राहकाणि खडानि” इति, सतक्रशाकस्तु “कपित्थतक्रचाङ्गेरीमरिचाजाजीचित्रकैः| सुपक्वः खडयूषोऽयमथ काम्बलिकोऽपरः|| दध्यम्ललवणस्नेहतिलमाषसमन्वितः”- इति| तक्राम्लसिद्धः काम्बलिकः, अम्लानां बहुत्वात्| जेज्झटमते तु दधिदाडिममाषशाकस्नेहयुक्तं व्यञ्जनं खड इत्युच्यते नलमते तु “तिलं सुलुञ्चितं कृत्वा पिष्टं क्षीरे त्र्यहोषितम्| पटे पूतं पचेद्धीमानार्द्रकावापिते घृते| मरिचाजाजिसामुद्रैर्युक्तस्तिलखडो भवेत्”- इति| काम्बलिकलक्षणं तत्रैवोक्तं “दधिमस्त्वम्लसिद्धस्तु यूषः काम्बलिकः स्मृतः| पुनः सौवर्चलाजाजीबीजपूरकसौरभैः|| संयोज्य मथितः स्वच्छ एष काम्बलिको भवेत्”- इति|३७६|-
Adhikarana 275 (376-377) · Śloka 377
बल्यः कफानिलौ हन्ति दाडिमाम्लोऽग्निदीपनः ||३७६|| दध्यम्लः कफकृद्बल्यः स्निग्धो वातहरो गुरुः | तक्राम्लः पित्तकृत् प्रोक्तो विषरक्तप्रदूषणः ||३७७||
🔊 Audio coming soon
येन येनाम्लेन सिद्धो यूषो यं यं गुणं करोति तं तं गुणं दर्शयन्नाह- बल्य इत्यादि| दाडिमेन क्रियते योऽम्लो यूषः स दाडिमाम्लः| दध्यम्ल इति दध्ना क्रियते योऽम्लो यूषः स दध्यम्लः| तक्राम्लोऽप्येवम्| प्रदूषणः प्रकोपणः| ‘दाडिमधान्याम्लदधितक्रैरम्लत्वं काम्बलिकस्यैव’ इत्येके||३७६-३७७||
Adhikarana 276 (378) · Śloka 378
खडाः खडयवाग्वश्च षा(खा)डवाः पानकानि च | एवमादीनि चान्यानि क्रियन्ते वैद्यवाक्यतः ||३७८||
🔊 Audio coming soon
खडा इत्यादि| खडाः पूर्वोक्ताः| खडयवाग्व इति खडैरुक्तलक्षणैः सिद्धा यवाग्वः खडयवाग्वः| षा(खा)डवलक्षणमुच्यते- “स्पष्टाम्लमधुरोऽस्पष्टकषायलवणोषणः| अतिक्तः खाडवः कोलकपित्थाद्युपबृंहितः”- इति; खाडवा इति बहुवचनं खाडवभूयस्त्वप्राप्तये, तच्च विस्तरभयान्न लिखितम्| पानकानि अम्लिकाद्राक्षादिकृतानि, एवमादिग्रहणात् सट्टकप्रभृतीनि||३७८||
Adhikarana 277 (379) · Śloka 379
अस्नेहलवणं सर्वमकृतं कटुकैर्विना | विज्ञेयं लवणस्नेहकटुकैः संयुतं कृतम् ||३७९||
🔊 Audio coming soon
व्यवहारार्थं कृताकृतयूषयोः परिभाषां दर्शयन्नाह- अस्नेहलवणमित्यादि| कटुकैः शुण्ठ्यादिभिः||३७९||
Adhikarana 278 (380) · Śloka 380
अथ गोरसधान्याम्लफलाम्लैरम्लितं च यत् | यथोत्तरं लघु हितं संस्कृतासंस्कृतं रसम् ||३८०||
🔊 Audio coming soon
तयोर्यूषयोरम्लान्तरसंयोगेन संस्कृतासंस्कृतयोरपि गुरुलाघवं दर्शयन्नाह- अथेत्यादि| नपुंसकनिर्देशाद्रसमिति सामान्येनाभीष्टं, तेन यूषरसयोरुभयोरपि गुरुलाघवमुक्तं भवति; संस्कृतादसंस्कृतं लघ्विति सम्बध्यते, रसोऽत्र मांसरसः||३८०||
Adhikarana 279 (381) · Śloka 381
दधिमस्त्वम्लसिद्धस्तु यूषः काम्बलिकः स्मृतः |३८१|
🔊 Audio coming soon
यूषकाम्बलिकयूषलक्षणमुच्यते- दधीत्यादि|३८१|-
Adhikarana 280 (381) · Śloka 382
तिलपिण्याकविकृतिः शुष्कशाकं विरूढकम् ||३८१|| सिण्डाकी च गुरूणि स्युः कफपित्तकराणि च |३८२|
🔊 Audio coming soon
शुष्कशाकविशेषाणां कृतान्नानां गुणं निर्दिशन्नाह- तिलेत्यादि| तिलविकृतिर्मोदकादिः, पिण्याकविकृतिः फुट्टाढकादिः| तिलपिण्याकस्य शुष्कशाकस्य विरूढकस्य च व्यञ्जनानि देशपुरुषविशेषतो ज्ञेयानि| विरूढमङ्कुरितं विगतरोहं वा, अन्ये शाकमेवात्यन्तरूढं विरूढमाहुः| सिण्डाकी अनासुता शुष्कार्द्रा सुह्मेषु, ‘अन्नादिष्वासुतसिण्डाकी शुक्तगुणा नोक्तगुणा’ इत्येके, ‘अनासुतसिण्डाकी शाकवर्गे उक्तगुणेत्यासुतसिण्डाक्या एवायं गुणः’ इत्येके, मूलकादिशाकमेव किञ्चित् स्विन्नं क्षुण्णं सुगन्धिकटुकद्रव्यान्वितं वटकीकृतं सुह्मेषु ‘सिण्डाकी’ इत्युच्यते, अन्ये तु ‘शाकसिक्थमण्डासुतिः सिण्डाकी’ इत्याहुः||३८१||-
Adhikarana 281 (382) · Śloka 382
तद्वच्च वटकान्याहुर्विदाहीनि गुरूणि च ||३८२||
🔊 Audio coming soon
तद्वदित्यादि वटकानीति सिण्डाकीवटकानि||३८२||
Adhikarana 282 (383) · Śloka 383
लघवो बृंहणा वृष्या हृद्या रोचनदीपनाः | तृष्णामूर्च्छाभ्रमच्छर्दिश्रमघ्ना रागषाडवाः ||३८३||
🔊 Audio coming soon
रागषाडवगुणमाह- लघव इत्यादि| तत्र रागः- “सितारुचकसिन्धूत्थैः सवृक्षाम्लपरूषकैः| जम्बूफलरसैर्युक्तो रागो राजिकया कृतः”- इति| षाडवाः पुनर्मधुराम्ललवणसंयोगजा नानाविधाः||३८३||
Adhikarana 282 (384) · Śloka 384
रसाला बृंहणी बल्या स्निग्धा वृष्या च रोचनी |३८४|
🔊 Audio coming soon
रसालागुणमाह- रसालेत्यादि| रसाला शिखरिणी|३८४|-
Adhikarana 283 (384) · Śloka 384
स्नेहनं गुडसंयुक्तं हृद्यं दध्यनिलापहम् ||३८४||
🔊 Audio coming soon
सगुडदधिगुणमाह- स्नेहनमित्यादि||३८४||
Adhikarana 284 (385-387) · Śloka 388
सक्तवः सर्पिषाऽभ्यक्ताः शीतवारिपरिप्लुताः | नातिद्रवा नातिसान्द्रा मन्थ इत्युपदिश्यते ||३८५|| मन्थः सद्योबलकरः पिपासाश्रमनाशनः | साम्लस्नेहगुडो मूत्रकृच्छ्रोदावर्तनाशनः ||३८६|| शर्करेक्षुरसद्राक्षायुक्तः पित्तविकारनुत् | द्राक्षामधूदकयुतः कफरोगनिबर्हणः ||३८७|| वर्गत्रयेणोपहितो मलदोषानुलोमनः |३८८|
🔊 Audio coming soon
सक्तुमन्थमाह- सक्तव इत्यादि| मन्थः सद्योबलकर इति सद्योबलकरोऽयं नोत्तरकाले(लं) बलकरो, रूक्षत्वात्; अविशेषोक्तावपि यवादिशक्तवो ग्राह्याः| मन्थस्यैव द्रव्यान्तरसंयुक्तस्य गुणान्तरमाह- साम्लस्नेहेत्यादि| उदावर्तनाशनत्वेनास्य वातहरत्वमुक्तम्||३८५-३८७||-
Adhikarana 285 (388-391) · Śloka 391
गौडमम्लमनम्लं वा पानकं गुरु मूत्रलम् ||३८८|| तदेव खण्डमृद्वीकाशर्करासहितं पुनः | साम्लं सतीक्ष्णं सहिमं पानकं स्यान्निरत्ययम् ||३८९|| मार्द्वीकं तु श्रमहरं मूर्च्छादाहतृषापहम् | परूषकाणां कोलानां हृद्यं विष्टम्भि पानकम् ||३९०|| द्रव्यसंयोगसंस्कारं ज्ञात्वा मात्रां च सर्वतः | पानकानां यथायोगं गुरुलाघवमादिशेत् ||३९१|| इति कृतान्नवर्गः |
🔊 Audio coming soon
पानकगुणमाह- गौडमित्यादि| गुडशब्दोपलक्षणत्वात् सर्वेक्षुविकारपानकगुण उक्तः| अनम्लम् ईषदम्लम्| पानकस्य नानाद्रव्यपरिभाषामाह- तदेवेत्यादि| तदेव गौडमेव, साम्लं सतिन्तिडीकादिद्रव्यं, सतीक्ष्णमिति मरिचादितीक्ष्णद्रव्यसहितं, सहिमं सकर्पूरं, पानकं स्याद्भवेत्, निरत्ययं श्रेष्ठम्; एवं खण्डमृद्वीकाशर्करापानकेष्वम्लादिद्रव्य संस्कारो ज्ञेयः; मृद्वीकाग्रहणं पानकयोनिफलोपलक्षणम्| द्राक्षापानकगुणमाह- मार्द्वीकमित्यादि| परूषककोलपानकयोर्गुणमाह- परूषकाणामित्यादि| परूषकं ‘फालसा’ इति लोके, कोलं बदरः| अनुक्तपानकगुणमाह- द्रव्येत्यादि| सर्वतः सर्वस्मिन् पानके| उक्तानुक्तपानकगुणोऽयमित्येके| इति कृतान्नवर्गः||३८८-३९१||
Adhikarana 286 (392) · Śloka 392
अथ भक्ष्यवर्गः | वक्ष्याम्यतः परं भक्ष्यान् रसवीर्यविपाकतः |३९२|
🔊 Audio coming soon
भक्ष्यान्निर्देष्टुमाह- वक्ष्यामीत्यादि| भक्ष्या लड्डुकादयः| रसवीर्यविपाकत इति रसादिभिः कृत्वेत्यर्थः|३९२|-
Adhikarana 287 (392) · Śloka 393
भक्ष्याः क्षीरकृता बल्या वृष्या हृद्याः सुगन्धिनः ||३९२|| अदाहिनः पुष्टिकरा दीपनाः पित्तनाशनाः |३९३|
🔊 Audio coming soon
भक्ष्याणां योनिविशेषेण गुणविशेषं निर्दिशन्नाह- भक्ष्या इत्यादि| गोधूमपिष्टविकृतिं क्षीरेणालोड्य ये क्रियन्ते ते क्षीरकृता भक्ष्याः| बल्या इति उत्साहकराः| अदाहिन इति ईषद्दाहिनः| दीपनाः पुनः स्ववर्गापेक्षया वातोपहताग्नेः, संस्कारप्रभावाद्वा||३९२||-
Adhikarana 288 (393) · Śloka 394
तेषां प्राणकरा हृद्या घृतपूराः कफावहाः ||३९३|| वातपित्तहरा वृष्या गुरवो रक्तमांसलाः |३९४|
🔊 Audio coming soon
क्षीरभक्ष्यविशेषमाह- तेषामित्यादि| “मर्दिताः समिताः क्षीरनालिकेरसितादिभिः| अवगाह्य घृते पक्वो घृतपूरोऽयमुत्तमः” ‘घेव(उ)र’ इति लोके||३९३||-
Adhikarana 289 (394) · Śloka 395
बृंहणा गौडिका भक्ष्या गुरवोऽनिलनाशनाः ||३९४|| अदाहिनः पित्तहराः शुक्रलाः कफवर्धनाः |३९५|
🔊 Audio coming soon
गुडकृतान् भक्ष्यानाह- बृंहणा इत्यादि| समितावेष्टिता गुडप्रधानोदरा ‘गौडिका’ इत्युच्यन्ते||३९४||-
Adhikarana 290 (395) · Śloka 396
मधुशीर्षकसंयावाः पूपा ये ते विशेषतः ||३९५|| गुरवो बृंहणाश्चैव मोदकास्तु सुदुर्जराः |३९६|
🔊 Audio coming soon
मध्वित्यादि| समितावेष्टिताः पाकघनीभूता मधुरा घृतोदरा मधुमस्तकाः, त एव ‘मधुशीर्षका’ उच्यन्ते; केचिन्मधुमस्तकशब्देन खज्जकमाहुः| संयावाः पुनः- “समितां मधु(घृत)दुग्धेन मोदयित्वा सुशोभनाम्| पचेद्घृतोत्तरे खण्डे क्षिपेद्भाण्डे नवे ततः|| संयावोऽसौ युतश्चूर्णैः खण्डैलामरिचार्द्रकैः”- इति| पूपाः ‘पूआ’ इति लोके| मोदका लड्डुकाः||३९५||-
Adhikarana 291 (396) · Śloka 397
रोचनो दीपनः स्वर्यः पित्तघ्नः पवनापहः ||३९६|| गुरुर्मृष्टतरमश्चैव सट्टकः प्राणवर्धनः |३९७|
🔊 Audio coming soon
सट्टकगुणमाह- दीपन इत्यादि| मृष्टतरः अतिशयेन स्वादुः| सट्टकभेदा बहवः; तत्रैक एव लिख्यते- “लवङ्गव्योषखण्डैस्तु दधि निर्मथ्य गालितम्| दाडिमीबीजसंयुक्तं चन्द्रचूर्णावचूर्णितम्|| सट्टकं सुप्रमोदाख्यं नलादिभिरुदाहृतम्”- इति| अपरे विस्तरभयान्न लिखिताः||३९६||-
Adhikarana 292 (397) · Śloka 398
हृद्यः सुगन्धिर्मधुरः स्निग्धः कफकरो गुरुः ||३९७|| वातापहस्तृप्तिकरो बल्यो विष्यन्द उच्यते |३९८|
🔊 Audio coming soon
विष्यन्दगुणमाह- हृद्य इत्यादि| “आमगोधूमचूर्णं च सर्पिःक्षीरगुडान्वितम्| नातिसान्द्रो नातिघनो विष्यन्दो नाम नामतः”- अन्ये तु घृतभ्रष्टतण्डुलान् विष्यन्दशब्देनाहुः, तन्नेच्छति गयी||३९७||-
Adhikarana 293 (398) · Śloka 399
बृंहणा वातपित्तघ्ना भक्ष्या बल्यास्तु सामिताः ||३९८|| हृद्याः पथ्यतमास्तेषां लघवः फेनकादयः |३९९|
🔊 Audio coming soon
समिताकृतं सामान्यं गुणं केषुचित् किञ्चिन्निराकुर्वन्नाह- बृंहणा इत्यादि| सामिता इति फेनकादिविशेषणं, समिता गोधूमचूर्णं, तया कृताः सामिताः; अन्ये ‘बृंहणा इत्यादयः समिताकृतभक्ष्याणां सामान्यगुणाः, हृद्या इत्यादयस्तु समिताकृतभक्ष्यविशेषफेनकादिगुणाः’ इत्याहुः| तत्र फेनकाः “विमर्द्य विमलां शुक्लां समितां नातिशर्कराम्| संवेष्टनाय गर्भार्थं खरपाकं घृते पचेत्|| फेनकं फेनसङ्काशं सम्पूर्णशशिसन्निभम्”- इति||३९८||-
Adhikarana 294 (399) · Śloka 400
मुद्गादिवेसवाराणां पूर्णा विष्टम्भिनो मताः ||३९९|| वेसवारैः सपिशितैः सम्पूर्णा गुरुबृंहणाः |४००|
🔊 Audio coming soon
त एव सामितादयो मुद्गादिन्यस्तगर्भा भवन्ति, तदा तद्गुणं निर्दिशन्नाह- मुद्गादीत्यादि| स्विन्नपिष्टमुद्गादिकल्को वेसवारः, पूर्णा भरिताः| पिशितवेशवारभरितगुणमाह- वेसवारैरित्यादि| सपिशितैरिति पिशितवेसवारैरित्यर्थः; अपरे वेसवारं शुण्ठ्यादिकृतमाहुः| सम्पूर्णा भरिताः| इमेऽपि सामिताः||३९९||-
Adhikarana 295 (400) · Śloka 400
पाललाः श्लेष्मजननाः, शष्कुल्यः कफपित्तलाः ||४००||
🔊 Audio coming soon
पललं तिलपिष्टं गुडाद्युपेतं, तेन कृताः पाललाः; इमेऽपि सामिताः| शष्कुल्य इति शष्कुल्यः ‘शाङ्कुली’ इति लोके||४००||
Adhikarana 296 (401) · Śloka 401
वीर्योष्णाः पैष्टिका भक्ष्याः कफपित्तप्रकोपणाः | विदाहिनो नातिबला गुरवश्च विशेषतः ||४०१||
🔊 Audio coming soon
सामितान् भक्ष्यानभिधाय पिष्टभक्ष्यान्निर्दिशन्नाह- वीर्योष्णा इत्यादि| पैष्टिकाः तण्डुलपिष्टकृताः||४०१||
Adhikarana 297 (402) · Śloka 403
वैदला लघवो भक्ष्याः कषायाः सृष्टमारुताः | विष्टम्भिनः पित्तसमाः श्लेष्मघ्ना भिन्नवर्चसः ||४०२|| बल्या वृष्यास्तु गुरवो विज्ञेया माषसाधिताः |४०३|
🔊 Audio coming soon
वैदला इत्यादि| वैदला मुद्गादिकृताः||४०२||
Adhikarana 298 (403) · Śloka 403
कूर्चिकाविकृता भक्ष्या गुरवो नातिपित्तलाः ||४०३||
🔊 Audio coming soon
विग्रथितं क्षीरं घनत्वमापन्नं कूर्चिका, तया विविधप्रकाराः कृताः कूर्चिकाविकृताः||४०३||
Adhikarana 299 (404) · Śloka 404
विरूढककृता भक्ष्या गुरवोऽनिलपित्तलाः | विदाहोत्क्लेशजनना रूक्षा दृष्टिप्रदूषणाः ||४०४||
🔊 Audio coming soon
विरूढककृता इत्यादि| विरूढककृता अङ्कुरितमुद्गादिकृताः||४०४||
Adhikarana 300 (405-406) · Śloka 406
हृद्याः सुगन्धिनो भक्ष्या लघवो घृतपाचिताः | वातपित्तहरा बल्या वर्णदृष्टिप्रसादनाः ||४०५|| विदाहिनस्तैलकृता गुरवः कटुपाकिनः | उष्णा मारुतदृष्टिघ्नाः पित्तलास्त्वक्प्रदूषणाः ||४०६||
🔊 Audio coming soon
घृततैलपक्वभक्ष्यस्य गुणविशेषमाह- हृद्या इत्यादि||४०५-४०६||
Adhikarana 301 (407) · Śloka 407
फलमांसेक्षुविकृतितिलमाषोपसंस्कृताः | भक्ष्या बल्याश्च गुरवो बृंहणा हृदयप्रियाः ||४०७||
🔊 Audio coming soon
योनिविशेषेण भक्ष्याणां गुणागुणविशेषं दर्शयन्नाह- फलेत्यादि| फलानि तालादीनि||४०७||
Adhikarana 302 (408) · Śloka 408
कपालाङ्गारपक्वास्तु लघवो वातकोपनाः | सुपक्वास्तनवश्चैव भूयिष्ठं लघवो मताः ||४०८||
🔊 Audio coming soon
कपालाङ्गारपक्वानां स्नेहसिद्धेभ्यो लघुत्वं दर्शयन्नाह- कपालाङ्गारपक्वा इत्यादि| कपालं कर्परः, तत्र पक्वा मण्डकादयः; अङ्गारपक्वा अङ्गारकर्कटीप्रभृतयः||४०८||
Adhikarana 303 (409) · Śloka 409
सकिलाटादयो भक्ष्या गुरवः कफवर्धनाः |४०९|
🔊 Audio coming soon
सकिलाटादय इत्यादि| किलाटः क्षीरकूर्चिकापिण्डः, आदिशब्दात्तक्रपिण्डकादयः|४०९|-
Adhikarana 304 (409) · Śloka 409
कुल्माषा वातला रूक्षा गुरवो भिन्नवर्चसः ||४०९||
🔊 Audio coming soon
कुल्माषा इत्यादि| यवपिष्टमुष्णोदके सिक्तमीषत्स्विन्नमृदितं शृङ्गाटादिप्रकारं कुल्माषमाहुः, ‘यवादयः स्विन्ना’ इत्येके| भिन्नवर्चसो द्रवमलाः||४०९||
Adhikarana 305 (410) · Śloka 410
उदावर्तहरो वाट्यः कासपीनसमेहनुत् |४१०|
🔊 Audio coming soon
उदावर्तेत्यादि| वाट्यो यवगोधूमादिभिर्दलितैः कृतः, अन्ये तु भृष्टयवकृतो भक्ष्य इत्याहुः|४१०|-
Adhikarana 306 (410) · Śloka 410
धानोलुम्बास्तु लघवः कफमेदोविशोषणाः ||४१०||
🔊 Audio coming soon
धानेत्यादि| धाना भृष्टयवाः; उलुम्बा होलकाः, अत्र मुद्गकलायादिशिम्बा अग्निपक्वा ‘होलका’ इत्युच्यन्ते||४१०||
Adhikarana 307 (411-412) · Śloka 412
शक्तवो बृंहणा वृष्यास्तृष्णापित्तकफापहाः | पीताः सद्योबलकरा भेदिनः पवनापहाः ||४११|| गुर्वी पिण्डी खराऽत्यर्थं लघ्वी सैव विपर्ययात् | शक्तूनामाशु जीर्येत मृदुत्वादवलेहिका ||४१२||
🔊 Audio coming soon
वाट्यधानाप्रसङ्गेन यवशक्तूनाह- शक्तव इत्यादि| शक्तवो यवशक्तवः| बृंहणा न लेखना मांसकरा इत्यर्थः| ‘तृष्णापित्तकफापहाः’ इत्यत्र ‘तृष्णापित्तमलापहाः’ इति क्वचित्, तत्र मलापहत्वमल्पमलकर्तृत्वात्| सद्योबलकरत्वं रौक्ष्यान्नोत्तरकालम्| खरमार्दवभेदेन गुरुलाघवमाह- गुर्वीत्यादि| खरा कठिनेत्यर्थः| विपर्ययादिति मृद्वीत्यर्थः| पिण्डीमभिधायावलेहिकामाह- शक्तूनामित्यादि| शक्तूनामवलेहिकेति सम्बन्धः||४११-४१२||
Adhikarana 308 (413) · Śloka 413
लाजाश्छर्द्यतिसारघ्ना दीपनाः कफनाशनाः | बल्याः कषायमधुरा लघवस्तृण्मलापहाः ||४१३||
🔊 Audio coming soon
अधुना लाजगुणमाह- लाजा इत्यादि| मलापहत्वमल्पकर्तृत्वात्||४१३||
Adhikarana 309 (414) · Śloka 414
तृट्छर्दिदाहघर्मार्तिनुदस्तत्सक्तवो मताः | रक्तपित्तहराश्चैव दाहज्वरविनाशनाः ||४१४||
🔊 Audio coming soon
लाजशक्तुगुणमाह- तृडित्यादि| तत्सक्तवो लाजशक्तवः||४१४||
Adhikarana 310 (415) · Śloka 415
पृथुका गुरवः स्निग्धा बृंहणाः कफवर्धनाः | बल्याः सक्षीरभावात्तु वातघ्ना भिन्नवर्चसः ||४१५||
🔊 Audio coming soon
पृथुकगुणमाह- पृथुका इत्यादि| आर्द्रशालिधान्यं मृदुभृष्टं मुसलाघातचिप्पटीभूतावयवं ‘पृथुका’ इत्युच्यते||४१५||
Adhikarana 311 (416) · Śloka 416
सन्धानकृत्पिष्टमामं तण्डुलं कृमिमेहनुत् |४१६|
🔊 Audio coming soon
धान्यपिष्टगुणमाह- सन्धानकृदित्यादि| सन्धानं भग्नस्य, आममपक्वमित्यर्थः|४१६|-
Adhikarana 312 (416) · Śloka 417
सुदुर्जरः स्वादुरसो बृंहणस्तण्डुलो नवः ||४१६|| सन्धानकृन्मेहहरः पुराणस्तण्डुलः स्मृतः |४१७|
🔊 Audio coming soon
नवानवतण्डुलगुणमाह - सुदुर्जर इत्यादि||४१६||-
Adhikarana 313 (417-418) · Śloka 418
द्रव्यसंयोगसंस्कारविकारान् समवेक्ष्य च ||४१७|| यथाकारणमासाद्य भोक्तॄणां छन्दतोऽपि वा | अनेकद्रव्ययोनित्वाच्छास्त्रतस्तान् विनिर्दिशेत् ||४१८|| इति भक्ष्यवर्गः |
🔊 Audio coming soon
किम्बहुना आनन्त्यादन्नसंयोगसंस्काराणां न शक्यते सर्वोपसङ्ग्रहः कर्तुं, तस्मादुक्तानुक्तसङ्ग्रहायाह- द्रव्येत्यादि| विकारान् भक्ष्यविशेषान्| कारणमासाद्येति दोषादिप्रकोपं प्राप्येत्यर्थः| भोक्तॄणां छन्दतोऽपि वेति पुरुषाभिलाषत इत्यर्थः| इति भक्ष्यवर्गः||४१७-४१८||
Adhikarana 314 (419) · Śloka 419
अतः सर्वानुपानान्युपदेक्ष्यामः | - अम्लेन केचिद्विहता मनुष्या माधुर्ययोगे प्रणयीभवन्ति | तथाम्लयोगे मधुरेण तृप्तास्तेषां यथेष्टं प्रवदन्ति पथ्यम् ||४१९||
🔊 Audio coming soon
अनुपानं निर्देष्टुमाह- अनुपानानीत्यादि| अन्नादनु पश्चात् पीयत इत्यनुपानम्| अनुपानं कुत्र हितावहमित्याह- अम्लेनेत्यादि| विहता उद्वेजिताः| माधुर्ययोग इति माधुर्योपयोगे इत्यर्थः| प्रणयीभवन्ति सुखीभवन्तीति, तथाऽम्लयोग इत्यत्रापि प्रणयीभवन्तीति सम्बन्धनीयम्| तेषामुभयेषामपि अम्लतृप्तानां मधुरतृप्तानां चेत्यर्थः| यथेष्टं यथाभिलषितम्; अम्लतृप्तस्य मधुरं पथ्यं, मधुरतृप्तस्य चाम्लमित्यर्थः; तस्माद्रसषट्केऽपि परस्परविरुद्धमनुपानं ज्ञेयं, रसद्वयस्योपलक्षणत्वात्; अथवा शेषरसानां तृप्त्या भोक्तुमशक्यत्वाच्छेषरसानामनुक्तिः||४१९||
Adhikarana 315 (420-421) · Śloka 422
शीतोष्णतोयासवमद्ययूषफलाम्लधान्याम्लपयोरसानाम् | यस्यानुपानं तु हितं भवेद्यत्तस्मै प्रदेयं त्विह मात्रया तत् ||४२०|| व्याधिं च कालं च विभाव्य धीरैर्द्रव्याणि भोज्यानि च तानि तानि | सर्वानुपानेषु वरं वदन्ति मैध्यं यदम्भः शुचिभाजनस्थम् ||४२१|| लोकस्य जन्मप्रभृति प्रशस्तं तोयात्मकाः सर्वरसाश्च दृष्टाः | सङ्क्षेप एषोऽभिहितोऽनुपाने... |४२२|
🔊 Audio coming soon
अनुपानद्रव्याणि सङ्कलय्याह- शीतोष्णेत्यादि| द्रवप्रधान आसवः, द्रवप्रधानं द्रव्यप्रधानं च मद्यमुच्यते, यूषो मुद्गादीनां, फलाम्लानि बीजपूरादीनि, धान्याम्लं काञ्जिकं, पयो दुग्धं, रसो मांसरसः| यस्य पुरुषस्य, व्याधिं व्रणज्वरादिकं, कालमावस्थिकमार्तवं च, विभाव्य विशेषेण ज्ञात्वा, द्रव्याणि तैलादीनि, भोज्यानि रक्तशाल्यादीनि, एतत्सर्वमूहापोहविदा ज्ञात्वा अनुपानं विधेयमिति| (किम्बहुना सर्वानुपानेष्वपि ) मेध्यम् आन्तरिक्षं जलम्||४२०-४२१||-
Adhikarana 316 (422-431) · Śloka 431
... ष्वतः परं विस्तरतोऽभिधास्ये ||४२२|| उष्णोदकानुपानं तु स्नेहानामथ शस्यते | ऋते भल्लातकस्नेहात् स्नेहात्तौवरकात्तथा ||४२३|| अनुपानं वदन्त्येके तैले यूषाम्लकाञ्जिकम् | शीतोदकं माक्षिकस्य पिष्टान्नस्य च सर्वशः ||४२४|| दधिपायसमद्यार्तिविषजुष्टे तथैव च | केचित् पिष्टमयस्याहुरनुपानं सुखोदकम् ||४२५|| पयो मांसरसो वाऽपि शालिमुद्गादिभोजिनाम् | युद्धाध्वातपसन्तापविषमद्यरुजासु च ||४२६|| माषादेरनुपानं तु धान्याम्लं दधिमस्तु वा | मद्यं मद्योचितानां तु सर्वमांसेषु पूजितम् ||४२७|| अमद्यपानामुदकं फलाम्लं वा प्रशस्यते | क्षीरं घर्माध्वभाष्यस्त्रीक्लान्तानाममृतोपमम् ||४२८|| सुरा कृशानां स्थूलानामनुपानं मधूदकम् | निरामयानां चित्रं तु भुक्तमध्ये प्रकीर्तितम् ||४२९|| स्निग्धोष्णं मारुते पथ्यं, कफे रूक्षोष्णमिष्यते | अनुपानं हितं चापि पित्ते मधुरशीतलम् ||४३०|| हितं शोणितपित्तिभ्यः क्षीरमिक्षुरसस्तथा | अर्कशेलुशिरीषाणामासवास्तु विषार्तिषु ||४३१||
🔊 Audio coming soon
सङ्क्षेपमभिधाय विस्तरमाह- अतः परमित्यादि| ऋते विनेत्यर्थः| भल्लातकस्यात्यन्तोष्णत्वाच्छीतजलम्| तौवरकादिति “पत्रैस्तु केशराकारैः कलायसदृशैः फलैः| वृक्षास्तुवरनामानः पश्चिमार्णवतीरजाः” इति, तद्भवस्तौवरकः| स्नेहप्रसङ्गेनैकीयमतं तैलानुपाने निर्दिशन्नाह- अनुपानमित्यादि| उष्णकाले यूषं, शीतकाले काञ्जिकम्| माक्षिकस्येति माक्षिकस्य मधुनः| पिष्टान्नस्य तण्डुलपिष्टस्य| दधि प्रसिद्धं; पायसं क्षीरसिद्धास्तण्डुलाः, पायसस्य गुरुत्वेन विदाहसम्भवाच्छीतोदकं पेयं; मद्यार्तिर्मद्यविदाहः; विषजुष्टे विषव्याप्ते | तथैव चेति शीतोदकमेव| केचिदित्यादि| सुखोदकम् ईषदुष्णमुदकम्| पय इत्यादि| युद्धं सङ्ग्रामः, आतपो घर्मः, सन्तापोऽग्न्यादीनां, विषमद्यरुजास्विति विषरोगेषु मदात्यये चेत्यर्थः| शालिषु पयोऽनुपानं समानमप्यचिन्त्यत्वात् संयोगशक्तीनां; जेज्झटस्तु पयःस्थाने मस्त्विच्छति, ‘पयोग्रहणस्य गोरसोपलक्षणत्वात्तदपि लभ्यत एव’ इत्यन्ये| माषादेरित्यादि धान्याम्लं काञ्जिकम्| मद्योचितानां मद्ययोग्यानाम्| पूजितं प्रशस्तम्| अमद्येत्यादि| फलाम्लं दाडिमादि| क्षीरमित्यादि| घर्मादिक्लान्तानाम् आतपादिपीडितनाम्| कृशानां दुर्बलानां, सुराऽनुशस्तेति सम्बन्धः| मधूदकं मधुमिश्रं जलम्| निरामयानां स्वस्थानाम्| चित्रं नानाप्रकारम्| स्निग्धोष्णमिति अनुपानमिति सम्बन्धः| शोणितपित्तिभ्यो रक्तपित्तिभ्य इत्यर्थः| अत्रापि ‘अनुपानम्’ इत्यनुवर्तते| अर्कशेल्वित्यादि| विषार्तिषु विषपीडासु, अर्कादीनामासवा अनुपानानि| शेलुः श्लेष्मान्तकः||४२२-४३१||
Adhikarana 317 (432-433) · Śloka 433
अतः परं तु वर्गाणामनुपानं पृथक् पृथक् | प्रवक्ष्याम्यनुपूर्वेण सर्वेषामेव मे शृणु ||४३२|| तत्र पूर्वशस्यजातानां बदराम्लं, वैदलानां धान्याम्लं, जङ्घालानां धन्वजानां च पिप्पल्यासवः, विष्किराणां कोलबदरासवः, प्रतुदानां क्षीरवृक्षासवः, गुहाशयानां खर्जूरनालिकेरासवः, प्रसहानामश्वगन्धासवः, पर्णमृगाणां कृष्णगन्धासवः, बिलेशयानां फलासवः , एकशफानां त्रिफलासवः, अनेकशफानां खदिरासवः, कूलचराणां शृङ्गाटककशेरुकासवः, कोशवासिनां पादिनां च स एव, प्लवानामिक्षुरसासवः, नादेयानां मत्स्यानां मृणालासवः, सामुद्राणां मातुलुङ्गासवः, अम्लानां फलानां पद्मोत्पलकन्दासवः, कषायाणां दाडिमवेत्रासवः, मधुराणां त्रिकटुकयुक्तः खण्डासवः, तालफलादीनां धान्याम्लं, कटुकानां दूर्वानलवेत्रासवः, पिप्पल्यादीनां श्वदंष्ट्रावसुकासवः, कूष्माण्डादीनां दार्वीकरीरासवः, चुच्चुप्रभृतीनां लोध्रासवः, जीवन्त्यादीनां त्रिफलासवः, कुसुम्भशाकस्य स एव, मण्डूकपर्ण्यादीनां महापञ्चमूलासवः, तालमस्तकादीनामम्लफलासवः, सैन्धवादीनां सुरासव आरनालं च, तोयं वा सर्वत्रेति ||४३३||
🔊 Audio coming soon
अत इत्यादि| अनुपूर्वेण यथाक्रमेण| सर्वेषामेव शाल्यादिवर्गाणामित्यर्थः| मे मत्सकाशात् | तत्रेत्यादि| पूर्वशस्यजातानां प्रागुक्तान्नसमूहानां, तानि च शूकधान्यकुधान्यशमीधान्यानि| जङ्घालानाम् एणादीनाम्| धन्वजानां वर्तकादीनां पक्षिणाम्| विष्किराणां तेषामेव वर्तकादीनाम्, एतेन विष्किराणां पिप्पलीकोलबदरासवौ द्वावप्यनुपानं, कोलबदरं मध्यमप्रमाणं बदरम्| कृष्णगन्धः शोभाञ्जनकः| एकशफानाम् अश्वादीनाम्| अनेकशफानामिति अनेकशफाश्छागादयः| एवमयं मांसवर्गो जङ्घालादिभेदेनाष्टविधोऽनुपानेनोक्तः| अनूपवर्गस्य पञ्चविधस्यानुपानं निर्दिशन्नाह- कूलचराणामित्यादि| स एवेति शृङ्गाटककशेरुकासवोऽनुपानमित्यर्थः| अनूपवर्गमपि पञ्चविधमभिधाय फलानामनुपानं निर्दिशन्नाह- अम्लानामित्यादि| अम्लफलानां दाडिमादीनाम्| कषायाणां क्षीरवृक्षादिफलानाम्| मधुराणां द्राक्षादीनां, वातामाभिषुकादीनां च| कटुकानां फलानामित्यर्थः| श्वदंष्ट्रा गोक्षुरकः; वसुको बुकः, केदारगिरौ ‘बगहुल’ इति प्रसिद्धः| शाकानामनुपानं निर्दिशन्नाह- कूष्माण्डादीनामित्यादि| जीवन्ती डोडी| स एव त्रिफलासवः| मण्डूकपर्णी ब्राह्मी| तालमस्तकादीनामनुपानमाह- तालमस्तकादीनामित्यादि| तालमस्तकादीनां तालमस्तकमज्जादीनाम्| सर्वत्र सर्ववर्गेषु||४३२-४३३||
Adhikarana 318 (434) · Śloka 434
भवन्ति चात्र- सर्वेषामनुपानानां माहेन्द्रं तोयमुत्तमम् |४३४|
🔊 Audio coming soon
सर्वेष्वेवानुपानेषु तोयस्य प्राधान्यं दर्शयन्नाह- सर्वेषामित्यादि| माहेन्द्रतोयम् आन्तरिक्षमुदकम्|४३४|-
Adhikarana 319 (434) · Śloka 434
सात्म्यं वा यस्य यत्तोयं तत्तस्मै हितमुच्यते ||४३४||
🔊 Audio coming soon
शेषमपि भौममुदकं नियमयन्नाह- सात्म्यं वेत्यादि| यत्तोयमिति नदीनदसरस्तडागाद्युदकमित्यर्थः||४३४||
Adhikarana 320 (435) · Śloka 435
उष्णं वाते कफे तोयं पित्ते रक्ते च शीतलम् |४३५|
🔊 Audio coming soon
उष्णशीतभेदेनानुपानमाह- उष्णमित्यादि|४३५|-
Adhikarana 321 (435-437) · Śloka 438
दोषवद्गुरु वा भुक्तमतिमात्रमथापि वा ||४३५|| यथोक्तेनानुपानेन सुखमन्नं प्रजीर्यति | रोचनं बृंहणं वृष्यं दोषसङ्घातभेदनम् ||४३६|| तर्पणं मार्दवकरं श्रमक्लमहरं सुखम् | दीपनं दोषशमनं पिपासाच्छेदनं परम् ||४३७|| बल्यं वर्णकरं सम्यगनुपानं सदोच्यते |४३८|
🔊 Audio coming soon
सर्वेषामेवानुपानानामुक्तानां गुणं निर्दिशन्नाह- दोषवदित्यादि| दोषवदिति वातादिदोषकरम्| सुखमिति अदोषमित्यर्थः| दोषसङ्घातभेदनं दोषसमूहपृथक्करणम्| तर्पणं तृप्तिजनकम्| मार्दवकरं शरीरकोमलतोत्पादकम्| सुखं स्वास्थ्योत्यादकम्| दोषशमनं वातादिशमनम्| पिपासाच्छेदनं पिपासाविनाशकम्| परमतिशयेन सदोच्यत इति एवंविधमनुपानं सर्वदा कथ्यते| अन्ये ‘दोषवदित्याद्यनुपानस्य फलं, रोचनमित्यादयस्तु सामान्यानुपानगुणाः’ इत्याहुः||४३५-४३७||-
Adhikarana 322 (438) · Śloka 439
तदादौ कर्शयेत्पीतं स्थापयेन्मध्यसेवितम् ||४३८|| पश्चात्पीतं बृंहयति तस्माद्वीक्ष्य प्रयोजयेत् |४३९|
🔊 Audio coming soon
तदनुपानं भोजनादिमध्यान्तविभागेन गुणविशेषं करोतीति दर्शयन्नाह- तदादावित्यादि| तत् अनुपानम्| आदौ भोजनस्य| कर्शयेदतिशयेन शरीरस्य कृशत्वमापादयेत्| स्थापयेत् न कर्शयति नापि स्थूलयत्यपि तु मध्यं करोतीत्यर्थः| पश्चात् पीतं बृंहयति पुष्टिमापादयति| तस्माद्वीक्ष्य प्रयोजयेदिति कार्श्यमिच्छन्नादौ, मध्यवपुरिच्छन् मध्य एव, पुष्टिमिच्छन्नन्त इति| अनुपानमिति अनुशब्दं लक्षणार्थमाहुः, आहारं लक्षीकृत्य पानमिति, आहारमाश्रित्य यत् पीयत इत्यर्थः; तेन मध्याद्ययोरप्यनुपानशब्दः प्रयुक्तो भवति||४३८||-
Adhikarana 323 (439) · Śloka 440
स्थिरतां गतमल्किन्नमन्नमद्रवपायिनाम् ||४३९|| भवत्याबाधजननमनुपानमतः पिबेत् |४४०|
🔊 Audio coming soon
अनुपानव्यतिरेके दोषं दर्शयन्नाह- स्थिरतामित्यादि| स्थिरताम् अचलताम्| अक्लिन्नं शुष्कमित्यर्थः| अद्रवपायिनाम् अनुपानमपिबताम्| आबाधजननं पीडाकरम्||४३९||-
Adhikarana 324 (440) · Śloka 441
न पिबेच्छ्वासकासार्तो रोगे चाप्यूर्ध्वजत्रुगे ||४४०|| क्षतोरस्कः प्रसेकी च यस्य चोपहतः स्वरः |४४१|
🔊 Audio coming soon
कस्यचित् पुरुषविशेषस्यानुपाननिषेधमाह- न पिबेदित्यादि| आर्तः पीडितः| ऊर्ध्वजत्रुगे इति जत्रु ग्रीवामूलं, तस्योर्ध्वगे| क्षतोरस्क इति उरःक्षतरोगवानित्यर्थः| प्रसेकी लालास्रावी| उपहत इति वातादिभिरित्यर्थः||४४०||
Adhikarana 325 (441-442) · Śloka 442
पीत्वाऽध्वभाष्याध्ययनगेयस्वप्नान्न शीलयेत् ||४४१|| प्रदूष्यामाशयं तद्धि तस्य कण्ठोरसि स्थितम् | स्यन्दाग्निसादच्छर्द्यादीनामयाञ्जनयेद्बहून् ||४४२||
🔊 Audio coming soon
अनुपाने पीते सति यद्वर्जनीयं तदाह- पीत्वेत्यादि| अध्वा मार्गः, भाष्यं बहुभाषणम्, अध्ययनं पठनं, गेयं गीतम्| न शीलयेदिति न सेवेतेत्यर्थः| कस्मादेतान्न शीलयेदित्याह- प्रदूष्येत्यादि| प्रदूष्य वातादीनां प्रकोपं कृत्वा| तद्धीति तदनुपानं, हि यस्मादर्थे| तस्य पुरुषस्य| स्यन्दं श्लेष्मस्रवणम्||४४१-४४२||
Adhikarana 326 (443) · Śloka 443
गुरुलाघवचिन्तेयं स्वभावं नातिवर्तते | तथा संस्कारमात्रान्नकालांश्चाप्युत्तरोत्तरम् ||४४३||
🔊 Audio coming soon
गुरुलाघवस्य द्रव्यरसवीर्यविपाकाश्रयस्य चरशरीरादिभेदेनोक्तस्य यथास्वातिशयेन व्यवस्थां कुर्वन्नाह- गुर्वित्यादि| नातिवर्तते न त्यजति| ‘जङ्घाला जाङ्गलचारिणः कुतो लघवः?’ इत्युक्तेऽवश्यमेव स्वभावो वाच्यः, एवं शरीरधात्ववयवादिष्वपि वाच्यं; तथा संस्कारं नातिवर्तते, यथा- स्वभावाद्गुरोरपि व्रीहेर्लाजा लघवः, लघोरपि शालेः संस्कारात् पिष्टमेव गुरु; तथा मात्रां नातिवर्तते, यथा- “गुरूणामर्धसौहित्यं लघूनां तृप्तिरिष्यते”- इति; अन्नं च नातिवर्तते, तद्यथा- मण्डपेयाविलेपीभक्तापूपादि यथोत्तरं गुरु, यथापूर्वं लघ्विति; कालं च नातिवर्तते, यथा|- “नवं धान्यमभिष्यन्दि लघु संवत्सरोषितम्”-इति| उत्तरोत्तरमिति स्वभावात् संस्कारं, संस्कारान्मात्रां, मात्रातोऽन्नं, अन्नात् कालं, गुरुलाघवचिन्ता नातिवर्तत इत्यर्थः; चकारादिहापि चरादयश्चानुक्ता अपि समुच्चीयन्ते||४४३||
Adhikarana 327 (444) · Śloka 444
मन्दकर्मानलारोग्याः सुकुमाराः सुखोचिताः | जन्तवो ये तु तेषां हि चिन्तेयं परिकीर्त्यते ||४४४||
🔊 Audio coming soon
इयं गुरुलाघवचिन्ता विशिष्टपुरुषाश्रयेति ज्ञापनायाह- मन्दकर्मेत्यादि| मन्दकर्माणः अलसाः, मन्दानला मन्दाग्नयः, मन्दारोग्याः रोगिणः| सुकुमारा मृदुदेहाः| सुखोचिताः सुखिनः| जन्तवः प्राणिनः| चिन्तेयमिति गुरुलाघवलक्षणा| परिकीर्त्यते कथ्यत इत्यर्थः||४४४||
Adhikarana 328 (445) · Śloka 445
बलिनः खरभक्ष्या ये ये च दीप्ताग्नयो नराः | कर्मनित्याश्च ये तेषां नावश्यं परिकीर्त्यते ||४४५|| इत्यनुपानवर्गः |
🔊 Audio coming soon
यान् प्रति नेयं चिन्ता तानपि दर्शयन्नाह- बलिन इत्यादि| बलिनः शक्त्युपचययुक्ताः, एतेनैवारोग्यत्वमुक्तम्| खरभक्ष्या अमृदुभोजनाः| कर्मनित्याः सदा कर्मकारिणः| परिकीर्त्यते इति ‘गुरुलाघवचिन्तेयम्’ इति शेषः| इत्यनुपानवर्गः||४४५||
Adhikarana 329 (446) · Śloka 446
अथाहारविधिं वत्स! विस्तरेणाखिलं शृणु |४४६|
🔊 Audio coming soon
अथाहारविधिमाह- अथेत्यादि| अखिलं समस्तम्| शृणु आकर्णय|४४६|
Adhikarana 330 (446) · Śloka 446
आप्तास्थितमसङ्कीर्णं शुचि कार्यं महानसम् ||४४६||
🔊 Audio coming soon
पाकस्थानं कीदृक्कार्यमित्याह- आप्तान्वितमित्यादि| आप्ता अव्यभिचारिणः, तैरास्थितमाश्रितम्| असङ्कीर्णं असङ्कटम्| महानसमिति पाकस्थानं, ‘रसवती’ इति लोके||४४६||
Adhikarana 331 (447) · Śloka 447
तत्राप्तैर्गुणसम्पन्नं भक्ष्यमन्नं सुसंस्कृतम् | शुचौ देशे सुसङ्गुप्तं समुपस्थापयेद्भिषक् ||४४७||
🔊 Audio coming soon
सुसंस्कृतस्यान्नस्य स्थापनमाह- तत्रेत्यादि| आप्तैः सुसंस्कृतमिति सम्बन्धः| गुणसम्पन्नमिति इष्टरसगन्धस्पर्शवर्णोपेतम्| भक्ष्यमन्नमभ्यवहरणीयम्| सुसङ्गुप्तम्| अतिशयेनादृश्यम् समुपस्थापयेत् निवेशयेत्| शुचौ प्रदेश इति सम्बन्धः| भिषक् वैद्यः||४४७||
Adhikarana 332 (448) · Śloka 448
विषघ्नैरगदैः स्पृष्टं प्रोक्षितं व्यजनोदकैः | सिद्धैर्मन्त्रैर्हतविषं सिद्धमन्नं निवेदयेत् ||४४८||
🔊 Audio coming soon
तस्याहारस्यैवङ्गुणस्य दूषणकरविषनाशनं निर्दिशन्नाह- विषघ्नैरित्यादि| विषघ्नैर्विषहारिभिः, अगदैरौषधैः, स्पृष्टं छुप्तम्| प्रोक्षितं व्यजनोदकैरिति अथर्वमन्त्रैरभिमन्त्रितम्; अन्ये तु व्यजनोदकैरित्यगदस्यैव विशेषणं कथयन्ति, तेषां मते अगदोदकक्षालितव्यजनैर्वीजितमविषीभवत्यन्नम्| तन्त्रमभिधाय मन्त्रमपि निर्दिशन्नाह- सिद्धैरित्यादि| सिद्धैरव्यभिचारिभिः, कुरुकुल्लाफेरण्डप्रभृतिभिर्हतविषमन्नमिति सम्बन्धः| निवेदयेत् ‘नृपतये’ इति शेषः||४४८||
Adhikarana 333 (449-457) · Śloka 457
वक्ष्याम्यतः परं कृत्स्नामाहारस्योपकल्पनाम् | घृतं कार्ष्णायसे देयं, पेया देया तु राजते ||४४९|| फलानि सर्वभक्ष्यांश्च प्रदद्याद्वै दलेषु तु | परिशुष्कप्रदिग्धानि सौवर्णेषु प्रकल्पयेत् ||४५०|| प्रद्रवाणि रसांश्चैवं राजतेषूपहारयेत् | कट्वराणि खडांश्चैव सर्वाञ्छैलेषु दापयेत् ||४५१|| दद्यात्ताम्रमये पात्रे सुशीतं सुशृतं पयः | पानीयं, पानकं मद्यं मृन्मयेषु प्रदापयेत् ||४५२|| काचस्फटिकपात्रेषु शीतलेषु शुभेषु च | दद्याद्वैदूर्यचित्रेषु रागषाडवसट्टकान् ||४५३|| पुरस्ताद्विमले पात्रे सुविस्तीर्णे मनोरमे | सूदः सूपौदनं दद्यात् प्रदेहांश्च सुसंस्कृतान् ||४५४|| फलानि सर्वभक्ष्यांश्च परिशुष्काणि यानि च | तानि दक्षिणपार्श्वे तु भुञ्जानस्योपकल्पयेत् ||४५५|| प्रद्रवाणि रसांश्चैव पानीयं पानकं पयः | खडान् यूषांश्च पेयांश्च सव्ये पार्श्वे प्रदापयेत् ||४५६|| सर्वान् गुडविकारांश्च रागषाडवसट्टकान् | पुरस्तात् स्थापयेत् प्राज्ञो द्वयोरपि च मध्यतः ||४५७||
🔊 Audio coming soon
वक्ष्यामीत्यादि| कृत्स्नां समस्ताम्| उपकल्पनां समीपढौकनाम्| आधारापेक्षणीयमेव प्रथमं कल्पनं निर्दिशन्नाह- घृतमित्यादि| कार्ष्णायसे कृष्णलोहपात्रे, ‘कान्तलोहपात्रे’ इत्यन्ये| राजते रौप्यमये| भक्ष्या लड्डुकादयः| वैशब्दः पादपूरणे, दलेषु पत्रेषु; अन्ये तु ‘वैदलेषु वेत्रवंशादित्वग्ग्रथितेषु पर्णमयेषु’ इति मन्यन्ते| परिशुष्केत्यादि| “सिक्त्वा बहुघृते भृष्टं मुहुरुष्णाम्बुना मृदु| जीरकाद्यैर्घनं मांसं परिशुष्कं तदुच्यते|| तदेव गोरसादानं प्रदिग्धमिति विश्रुतम्”- | प्रद्रवाणि प्रकृष्टद्रवाणि मण्डादीनि, रसो मांसरसः, उपहारयेत् दद्यात्| कट्वरं तक्रम्, अन्ये तु- “सौवीराम्लमथात्यम्लं काञ्जिकं कट्वरं विदुः| अन्ये तु तदधोभागं तक्रं वाऽत्यम्लतां गतम्|| सस्नेहं दधिजं तक्रमाहुरन्ये तु कट्वरम्”- इति खडो यूषविशेषः; स च सतक्रशमीधान्यः, सतक्रशाकश्च| शैलेषु पाषाणमयेषु| दद्यादित्यादि| पयो जलम् | मृन्मयेषु मृत्तिकामयेषु शरावादिषु| शुभेषु भव्येषु| वैदूर्यं रत्नविशेषः, चित्रेषु विचित्रेषु| तत्र रागः “सितारुचकसिन्धूत्थैः सवृक्षाम्लपरूषकैः| जम्बूफलरसैर्युङ्क्तो रागो राजिकया कृतः”- इति| षाडवाः पुनर्मधुराम्ललवणसंयोगजा नानाविधाः, विशेषतः सूदेभ्यो ज्ञेयाः| सट्टकस्तु “लवङ्गव्योषखण्डैस्तु दधि निर्मथ्य गालितम्| दाडिमोबीजसंयुक्तं चन्द्रचूर्णावचूर्णितम्|| सट्टकं तु प्रमोदाख्यं नलादिभिरुदाहृतम्” - इति| ‘दद्याद्वैदूर्यचित्रेषु’ इत्यस्य स्थाने ‘वज्रवैदूर्यचित्रेषु’ इति केचित् पठन्ति; तत्र वज्रं षट्कोटिकं रत्नं हीरक इत्यर्थः| एष्वाधारेषु दीयमानानामेषां हितकारित्वम्| आधारविशेषमभिधाय देशविशेषेणाहारविशेषं दर्शयन्नाह- पुरस्तादित्यादि| पुरस्तादग्रतः, पुरौदनं हि ग्रहणसौकर्यार्थम्| पात्र स्थाल्यादिके| सुविस्तीर्णे बहुले | मनोरमे रुचिजनके| सूदः सूपकारः| सूपप्रहितमोदनं भक्तम्| प्रदेहान् प्रलेहान्| परिशुष्काणि पूर्ववत्| दक्षिणपार्श्वे दक्षिणभागे, भुञ्जानस्य भोजनं कुर्वतः, उपकल्पयेत् समीपं ढौकयेत्| प्रद्रवाणीति प्रद्रवादयः पूर्ववत्| सव्ये पार्श्वे वामभागे| रागषाडवसट्टकाः पूर्ववत्, पुरस्तादग्रत इत्यर्थः; न केवलं पुरस्तात्, द्वयोरपि च मध्यतः द्वयोः पक्षयोर्मध्ये एकस्मिन् पक्षे दद्यात्; एतेन सर्वत्र दातव्यमित्युक्तं भवति||४४९-४५७||
Adhikarana 334 (458) · Śloka 459
एवं विज्ञाय मतिमान् भोजनस्योपकल्पनाम् | भोक्तारं विजने रम्ये निःसम्पाते शुभे शुचौ ||४५८|| सुगन्धपुष्परचिते समे देशे च भोजयेत् |४५९|
🔊 Audio coming soon
एवमित्यादि| एवमुक्तप्रकारेण भोजनस्योपकल्पनां विज्ञाय, भोक्तारं च विज्ञायेति सम्बन्धः| विजने एकान्ते, विजने हि भुञ्जानस्य दुष्टदृष्टिनिपातादिदोषो न भवति| रम्ये मनोहरे| निःसम्पाते उल्लोचसहिते, निःसम्पाते भुञ्जानस्य पांशुप्रक्षेपादिदोषो न भवति| शुभे वास्तुदोषरहिते| शुचौ पवित्रे, तत्र न भूताद्यावेशः| समे निम्नोन्नतत्वरहिते||४५८||-
Adhikarana 335 (459) · Śloka 460
विशिष्टमिष्टसंस्कारैः पथ्यैरिष्टै रसादिभिः ||४५९|| मनोज्ञं शुचि नात्युष्णं प्रत्यग्रमशनं हितम् |४६०|
🔊 Audio coming soon
कीदृगशनं हितमित्याह- विशिष्टमित्यादि| विशिष्टं श्रेष्ठं, कैः कृत्वा? इष्टसंस्कारैः| पथ्यैरिष्टै रसादिभिरिति पथ्यैर्हितैः, इष्टैः प्रियैः, आदिशब्दाद्गन्धवर्णस्पर्शा गृह्यन्ते| प्रत्यग्रम् अभिनवम्| अशनं भोजनम्||४५९||-
Adhikarana 336 (460-464) · Śloka 464
पूर्वं मधुरमश्नीयान्मध्येऽम्ललवणौ रसौ ||४६०|| पश्चाच्छेषान् रसान् वैद्यो भोजनेष्ववचारयेत् | आदौ फलानि भुञ्जीत दाडिमादीनि बुद्धिमान् ||४६१|| ततः पेयांस्ततो भोज्यान् भक्ष्यांश्चित्रांस्ततः परम् | घनं पूर्वं समश्नीयात्, केचिदाहुर्विपर्ययम् ||४६२|| आदावन्ते च मध्ये च भोजनस्य तु शस्यते | निरत्ययं दोषहरं फलेष्वामलकं नृणाम् ||४६३|| मृणालबिसशालूककन्देक्षुप्रभृतीनि च | पूर्वं योज्यानि भिषजा न तु भुक्ते कदाचन ||४६४||
🔊 Audio coming soon
कालभेदेनाप्याहारविधिं निर्दिशन्नाह- पूर्वमित्यादि| बुभुक्षिते पुरुषे वातपित्तप्रशमनाय प्रथमं मधुरो रसः पक्वाशयगतं वायुं जयति, अम्ललवणौ मध्यभोजनस्थौ पित्ताशयेऽग्निदीप्तिं कुरुतः, अन्ते कफजयाय कट्वादयः| आदौ फलानि भुञ्जीत, वातजयार्थं दाडिमाद्यम्लोपयोगः; ‘आदाविति मतान्तरे’ इत्यन्ये| ततः पेयान् पातव्यान् दाडिमादिकठिनाहारमृदुकरणार्थं वयःस्थापनार्थं च, ततो भोज्यं रक्तशाल्यादि, चित्रान् नानाप्रकारान्| घनं भोज्यं भक्ष्यादि कठिनम्| विपर्ययमुक्तविपर्ययं, पूर्वं द्रवं पश्चात् कठिनमिति| ‘घृतं पूर्वं समश्नीयात्’ इति केचित् पठन्ति| अम्लफलस्यादावेव नियतस्य कस्यचिदेव फलस्यादिमध्यान्तेषु प्रयोगं दर्शयन्नाह- आदावित्यादि| निरत्ययम् अबाधम्| मृणालं पद्मनालं, बिसं भिसण्डकं, शालूकं प्रसिद्धम्||४६०-४६४||
Adhikarana 337 (465) · Śloka 466
सुखमुच्चैः समासीनः समदेहोऽन्नतत्परः | काले सात्म्यं लघु स्निग्धमुष्णं क्षिप्रं द्रवोत्तरम् ||४६५|| बुभुक्षितोऽन्नमश्नीयान्मात्रावद्विदितागमः |४६६|
🔊 Audio coming soon
भुञ्जानः कथं भुञ्जीतेत्याह- सुखमुच्चैरित्यादि| समासीन इति सम्यगासीन उपविष्टः| अन्नतत्पर इति न कामादिव्यग्रमना| भुञ्जानः किम्भूतः कदा कीदृशं भुञ्जीतेत्याह- काले सात्म्यमित्यादि| कालो द्विविधो नित्यग आवस्थिकश्च; तत्र नित्यग आर्तवः, स पुनः ‘अतीवायतयामा’ इत्यादिना नियमितः; आवस्थिकः पुनर्जीर्णलक्षणापेक्षः, आमे त्वन्नेऽकालः| सात्म्यं देशामयादिभेदेनानेकविधम्, असात्म्यं पुनर्दोषकारि| क्षिप्रं नातिद्रुतं नातिविलम्बितम्, अतिद्रुतातिविलम्बितयोर्दोषकारित्वात्| द्रवोत्तरं द्रवप्रधानम्| बुभुक्षितग्रहणमकालबुभुक्षानिषेधाय, वक्ष्यति च- “भवत्यकालेऽपिं तदा बुभुक्षा या मन्दबुद्धिं विषवन्निहन्ति”- इति| मात्रालक्षणमाह- “अपीडनं भवेत् कुक्षेः पार्श्वयोरविपाटनम्| अन्नेन हृदयाबा(रो)धो जठरस्य त्वगौरवम्|| प्रीणनं चक्षुरादीनां शमनं क्षुत्पिपासयोः| उच्छ्वासश्वासहास्यादिकथासु सुखवर्तनम्|| सुखेन परिणामः स्यादन्ने भुक्ते दिवानिशि”- इति| विदितागम इति हेयोपादेयविवेकार्थं विदितं हिताहितं येन स विदितागमः||४६५||-
Adhikarana 338 (466-467) · Śloka 468
काले प्रीणयते भुक्तं सात्म्यमन्नं न बाधते ||४६६|| लघु शीघ्रं व्रजेत् पाकं स्निग्धोष्णं बलवह्निदम् | क्षिप्रं भुक्तं समं पाकं यात्यदोषं द्रवोत्तरम् ||४६७|| सुखं जीर्यति मात्रावद्धातुसाम्यं करोति च |४६८|
🔊 Audio coming soon
एषां कालादिभोजनानां फलानुशंसां दर्शयन्नाह- काले इत्यादि| प्रीणयते तृप्तिं जनयति| सात्म्यमन्नं भुक्तं न बाधते न पीडां जनयति| लघ्वित्यादि| लघ्वन्नं भुक्तमिति सम्बन्धः| स्निग्धोष्णं बलवह्निदमिति स्निग्धं बलप्रदम्, उष्णं वह्निप्रदमित्यर्थः| क्षिप्रमित्यादि| समम् एककालम्| अदोषं द्रवोत्तरमिति द्रवोत्तरमन्नं भुक्तं सददोषं दोषरहितं पाकं याति| सुखमित्यादि मात्रावदन्नं भुक्तं सुखेन पाकं गच्छति धातुसाम्यं च करोति; धातुशब्दोऽयं दोषधातुमलेषु वर्तते||४६६-४६७||-
Adhikarana 339 (468-470) · Śloka 471
अतीवायतयामास्तु क्षपा येष्वृतुषु स्मृताः ||४६८|| तेषु तत्प्रत्यनीकाढ्यं भुञ्जीत प्रातरेव तु | येषु चापि भवेयुश्च दिवसा भृशमायताः ||४६९|| तेषु तत्कालविहितमपराह्णे प्रशस्यते | रजन्यो दिवसाश्चैव येषु चापि समाः स्मृताः ||४७०|| कृत्वा सममहोरात्रं तेषु भुञ्जीत भोजनम् |४७१|
🔊 Audio coming soon
आर्तवलक्षणं कालमाह- अतीवायतयामा इत्यादि| अतीवायतयामा अतीव दीर्घप्रहराः| क्षपाः रजन्यः| येष्वृतुष्विति हेमन्ते शिशिरे च| तत्प्रत्यनीकाढ्यमिति कालबलप्रवृत्तदोषगुणानां बाधकभूतं विरोधिद्रव्यगुणबहुलमित्यर्थः| प्रातरिति सपादे यामे, येष्वृतुषु ग्रीष्मप्रावृषोः| भृशमायता दीर्घतराः| तत्कालविहितं द्रवस्निग्धमधुरप्रायम्| अपराह्ण इति अर्धतृतीययामोपरि| रजन्य इत्यादि| येष्वृतुषु शरदि वसन्ते च, सममहोरात्रमिति मध्याह्न इत्यर्थः| ‘अयमेकाशनस्य पुरुषस्य विधिः; द्विरश्नतः पुनः प्रातर्भोजनमात्रयोरर्धमात्रं त्रिभागं वा लघु मृष्टं च; तच्च प्रातर्भोजनं सपादे प्रहरे, द्वितीयं भोजनं त्वर्धचतुर्थप्रहरोपरि’ इति पञ्जिकाकारः; जेज्झटस्तु ‘सत्रिभागे प्रहरे दिवसस्य रात्रेश्च सत्रिभागप्रहरे भुञ्जानस्य रजनीदिवसयोः समत्वं भवति’ इत्याह| अयमार्तवकाल उक्तः| आवस्थिकं पुनः स्वास्थ्यवृत्तिकेऽध्याये दशौषधकालानभिधाय वक्ष्यति||४६८-४७०||-
Adhikarana 340 (471-474) · Śloka 474
नाप्राप्तातीतकालं वा हीनाधिकमथापि वा ||४७१|| अप्राप्तकालं भुञ्जानः शरीरे ह्यलघौ नरः | तांस्तान् व्याधीनवाप्नोति मरणं वा नियच्छति ||४७२|| अतीतकालं भुञ्जानो वायुनोपहतेऽनले | कृच्छ्राद्विपच्यते भुक्तं द्वितीयं च न काङ्क्षति ||४७३|| हीनमात्रमसन्तोषं करोति च बलक्षयम् | आलस्यगौरवाटोपसादांश्च कुरुतेऽधिकम् ||४७४||
🔊 Audio coming soon
कालमात्रावतो विपर्ययमकालमात्रावत्त्वं निर्दिशन्नाह- नाप्राप्तेत्यादि| अप्राप्तकालमतीतकालं वा न भुञ्जीतेत्यर्थः| हीनाधिकमिति हीनमात्रमधिकमात्रं वा न भुञ्जीत| तयोरप्राप्तातीतकालयोरधिकन्यूनयोश्च दोषं दर्शयन्नाह- अप्राप्तकालमित्यादि| अप्राप्तकालं भुञ्जानो नरः शरीरेऽलघौ सति तांस्ताञ्छिरोरुजादीन् व्याधीन् नियच्छति प्राप्नोति| असन्तोषम् असन्तृप्तिम्| आटोप उदरस्याध्मानं, सादोऽङ्गग्लानिः| अधिकमिति अधिकमन्नं भुक्तमित्यर्थः||४७१-४७४||
Adhikarana 341 (475) · Śloka 476
तस्मात् सुसंस्कृतं युक्त्या दोषैरेतैर्विवर्जितम् | यथोक्तगुणसम्पन्नमुपसेवेत भोजनम् ||४७५|| विभज्य दोषकालादीन् कालयोरुभयोरपि |४७६|
🔊 Audio coming soon
कीदृक् पुनरन्नं सेवितव्यमित्याह- तस्मादित्यादि| युक्त्या मात्रया| कालयोरुभयोरपि प्रातः सायं च||४७५||-
Adhikarana 342 (476-477) · Śloka 478
अचोक्षं दुष्टमुत्सृष्टं पाषाणतृणलोष्टवत् ||४७६|| द्विष्टं व्युषितमस्वादु पूति चान्नं विवर्जयेत् | चिरसिद्धं स्थिरं शीतमन्नमुष्णीकृतं पुनः ||४७७|| अशान्तमुपदग्धं च तथा स्वादु न लक्ष्यते |४७८|
🔊 Audio coming soon
सात्म्याद्युपादेयं प्रदर्श्य हेयं प्रदर्शयन्नाह- अचोक्षमित्यादि| अचोक्षम् अपवित्रं, मलिनमित्यन्ये| दुष्टं विषादिभिः, दोषकरत्वात्| उत्सृष्टं भुक्तोत्सृष्टम्| पाषाणतृणलोष्टवदिति पाषाणादियुक्तमित्यर्थः| द्विष्टं मनःप्रतिघाति| व्युषितं विशेषेणोषितम्| पूति शटितं; पूति चान्नमिति चकारादत्र सत्रशत्रुगणगणिकादीनामप्यन्नं बाह्यदूषणान्वितं वर्जनीयमिति समुच्चीयते| अस्वाद्वन्नं पूर्वं वर्जनीयमुक्तमिति तद्भेदानाह- चिरसिद्धमित्यादि| स्थिरं कठिनम्| अशान्तं किञ्चिदवशिष्टविस्रावणम्| उपदग्धमिति अतिपाकित्वेन ज्वलितम्| चकारेण दुःसिद्धमपि समुच्चीयते| तथा स्वादु न लक्ष्यत इति यस्यान्नस्य स्वादो न लक्ष्यते तदपि वर्जयेदिति सम्बन्धः||४७६-४७७||-
Adhikarana 343 (478) · Śloka 478
यद्यत् स्वादुतरं तत्तद्विदध्यादुत्तरोत्तरम् ||४७८||
🔊 Audio coming soon
अन्नेषु स्वादुषु सत्सु विधानं दर्शयन्नाह- यदित्यादि| स्वादुशब्दः संस्कृते रसे वर्तते, न तु मधुर एव| विदध्यात् दद्यात्| कथम्? उत्तरोत्तरमेकस्मिन् स्वादुनि दत्ते सति तस्मादधिकतरस्वादु दद्यात्, तस्मिन्नपि दत्ते तस्मादधिकतरस्वादु दद्यादित्यर्थः||४७८||
Adhikarana 344 (479-480) · Śloka 480
प्रक्षालयेदद्भिरास्यं भुञ्जानस्य मुहुर्मुहुः | विशुद्धे रसने तस्य रोचतेऽन्नमपूर्ववत् ||४७९|| स्वादुना तस्य रसनं प्रथमेनातितर्पितम् | न तथा स्वादयेदन्यत्तस्मात् प्रक्षाल्यमन्तरा ||४८०||
🔊 Audio coming soon
प्रक्षालयेदद्भिरास्यं गण्डूषं कारयेदित्यर्थः| गण्डूषकरणस्य फलमाह- विशुद्धे इत्यादि| स्वादुना मिष्टेन| तस्य भुञ्जानस्य| अन्यदपरमतः स्वादोरस्वादोर्वा||४७९-४८०||
Adhikarana 345 (481) · Śloka 481
सौमनस्यं बलं पुष्टिमुत्साहं हर्षणं सुखम् | स्वादु सञ्जनयत्यन्नमस्वादु च विपर्ययम् ||४८१||
🔊 Audio coming soon
तस्य गुणमाह- सौमनस्यमित्यादि| सौमनस्यं सुमनस्कता| बलं सर्वधातुस्नेहः| पुष्टिः शरीरोपचयः| उत्साहः प्रसिद्धः| हर्षणं तुष्टिः| सुखं नीरोगता| स्वादु सञ्जनयत्यन्नं स्वाद्वन्नं सौमनस्यादीन् सम्यग् जनयतीति सम्बन्धः| अस्वाद्वित्यादि अस्वाद्वन्नं सौमनस्यादीनां विपर्ययं विपरीततां जनयतीत्यर्थः||४८१||
Adhikarana 346 (482) · Śloka 482
भुक्त्वाऽपि यत् प्रार्थयते भूयस्तत् स्वादु भोजनम् |४८२|
🔊 Audio coming soon
स्वादोरेवान्नस्य लक्षणं निर्दिशन्नाह- भुक्त्वेत्यादि| भुक्तवान् हि अवश्यं मृष्टमेव कामयतेऽन्नं, नामृष्टम् | अन्ये तु ‘तत् साधु भोजनम्’ इति पठन्ति, मात्रावद्भुञ्जीतेति तस्यैव लक्षणमिति च वदन्ति; तन्नेच्छति गयी|४८२|
Adhikarana 347 (482) · Śloka 482
अशितश्चोदकं युक्त्या भुञ्जानश्चान्तरा पिबेत् ||४८२||
🔊 Audio coming soon
अशित इत्यादि| अशितः कृतभोजनः, उदकं जलं युक्त्या पिबेदिति सम्बन्धः| युक्त्या मात्रया; भुञ्जानश्चान्तरा पिबेत् भोजनमध्ये इत्यर्थः||४८२||
Adhikarana 348 (483) · Śloka 483
दन्तान्तरगतं चान्नं शोधनेनाहरेच्छनैः | कुर्यादनिर्हृतं तद्धि मुखस्यानिष्टगन्धताम् ||४८३||
🔊 Audio coming soon
अन्यदपि भुक्ते कार्यान्तरं दर्शयन्नाह- दन्तेत्यादि| शोधनेन तृणादिना||४८३||
Adhikarana 349 (484) · Śloka 484
जीर्णेऽन्ने वर्धते वायुर्विदग्धे पित्तमेव तु | भुक्तमात्रे कफश्चापि,... |४८४|
🔊 Audio coming soon
भोजनोत्तरकालक्रियाप्रसङ्गेन जरणजीर्णकालयोरपि दोषप्रकोपं दर्शयन्नाह- जीर्णे इत्यादि| जीर्णे परिणामङ्गते, विदग्धे किञ्चित्पक्वे|४८४|-
Adhikarana 350 (484-486) · Śloka 486
... तस्माद्भुक्तेरितं कफम् ||४८४|| धूमेनापोह्य हृद्यैर्वा कषायकटुतिक्तकैः | पूगकङ्कोलकर्पूरलवङ्गसुमनःफलैः ||४८५|| फलैः कटुकषायैर्वा मुखवैशद्यकारकैः | ताम्बूलपत्रसहितैः सुगन्धैर्वा विचक्षणः ||४८६||
🔊 Audio coming soon
भुक्ते सति कुपितश्लेष्मणः प्रतीकारमाह- तस्मादित्यादि| भुक्तेरितं भोजनेन प्रेरितम्| अपोह्य स्फोटयित्वा| कषायकटुतिक्तकैरिति अफलैर्द्रव्यैरिति विज्ञेयं, फलैः कटुकषायैर्वेति वक्ष्यमाणत्वात्| सुमनःफलैः जातीफलैः||४८४-४८६||
Adhikarana 351 (487) · Śloka 487
भुक्त्वा राजवदासीत यावदन्नक्लमो गतः | ततः पादशतं गत्वा वामपार्श्वेन संविशेत् ||४८७||
🔊 Audio coming soon
तदनन्तरं किं कुर्यादित्याह- तत इत्यादि| संविशेत् शय्यायां शयीत||४८७||
Adhikarana 352 (488) · Śloka 488
शब्दान्रूपान्रसान् गन्धान् स्पर्शांश्च मनसः प्रियान् | भुक्तवानुपसेवेत तेनान्नं साधु तिष्ठति ||४८८||
🔊 Audio coming soon
अन्नस्य संस्थापनहेतून् शब्दादिविषयानाह- शब्देत्यादि| साधु तिष्ठति भव्येन स्थितिं करोति, ‘शब्दादीन् विषयांश्च’ इत्यन्ये पठन्ति||४८८||
Adhikarana 353 (489) · Śloka 489
शब्दरूपरसा गन्धाः स्पर्शाश्चापि जुगुप्सिताः | अशुच्यन्नं तथा भुक्तमतिहास्यं च वामयेत् ||४८९||
🔊 Audio coming soon
कुतः पुनरेते अप्रिया इत्याह- शब्देत्यादि| जुगुप्सिताः निन्दिताः| अशुचि अपवित्रम्||४८९||
Adhikarana 354 (490-491) · Śloka 491
शयनं चासनं वाऽपि नेच्छेद्वाऽपि द्रवोत्तरम् | नाग्न्यातपौ न प्लवनं न यानं नापि वाहनम् ||४९०|| न चैकरससेवायां प्रसज्येत कदाचन | शाकावरान्नभूयिष्ठमम्लं च न समाचरेत् ||४९१||
🔊 Audio coming soon
अन्यदपि सर्वं वर्जनीयमाह- शयनमित्यादि| शयनमासनं वा नेच्छेत्, चिरकालमित्यर्थः| द्रवोत्तरं द्रवाढ्यं भोजनम्| नाग्न्यातपावित्यादि| अग्न्यातपादीन्नेच्छेदिति सम्बन्धः| प्लवनं स्नानं जलप्रतरणं वा| यानं गमनमेव| वाहनं रथाश्वादि| न प्रसज्येत नाभ्यसेत् न पुनः पुनः शीलयेदित्यर्थः| शाकं प्रसिद्धम्, अवरान्नं वैदलान्नम्, एतद्भूयिष्ठं तद्बहुलं; न समाचरेत् न भक्षयेत्, तथाऽम्लं च||४९०-४९१||
Adhikarana 355 (492) · Śloka 492
एकैकशः समस्तान् वा नाध्यश्नीयाद्रसान् सदा |४९२|
🔊 Audio coming soon
रसानामतिमात्राशनदोषं दर्शयन्नाह- एकैकश इत्यादि| एकैकश एकैकं रसं, समस्तान् वा रसान् नाध्यश्नीयात् नाधिकं भक्षयेदित्यर्थः| दोषरोगापेक्षयेकैकरसविधिः, स्वस्थापेक्षया तु समस्तरसविधिः| ‘नात्यश्नीयात् इत्यन्ये, अपरे तु ‘एकशोऽथ समस्तान् वा न भुञ्जीत रसान् सदा’- इति पठन्ति, व्याख्यानयन्ति च- एकीकृत्य न सर्वमश्नीयात्; यथाक्रममेव षड्रसं स्वस्थेन भोक्तव्यं, वाशब्दः समुच्चये|४९२|-
Adhikarana 356 (492) · Śloka 493
प्राग्भुक्ते त्वविविक्तेऽग्नौ द्विरन्नं न समाचरेत् ||४९२|| पूर्वभुक्ते विदग्धेऽन्ने भुञ्जानो हन्ति पावकम् |४९३|
🔊 Audio coming soon
अग्नौ मन्दे द्विरन्नसमाचारनिषेधं दर्शयन्नाह- प्रागित्यादि| प्राग्भुक्ते प्रातर्भोजने कृते, अविविक्तेऽग्नौ द्विरन्नं न समाचरेदिति द्वितीयं वारं न भुञ्जीतेत्यर्थः| कुत इत्याह- पूर्वभुक्ते इत्यादि| विदग्धे जठरानलेन किञ्चित्पक्वे किञ्चिच्चामे| भुञ्जानो द्विर्भुञ्जान इत्यर्थः| पावकं जठरानलम्||४९२||-
Adhikarana 357 (493) · Śloka 493
मात्रागुरुं परिहरेदाहारं द्रव्यतश्च यः ||४९३||
🔊 Audio coming soon
मन्दाग्नेरेवाहारविशेषपरिहारं निर्दिशन्नाह- मात्रेत्यादि| मुद्गादीनां लघूनामपि मात्रया गुरुमाहारं परिहरेत्, द्रव्यतो गुरुं माषमहिषवराहपिशितादिकम्||४९३||
Adhikarana 358 (494) · Śloka 494
पिष्टान्नं नैव भुञ्जीत मात्रया वा बुभुक्षितः | द्विगुणं च पिबेत्तोयं सुखं सम्यक् प्रजीर्यति |४९४|
🔊 Audio coming soon
संस्कारगुरोर्द्रव्यविशेषस्य निषेधं दर्शयन्नाह- पिष्टान्नमित्यादि| अथ कथञ्चित् पिष्टान्नसेवा तदा क्षुधितस्य मात्रयैव नान्यथेति, तत्र मात्राशब्दोऽल्पतावाचकः; पिष्टान्नभोजने द्विगुणं वा पिबेत्तोयम्|४९४|-
Adhikarana 359 (494) · Śloka 494
पेयलेह्याद्यभक्ष्याणां गुरु विद्याद्यथोत्तरम् ||४९४||
🔊 Audio coming soon
गुरुत्वप्रसङ्गेन चतुर्णां पेयलेह्यादीनां गुरुलाघवं निर्दिशन्नाह- पेयेत्यादि| पेयं पानीयादि, लेह्यं मध्वादि, अद्यं भक्तादि, भक्ष्यं मोदकादि||४९४||
Adhikarana 360 (495) · Śloka 495
गुरूणामर्धसौहित्यं लघूनां तृप्तिरिष्यते | द्रवोत्तरो द्रवश्चापि न मात्रागुरुरिष्यते ||४९५||
🔊 Audio coming soon
तत्रोक्तानां पेयादीनां लघूनां गुरूणां च का मात्रा यामपेक्ष्य मात्रागुरुरित्युपदिश्यत इत्याह- गुरूणामित्यादि| गुरूणां संस्कारस्वभावकृतानां मोदकमाषादीनां संस्कारस्वभावाभ्यामेव गुरुतराणां पिष्टमयवराहपिशितादीनां त्रिभागसौहित्यमेव, अयं चार्थोऽर्धशब्दादवयववचनाल्लभ्यते| लघूनां तृप्तिरिष्यत इति लघुतराणामेव तृप्तिः, लघूनां पुनरीषत्तृप्तिः| न च द्रवद्रवोत्तरयोः पेयत्वाल्लघुलघुतरयोः कदाचित्किञ्चिन्मात्रागौरवेण तौ भजेतेत्याह- द्रवोत्तर इत्यादि| द्रवोत्तरस्तक्राद्यधिकः, द्रवः पेयादिः||४९५||
Adhikarana 361 (496) · Śloka 496
द्रवाढ्यमपि शुष्कं तु सम्यगेवोपपद्यते |४९६|
🔊 Audio coming soon
शुष्कस्यापि स्रोतोऽवरोधकारणस्य संयोगान्तरेणादोषं प्रतिपादयन्नाह- द्रवाढ्यमित्यादि| शुष्कमपि द्रवाढ्यं सम्यगेवोपपद्यते अदोषकरं सम्यग्भवतीत्यर्थः|४९६|-
Adhikarana 362 (496) · Śloka 497
विशुष्कमन्नमभ्यस्तं न पाकं साधु गच्छति ||४९६|| पिण्डीकृतमसङ्क्लिन्नं विदाहमुपगच्छति |४९७|
🔊 Audio coming soon
केवलविशुष्कस्य पुनराहरणे दोषं निर्दिशन्नाह- विशुष्कमित्यादि| अभ्यस्तं सेवितम्, साधु भव्येन| कथं तर्हि पाकं गच्छतीत्याह- पिण्डीकृतमित्यादि| असङ्क्लिन्नम् असम्यगार्द्रीभावमापन्नम्| विदाहमुपगच्छति विदग्धतामुपयाति||४९६||-
Adhikarana 363 (497) · Śloka 498
स्रोतस्यन्नवहे पित्तं पक्तौ वा यस्य तिष्ठति ||४९७|| विदाहि भुक्तमन्यद्वा तस्याप्यन्नं विदह्यते |४९८|
🔊 Audio coming soon
शुष्कान्नस्य विप्रकृष्टविदाहप्रसङ्गेन सन्निकृष्टहेतुजमपि विदाहं दर्शयन्नाह- स्रोतसीत्यादि| स्रोतस्यन्नवहे आमाशये| पक्तौ अग्निस्थाने| विदाहि भुक्तमिति अन्नम्, अन्यद्वेति अविदाह्यन्नम्| विदह्यते विदग्धतामुपयाति||४९७||-
Adhikarana 364 (498) · Śloka 498
शुष्कं विरुद्धं विष्टम्भि वह्निव्यापदमावहेत् ||४९८||
🔊 Audio coming soon
शुष्कान्नप्रसङ्गेन शुष्कस्येतरस्य च वह्निमान्द्यकरत्वमाह- शुष्कमित्यादि| शुष्कं पिष्टान्नादि| विरुद्धं क्षीरमत्स्यादिकम्| विष्टम्भि चणकमसूरादि| वह्निव्यापदम् अग्निमान्द्यम्| आवहेत् कुर्यात्||४९८||
Adhikarana 365 (499) · Śloka 499
आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः | अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः ||४९९||
🔊 Audio coming soon
तामेव वह्निव्यापदं विप्रकृष्टकारणोपजनितामभिधाय सन्निकृष्टवातादिकृताजीर्णलक्षणां निर्दिशन्नाह- आममित्यादि| आहारस्यैव पक्वस्योर्वरितो रसो रसशेषः; तस्मादल्पदोषदूषितत्वान्न तस्य दोषव्यपदेशो भवति||४९९||
Adhikarana 366 (500-501) · Śloka 501
अत्यम्बुपानाद्विषमाशनाद्वा सन्धारणात् स्वप्नविपर्ययाच्च | कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य ||५००|| ईर्ष्याभयक्रोधपरिक्षतेन लुब्धेन शुग्दैन्यनिपीडितेन | प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक् परिणाममेति ||५०१||
🔊 Audio coming soon
कस्मादजीर्णं भवतीत्याह- अत्यम्बुपानादित्यादि| रात्रौ जागरणं दिवसे च स्वप्नः स्वप्नविपर्ययः| कायिककारणमभिधाय मानसरजस्तमोदोषकृतमजीर्णमाह- ईर्ष्येत्यादि| ईर्ष्या परसम्पत्तावसहिष्णुता, भयं परस्मात्त्रासः, क्रोधः पराभिद्रोहलक्षणः, परिक्षतेन ईर्ष्यादिभिः परिभूतेन| लुब्धेन लोभसहितेन| शुग्दैन्यनिपीडितेन शोकदैन्यव्याप्तेन, दैन्यं निर्गतित्वम्| प्रद्वेषो मात्सर्यम्||५००-५०१||
Adhikarana 367 (502-503) · Śloka 503
माधुर्यमन्नं गतमामसञ्ज्ञं विदग्धसञ्ज्ञं गतमम्लभावम् | किञ्चिद्विपक्वं, भृशतोदशूलं विष्टब्धमानद्धविरुद्धवातम् ||५०२|| उद्गारशुद्धावपि भक्तकाङ्क्षा न जायते हृद्गुरुता च यस्य | रसावशेषेण तु सप्रसेकं चतुर्थमेतत् प्रवदन्त्यजीर्णम् ||५०३||
🔊 Audio coming soon
तेषामेवाजीर्णानां लक्षणं दर्शयन्नाह- माधुर्यमित्यादि| श्लेष्मदूषणप्रभावोपजनितमाधुर्यं गतमामं, तदेव कफदूषितं वा तत्स्वभावकत्वमापन्न ; कफकार्याणि तु तत्र गौरवस्नेहकण्डूप्रभृतीनि च द्रष्टव्यानि| विदग्धसञ्ज्ञमिति किञ्चिद्विपक्वमम्लभावं गतमन्नं विदग्धसञ्ज्ञं कथ्यते| तत् कथम्भूतं? किञ्चिद्विपक्वम्| अत्रापि शुक्ततिक्ताम्लोद्गारादीनि पित्तकार्याणि द्रष्टव्यानि| आनद्धविरुद्धवातं विष्टब्धं कथ्यते| तत् कथम्भूतं? भृशतोदशूलम्| आनद्धोऽप्रवृत्तो विरुद्धो विशेषेण रुद्धो वातो यस्मिन् तत्तथा| अत्रापि वातकार्याणि जृम्भाङ्गमर्दशिरोरुजादीनि द्रष्टव्यानि| भृशतोदशूलम् अत्यर्थतोदशूलम्| उद्गारशुद्धावित्यादि| भक्तकाङ्क्षा न जायते नोत्पद्यते| हृद्गुरुता हृदयगौरवं भवति| यस्याजीर्णस्य| रसावशेषेण कृत्वा| सप्रसेकं लालास्रावसहितम्| एतानि सङ्क्षेपेणाजीर्णलक्षणान्युक्तानि||५०२-५०३||
Adhikarana 368 (504) · Śloka 504
मूर्च्छा प्रलापो वमथुः प्रसेकः सदनं भ्रमः | उपद्रवा भवन्त्येते मरणं चाप्यजीर्णतः ||५०४||
🔊 Audio coming soon
अजीर्णदोषलिङ्गं प्रदर्श्य व्याधिसामान्यलक्षणभूतप्रभावोपजनितकार्याणि निर्दिशन्नाह- मूर्च्छेत्यादि| मूर्च्छा चेतनाच्युतिः प्रलापः असम्बद्धभाषणम्| वमथुः छर्दिः| सदनम् अङ्गग्लानिः, अन्ये तु ‘स्फुटनमिवाङ्गानाम्’ इति वदन्ति| भ्रमः चक्रारूढस्येव||५०४||
Adhikarana 369 (505-507) · Śloka 507
तत्रामे लङ्घनं कार्यं, विदग्धे वमनं हितम् | विष्टब्धे स्वेदनं पथ्यं, रसशेषे शयीत च ||५०५|| वामयेदाशु तं तस्मादुष्णेन लवणाम्बुना | कार्यं वाऽनशनं तावद्यावन्न प्रकृतिं भजेत् ||५०६|| लघुकायमतश्चैनं लङ्घनैः समुपाचरेत् | यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा ||५०७||
🔊 Audio coming soon
अजीर्णानां चिकित्सामाह- तत्रेत्यादि| आमे लङ्घनं कार्यामिति उत्क्लेदे तत्रापि वमनमावस्थिकम्| विदग्धे वमनं हितमिति रसस्याम्लस्य व्यापन्नस्यानुद्धरणे कुष्ठाबाधभयात्| तत्र केचित्, ‘आमे तु वमनं कार्यं विदग्धे लङ्घनं हितम्’ इति पठन्ति, तन्नेच्छति गयी| विष्टब्धे स्वेदनमिति स्वेदनस्यामवातावजयकारिपाचनत्वात्| रसशेषे शयीत चेति चकारेण स्वेदोऽपि रसशेषे, तथा पाचनमपि; तच्च पाचनमन्नकालेऽन्नसहितं देयमिति समुच्चीयते| तत्र विदग्धे वमनं कर्तव्यं तत् केनेत्याह- वामयेदित्यादि| आमे लङ्घनमिति तत्कियन्तं कालमित्यवधिं दर्शयन्नाह- कार्यमित्यादि| वाशब्दः समुच्चये| प्रकृतिरत्राजीर्णनिवृत्तिः| लघ्वित्यादि| अतः पूर्वोक्तविधानादनन्तरम्| एनम् अजीर्णिनम्| प्राणो बलम्||५०५-५०७||
Adhikarana 370 (508-509) · Śloka 509
हिताहितोपसंयुक्तमन्नं समशनं स्मृतम् | बहु स्तोकमकाले वा तज्ज्ञेयं विषमाशनम् ||५०८|| अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते | त्रयमेतन्निहन्त्याशु बहून्व्याधीन्करोति वा ||५०९||
🔊 Audio coming soon
तत्राजीर्णप्रसङ्गेन तस्याजीर्णे भुज्यमानस्यान्नस्यात्यशनसञ्ज्ञकस्यानर्थावहत्वात्तत्तुल्यानां समशनादीनामपि लक्षणं दर्शयन्नाह- हिताहितेत्यादि| हिताहितोपसंयुक्तमिति हितमहितं चान्नमैकध्यमुपयुक्तम्| यथा- “धान्यं नवं पुराणं यच्छाकं जीर्णं च कोमलम्| ऐकध्यं तद्विरुद्धं स्याच्छीतोष्णं च स्वजातितः”- इति|| अन्ये तु हितमेवाहितं येन सम्पद्यते तत् हिताहितोपसंयुक्तं; यथा- गोक्षीरं मत्स्येन सहितमहितं सम्पद्यते| विषमाशनं निर्दिशन्नाह- बह्वित्यादि| बहु प्रचुरं, स्तोकमल्पम्, अकाल इति अकालोऽप्राप्तोऽतीतो वा कालस्तत्र भुक्तम्| अध्यशनं निर्दिशन्नाह- अजीर्णे इत्यादि| त्रयाणामपि समशनादीनां फलमाह- त्रयमित्यादि||५०८-५०९||
Adhikarana 371 (510) · Śloka 510
अन्नं विदग्धं हि नरस्य शीघ्रं शीताम्बुना वै परिपाकमेति | तद्ध्यस्य शैत्येन निहन्ति पित्तमाक्लेदिभावाच्च नयत्यधस्तात् ||५१०||
🔊 Audio coming soon
पुनरपि विदग्धाजीर्णस्य चिकित्सामाह- अन्नमित्यादि| तत् शीताम्बु हिशब्दो यस्मादर्थे, अस्य नरस्य, आक्लेदिभावात् पित्तं निहन्ति| केचित् ‘अन्नं विदग्धं ही’ इत्यारभ्य ‘या मन्दबुद्धिं विषवन्निहन्ति’ इति यावत् सकलमपि पाठमनार्षं वर्णयन्ति; तन्न, गयदासेनाङ्गीकृतत्वात्||५१०||
Adhikarana 372 (511) · Śloka 511
विदह्यते यस्य तु भुक्तमात्रे दह्येत हृत्कोष्ठगलं च यस्य | द्राक्षाभयां माक्षिकसम्प्रयुक्तां लीढ्वाऽभयां वा स सुखं लभेत ||५११||
🔊 Audio coming soon
आमाशयगतान्नविदाहस्य चिकित्सामाह- विदह्यते इत्यादि| यस्य पुरुषस्य, भुक्तमात्रे सति आमाशयो विदह्यते विशेषेण दाहवान् भवति| हृत् हृदयं कमलमुकुलाकारमधोमुखं, कोष्ठमुदरम्| द्राक्षायुक्तामभयां लीढ्वेति सम्बन्धः, अयमेको योगः; माक्षिकसम्प्रयुक्तां लीढ्वाऽभयां वेति द्वितीयो योगः| अन्ये तु ‘भुक्तमात्रं’ इति पठन्ति, भुक्तमात्रमेव प्राप्यामाशयो विदह्यत इत्यर्थः||५११||
Adhikarana 373 (512) · Śloka 512
भवेदजीर्णं प्रति यस्य शङ्का स्निग्धस्य जन्तोर्बलिनोऽन्नकाले | प्रातः सशुण्ठीमभयामशङ्को भुञ्जीत सम्प्राश्य हितं हितार्थी ||५१२||
🔊 Audio coming soon
रसावशेषाजीर्णविषयं संशमनमाह- भवेदित्यादि| प्रातर्यस्याजीर्णशङ्का भवति स पुरुषः शुण्ठीमभयासमेतामन्नकाले सम्प्राश्य भक्षयित्वा, अशङ्को निःशङ्कः सन् हितमन्नं भुञ्जीत||५१२||
Adhikarana 374 (513) · Śloka 513
स्वल्पं यदा दोषविबद्धमामं लीनं न तेजःपथमावृणोति | भवत्यजीर्णेऽपि तदा बुभुक्षा या मन्दबुद्धिं विषवन्निहन्ति ||५१३||
🔊 Audio coming soon
अजीर्णेऽपि बुभुक्षां दर्शयन्नाह- स्वल्पमित्यादि| स्वल्पमित्यामविशेषणम्, अन्ये तु स्वल्पमपि तेजःपथमावृणोतीति तेजःपथस्येदं विशेषणमाहुः| लीनं तद्गतेन वायुनैकपार्श्वे लीनमित्यामविशेषणम्| तेजःपथं जठरानलमार्गम्| या बुभुक्षा मन्दबुद्धिं प्राणिनं विषवन्निहन्तीति सम्बन्धः| अत्र केचित् पठन्ति- “अन्नेन कुक्षेर्द्वावंशौ पानेनैकं च पूरयेत्| आश्रयं पवनादीनां चतुर्थमवशेषयेत्- इति|” सर्वनिबन्धकारैरपठितत्वान्न पठनीयम्||५१३||
Adhikarana 375 (514-524) · Śloka 525
अत उर्ध्वं प्रवक्ष्यामि गुणानां कर्मविस्तरम् | कर्मभिस्त्वनुमीयन्ते नानाद्रव्याश्रया गुणाः ||५१४|| ह्लादनः स्तम्भनः शीतो मूर्च्छातृट्स्वेददाहजित् | उष्णस्तद्विपरीतः स्यात्पाचनश्च विशेषतः ||५१५|| स्नेहमार्दवकृत् स्निग्धो बलवर्णकरस्तथा | रूक्षस्तद्विपरीतः स्याद्विशेषात् स्तम्भनः खरः ||५१६|| पिच्छिलो जीवनो बल्यः सन्धानः श्लेष्मलो गुरुः | विशदो विपरीतोऽस्मात् क्लेदाचूषणरोपणः ||५१७|| दाहपाककरस्तीक्ष्णः स्रावणो, मृदुरन्यथा | सादोपलेपबलकृद्गुरुस्तर्पणबृंहणः ||५१८|| लघुस्तद्विपरीतः स्याल्लेखनो रोपणस्तथा | दशाद्याः कर्मतः प्रोक्तास्तेषां कर्मविशेषणैः ||५१९|| दशैवान्यान् प्रवक्ष्यामि द्रवादींस्तान्निबोध मे | द्रवः प्रक्लेदनः, सान्द्रः स्थूलः स्याद्बन्धकारकः ||५२०|| श्लक्ष्णः पिच्छिलवज्ज्ञेयः कर्कशो विशदो यथा | सुखानुबन्धी सूक्ष्मश्च सुगन्धो रोचनो मृदुः ||५२१|| दुर्गन्धो विपरीतोऽस्माद्धृल्लासारुचिकारकः | सरोऽनुलोमनः प्रोक्तो, मन्दो यात्राकरः स्मृतः ||५२२|| व्यवायी चाखिलं देहं व्याप्य पाकाय कल्पते | विकासी विकसन्नेवं धातुबन्धान् विमोक्षयेत् ||५२३|| आशुकारी तथाऽऽशुत्वाद्धावत्यम्भसि तैलवत् | सूक्ष्मस्तु सौक्ष्म्यात् सूक्ष्मेषु स्रोतःस्वनुसरः स्मृतः ||५२४|| गुणा विंशतिरित्येवं यथावत्परिकीर्तिताः |५२५|
🔊 Audio coming soon
पूर्वं हि सम्पादितं ‘तदस्य शैत्येन निहन्ति पित्तं’ इति, तत्र न ज्ञायन्ते के पुनस्ते शीतादय इति तान् निर्दिशन् लक्षणमाह- अत इत्यादि| अथ शीतगुणः कथं ज्ञायत इत्याह- ह्लादन इत्यादि| ह्लादनः सुखकारीत्यर्थः; तृट्स्वेदमूर्च्छादाहजिदित्यर्थः| पाचनो व्रणादीनाम्| स्नेहेत्यादि स्निग्धो गुणः स्नेहादिकारण इत्यर्थः| रूक्षो गुणस्तद्विपरीतो रौक्ष्यकाठिन्यकर इत्यर्थः| विशेषात् विशेषतः| स्तम्भनः अतीसारादीनाम्| खरः कर्कशः| पिच्छिलो गुणः| जीवनः प्राणधारणः| सन्धानो भग्नस्य| विशदो गुणः| विपरीतोऽस्मादिति असन्धानोऽजीवनोऽश्लेषी च| क्लेदाचूषण आर्द्रीभावविनाशकर इत्यर्थः| दाहेत्यादि अन्यथेति अदाहपाककरोऽस्रावण इत्यर्थः| सादेत्यादि सादोऽङ्गग्लानिः, उपलेपो मलवृद्धिः, बलं श्लेष्मा| गुरुर्गुणः| तर्पणः तृप्तिजनकः| बृंहणो देहवृद्धिकरः| लघुरित्यादि| लघुस्तद्विपरीत इति असादानुपलेपादिकृत् कफहरश्चेत्यर्थः| लेखनः पत्तलीकरणः| दशाद्या इति दशसङ्ख्योपेता आद्याः शीतादयो गुणाः| कर्मतः प्रोक्ताः कर्मभिः सह प्रोक्ता इत्यर्थः| तेषामिति तेषां मध्ये, कर्मविशेषणैः कृत्वा| द्रवो गुणः| प्रक्लेदन आर्द्रभावकरः| सान्द्रो गुणः| बन्धकारक उपचयकारक इत्यर्थः| ‘द्रवः प्रक्लेदनो व्यापी शुष्कः स्याद्बन्धकारकः’ इति केचित् पठन्ति| शुष्को गुणः बन्धकारकः शुष्कस्य शोषणत्वेनावयवापृथक्त्वमित्यर्थः| श्लक्ष्ण इत्यादि| श्लक्ष्णो गुणः पिच्छिलवज्ज्ञेयः| जीवनः श्लेष्मसन्धानकृदित्यर्थः| कर्कशो गुणः| विशदो यथेति अजीवनोऽश्लेष्मी च, तथाऽसन्धानकार्श्यकृच्च| सुखानुबन्धी सुखोत्पादक इत्यर्थः| सूक्ष्मोऽवगाहकः| सुगन्धो गुणः| हृल्लासारुचिकारक इति पुनररुचिग्रहणं द्विविधारुचिप्रापणार्थं, तेनाहारं न काङ्क्षति क्रियमाणाच्च विरसीभवति, हृल्लासः थूत्करणं, छर्दिरित्यन्ये| सरो गुणः| अनुलोमनो वातमलप्रवर्तनः| मन्दो गुणः| यात्राकर इति शरीरस्थायित्वाद्देहस्य यात्रां वर्तनं करोति| व्यवायी गुणः| अखिलमित्यादि अपक्व एवाखिलं देहं व्याप्नोति पश्चान्मद्यविषवत् पाकं याति; अन्ये ‘भावाय कल्पते’ इति पठन्ति, तत्रापि स्थितये कल्पते नोर्ध्वमधो वा प्रवर्तत इति स एवार्थः, अपरे तु पुनर्भावशब्दमभिप्रायार्थमिच्छन्ति, तत्र नियतद्रवप्रभावेणात्मशक्त्यनुरूपं तत्तद्द्रव्यं मद्यविषवद्विशिष्टाभिप्रायाय कल्पत इत्यर्थः|| व्यवायिनः सकाशाद्विकासिद्रव्यस्य किञ्चिद्भेदं दर्शयन्नाह- विकासित्यादि| विकासी गुणः| विकसन् प्रसर्पन्| एवमिति अपक्व एव सकलं देहं व्याप्य| धातुबन्धान् विमोक्षयेत् धातुशैथिल्यं करोतीत्यर्थः| अन्ये तु ‘सरविशेषो व्यवायी, तीक्ष्णविशेषो विकासि’ इति ब्रुवते, तन्नेच्छति गयी| आशुकारी गुणः, आशुत्वात्| सूक्ष्मो गुणः, अत्र स्थूलगुणमपि केचित् पठन्ति, स च पाठोऽभावान्न लिखितः| गुणा इति नन्वत्र स्थूलगुणेन सह त्रयोविंशतिर्गुणा भवन्ति, कथं विंशतिः कथ्यन्ते? उच्यते, केचिदत्र सङ्ख्याभङ्गभयाद्व्यवायिविकास्याशुकारिणामपाठमेव मन्यन्ते; अन्ये पुनराहुः- अधिकायामपि गुणाविंशतावुक्तायां गुणा विंशतिरुक्ताः, न चात्र नियमो विंशतिरेवेति; व्यवायिविकास्याशुकारिणां तु स्वतन्त्रे परतन्त्रे च दर्शनात् पाठो न्याय्य एव; अपरे पुनः प्रागेव ‘दशैवान्यान्’ इत्यस्य स्थाने ‘दश चान्यान्’ इति चकारं पठन्ति; तेन व्यवायिविकास्याशुकारिणोऽपि समुच्चीयन्ते||५१४-५२४||-
Adhikarana 376 (525) · Śloka 525
सम्प्रवक्ष्याम्यतश्चोर्ध्वमाहारगतिनिश्चयम् ||५२५||
🔊 Audio coming soon
सम्प्रवक्ष्यामीत्यादि| आहारस्य गतिनिश्चयो यद्यदात्मकमन्नमभ्यवहृतं पक्वं यद्द्रव्यगुणं याति गतमपि यद्यत् पुष्णाति तस्य निर्णय इत्यर्थः||५२५||
Adhikarana 377 (526) · Śloka 526
पञ्चभूतात्मके देहे ह्याहारः पाञ्चभौतिकः | विपक्वः पञ्चधा सम्यग्गुणान् स्वानभिवर्धयेत् ||५२६||
🔊 Audio coming soon
तमेवाहारगुणं निर्दिशन्नाह- पञ्चेत्यादि| पञ्चभूतात्मके इति पृथिव्यादिपञ्चभूतहेतुके| आहारः पाञ्चभौतिक इति आहारोऽपि पञ्चमहाभूतस्वभावः| विपक्वः पञ्चधा सम्यगिति पञ्चभिर्महाभूताग्निभिः| गुणानिति गुणशब्देनात्र गुणिनः पृथिव्यादय उच्यन्ते| तेन पार्थिवाः पार्थिवानभिवर्धयन्ति, एवं शेषेष्वपि| अन्ये तु गुणानिति गन्धादीन्, स्वानिति पञ्च गुणिनो द्रव्याणि पार्थिवादीनि; एतेन गन्धादीनात्मनश्च पार्थिवादीनि द्रव्याण्यभिवर्धयेदित्यर्थः||५२६||
Adhikarana 378 (527) · Śloka 527
अविदग्धः कफं, पित्तं विदग्धः, पवनं पुनः | सम्यग्विपक्वो निःसार आहारः परिबृंहयेत् ||५२७||
🔊 Audio coming soon
दोषाणामाहारावस्थापाकात् प्रकोपवर्धनलक्षणं प्रतिपादयन्नाह- अविदग्ध इत्यादि| अविदग्धो मधुराहारः, कफं परिबृंहयेत् अतिशयेन वर्धयेदित्यर्थः| पित्तं विदग्धोऽम्लीभूत आहारः परिबृंहयेत्, पवनं पुनः सम्यग्विपक्व आहारः, निःसारो निर्गतसारः, रौक्ष्येण परिबृंहयेदित्यर्थः||५२७||
Adhikarana 379 (528) · Śloka 528
विण्मूत्रमाहारमलः सारः प्रागीरितो रसः |५२८|
🔊 Audio coming soon
एवं दोषाणामवस्थापाकाद्वर्धनं प्रतिपाद्य पर्यन्तपाकाद्विण्मूत्रयोर्मलयो रसस्य धातुस्वभावस्य चोत्पत्तिं दर्शयन्नाह- विण्मूत्रमित्यादि| प्रागीरितः पूर्वं कथितः शोणितवर्णनीये|५२८|-
Adhikarana 380 (528) · Śloka 528
स तु व्यानेन विक्षिप्तः सर्वान् धातून् प्रतर्पयेत् ||५२८||
🔊 Audio coming soon
तस्मादेव रसादन्येषामपि धातूनामुत्पात्तिं दर्शयन्नाह- स त्वित्यादि| स रसः| व्यानेन वातविशेषेण| विक्षिप्तः प्रेरितः| प्रतर्पयेत् अतिशयेन वर्धयेत्| व्यानस्य सर्वाङ्गव्यापित्वेन दोषधातुमलव्यापित्वात्; स च कुल्याकेदारन्यायेन सर्वान् धातून् प्रतर्पयति||५२८||
Adhikarana 381 (529) · Śloka 529
कफः पित्तं मलः खेषु स्वेदः स्यान्नखरोम च | नेत्रविट् त्वक्षु च स्नेहो धातूनां क्रमशो मलाः ||५२९||
🔊 Audio coming soon
तेषामेव दोषमलानां यतो यतो यस्योत्पत्तिस्तां दर्शयन्नाह- कफ इत्यादि| तत्राहारस्य मलौ विण्मूत्रे प्रागुक्ते| कफो रसस्य मलः| पित्तं रक्तस्य| मलः| खेष्विति खेषु कर्णश्रोत्रमुखादिषु स्रोतःसु मांसस्य| स्वेदः प्रस्वेदः, स मेदसो मलः| नखरोम पुनरस्थ्नो मलः| नेत्रविट् त्वक्षु च स्नेह इति नेत्रविट् अक्षिपुरीषं, त्वक्षु च स्नेहस्त्वाचां च यः स्नेहः स मज्ज्ञो मलः| धातूनामित्यादि रसादिमज्जान्तानां यथाक्रमं मला इत्यर्थः| शुक्रं पुनरमलं सहस्रधा ध्माताक्षयसुवर्णवदिति; आकृष्टाण्डकोषस्य पुंसः श्मश्रुपातात् श्मश्रु एव शुक्रमल इत्येके, तन्नेच्छति गयी||५२९||
Adhikarana 382 (530-531) · Śloka 531
दिवा विबुद्धे हृदये जाग्रतः पुण्डरीकवत् | अन्नमक्लिन्नधातुत्वादजीर्णेऽपि हितं निशि ||५३०|| हृदि सम्मीलिते रात्रौ प्रसुप्तस्य विशेषतः | क्लिन्नविस्रस्तधातुत्वादजीर्णे न हितं दिवा ||५३१||
🔊 Audio coming soon
ननु, यदन्नमजीर्णे भुज्यते तदध्यशनमुच्यते, प्रातर्भुक्ते यद्दिनान्ते भुज्यते तत् कथमध्यशनं भवतीत्याह- दिवेत्यादि| दिवा दिवसे| पुण्डरीकवत् पद्मवत्| विबुद्धे विकसिते हृदये| जाग्रतः पुरुषस्य| अक्लिन्नधातुत्वात् अनार्द्रधातुत्वात्| अजीर्णेऽप्यन्नं हितमिति सम्बन्धः| यथा- अजाते पयसि अन्यदाहृतं पयः| दिवा विबुद्धे हृदये इत्युक्तेऽपि यज्जाग्रत इति कृतं तदेतदधिकं बोधयति- अजाग्रतोऽपि स्वभावादेव विबुद्धं हृदयं भवति| सायं भुक्तेऽजीर्णे प्रातर्भोजनं न हितमित्यर्थमाह- हृदीत्यादि| रात्रौ हृदि हृदये सम्मीलिते सङ्कुचिते, प्रसुप्तस्य विशेषतः सम्मीलित इति सम्बन्धः| क्लिन्नविस्रस्तधातुत्वात् आर्द्रशिथिलधातुत्वात्| अजीर्णे ‘सायं भुक्ते’ इति शेषः| न हितं दिवेति दिवा अन्नं हितं न भवतीत्यर्थः||५३०-५३१||
Adhikarana 383 (532) · Śloka 532
इमं विधिं योऽनुमतं महामुनेर्नृपर्षिमुख्यस्य पठेद्धि यत्नतः | स भूमिपालाय विधातुमौषधं महात्मनां चार्हति सूरिसत्तमः ||५३२||
🔊 Audio coming soon
उक्तसूत्रपाठानुशंसां दर्शयन्नाह- इममित्यादि| इमं विधिं सूत्रस्थानोदितमाहारविधिं वा; यः पठेत् प्रयत्नत इति सम्बन्धः| अनुमतं महामुनेर्धन्वन्तरेः| किम्भूतस्य महामुनेः? नृपर्षिमुख्यस्य राजर्षिप्रधानस्य| स सूरिसत्तमः पण्डितप्रधानः| विधातुं कर्तुम्| महात्मनां राजसदृशानाम्| अर्हति योग्यो भवति||५३२||
Adhikarana puShpikA · Śloka 46
इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां सूत्रस्थाने षट्चत्वारिंशत्तमोऽध्यायः ||४६|| इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां प्रथमं सूत्रस्थानं समाप्तम् |
🔊 Audio coming soon
इति श्रीडल्हणविरचितायां निबन्धसङ्ग्रहाख्यायां समस्तनिबन्धार्थज्ञापिकायां सुश्रुतटीकायां षट्चत्वारिंशोऽध्यायः||४६||